तुलस्युपाख्यानम् देवीभागवतम् ९१७-२५
९.१७ सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।
श्रीनारायण उवाच ।
धर्मध्वजस्य पत्नी माधवीति च विश्रुता ।
नृपेण सार्धं सारामे रेमे च गन्धमादने ॥ १॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
चन्दनालिप्तसर्वाङ्गीं पुष्पचन्दनवायुना ॥ २॥
स्त्रीरत्नमतिचार्वङ्गी रत्नभूषणभूषिता ।
कामुकी रसिका सृष्टा रसिकेन च संयुता ॥ ३॥
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
गतं देववर्षशतं न ज्ञातं च दिवानिशम् ॥ ४॥
ततो राजा मतिं प्राप्य सुरताद्विरराम च ।
कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा ॥ ५॥
दधार गर्भं सा सद्यो दैवादब्दशतं सती ।
श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने ॥ ६॥
शुभे क्षणे शुभदिने शुभयोगे च संयुते ।
शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते ॥ ७॥
कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज ।
सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम् ॥ ८॥
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥ ९॥
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ।
तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम् ॥ १०॥
शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् ।
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥ ११॥
पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् ।
नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥ १२॥
तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः ।
सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा ॥ १३॥
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ।
तत्र देवाब्दलक्षं च चकार परमं तपः ॥ १४॥
मनसा नारायणः स्वामी भवितेति च निश्चिता ।
ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि ॥ १५॥
आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् ।
विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥ १६॥
त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी ।
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी ॥ १७॥
ततो दशसहस्राब्दं निराहारा बभूव सा ।
निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः ॥ १८॥
समाययौ वरं दातुं परं बदरिकाश्रमम् ।
चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम् ॥ १९॥
तामुवाच जगत्कर्ता विधाता जगतामपि ।
ब्रह्मोवाच ।
वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम् ॥ २०॥
हरिभक्तिं हरेर्दास्यमजरामरतामपि ।
तुलस्युवाच ।
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥ २१॥
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् ।
अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥ २२॥
कृष्णप्रिया किङ्करी च तदंशा तत्सखी प्रिया ।
गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम् ॥ २३॥
रासेश्वरी समागत्य ददर्श रासमण्डले ।
गोविन्दं भर्त्सयामास मां शशाप रुषान्विता ॥ २४॥
याहि त्वं मानवीं योनिमित्येवं च शशाप ह ।
मामुवाच स गोविन्दो मदंशं च चतुर्भुजम् ॥ २५॥
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ।
इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः ॥ २६॥
देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि ।
अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम् ॥ २७॥
साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे ।
ब्रह्मदेव उवाच ।
सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः ॥ २८॥
तदंशश्चातितेजस्वी लेभे जन्म च भारते ।
साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः ॥ २९॥
शङ्खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः ।
गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥ ३०॥
विलम्भितुं न शशाक राधिकायाः प्रभावतः ।
स च जातिस्मरस्तस्मात्सदामाभूच्च सागरे ॥ ३१॥
जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि ।
अधुना तस्य पत्नी त्वं सम्भविष्यसि शोभने ॥ ३२॥
पश्चान्नारायणं शान्तं कान्तमेव वरिष्यसि ।
शापान्नारायणस्यैव कलया दैवयोगतः ॥ ३३॥
भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी ।
प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः ॥ ३४॥
त्वया विना च सर्वेषां पूजा च विफला भवेत् ।
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ॥ ३५॥
त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् ।
वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम् ॥ ३६॥
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च ।
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा ॥ ३७॥
प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा ।
तुलस्युवाच ।
यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे ॥ ३८॥
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे ।
अतृप्ताहं च गोविन्दे दैवाच्छृङ्गारभङ्गतः ॥ ३९॥
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् ।
त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ॥ ४०॥
ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय ।
ब्रह्यदेव उवाच ।
गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम् ॥ ४१॥
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि ।
शृङ्गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका ॥ ४२॥
राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि ।
इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम् ॥ ४३॥
मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् ।
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥ ४४॥
परां शुभाशिषं चैव पूजां चैव चकार सा ।
बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा ॥ ४५॥
सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् ।
बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम् ॥ ४६॥
प्रसन्नमनसा देवी तत्याज तपसः क्लमम् ।
सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ॥ ४७॥
भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा ।
तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ॥ ४८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
धर्मध्वजसुतातुलस्युपाख्यानवर्णनं नाम सप्तदशोऽध्यायः ॥ ९.१७॥
९.१८ अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।
नारायण उवाच ।
तुलसी परितुष्टा च सुष्वाप हृष्टमानसा ।
नवयौवनसम्पन्ना वृषध्वजवराङ्गना ॥ १॥
चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति ।
पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता ॥ २॥
पुलकाङ्कितसर्वाङ्गी कम्पितारक्तलोचना ।
क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ॥ ३॥
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् ।
क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम् ॥ ४॥
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् ।
उत्तिष्ठन्ती क्षणं तल्पाद् गच्छन्ती निकटे क्षणम् ॥ ५॥
भ्रमन्ती क्षणमुद्वेगान्निवसन्ती क्षणं पुनः ।
क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा ॥ ६॥
पुष्पचन्दनतल्पं च तद् बभूवातिकण्टकम् ।
विषहारि सुखं दिव्यं सुन्दरं च फलं जलम् ॥ ७॥
निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः ।
सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम् ॥ ८॥
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती ।
सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ॥ ९॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।
आगच्छन्तं माल्यवन्तं पिबन्तं तन्मुखाम्बुजम् ॥ १०॥
कथयन्तं रतिकथां ब्रुवन्तं मधुरं मुहुः ।
सम्भुक्तवन्तं तल्पे च समाश्लिष्यन्तमीप्सितम् ॥ ११॥
पुनरेव तु गच्छन्तमागच्छन्तं च सन्निधौ ।
यान्तं क्व यासि प्राणेश तिष्ठत्येवमुवाच सा ॥ १२॥
पुनश्च चेतनां प्राप्य विललाप पुनः पुनः ।
एवं सा यौवनं प्राप्य तस्थौ तत्रैव नारद ॥ १३॥
शङ्खचूडो महायोगी जैगीषव्यान्मनोहरम् ।
कृष्णमन्त्रं च सम्प्राप्य कृत्वा सिद्धं तु पुष्करे ॥ १४॥
कवचं च गले बद्ध्वा सर्वमङ्गलमङ्गलम् ।
ब्रह्मणश्च वरं प्राप्य यत्ते मनसि वाञ्छितम् ॥ १५॥
आज्ञया ब्रह्मणः सोऽपि बदरीं च समाययौ ।
आगच्छन्तं शङ्खचूडं ददर्श तुलसी मुने ॥ १६॥
नवयौवनसम्पन्नं कामदेवसमप्रभम् ।
