तुलसीपत्रपूजामहिमा
तुलस्युवाच ।
पुनस्तुष्टाव तुष्टात्मा वचोभिरमलैः सखि ॥ १॥
ॐकाराय नमस्तेऽस्तु शङ्कराय नमो नमः ।
शिवाय हरये दक्षबलिक्रतुहराय ते ॥ २॥
एकत्रिपुरहन्त्रे ते कैटभान्धकघातिने ।
श्रीगौरीपतये कृष्ण महादेव नमोऽस्तु ते ॥ ३॥
इत्यादि स्तुवतीं देवीं तुलसीं शिवसन्निधौ ।
जगाद वरदो देवो देवकीनन्दनो हरिः ॥ ४॥
हरिरुवाच ।
तुलसि श्रीमति श्रेष्ठे वृन्दे वृन्दावने प्रिये ।
स्थिरीभव मम प्रीत्यै यावदाचन्द्रतारकम् ॥ ५॥
सदाभिनन्द्या वन्द्या च सुरासुरनरोरगैः ।
तव पत्रमृते पूजा नाद्यारभ्य भवेन्मम ॥ ६॥
एकतः सर्वनैवेद्यनानापुष्पविभूषणम् ।
एकतः पचमेकं ते द्वादशाक्षरमन्त्रवत् ॥ ७॥
त्वां यः प्रदक्षिणीकृत्य प्रणमेत् दण्डवत् तरुम् ।
ससप्तद्वीपा पृथिवी कृता तेन प्रदक्षिणा ॥ ८॥
श्राद्धे च तर्पणे चैव दाने नैवेद्यदापने ।
त्वत्पत्रेण विना न स्यात् तत्तत्कर्मफलोत्तरम् ।
पूजिते मयि पत्रैस्ते तुष्टाः स्युः सर्वदेवताः ॥ ९॥
कार्त्तिके मासि ते पत्रमेकं यच्छति यो जनः ।
स गोसहस्त्रदानस्य फलमाप्नोति मानवः ॥ १०॥
माघे मासि च ते पत्रमालां यच्छति यो जनः ।
तस्मै अहं प्रयच्छामि वाजिमेधक्रतोः फलम् ॥ ११॥
वैशाखे मासि ते पत्रैर्यो मे शय्यां प्रयच्छति ।
तस्मै अहं प्रयच्छामि स्वमेव किमितोऽधिकम् ॥ १२॥
वैशाखे मासि ते पत्रजलेन योऽभिषिञ्चति ।
तस्मै अहं प्रयच्छामि सदामृतनिधिस्थितिम् ॥ १३॥
आषाढे मासि यो मह्यं त्वत्पत्ररसवासितम् ।
जलं ददाति तस्मै च ददाम्यपुनरुद्भवम् ॥ १४॥
त्वत्पत्रं यत्र तत्रापि पतेत् यत्र महीतले ।
तदहं शिरसा ग्राह्यं करिष्यामि शिवाज्ञया ॥ १५॥
त्वत्पत्रजलसिक्तान्नं यो भुङ्क्ते मानवः क्वचित् ।
तदेवामृतमित्युक्तं भुक्तं भाग्यवता शुभे ॥ १६॥
त्वत्पत्ररसभोजी यो गङ्गाजलसमन्वितम् ।
सोऽहमित्येव विज्ञेयं सत्यं सत्यं शपे शपे ॥ १७॥
स्पृष्ट्वा यस्तुलसीपत्रं मिथ्या वदति शोभने ।
न तस्य नरकादुग्रादुद्धारः कल्पकोटिषु ॥ १८॥
त्वत्काष्ठमालां त्वत्काष्ठघृष्टपङ्कञ्च योऽदधत् ।
अहं तस्यानुगः शुद्धे भवामि सुतवत्पितुः ॥ १९॥
इति बृहद्धर्मपुराणान्तर्गता नारायणकृता तुलसीपत्रपूजामहिमा सम्पूर्णा ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः ८। १८-३२॥
The text follows tulasIkRita nArAyaNastutiH