स्वरूपाख्यस्तोत्रम्

स्वरूपाख्यस्तोत्रम्

(श्यामारहस्ये) कर्पूरं मध्यमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते मातरतत्त्रिपुरहरवधु ! त्रिः कृतं ये जपन्ति । तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम् ॥ १॥ ईशानं सेन्दुवामश्रवणपरिगतं बीजमन्यत्महेशि ! द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् । जित्वा वाचामधीशं धनदभपि चिरं मोहयन्नम्बुजाक्षी- वृन्दं चन्द्रार्द्धचूडे ! प्रभवति हि महाघोरबालावतंसे ! ॥ २॥ ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेण युक्तं बीजं ते द्वन्द्वमन्यद्विगलितचिकुरे ! कालिके ! ये जपन्ति । द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति सृक्बद्धन्द्वांस्रधाराप्रकटितवदने दक्षिणे ! कालिकेऽति ॥ ३॥ ऊर्द्धं वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये चाभीर्वरञ्च त्रिजगदघहरे ! दक्षिणे कालिके च । जप्त्वैतन्नामवर्णं तव मनुविभवं भावयन्त्येततम्ब ! तेषामष्टौ करस्थाः प्रकटितवदने सिद्धयस्त्र्यम्बकस्य ॥ ४॥ वर्गाद्यं वह्नियुक्तं विधुरतिकलितं तत्त्रयं कूर्चयुग्मं लज्जायुग्मञ्च पश्चात्स्मितमुखि ! तथाष्ठद्वयं योजयित्वा । (तथधष्ठद्वयं, तथौष्ठद्वयं ?) मातर्ये ये जपन्ति स्मरहरमहिले ! भावयन्तः स्वरूपं ते लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति ॥ ५॥ प्रत्येकं वा त्रयं वा द्वयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावायन्तो जपन्ति । तेषां नेत्रारविन्दे विहरति कमला वक्तशुभ्रांशुबिम्बे वाग्देवी छिन्नमुण्डस्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये ॥ ६॥ गतासूनां बाहुप्रकरकृतकाञ्चीपरिलस- नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनाम् । श्मशानस्थे तल्पे शवहृदि महाकालसुरत- प्रसक्तां त्वां ध्यायन् जननि ! जडचेता अपि कविः ॥ ७॥ शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिकरैः परं सङ्कीर्णायां प्रकटितचितायां हरवधूम् । प्रविष्टां सन्तुष्टामुपरि सुरते नातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि न तेषां परिभवः ॥ ८॥ वदामस्ते किंवा जननि ! वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकमपि ते तदेतत् क्षन्तव्यं न खलु पशुबोधः समुचितः ॥ ९॥ समन्तादापीनस्तनजघनधृद्यौवनवती- रताशक्तो नक्तं यदि जपति भक्तस्तव मनुम् । विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघाः भुवि चिरतरं जीवति कविः ॥ १०॥ समाः सुस्थीभूतां जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् । तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्याः स्मरहरवधु ! महासिद्धिनिवहाः ॥ ११॥ प्रसूते संसारं जननि ! जगतीं पालयति च समस्तं क्षित्यादि प्रलयसमये संहरति च । अतस्त्वं धातापि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२॥ अनेके सेवन्ते भवदधिकगीर्वाणनिवहान् विमूढारते मातः ! किमपि न हि जानन्ति परमम् । समाराध्यामाद्यां हरिहरविरिञ्चयादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरसमहानन्दनिरताम् ॥ १३॥ धरित्रीकीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी गिरिशरमणी कालि ! सकला । स्तुतिः का ते मातस्तव करुण्या मामगतिकं प्रसन्ना त्वं भूयाः भवमनु न भूयान्मम जनुः ॥ १४॥ श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वर्काणां निजगलितवीर्य्येण कुसुमम् । जपंस्तत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकालि ! स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥ गृहे सम्मार्जन्या परिगलितबीजं हि कुसुमं सुमध्याह्ने नित्यं विरचयति चितायां कुजदिने । समुच्चार्य्य प्रेम्णा मनुमपिं सकृत् कालि ! सततं गजारूढो याति क्षितिपरिवृढः सत्कविवरः ॥ १६॥ स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन् ध्यायन् यदि जपति मातस्तव मनुम् । स गन्धर्वश्रेणीपतिरिव कवित्वामृतनदी- नदीनः पर्य्यन्ते परमदलीनः प्रभवति ॥ १७॥ त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरताम् । समासक्तो नक्तं स्वयमपि रतानन्दनिरतो नरो यो ध्यायेत् त्वां भवजननि ! स स्यात् स्मरहरः ॥ १८॥ म लोमास्थि स्वैरं पललमपि मार्जारमपि ते परं चौष्ट्रं मैषं नरमहिषयोश्छगमपि वा । बलिं ते पूजाया मयि विरलवक्त्रे वितरतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥ १९॥ वशीमन्त्रं लक्षं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिरतः । परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात् स्मरहरसदृक्षः क्षितितले ॥ २०॥ इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् । निशार्द्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥ कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षौणीपतिरपि कुवेरप्रतिनिधिः । रिपुकारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥ इति श्यामारहस्ये महाकालविरचितं स्वरूपाख्यं स्तोत्रं सम्पूर्णम् । - ॥ श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥ - .. shyAmArahasyam . chaturthaH parichChedaH .. Encoded and proofread by Ruma Dewan
% Text title            : Svarupakhyam Stotram
% File name             : svarUpAkhyastotram.itx
% itxtitle              : svarUpAkhyastotram (shyAmArahasyAntargatam mahAkAlavirachitam)
% engtitle              : svarUpAkhyastotram (from shyAmArahasya)
% Category              : devii, devI, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shyAmArahasyam | chaturthaH parichChedaH ||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : March 19, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org