श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम् ॥ १७॥
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ।
रत्नसारविनिर्माणविमानस्थं मनोहरम् ॥ १८॥
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।
पारिजातप्रसूनानां मालावन्तं च सुस्मितम् ॥ १९॥
कस्तूरीकुङ्कुमायुक्तं सुगन्धिचन्दनान्वितम् ।
सा दृष्ट्वा सन्निधावेनं मुखमाच्छाद्य वाससा ॥ २०॥
सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः ।
बभूवातिनम्रमुखी नवसङ्गमलज्जिता ॥ २१॥
शरदिन्दुविनिन्द्यैकस्वमुखेन्दुविराजिता ।
अमूल्यरत्ननिर्माणयावकावलिसंयुता ॥ २२॥
मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता ।
दधती कबरीभारं मालतीमाल्यसंयुतम् ॥ २३॥
अमूल्यरत्ननिर्माणमकराकृतिकुण्डला ।
चित्रकुण्डलयुग्मेन गण्डस्थलविराजिता ॥ २४॥
रत्नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वला ।
रत्नकङ्कणकेयूरशङ्खभूषणभूषिता ॥ २५॥
रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिराजिता ।
दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम् ॥ २६॥
उवास तत्समीपे तु मधुरं तामुवाच सः ।
शङ्खचूड उवाच ।
का त्वं कस्य च कन्या च धन्या मान्या च योषिताम् ॥ २७॥
का त्वं मानिनि कल्याणि सर्वकल्याणदायिनि ।
मौनीभूते किङ्करे मां सम्भाषां कुरु सुन्दरि ॥ २८॥
इत्येवं वचनं श्रुत्वा सकामा वामलोचना ।
सस्मिता नम्रवदना सकामं तमुवाच सा ॥ २९॥
तुलस्युवाच ।
धर्मध्वजसुताहं च तपस्यायां तपोवने ।
तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ ३०॥
कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् ।
न पृच्छति कुले जात इत्येवं मे श्रुतौ श्रुतम् ॥ ३१॥
लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः ।
येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम् ॥ ३२॥
आपातमधुरां मत्तामन्तकां पुरुषस्य ताम् ।
विषकुम्भाकाररूपाममृतास्यां च सन्ततम् ॥ ३३॥
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ।
स्वकार्यपरिनिष्पत्त्यै तत्परा सततं च ताम् ॥ ३४॥
कार्यार्थे स्वामिवशगामन्यथैवावशां सदा ।
स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम् ॥ ३५॥
श्रुतौ पुराणे यासां च चरित्रमतिदूषितम् ।
तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्च दुराशयः ॥ ३६॥
तासां को वा रिपुर्मित्रं प्रार्थयन्ति नवं नवम् ।
दृष्ट्वा सुवेषं पुरुषमिच्छन्ति हृदये सदा ॥ ३७॥
बाह्ये स्वार्थं सतीत्वं च ज्ञापयन्ती प्रयत्नतः ।
शश्वत्कामा च रामा च कामाधारा मनोहरा ॥ ३८॥
बाह्ये छलात्खेदयन्ती स्वान्तर्मैथुनमानसा ।
कान्तं हसन्ती रहसि बाह्येऽतीव सुलज्जिता ॥ ३९॥
मानिनी मैथुनाभावे कोपना कलहाङ्कुरा ।
सुप्रीता भूरिसम्भोगात्स्वल्पमैथुनदुःखिता ॥ ४०॥
सुमिष्टान्नाच्छीततोयादाकाङ्क्षन्ती च मानसे ।
सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥ ४१॥
सुतात्परमभिस्नेहं कुर्वती रसिकोपरि ।
प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम् ॥ ४२॥
पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् ।
कलहं कुर्वती शश्वत्तेन सार्धं सुकोपना ॥ ४३॥
वाचया भक्षयन्ती तं सर्प आखुमिवोल्बणम् ।
दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा ॥ ४४॥
ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणी ।
तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका ॥ ४५॥
हरेर्भक्तिव्यवहिता सर्वमायाकरण्डिका ।
संसारकारागारे च शश्वन्निगडरूपिणी ॥ ४६॥
इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी ।
बिभ्रती बाह्यसौन्दर्यमधोऽङ्गमतिकुत्सितम् ॥ ४७॥
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् ।
दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम् ॥ ४८॥
मायारूपा मायिनां च विधिना निर्मिता पुरा ।
विषरूपा मुमुक्षूणामदृश्याप्यभिवाञ्छताम् ॥ ४९॥
इत्युक्त्वा तुलसी तं तु विरराम च नारद ।
सस्मितः शङ्खचूडश्च प्रवक्तुमुपचक्रमे ॥ ५०॥
शङ्खचूड उवाच ।
त्वया यत्कथितं देवि न च सर्वमलीककम् ।
किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय ॥ ५१॥
निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् ।
कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम् ॥ ५२॥
लक्ष्मीः सरस्वती दुर्गा सावित्री राधिकादिका ।
सृष्टिसूत्रस्वरूपा च आद्या सृष्टिर्विनिर्मिता ॥ ५३॥
एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम् ।
तत्प्रशस्यं यशोरूपं सर्वमङ्गलकारकम् ॥ ५४॥
शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा ।
छायावती रोहिणी च वरुणानी शची तथा ॥ ५५॥
कुबेरस्य च पत्नी याप्यदितिश्च दितिस्तथा ।
लोपामुद्रानसूया च कोटभी तुलसी तथा ॥ ५६॥
अहल्यारुन्धती मेना तारा मन्दोदरी तथा ।
दमयन्ती वेदवती गङ्गा च मनसा तथा ॥ ५७॥
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा ।
षष्ठी मङ्गलचण्डी च मूर्तिश्च धर्मकामिनी ॥ ५८॥
स्वस्तिः श्रद्धा च शान्तिश्च कान्तिः क्षान्तिस्तथा परा ।
निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिदिनानि च ॥ ५९॥
सम्पत्तिर्धृतिकीर्ती च क्रिया शोभा प्रभा शिवा ।
यत्स्त्रीरूपं च सम्भूतमुत्तमं तु युगे युगे ॥ ६०॥
कलाकलांशरूपं च स्वर्वेश्यादिकमेव च ।
तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च ॥ ६१॥
सत्त्वप्रधानं यद्रूपं तद्युक्तं च प्रभावतः ।
तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ॥ ६२॥
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः ।
रजोरूपं तमोरूपं कलासु विविधं स्मृतम् ॥ ६३॥
मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः ।
सुखसम्भोगवश्याश्च स्वकार्ये निरताः सदा ॥ ६४॥
कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा ।
रजोरूपस्य साध्वीत्वमतो नैवोपजायते ॥ ६५॥
इदं मध्यमरूपं च प्रवदन्ति मनीषिणः ।
तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः ॥ ६६॥
न पृच्छति कुले जातः पण्डितश्च परस्त्रियम् ।
निर्जने निर्जले वापि रहस्यपि परस्त्रियम् ॥ ६७॥
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ।
गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ ६८॥
अहमेव शङ्खचूडो देवविद्रावकारकः ।
दनुवंश्यो विशेषेण सुदामाहं हरेः पुरा ॥ ६९॥
अहमष्टसु गोपेषु गोपोऽपि पार्षदेषु च ।
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥ ७०॥
जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः ।
जातिस्मरा त्वं तुलसी सम्भुक्ता हरिणा पुरा ॥ ७१॥
त्वमेव राधिकाकोपाज्जातासि भारते भुवि ।
त्वां सम्भोक्तुमुत्सुकोऽहं नालं राधाभयात्ततः ॥ ७२॥
इत्येवमुक्त्वा स पुमान्विरराम महामुने ।
सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥ ७३॥
तुलस्युवाच ।
एवंविधो बुधो नित्यं विश्वेषु च प्रशंसितः ।
कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः ॥ ७४॥
त्वयाहमधुना सत्यं विचारेण पराजिता ।
स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः ॥ ७५॥
निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं नरम् ।
स्त्रीजितं मनसा माता पिता भ्राता च निन्दति ॥ ७६॥
शुद्धो विप्रो दशाहेन जातके मृतके यथा ।
भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ ७७॥
शूद्रो मासेन वेदेषु मातृवद्धीनसङ्करः ।
अशुचिः स्त्रीजितः शुद्ध्येच्चितादहनकालतः ॥ ७८॥
न गह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् ।
न गह्णन्त्येव देवाश्च तस्य पुष्पजलादिकम् ॥ ७९॥
किं वा ज्ञानेन तपसा जपहोमप्रपूजनैः ।
किं विद्यया च यशसा स्त्रीभिर्यस्य मनो हृतम् ॥ ८०॥
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।
कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ॥ ८१॥
वराय गुणहीनाय वृद्धायाज्ञानिने तथा ।
दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥ ८२॥
अत्यन्तकोपयुक्ताय वात्यन्तदुर्मुखाय च ।
पङ्गवे चाङ्गहीनाय चान्धाय बधिराय च ॥ ८३॥
जडाय चैव मूकाय क्लीबतुल्याय पापिने ।
ब्रह्महत्यां लभेत्सोऽपि स्वकन्यां प्रददाति यः ॥ ८४॥
शान्ताय गुणिने चैव यूने च विदुषेऽपि च ।
साधवे च सुतां दत्त्वा दशयज्ञफलं लभेत् ॥ ८५॥
यः कन्यापालनं कृत्वा करोति यदि विक्रयम् ।
विक्रेता धनलोभेन कुम्भीपाकं स गच्छति ॥ ८६॥
कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी ।
कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश ॥ ८७॥
तदन्ते व्याधिसंयुक्तः स लभेज्जन्म निश्चितम् ।
विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥ ८८॥
इत्येवमुक्त्वा तुलसी विरराम तपोनिधे ।
