तुलसीमाहात्म्यस्तोत्रम्
वाण्युवाच ।
तुलसी रोपिता येन गृहस्थेन महाफला ।
गृहे तस्य न दारिद्र्यं जायते नात्र संशयः ॥ १॥
तुलस्या दर्शनादेव पापराशिर्निवर्तते ।
श्रियेऽमृतकणोत्पन्ना तुलसी हरिवल्लभा ॥ २॥
पिबन्त्या रुचिरं पानं प्राणिनां पापहारिणी ।
यस्या रूपे वसेल्लक्ष्मीः स्कन्धे सागरसम्भवा ॥ ३॥
पत्रेषु सततं श्रीश्च शाखासु कमला स्वयम् ।
इन्दिरा पुष्पगा नित्यं फले क्षीराब्धिसम्भवा ॥ ४॥
तुलसी शुष्ककाष्ठेषु या रूपा विश्वव्यापिनी ।
मज्जायां पद्मवासा च त्वचासु च हरिप्रिया ॥ ५॥
सर्वरूपा च सर्वेशा परमानन्ददायिनी ।
तुलसीप्राशको मर्त्यो यमलोकं न गच्छति ॥ ६॥
शिरस्था तुलसी यस्य न याम्यैरनुभूयते ।
मुखस्था तुलसी यस्य निर्वाणपददायिनी ॥ ७॥
हस्तस्थातुलसीयस्य स तापत्रयवर्जितः ।
तुलसी हृदयस्था च प्राणिनां सर्वकामदा ॥ ८॥
स्कन्धस्था तुलसी यस्य स पापैर्न च लिप्यते ।
कण्ठगा तुलसी यस्य जीवन्मुक्तः सदा हि सः ॥ ९॥
तुलसीसम्भवं पत्रं सदा वहति यो नरः ।
मनसा चिन्तितां सिद्धिं सम्प्राप्नोति न संशयः ॥ १०॥
तुलसीं सर्वकायार्थसाधिनीं दुष्टवारिणीम् ।
यो नरः प्रत्यहं सिञ्चेन्न स याति यमालयम् ॥ ११॥
चातुर्मास्ये विशेषेण वन्दितापि विमुक्तिदा ।
नारायणं जलगतं ज्ञात्वा वृक्षगतं तथा ॥ १२॥
प्राणिनां कृपया लक्ष्मीस्तुलसीवृक्षमाश्रिता ।
चातुर्मास्ये समायाते तुलसी सेविता यदि ॥ १३॥
तेषां पापसहस्राणि यान्ति नित्यं सहस्रधा ।
गोविन्दस्मरणं नित्यं तुलसीवनसेवनम् ॥ १४॥
तुलसीसेचनं दुग्धैश्चातुर्मास्येऽतिदुर्लभम् ।
तुलसीं वर्द्धयेद्यस्तु मानवो यदि श्रद्धया ॥ १५॥
आलवालाम्बुदानैश्च पावितं सकलं कुलम् ।
यथा श्रीस्तुलसीसंस्था नित्यमेव हि वर्द्धते ॥ १६॥
तथा तथा गृहस्थस्य कामवृद्धिः प्रजायते ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ १७॥
तथा प्रकृतयः सर्वास्तुलसीसेवने रताः ।
श्रद्धया यदि जायन्ते न तासां दुःखदो हरिः ॥ १८॥
एको हरिः सकलवृक्षगतो विभाति नानारसैस्तु परिभावितमूर्तिरेव ।
वृक्षाधिवासमगमत्कमला च देवी दुःखादिनाशनकरी सततं स्मृताऽपि ॥ १९॥
इति श्रीस्कन्दपुराणे नागरखण्डे सप्तचत्वारिंशाधिकद्विशततमाध्यायान्तर्गतं
तुलसीमहिमास्तोत्रं समाप्तम् ।
स्कन्दपुराण । नागरखण्ड । अध्याय २४९/१-१९॥
skandapurANa . nAgarakhaNDa . adhyAya 249/1-19..
Proofread by PSA Easwaran