ताम्रपर्णीस्तोत्रम्
हरिद्रापिष्टेन ताम्रायाः कृत्वा तु प्रतिमां शुभाम् ।
गन्धपुष्पाक्षतैर्लाजैः धूपनीराजनादिभिः ॥ ७॥
पूजयित्वा यथान्यायं नैवेद्यैर्विविधैरपि ।
नमस्ते देवि कल्याणि महापातकनाशिनि ॥ ८॥
ताम्रपर्णि त्वयि स्नास्ये त्राहि मां भवसागरात् ।
इति मन्त्रं समुच्चार्य प्रार्थयित्वा प्रणम्य च ॥ ९॥
प्रतिमामप्सु निक्षिप्य पुनः स्नात्वा मुनीश्वरः ।
सह सर्वैर्मुनिगणैरत्र वासमकल्पयत् ॥ १०॥
इति ताम्रपर्णीमाहात्म्ये पञ्चदशाध्यायान्तर्गतं
ताम्रपर्णीस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ५/७-१०॥
tAmraparNImAhAtmya . adhyAya 5/7-10..
Proofread by PSA Easwaran