ब्रह्मोवाच ।
किं करोषि शङ्खचूड संवादमनया सह ॥ ८९॥
गान्धर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु ।
पुरुषेष्वसि रत्नं त्वं स्त्रीषु रत्नं त्वियं सती ॥ ९०॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ।
निर्विरोधसुखं राजन् को वा त्यजति दुर्लभम् ॥ ९१॥
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ।
किं परीक्षसि त्वं कान्तमीदृशं गुणिनं सति ॥ ९२॥
देवानामसुराणां च दानवानां विमर्दकम् ।
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका ॥ ९३॥
यथा मयि च सावित्री भवानी च भवे यथा ।
यथा धरा वराहे च दक्षिणा च यथाध्वरे ॥ ९४॥
द्यथात्रेरनसूया च दमयन्ती यथा नले ।
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ॥ ९५॥
यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी ।
यथाहल्या गौतमे च देवहूतिश्च कर्दमे ॥ ९६॥
यथा बृहस्पतौ तारा शतरूपा मनौ यथा ।
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ॥ ९७॥
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ।
देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती ॥ ९८॥
सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव ।
अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि ॥ ९९॥
स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् ।
पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च ।
चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति ॥ १००॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे शङ्खचूडेन सह
तुलस्याः सङ्गतिवर्णनं नामाष्टादशोऽध्यायः ॥ ९.१८॥
९.१९ एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।
नारद उवाच ।
विचित्रमिदमाख्यानं भवता समुदाहृतम् ।
श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ १॥
ततः परं तु यज्जातं तत्त्वं वद महामते ।
श्रीनारायण उवाच ।
इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ॥ २॥
गान्धर्वेण विवाहेन जगृहे तां च दानवः ।
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥ ३॥
स रेमे रामया सार्धं वासगेहे मनोरमे ।
मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता ॥ ४॥
निमग्ना निर्जले साध्वी सम्भोगसुखसागरे ।
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥ ५॥
कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् ।
अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥ ६॥
तत्सर्वं रसशृङ्गारं चकार रसिकेश्वरः ।
अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥ ७॥
पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥ ८॥
गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् ।
भूषितो भूषणेनैव रत्नभूषणभूषिताम् ॥ ९॥
सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।
जहार मानसं भर्तुर्लोलया लीलया सती ॥ १०॥
चेतनां रसिकायाश्च जहार रसभाववित् ।
वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥ ११॥
स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् ।
तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥ १२॥
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।
राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥ १३॥
तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।
आलिङ्गनं चुम्बनं च जङ्घादिमर्दनं तथा ॥ १४॥
एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ ।
सुरते विरते तौ च समुत्थाय परस्परम् ॥ १५॥
सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् ।
चन्दनैः कुङ्कुमारक्तैः सा तस्य तिलकं ददौ ॥ १६॥
सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् ।
सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥ १७॥
पारिजातस्य कुसुमं जरारोगहरं परम् ।
अमूल्यरत्ननिर्माणमङ्गुलीयकमुत्तमम् ॥ १८॥
सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥ १९॥
ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।
सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः ॥ २०॥
निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् ।
स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ २१॥
सस्मितं वाससाच्छन्नं ददर्श मुखपङ्कजम् ।
चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥ २२॥
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।
तदाहृतां रत्नमालां त्रिषु लोकेषु दुर्लभाम् ॥ २३॥
ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् ।
केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ २४॥
अङ्गुलीयकरत्नानि रत्याश्च करभूषणम् ।
शङ्खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ २५॥
विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् ।
भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥ २६॥
निर्ममे कबरीभारे तस्या माङ्गल्यभूषणम् ।
सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥ २७॥
चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।
परीतं परितश्चित्रैः सार्धं कुङ्कुमबिन्दुभिः ॥ २८॥
ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।
तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९॥
चित्रालक्तकरागं च नखरेषु ददौ मुदा ।
स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥ ३०॥
हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः ।
रत्नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥ ३१॥
तपोवनं परित्यज्य राजा स्थानान्तरं ययौ ।
मलये देवनिलये शैले शैले तपोवने ॥ ३२॥
स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने ।
कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥ ३३॥
पुष्पभद्रानदीतीरे नीरवातमनोहरे ।
पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥ ३४॥
मधौ मधुकराणां च मधुरध्वनिनादिते ।
विस्पन्दने सुरसने नन्दने गन्धमादने ॥ ३५॥
देवोद्याने नन्दने च चित्रचन्दनकानने ।
चम्पकानां केतकीनां माधवीनां च माधवे ॥ ३६॥
कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।
कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ ३७॥
निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते ।
काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे ॥ ३८॥
पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते ।
पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ ३९॥
कामुक्या कामुकः कामात्स रेमे रामया सह ।
न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥ ४०॥
हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।
तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ ४१॥
रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः ।
एवं स बुभुजे राज्यं शङ्खचूडः प्रतापवान् ॥ ४२॥
एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् ।
देवानामसुराणां च दानवानां च सन्ततम् ॥ ४३॥
गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः ।
हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ ४४॥
ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् ।
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ ४५॥
तदा ब्रह्मा सुरैः सार्धं जगाम शङ्करालयम् ।
सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ ४६॥
ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह ।
दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ ४७॥
सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ।
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ॥ ४८॥
शोभितान्पीतवस्त्रैश्च रत्नभूषणभूषितान् ।
वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥ ४९॥
शङ्खचक्रगदापद्मधरांश्चैव चतुर्भुजान् ।
सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥ ५०॥
ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ।
तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥ ५१॥
एवं षोडश द्वाराणि निरीक्ष्य कमलोद्भवः ।
देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ ५२॥
देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ।
नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ ५३॥
नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ।
मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ ५४॥
अमूल्यरत्नखचितां रचितां स्वेच्छया हरेः ।
