तुलसीपत्रपूजामहिमा

तुलसीपत्रपूजामहिमा

तुलस्युवाच । पुनस्तुष्टाव तुष्टात्मा वचोभिरमलैः सखि ॥ १॥ ॐकाराय नमस्तेऽस्तु शङ्कराय नमो नमः । शिवाय हरये दक्षबलिक्रतुहराय ते ॥ २॥ एकत्रिपुरहन्त्रे ते कैटभान्धकघातिने । श्रीगौरीपतये कृष्ण महादेव नमोऽस्तु ते ॥ ३॥ इत्यादि स्तुवतीं देवीं तुलसीं शिवसन्निधौ । जगाद वरदो देवो देवकीनन्दनो हरिः ॥ ४॥ हरिरुवाच । तुलसि श्रीमति श्रेष्ठे वृन्दे वृन्दावने प्रिये । स्थिरीभव मम प्रीत्यै यावदाचन्द्रतारकम् ॥ ५॥ सदाभिनन्द्या वन्द्या च सुरासुरनरोरगैः । तव पत्रमृते पूजा नाद्यारभ्य भवेन्मम ॥ ६॥ एकतः सर्वनैवेद्यनानापुष्पविभूषणम् । एकतः पचमेकं ते द्वादशाक्षरमन्त्रवत् ॥ ७॥ त्वां यः प्रदक्षिणीकृत्य प्रणमेत् दण्डवत् तरुम् । ससप्तद्वीपा पृथिवी कृता तेन प्रदक्षिणा ॥ ८॥ श्राद्धे च तर्पणे चैव दाने नैवेद्यदापने । त्वत्पत्रेण विना न स्यात् तत्तत्कर्मफलोत्तरम् । पूजिते मयि पत्रैस्ते तुष्टाः स्युः सर्वदेवताः ॥ ९॥ कार्त्तिके मासि ते पत्रमेकं यच्छति यो जनः । स गोसहस्त्रदानस्य फलमाप्नोति मानवः ॥ १०॥ माघे मासि च ते पत्रमालां यच्छति यो जनः । तस्मै अहं प्रयच्छामि वाजिमेधक्रतोः फलम् ॥ ११॥ वैशाखे मासि ते पत्रैर्यो मे शय्यां प्रयच्छति । तस्मै अहं प्रयच्छामि स्वमेव किमितोऽधिकम् ॥ १२॥ वैशाखे मासि ते पत्रजलेन योऽभिषिञ्चति । तस्मै अहं प्रयच्छामि सदामृतनिधिस्थितिम् ॥ १३॥ आषाढे मासि यो मह्यं त्वत्पत्ररसवासितम् । जलं ददाति तस्मै च ददाम्यपुनरुद्भवम् ॥ १४॥ त्वत्पत्रं यत्र तत्रापि पतेत् यत्र महीतले । तदहं शिरसा ग्राह्यं करिष्यामि शिवाज्ञया ॥ १५॥ त्वत्पत्रजलसिक्तान्नं यो भुङ्क्ते मानवः क्वचित् । तदेवामृतमित्युक्तं भुक्तं भाग्यवता शुभे ॥ १६॥ त्वत्पत्ररसभोजी यो गङ्गाजलसमन्वितम् । सोऽहमित्येव विज्ञेयं सत्यं सत्यं शपे शपे ॥ १७॥ स्पृष्ट्वा यस्तुलसीपत्रं मिथ्या वदति शोभने । न तस्य नरकादुग्रादुद्धारः कल्पकोटिषु ॥ १८॥ त्वत्काष्ठमालां त्वत्काष्ठघृष्टपङ्कञ्च योऽदधत् । अहं तस्यानुगः शुद्धे भवामि सुतवत्पितुः ॥ १९॥ इति बृहद्धर्मपुराणान्तर्गता नारायणकृता तुलसीपत्रपूजामहिमा सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः ८। १८-३२॥ The text follows tulasIkRita nArAyaNastutiH
% Text title            : Importance of worshipping using Tulasi
% File name             : tulasIpatrapUjAmahimA.itx
% itxtitle              : tulasIpatrapUjAmahimA nArAyaNakRitA (bRihaddharmapurANAntargatA)
% engtitle              : tulasIpatrapUjAmahimA nArAyaNakRitA
% Category              : devii, tulasI, devI, pUjA, bRihaddharmapurANam
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : tulasI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 8| 18\-32||
% Indexextra            : (Scan)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org