शुकदेवकृतं सीतातत्त्ववर्णनम्
श्रीशुक उवाच ।
शृणु राजन् प्रवक्ष्यामि याथात्म्यं कन्ययोस्तयोः ।
एकैव सा महालक्ष्मीर्या परा परमा कला ॥ १४॥
अविनाभावसम्बन्धान्नित्यमेव प्रतिष्ठिता ।
हरौ लीलारसानन्दसर्वसाम्राज्यभाजने ॥ १५॥
सा तु पूर्णस्वरूपेण प्रमोदवनमध्यगा ।
पूर्णं नित्यं परं ब्रह्म रसरूपं निजं वपुः ॥ १६॥
रामाख्यं चिद्घनानन्दं रमपत्येय भायिनी ।
नित्यप्रेममयैः केलिरसैः कौतुककारिभिः ॥ १७॥
क्रीडनैश्चरितैः सर्वकल्याणगुणयोगिभिः ।
तच्च प्रमोदविपिनं तस्याः स्थानं मनोरमम् ॥ १८॥
रामवैकुण्ठमुद्दिष्टं सीता वैकुण्ठमद्भुतम् ।
कालाक्षरातिगं मायागुणसन्दोहदुर्गमम् ॥ १९॥
अप्राकृतं चिदाकारं प्रेमानन्दरसात्मकम् ।
नायिका तस्य स्थानस्य नाम्ना श्रीसहजेश्वरी ॥ २०॥
वशीकृत्य निजैर्नित्यैः प्रेमानन्दमयैर्गुणैः ।
नित्यं स्वरमणं रामं रमते सा निरन्तरम् ॥ २१॥
यथा रामस्तथैवेयं तथा रामो यथा ह्यसौ ।
उभयोर्नैव मेदोऽस्ति विदुषां तत्त्वर्दाशनाम् ॥ २२॥
मुमुक्षूणां च मुक्तानां साधकानां परायणम् ।
युगलं नाम तद्ब्रह्म परात्परमुदाहृतम् ॥ २३॥
स भूमा पुरुषोऽस्यांशः किमुतान्ये सुरादयः ।
सर्वावतारमूलं तत्कालमायागुणातिगम् ॥ २४॥
अस्यैव कीर्तिताः सर्वे आविर्भावा अनेकधा ।
देवताः पितरश्चैव सिद्धविद्याधरोरगाः ॥ २५॥
मनुष्याः पशवश्चान्ये समूद्भूता इतोंऽशतः ।
किं बहूक्तेन सर्वोऽपि प्रपञ्चो निमिभूपते ॥ २६॥
इत एवोदयं प्राप्तस्तथैवास्मिन् प्रलीयते ।
अस्मिंश्च तिष्ठते नित्यं कोटिब्रह्माण्डरूपतः ॥ २७॥
समासव्यासयोगेन समस्तो निगमः स्फुटम् ।
अमुमेव सदा गायत्यन्तस्तत्त्वसमाख्यया ॥ २८॥
उद्गायोद्गाय बहुधा नेतिनेतीत्युवाच ह ।
लक्ष्मीरस्याः प्रभूतोंऽशो या वैकुण्ठे विराजते ॥ २९॥
श्रीमन्नारायणयुता सर्वभक्तेष्टदायिनी ।
नारायणोऽपि रामांशः शङ्खचक्रगदाब्जभृत् ॥ ३०॥
चतुर्भुजस्वरूपेण वैकुण्ठे च प्रकाशते ।
सीतारामौ नित्यलीलौ रमेते श्रीप्रमुद्वने ॥ ३१॥
प्रमोदवनमभ्येत्य महावैकुण्ठमुत्तमम् ।
पूर्णरूपे तिरोभूय लीलाः सम्भावयिष्यति ॥ ३२॥
तदर्थं पूर्णरूपेण प्रादुर्भूतेयमद्भुता ।
प्रमोदवनलीलानां सिद्धये परमा रमा ॥ ३३॥
अवतारमयी लीला साकेतनगरे पृथक् ।
मूलरूपमयी लीला प्रमोदवनमध्यगा ॥ ३४॥
अयं भेदः समुद्दिष्टो रूपद्वयविभावने ।
प्रमोदविपने चैषा नित्यमेव हि क्रीडति ।
श्रीराजिन्यां गोपवध्वां गोपाच्छीनन्दनाभिधात् ॥ ३५॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोत्सवे एकोनत्रिंशोऽध्यायः ॥ २९॥
भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय २९/१४-३५॥
bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 29/14-35..
Encoded and proofread by Mrityunjay Rajkumar Pandey