माणिक्यमालाजालाभां मुक्तापङ्क्तिविभूषिताम् ॥ ५५॥
मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः ।
विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ ५६॥
पद्मरागेन्द्ररचितां रुचिरां मणिपङ्कजैः ।
सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ ५७॥
पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ।
इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ ५८॥
सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् ।
पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ ५९॥
कस्तूरीकुङ्कुमारक्तैः सुगन्धिचन्दनद्रुमैः ।
सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ ६०॥
विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् ।
सहस्रयोजनायामां परिपूर्णां च किङ्करैः ॥ ६१॥
ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सह ।
वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ ६२॥
अमूल्यरत्ननिर्माणचित्रसिंहासने स्थितम् ।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ६३॥
चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् ।
पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ ६४॥
शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।
लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ६५॥
गङ्गया परया भक्त्या सेवितं श्वेतचामरैः ।
सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ ६६॥
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् ।
ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ ६७॥
पुलकाञ्चितसर्वाङ्गाः साश्रुनेत्राश्च गद्गदाः ।
भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः ॥ ६८॥
कृताञ्जलिपुटो भूत्वा विधाता जगतामपि ।
वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ ६९॥
हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।
प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ ७०॥
श्रीभगवानुवाच ।
शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।
मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ७१॥
शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् ।
गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ ७२॥
सुदामा नाम गोपश्च पार्षदप्रवरो मम ।
स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ ७३॥
तत्रैकदाहमगमं स्वालयाद्रासमण्डलम् ।
विरजामपि नीत्वा च मम प्राणाधिका परा ॥ ७४॥
सा मां विरजया सार्धं विज्ञाय किङ्करीमुखात् ।
पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥ ७५॥
विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।
पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥ ७६॥
मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा ।
भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ ७७॥
तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह ।
स च तां भर्त्सयामास कोपेन मम सनिधौ ॥ ७८॥
तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्कजलोचना ।
बहिष्कर्तुं चकाराज्ञां सन्त्रस्तं मम संसदि ॥ ७९॥
सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् ।
बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ ८०॥
सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह ।
याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥ ८१॥
तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।
वारयामास तुष्टा सा रुदती कृपया पुनः ॥ ८२॥
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ।
समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम् ॥ ८३॥
गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः ।
ते सर्वे राधिका चापि तत्पश्चाद् बोधिता मया ॥ ८४॥
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।
सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ ८५॥
गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् ।
पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ ८६॥
इत्येवं शङ्खचूडश्च पुनस्तत्रैव यास्यति ।
महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ ८७॥
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।
शिवः करोतु संहारं मम शूलेन रक्षसः ॥ ८८॥
ममैव कवचं कण्ठे सर्वमङ्गलकारकम् ।
बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ ८९॥
तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः ।
तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ ९०॥
सतीत्वहानिस्तत्पत्न्या यत्र काले भविष्यति ।
तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ ९१॥
तत्पत्न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् ।
तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः ॥ ९२॥
पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया ।
इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ ९३॥
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा ।
भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ ९४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे शङ्खचूडेन सह
तुलसीसङ्गमवर्णनं नामैकोनविंशोऽध्यायः ॥ ९.१९॥
९.२० विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।
श्रीनारायण उवाच ।
ब्रह्मा शिवं सन्नियोज्य संहारे दानवस्य च ।
जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः ॥ १॥
चन्द्रभागानदीतीरे वटमूले मनोहरे ।
तत्र तस्थौ महादेवो देवविस्तारहेतवे ॥ २॥
दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् ।
शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा ॥ ३॥
सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम् ।
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ४॥
पञ्चयोजनविस्तीर्णं दैर्घ्ये तद् द्विगुणं भवेत् ।
स्फटिकाकारमणिभिर्निर्मितं यानवेष्टितम् ॥ ५॥
सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ।
ज्वलदग्निनिभैः शश्वत्कल्पितं रत्नकोटिभिः ॥ ६॥
युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः ।
परितो वणिजां सौधैर्नानावस्तुविराजितैः ॥ ७॥
सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ।
भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ॥ ८॥
गत्वा ददर्श तन्मध्ये शङ्खचूडालयं परम् ।
अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ॥ ९॥
ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः ।
तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ॥ १०॥
अत्युच्चैर्गगनस्पर्शिमणिशृङ्गविराजितम् ।
राजितं द्वादशद्वारैर्द्वारपालसमन्वितम् ॥ ११॥
मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः ।
शोभितं रत्नसोपानै रत्नस्तम्भविराजितम् ॥ १२॥
तद् दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः ।
द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ॥ १३॥
तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् ।
कथयामास वृत्तान्तं जगाम तदनुज्ञया ॥ १४॥
अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः ।
न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च ॥ १५॥
गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह ।
रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम् ॥ १६॥
स च तं कथयित्वा च दूतो गन्तुमुवाच ह ।
स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम् ॥ १७॥
राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् ।
मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम् ॥ १८॥
रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा ।
भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम् ॥ १९॥
सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः ।
सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम् ॥ २०॥
माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने ।
दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः ॥ २१॥
शतकोटिभिरन्यैश्च भ्रमद्भिरस्त्रपाणिभिः ।
एवम्भूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ॥ २२॥
उवाच स च वृत्तान्तं यदुक्तं शङ्करेण च ।
पुष्पदन्त उवाच ।
राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो ॥ २३॥
यदुक्तं शङ्करेणैव तद् ब्रवीमि निशामय ।
राज्यं देहि च देवानामधिकारं च साम्प्रतम् ॥ २४॥
देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् ।
हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः ॥ २५॥
पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः ।
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ॥ २६॥
गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि ।
दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ॥ २७॥
प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह ।
स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम् ॥ २८॥
शङ्खचूडस्य वचनं तदीयं तन्मुखोदितम् ।
एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ॥ २९॥
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।
विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥ ३०॥
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।
कपिलाख्यो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ॥ ३१॥
कालकण्ठो बलीभद्रः कालजिह्नः कुटीचरः ।
बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ॥ ३२॥
अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः ।
वसवोऽष्टौ वासवश्च आदित्या द्वादश स्मृताः ॥ ३३॥
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।
कुबेरश्च यमश्चैव जयन्तो नलकूबरः ॥ ३४॥
वायुश्च वरुणश्चैव बुधश्च मङ्गलस्तथा ।
धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान् ॥ ३५॥
उग्रदंष्ट्रा चोग्रदण्डा कोटरा कैटभी तथा ।
स्वयं चाष्टभुजा देवी भद्रकाली भयङ्करी ॥ ३६॥
रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता ।
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७॥
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ।
अभयं ददाति भक्तेभ्योऽभया सा च भयं रिपुम् ॥ ३८॥
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।
शङ्खचक्रगदापद्मखड्गचर्मधनुःशरान् ॥ ३९॥
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ।
त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम् ॥ ४०॥
मुद्गरं मुसलं वज्रं खेटं फलकमुज्ज्वलम् ।
वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम् ॥ ४१॥
नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा ।
पर्जन्यास्त्रं पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥ ४२॥
माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा ।
अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम् ॥ ४३॥
आगत्य तत्र तस्थौ च योगिनीनां त्रिकोटिभिः ।
सार्धं च डाकिनीनां च विकटानां त्रिकोटिभिः ॥ ४४॥
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।
वेताला राक्षसाश्चैव यक्षाश्चैव तु किन्नराः ॥ ४५॥
ताभिश्चैव सह स्कन्दः प्रणम्य चन्द्रशेखरम् ।
पितुः पार्श्वे सहायार्थं समुवास तदाज्ञया ॥ ४६॥
अथ दूते गते तत्र शङ्खचूडः प्रतापवान् ।
उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव च ॥ ४७॥
रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका ।
उवाच मधुरं साध्वी हृदयेन विदूयता ॥ ४८॥
तुलस्युवाच ।
हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् ।
हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम् ॥ ४९॥
भुङ्क्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् ।
पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां च सादरम् ॥ ५०॥
आन्दोलयन्ते प्राणा मे मनो दग्धं च सन्ततम् ।
दुःस्वप्नश्च मया दृष्टश्चाद्यैव चरमे निशि ॥ ५१॥
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वर ।
उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ॥ ५२॥
शङ्खचूड उवाच ।
कालेन योजितं सर्वं कर्मभोगनिबन्धनम् ।
शुभं हर्षः सुखं दुःखं भयं शोकश्च मङ्गलम् ॥ ५३॥
काले भवन्ति वृक्षाश्च स्कन्धवन्तश्च कालतः ।
क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ॥ ५४॥
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः ।
ते सर्वे फलिताः काले पातं यान्ति च कालतः ॥ ५५॥
काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि ।
कालात्स्रष्टा च सृजति पाता पाति च कालतः ॥ ५६॥
संहर्ता संहरेत्काले क्रमेण सञ्चरन्ति ते ।
ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतिः परा ॥ ५७॥
स्रष्टा पाता च संहर्ता स चात्मा कालनर्तकः ।
काले स एव प्रकृतिं स्वाभिन्नां स्वेच्छया प्रभुः ॥ ५८॥
निर्माय कृतवान्सर्वान्विश्वस्थांश्च चराचरान् ।
सर्वेशः सर्वरूपश्च सर्वात्मा परमेश्वरः ॥ ५९॥
जनं जनेन जनिता जनं पाति जनेन यः ।
जनं जनेन हरते तं देवं भज साम्प्रतम् ॥ ६०॥
यस्याज्ञया वाति वातः शीघ्रगामी च साम्प्रतम् ।
यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ॥ ६१॥
यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।
यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति शीतवान् ॥ ६२॥
मृत्योर्मृत्युं कालकालं यमस्य च यमं परम् ।
विभुं स्रष्टुश्च स्रष्टारं मातुश्च मातृकं भवे ॥ ६३॥
संहर्तारं च संहर्तुस्तं देवं शरणं व्रज ।
को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये ॥ ६४॥
अहं को वा च त्वं का वा विधिना योजितः पुरा ।
त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः ॥ ६५॥
अज्ञानी कातरः शोके विपत्तौ न च पण्डितः ।
सुखे दुःखे भ्रमत्येव कालनेमिक्रमेण च ॥ ६६॥
नारायणं तं सर्वेशं कान्तं यास्यसि निश्चितम् ।
तपः कृतं यदर्थं च पुरा बदरिकाश्रमे ॥ ६७॥
मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च ।
हर्यर्थे यत्तव तपो हरिं प्राप्स्यसि कामिनि ॥ ६८॥
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि ।
अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ॥ ६९॥
तत्र द्रक्ष्यसि मां त्वं च द्रक्ष्यामि त्वां च साम्प्रतम् ।
अगमं राधिकाशापाद्भारतं च सुदुर्लभम् ॥ ७०॥
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ।
त्वं च देहं परित्यज्य दिव्यरूपं विधाय च ॥ ७१॥
तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव ।
इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरम् ॥ ७२॥
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते ।
नानाप्रकारविभवं चकार रत्नमन्दिरे ॥ ७३॥
रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् ।
निनाय रजनीं राजा क्रीडाकौतुकमङ्गलैः ॥ ७४॥
कृत्वा वक्षसि तां कान्तां रुदतीमतिदुःखिताम् ।
कृशोदरीं निराहारां निमग्नां शोकसागरे ॥ ७५॥
पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् ।
पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम् ॥ ७६॥
स च तस्यै ददौ सर्वं सर्वशोकहरं परम् ।
ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा ॥ ७७॥
क्रीडां चकार हर्षेण सर्वं मत्वेति नश्वरम् ।
तौ दम्पती च क्रीडन्तौ निमग्नौ सुखसागरे ॥ ७८॥
पुलकाञ्चितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने ।
अङ्गप्रत्यङ्गसंयुक्तौ सुप्रीतौ सुरतोत्सुको ॥ ७९॥
एकाङ्गौ च तथा तौ द्वौ चार्धनारीश्वरो यथा ।
प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ॥ ८०॥
प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् ।
तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ ॥ ८१॥
सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ ।
क्षणं सुचेतनौ तौ च कथयन्तौ रसाश्रयात् ॥ ८२॥
कथां मनोरमां दिव्यां हसन्तौ च क्षणं पुनः ।
क्षणं च केलिसंयुक्तौ रसभावसमन्वितौ ॥ ८३॥
सुरते विरतिर्नास्ति तौ तद्विषयपण्डितौ ।
सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ॥ ८४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडेन सह
देवानां सङ्ग्रामोद्योगवर्णनं नाम विंशोऽध्यायः ॥ ९.२०॥
९.२१ एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।
श्रीनारायण उवाच ।
श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः ।
ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥ १॥
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा ।
धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ॥ २॥
चकाराह्निकमावश्यमभीष्टदेववन्दनम् ।
दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्गलम् ॥ ३॥
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ।
ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद ॥ ४॥
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् ।
ददौ विप्राय गुरवे यात्रामङ्गलहेतवे ॥ ५॥
गजरत्नमश्वरत्नं धनरत्नं मनोहरम् ।
