तुलसीमाहात्म्यस्तोत्रम्

तुलसीमाहात्म्यस्तोत्रम्

वाण्युवाच । तुलसी रोपिता येन गृहस्थेन महाफला । गृहे तस्य न दारिद्र्यं जायते नात्र संशयः ॥ १॥ तुलस्या दर्शनादेव पापराशिर्निवर्तते । श्रियेऽमृतकणोत्पन्ना तुलसी हरिवल्लभा ॥ २॥ पिबन्त्या रुचिरं पानं प्राणिनां पापहारिणी । यस्या रूपे वसेल्लक्ष्मीः स्कन्धे सागरसम्भवा ॥ ३॥ पत्रेषु सततं श्रीश्च शाखासु कमला स्वयम् । इन्दिरा पुष्पगा नित्यं फले क्षीराब्धिसम्भवा ॥ ४॥ तुलसी शुष्ककाष्ठेषु या रूपा विश्वव्यापिनी । मज्जायां पद्मवासा च त्वचासु च हरिप्रिया ॥ ५॥ सर्वरूपा च सर्वेशा परमानन्ददायिनी । तुलसीप्राशको मर्त्यो यमलोकं न गच्छति ॥ ६॥ शिरस्था तुलसी यस्य न याम्यैरनुभूयते । मुखस्था तुलसी यस्य निर्वाणपददायिनी ॥ ७॥ हस्तस्थातुलसीयस्य स तापत्रयवर्जितः । तुलसी हृदयस्था च प्राणिनां सर्वकामदा ॥ ८॥ स्कन्धस्था तुलसी यस्य स पापैर्न च लिप्यते । कण्ठगा तुलसी यस्य जीवन्मुक्तः सदा हि सः ॥ ९॥ तुलसीसम्भवं पत्रं सदा वहति यो नरः । मनसा चिन्तितां सिद्धिं सम्प्राप्नोति न संशयः ॥ १०॥ तुलसीं सर्वकायार्थसाधिनीं दुष्टवारिणीम् । यो नरः प्रत्यहं सिञ्चेन्न स याति यमालयम् ॥ ११॥ चातुर्मास्ये विशेषेण वन्दितापि विमुक्तिदा । नारायणं जलगतं ज्ञात्वा वृक्षगतं तथा ॥ १२॥ प्राणिनां कृपया लक्ष्मीस्तुलसीवृक्षमाश्रिता । चातुर्मास्ये समायाते तुलसी सेविता यदि ॥ १३॥ तेषां पापसहस्राणि यान्ति नित्यं सहस्रधा । गोविन्दस्मरणं नित्यं तुलसीवनसेवनम् ॥ १४॥ तुलसीसेचनं दुग्धैश्चातुर्मास्येऽतिदुर्लभम् । तुलसीं वर्द्धयेद्यस्तु मानवो यदि श्रद्धया ॥ १५॥ आलवालाम्बुदानैश्च पावितं सकलं कुलम् । यथा श्रीस्तुलसीसंस्था नित्यमेव हि वर्द्धते ॥ १६॥ तथा तथा गृहस्थस्य कामवृद्धिः प्रजायते । ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ १७॥ तथा प्रकृतयः सर्वास्तुलसीसेवने रताः । श्रद्धया यदि जायन्ते न तासां दुःखदो हरिः ॥ १८॥ एको हरिः सकलवृक्षगतो विभाति नानारसैस्तु परिभावितमूर्तिरेव । वृक्षाधिवासमगमत्कमला च देवी दुःखादिनाशनकरी सततं स्मृताऽपि ॥ १९॥ इति श्रीस्कन्दपुराणे नागरखण्डे सप्तचत्वारिंशाधिकद्विशततमाध्यायान्तर्गतं तुलसीमहिमास्तोत्रं समाप्तम् । स्कन्दपुराण । नागरखण्ड । अध्याय २४९/१-१९॥ skandapurANa . nAgarakhaNDa . adhyAya 249/1-19.. Proofread by PSA Easwaran
% Text title            : Tulasimahatmya Stotram
% File name             : tulasImAhAtmyastotram.itx
% itxtitle              : tulasImAhAtmyastotram (skandapurANAntargatam)
% engtitle              : tulasImAhAtmyastotram
% Category              : devii, devI, skandapurANa, mAhAtmya, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | nAgarakhaNDa | adhyAya 249/1-19||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : August 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org