ददौ सर्वं दरिद्राय विप्राय मङ्गलाय च ॥ ६॥
भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् ।
ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा ॥ ७॥
पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च ।
पुत्रं समर्प्य भार्यां तां राज्यं च सर्वसम्पदम् ॥ ८॥
प्रजानुचरसङ्घं च भाण्डारं वाहनादिकम् ।
स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ॥ ९॥
भृत्यद्वारा क्रमेणैव चकार सैन्यसञ्चयम् ।
अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम् ॥ १०॥
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ।
त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः ॥ ११॥
कृता सेनापरिमिता दानवेन्द्रेण नारद ।
तस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ १२॥
महारथः स विज्ञेयो रथिनां प्रवरो रणे ।
त्रिलक्षाक्षौहिणीसेनापतिं कृत्वा नराधिपः ॥ १३॥
त्रिंशदक्षौहिणीबाधं भाण्डौघं च चकार ह ।
बहिर्बभूव शिविरान्मनसा श्रीहरिं स्मरन् ॥ १४॥
रत्नेन्द्रसारनिर्माणविमानमारुरोह सः ।
गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम् ॥ १५॥
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।
सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद ॥ १६॥
कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते ।
पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ॥ १७॥
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।
पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥ १८॥
शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा ।
शाश्वती जलपूर्णा च पुष्पभद्रा नदी शुभा ॥ १९॥
लवणाब्धिप्रिया भार्या शश्वत्सौभाग्यसंयुता ।
शरावतीमिश्रिता च निर्गता सा हिमालयात् ॥ २०॥
गोमतीं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।
तत्र गत्वा शङ्खचूडो ददर्श चन्द्रशेखरम् ॥ २१॥
वटमूले समासीनं सूर्यकोटिसमप्रभम् ।
कृत्वा योगासनं दृष्ट्वा मुद्रायुक्तं च सस्मितम् ॥ २२॥
शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा ।
त्रिशलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ॥ २३॥
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोहरम् ।
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ २४॥
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकातरम् ।
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥ २५॥
विश्वम्भरं विश्ववरं विश्वसंहारकारकम् ।
कारणं कारणानां च नरकार्णवतारणम् ॥ २६॥
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।
अवरुह्य विमानाच्च तं दृष्ट्वा दानवेश्वरः ॥ २७॥
सर्वैः सार्धं भक्तियुक्तः शिरसा प्रणनाम सः ।
वामतो भद्रकालीं च स्कन्दं च तत्पुरः स्थितम् ॥ २८॥
आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः ।
उत्तस्थुरागतं दृष्ट्वा सर्वे नन्दीश्वरादयः ॥ २९॥
परस्परं च भाषन्ते चक्रुस्तत्र च साम्प्रतम् ।
राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ॥ ३०॥
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ।
महादेव उवाच ।
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥ ३१॥
मरीचिस्तस्य पुत्रश्च वैष्णवाश्चापि धार्मिकः ।
कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ॥ ३२॥
दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश ।
तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्धिता ॥ ३३॥
चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोल्बणाः ।
तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ॥ ३४॥
तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ।
जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ॥ ३५॥
शुक्राचार्यं गुरुं कृत्वा कृष्णस्य परमात्मनः ।
तदा त्वां तनयं प्राप परं कृष्णपरायणम् ॥ ३६॥
पुरा त्वं पार्षदो गोपो गोपेष्वपि सुधार्मिकः ।
अधुना राधिकाशापाद्भारते दानवेश्वरः ॥ ३७॥
आब्रह्मस्तम्बपर्यन्तं तुच्छं मेने च वैष्णवः ।
सालोक्यसार्ष्टिसायुज्यसामीप्यं च हरेरपि ॥ ३८॥
दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना ।
ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ॥ ३९॥
इन्द्रत्वं वा मनुत्वं वा न मेने गणनासु च ।
कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे ॥ ४०॥
देहि राज्यं च देवानां मत्प्रीतिं रक्ष भूमिप ।
सुखं स्वराज्ये त्वं तिष्ठ देवास्तिष्ठन्तु वै पदे ॥ ४१॥
अलं भूतविरोधेन सर्वे कश्यपवंशजाः ।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ ४२॥
ज्ञातिद्रोहस्य पापानि कलां नार्हन्ति षोडशीम् ।
स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे ॥ ४३॥
सर्वावस्था च समतां केषां याति च सर्वदा ।
ब्रह्मणश्च तिरोभावो लये प्राकृतिके सदा ॥ ४४॥
आविर्भावः पुनस्तस्य प्रभावादीश्वरेच्छया ।
ज्ञानवृद्धिश्च तपसा स्मृतिलोपश्च निश्चितम् ॥ ४५॥
करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च ।
परिपूर्णतमो धर्मः सत्ये सत्याश्रये सदा ॥ ४६॥
त्रिभागः सोऽपि त्रेतायां द्विभागो द्वापरे स्मृतः ।
एकभागः कलौ पूर्वं तदंशश्च कमेण च ॥ ४७॥
कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा ।
यादृक् तेजो रवेर्ग्नीष्मे न तादृक् शिशिरे पुनः ॥ ४८॥
दिनेषु यादृङ्मध्याह्ने सायं प्रातर्न तत्समम् ।
उदयं याति कालेन बालतां च क्रमेण च ॥ ४९॥
प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेति सः ।
दिने प्रच्छन्नतां याति कालेन दुर्दिने घने ॥ ५०॥
राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् ।
परिपूर्णतमश्चन्द्रः पूर्णिमायां च जायते ॥ ५१॥
तादृशो न भवेन्नित्यं क्षयं याति दिने दिने ।
पुनश्च पुष्टिमायाति परं कुह्वा दिने दिने ॥ ५२॥
सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा ।
राहुग्रस्ते दिने म्लानो दुर्दिने न विरोचते ॥ ५३॥
काले चन्द्रो भवेच्छुक्लो भ्रष्टश्रीः कालभेदतः ।
भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ॥ ५४॥
कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा ।
काले जले निमग्ना सा तिरोभूताम्बुविप्लुता ॥ ५५॥
काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः ।
चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ॥ ५६॥
ईश्वरस्यैव समता ब्रह्मणः परमात्मनः ।
अहं मृत्युञ्जयो यस्मादसङ्ख्यं प्राकृतं लयम् ॥ ५७॥
आदर्शं चापि द्रक्ष्यामि वारं वारं पुनः पुनः ।
स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ॥ ५८॥
स चात्मा स च जीवश्च नानारूपधरः परः ।
करोति सततं यो हि तनामगुणकीर्तनम् ॥ ५९॥
काले मृत्युं स जयति जन्मरोगभयं जराम् ।
स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवेत् ॥ ६०॥
अहं कृतश्च संहर्ता वयं विषयिणः कृताः ।
कालाग्निरुद्रं संहारे नियोज्य विषये नृप ॥ ६१॥
अहं करोमि सततं तन्नामगुणकीर्तनम् ।
तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः ॥ ६२॥
मृत्युर्मृत्युभयाद्याति वैनतेयादिवोरगाः ।
इत्युक्त्वा स च सर्वेशः सर्वभावेन तत्परः ॥ ६३॥
विरराम च शम्भुश्च सभामध्ये च नारद ।
राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ॥ ६४॥
उवाच मधुरं देवं परं विनयपूर्वकम् ।
शङ्खचूड उवाच ।
त्वया यत्कथितं देव नान्यथा वचनं स्मृतम् ॥ ६५॥
तथापि किञ्चिद्यथार्थं श्रूयतां मन्निवेदनम् ।
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ॥ ६६॥
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।
मया समुद्धृतं सर्वमूर्ध्वमैश्वर्यमीश्वर ॥ ६७॥
सुतलाच्च समुद्धर्तुं नालं तत्र गदाधरः ।
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥ ६८॥
शुम्भादयश्चासुराश्च कथं देवैर्निपातिताः ।
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥ ६९॥
क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः ।
क्रीडाभाण्डमिदं विश्वं प्रकृतेः परमात्मनः ॥ ७०॥
यस्मै यत्र स ददाति तस्यैश्वर्यं भवेत्तदा ।
देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ॥ ७१॥
पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च ।
तदावयोर्विरोधे वाऽऽगमनं निष्कलं परम् ॥ ७२॥
समसम्बन्धिनो बन्धोरीश्वरस्य महात्मनः ।
इयं ते महती लज्जा युद्धेऽस्माभिः सहाधुना ॥ ७३॥
जये ततोऽधिका कीर्तिर्हानिश्चैव पराजये ।
इत्येतद्वचनं श्रुत्वा प्रहस्य च त्रिलोचनः ॥ ७४॥
यथोचितमुत्तरं तमुवाच दानवेश्वरम् ।
महादेव उवाच ।
युष्माभिः सह युद्धे मे ब्रह्मवंशसमुद्भवैः ॥ ७५॥
का लज्जा महती राजन्नकीर्तिर्वा पराजये ।
युद्धमादौ हरेरेव मधुना कैटभेन च ॥ ७६॥
हिरण्यकशिपोश्चैव सह तेनात्मना नृप ।
हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ॥ ७७॥
त्रिपुरैः सह युद्धं च मयापि च पुरा कृतम् ।
सर्वेश्वर्याः सर्वमातुः प्रकृत्याश्च बभूव ह ॥ ७८॥
सह शुम्भादिभिः पूर्वं समरः परमाद्भुतः ।
पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ॥ ७९॥
ये ये हताश्च दैतेया नहि केऽपि त्वया समाः ।
का लज्जा महती राजन् मम युद्धे त्वया सह ॥ ८०॥
सुराणां शरणस्यैव प्रेषितश्च हरेरहो ।
देहि राज्यं च देवानामिति मे निश्चितं वचः ॥ ८१॥
युद्धं वा कुरु मत्सार्धं वाग्व्यये किं प्रयोजनम् ।
इत्युक्त्वा शङ्करस्तत्र विरराम च नारद ।
उत्तस्थौ शङ्खचूडश्च ह्यमात्यैः सह सत्वरम् ॥ ८२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडकृते
प्रबोधवाक्यवर्णनं नामेकविंशोऽध्यायः ॥ ९.२१॥
९.२२ द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।
श्रीनारायण उवाच ।
शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् ।
समारुरोह यानं च सहामात्यैः स सत्वरः ॥ १॥
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् ।
दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह ॥ २॥
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ ३॥
दम्भेन सह चन्द्रश्च चकार परमं रणम् ।
कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥ ४॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।
भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ ५॥
विकङ्कणेन वरुणश्चञ्चलेन समीरणः ।
बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ ६॥
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।
अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः ॥ ७॥
धुरन्धरेण धर्मश्च उषाक्षेण च मङ्गलः ।
शोभाकरेण वै भानुः पिठरेण च मन्मथः ॥ ८॥
गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च ।
काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना ॥ ९॥
विश्वेन च पलाशेनादित्याद्या युयुधुः परे ।
एकादश च रुद्रा वै एकादशभयङ्करैः ॥ १०॥
महामारी च युयुधे चोग्रचण्डादिभिः सह ।
नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ११॥
युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्करे ।
वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ॥ १२॥
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ।
रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥ १३॥
उवास शङ्खचूडश्च रत्नभूषणभूषितः ।
शङ्करस्य च ये योधा दानवैश्च पराजिताः ॥ १४॥
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः ।
चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ १५॥
बलं च स्वर्गणानां च वर्धयामास तेजसा ।
सोऽयमेकश्च युयुधे दानवानां गणैः सह ॥ १६॥
अक्षौहिणीनां शतकं समरे च जघान सः ।
असुरान्पातयामास काली कमललोचना ॥ १७॥
पपौ रक्तं दानवानामतिकुद्धा ततः परम् ।
दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः ॥ १८॥
समादायैकहस्तेन मुखे चिक्षेप लीलया ।
कबन्धानां सहस्रं च ननर्त समरे मुने ॥ १९॥
स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः ।
भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः ॥ २०॥
वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कणः ।
स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च ॥ २१॥
महामारी च युयुधे न बभूव पराङ्मुखी ।
बभूवुस्ते च सङ्क्षुब्धाः स्कन्दस्य शक्तिपीडिताः ॥ २२॥
न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह ।
स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम् ॥ २३॥
दानवानां क्षयकरं यथा प्राकृतिको लयः ।
राजा विमानमारुह्य चकार बाणवर्षणम् ॥ २४॥
नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा ।
महाघोरान्धकारश्च वह्न्युत्थानं बभूव च ॥ २५॥
देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः ।
एक एव कार्तिकेयस्तस्थौ समरमूर्धनि ॥ २६॥
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।
नृपश्चकार वृष्टिं च दुर्वारां च भयङ्करीम् ॥ २७॥
नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः ।
नीहारेण च सान्द्रेण प्रहितो भास्करो यथा ॥ २८॥
धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्करः ।
बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान् ॥ २९॥
मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।
शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम् ॥ ३०॥
क्षणं मूर्च्छां च सम्प्राप बभूव चेतनः पुनः ।
गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥ ३१॥
रत्नेन्द्रसारनिर्माणयानमारुह्य कार्तिकः ।
शस्त्रास्त्रं च गृहीत्वा च चकार रणमुल्बणम् ॥ ३२॥
सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ।
सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ ३३॥
वह्निं निर्वापयामास पार्जन्येन प्रतापवान् ।
रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ ३४॥
सन्नाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् ।
चिक्षेप शक्तिं शुक्लाभां दानवेन्द्रस्य वक्षसि ॥ ३५॥
मूर्च्छां सम्प्राप्य राजा च चेतनश्च बभूव ह ।
आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः ॥ ३६॥
चकार शरजालं च मायया मायिनां वरः ।
गुहं चच्छाद समरे शरजालेन नारद ॥ ३७॥
जग्राह शक्तिमव्यग्रां शतसूर्यसमप्रभाम् ।
प्रलयाग्निशिखारूपां विष्णोश्च तेजसाऽऽवृताम् ॥ ३८॥
चिक्षेप तां च कोपेन महावेगेन कार्तिके ।
पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला ॥ ३९॥
मूर्च्छां सम्प्राप शक्त्या च कार्तिकेयो महाबलः ।
काली गृहीत्वा तं क्रोडे निनाय शिवसनिधौ ॥ ४०॥
शिवस्तं चापि ज्ञानेन जीवयामास लीलया ।
ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् ॥ ४१॥
काली जगाम समरं रक्षितुं कार्तिकस्य या ।
वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ ४२॥
सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः ।
वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः ॥ ४३॥
सा च गत्वाथ सङ्ग्रामं सिंहनादं चकार च ।
देव्याश्च सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ॥ ४४॥
अट्टाट्टहासमशिवं चकार च पुनः पुनः ।
दृष्ट्वा पपौ च माध्वीकं ननर्त रणमूर्धनि ॥ ४५॥
उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु ।
योगिनीडाकिनीनां च गणाः सुरगणादयः ॥ ४६॥
दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजौ समाययौ ।
दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥ ४७॥
काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् ।
राजा निर्वापयामास पार्जन्येन च लीलया ॥ ४८॥
चिक्षेप वारुणं सा च तीव्रं च महदद्भुतम् ।
गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ॥ ४९॥
माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् ।
राजा जघान तं शीघ्रं वैष्णवेन च लीलया ॥ ५०॥
नारायणास्त्रं सा देवी चिक्षेप मन्त्रपूर्वकम् ।
राजा ननाम तद् दृष्ट्वा चावरुह्य रथादसौ ॥ ५१॥
ऊर्ध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम् ।
पपात शङ्खचूडश्च भक्त्या तं दण्डवद्भुवि ॥ ५२॥
ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् ।
ब्रह्मास्त्रेण महाराजो निर्वापं च चकार सः ॥ ५३॥
तदा चिक्षेप दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् ।
राजा दिव्यास्त्रजालेन तन्निर्वाणं चकार च ॥ ५४॥
तदा चिक्षेप शक्तिं च यत्नतो योजनायताम् ।
राजा दिव्यास्त्रजालेन शतखण्डां चकार ह ॥ ५५॥
जग्राह मन्त्रपूतं च देवी पाशुपतं रुषा ।
निक्षेपणं निरोद्धुं च वाग्बभूवाशरीरिणी ॥ ५६॥
मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः ।
यावदस्ति च मन्त्रस्य कवचं च हरेरिति ॥ ५७॥
यावत्सतीत्वमस्त्येव सत्याश्च नृपयोषितः ।
तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः ॥ ५८॥
इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम् ।
शतलक्षं दानवानां जग्रास लीलया क्षुधा ॥ ५९॥
ग्रस्तुं जगाम वेगेन शङ्खचूडं भयङ्करी ।
दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ॥ ६०॥
खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं यथा ।
दिव्यास्त्रेण दानवेन्द्रः शतखण्डं चकार सः ॥ ६१॥
पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् ।
सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ॥ ६२॥
वेगेन मुष्टिना काली कोपयुक्ता भयङ्करी ।
बभञ्ज च रथं तस्य जघान सारथिं सती ॥ ६३॥
सा च शूलं प्रचिक्षेप प्रलयाग्निशिखोपमम् ।
वामहस्तेन जग्राह शङ्खचूडः स्वलीलया ॥ ६४॥
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।
बभ्राम च तया दैत्यः क्षणं मूर्च्छामवाप च ॥ ६५॥
क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् ।
न चकार बाहुयुद्धं देव्या सह ननाम ताम् ॥ ६६॥
देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा ।
नास्त्रं चिक्षेप तां भक्तो मातृभक्त्या तु वैष्णवः ॥ ६७॥
गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः ।
ऊर्ध्वं च प्रापयामास महावेगेन कोपिता ॥ ६८॥
ऊर्ध्वात्पपात वेगेन शङ्खचूडः प्रतापवान् ।
निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम् ॥ ६९॥
रत्नेन्द्रसारनिर्माणं विमानं सुमनोहरम् ।
आरुरोह हर्षयुक्तो न विश्रान्तो महारणे ॥ ७०॥
दानवानां च क्षतजं सा देवी च पपौ क्षुधा ।
पीत्वा भुक्त्वा भद्रकाली जगाम शङ्करान्तिकम् ॥ ७१॥
उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् ।
श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम् ॥ ७२॥
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।
भुञ्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर ॥ ७३॥
सङ्ग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै ।
अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ॥ ७४॥
राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः ।
न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ॥ ७५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसवादे
कालीशङ्खचूडयुद्धवर्णनं नाम द्वाविंशोऽध्यायः ॥ ९.२२॥
९.२३ त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।
शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः ।
ययौ स्वयं च समरे स्वगणैः सह नारद ॥ १॥
शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य च ।
ननाम परया भक्त्या शिरसा दण्डवद्भुवि ॥ २॥
तं प्रणम्य च वेगेन विमानमारुरोह सः ।
तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम् ॥ ३॥
शिवदानवयोर्युद्धं पूर्णमब्दशतं पुरा ।
न बभूवतुरन्योन्यं ब्रह्मञ्जयपराजयौ ॥ ४॥
न्यस्तशस्त्रश्च भगवान् न्यस्तशस्त्रश्च दानवः ।
रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः ॥ ५॥
दानवानां च शतकमुद्धृतं च बभूव ह ।
रणे ये ये मृताः शम्भुर्जीवयामास तान्विभुः ॥ ६॥
एतस्मिन्नन्तरे वृद्धब्राह्मणः परमातुरः ।
आगत्य च रणस्थानमुवाच दानवेश्वरम् ॥ ७॥
वृद्धब्राह्मण उवाच ।
देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् ।
त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम् ॥ ८॥
निरीहाय च वृद्धाय तृषिताय च साम्प्रतम् ।
पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति ॥ ९॥
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।
कवचार्थी जनश्चाहमित्युवाचातिमायया ॥ १०॥
तच्छ्रुत्वा कवचं दिव्यं जग्राह हरिरेव च ।
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ ११॥
गत्वा तस्यां मायया च वीर्याधानं चकार ह ।
अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति ॥ १२॥
ग्रीष्ममध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् ।
दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ॥ १३॥
तेजसा चक्रतुल्यं च सर्वशस्त्रास्त्रसारकम् ।
शिवकेशवयोरन्यैर्दुर्वहं च भयङ्करम् ॥ १४॥
धनुःसहस्रं दैर्घ्येण प्रस्थेन शतहस्तकम् ।
सजीवं ब्रह्मरूपं च नित्यरूपमनिर्दिशम् ॥ १५॥
संहर्तुं सर्वब्रह्माण्डमलं यत्स्वीयलीलया ।
चिक्षेप तोलनं कृत्वा शङ्खचूडे च नारद ॥ १६॥
राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् ।
ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥ १७॥
शूलं च भ्रमणं कृत्वा पपात दानवोपरि ।
चकार भस्मसात्तं च सरथं चाथ लीलया ॥ १८॥
राजा धृत्वा दिव्यरूपं किशोरं गोपवेषकम् ।
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ १९॥
रत्नेन्द्रसारनिर्माणं वेष्टितं गोपकोटिभिः ।
गोलोकादागतं यानमारुरोह पुरं ययौ ॥ २०॥
गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने ।
भक्त्या च चरणाम्भोजं रासे वृन्दावने वने ॥ २१॥
सुदामानं च तौ दृष्ट्वा प्रसन्नवदनेक्षणौ ।
क्रोडे चक्रतुरत्यन्तं प्रेम्णातिपरिसंयुतौ ॥ २२॥
अथ शलं च वेगेन प्रययौ तं च सादरम् ।
अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह ॥ २३॥
नानाप्रकाररूपेण शश्वत्पूता सुरार्चने ।
प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम् ॥ २४॥
तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना ।
शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा ॥ २५॥
स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा ।
शङ्खो हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः ॥ २६॥
तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् ।
स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः ॥ २७॥
भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः ।
शिवोऽपि दानवं हत्वा शिवलोकं जगाम ह ॥ २८॥
प्रहृष्टो वृषभारूढः स्वगणैश्च समावृतः ।
सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ॥ २९॥
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ।
बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् ।
प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ॥ ३०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
शङ्खचूडवधवर्णनं नाम त्रयोविशोऽध्यायः ॥ ९.२३॥
९.२४ चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।
नारद उवाच ।
नारायणश्च भगवान्वीर्याधानं चकार ह ।
तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि ॥ १॥
श्रीनारायण उवाच ।
नारायणश्च भगवान्देवानां साधनेषु च ।
शङ्खचूडस्य कवचं गहीत्वा विष्णुमायया ॥ २॥
पुनर्विधाय तद्रूपं जगाम तत्सतीगृहम् ।
पातिव्रतस्य नाशेन शङ्खचूडजिघांसया ॥ ३॥
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ।
जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम् ॥ ४॥
तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता ।
राजमार्गे गवाक्षेण ददर्श परमादरात् ॥ ५॥
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ।
वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ ॥ ६॥
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ।
अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम् ॥ ७॥
दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता ।
तत्पादं क्षालयामास ननाम च रुरोद च ॥ ८॥
रत्नसिंहासने रम्ये वासयामास कामुकी ।
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९॥
अद्य मे सफलं जन्म जीवनं च बभूव ह ।
रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १०॥
सस्मिता सकटाक्षं च सकामा पुलकाङ्किता ।
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ ११॥
तुलस्युवाच ।
असङ्ख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो ।
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥ १२॥
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ।
शङ्खचूडस्य रूपेण तामुवाचामृतं वचः ॥ १३॥
श्रीभगवानुवाच ।
आवयोः समरः कान्ते पूर्णमब्दं बभूव ह ।
नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ १४॥
प्रीतिञ्च कारयामास ब्रह्मा च स्वयमावयोः ।
देवानामधिकारश्च प्रदत्तस्तस्य चाज्ञया ॥ १५॥
मयागतं स्वभवनं शिवलोकं शिवो गतः ।
इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ १६॥
रेमे रमापतिस्तत्र रामया सह नारद ।
सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ॥ १७॥
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ।
तुलस्युवाच ।
को वा त्वं वद मायेश भुक्ताहं मायया त्वया ॥ १८॥
दूरीकृतं मत्सतीत्वं यदतस्त्वां शपामि हे ।
तुलसीवचनं श्रुत्वा हरिः शापभयेन च ॥ १९॥
दधार लीलया ब्रह्मन् सुमूर्तिं सुमनोहराम् ।
ददर्श पुरतो देवी देवदेवं सनातनम् ॥ २०॥
नवीननीरदश्यामं शरत्पङ्कजलोचनम् ।
कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ॥ २१॥
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससम् ।
तं दृष्ट्वा कामिनी कामं मूर्च्छां सम्प्राप लीलया ॥ २२॥
पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह ।
तुलस्युवाच ।
हे नाथ ते दया नास्ति पाषाणसदृशस्य च ॥ २३॥
छलेन धर्मभङ्गेन मम स्वामी त्वया हतः ।
पाषाणहृदयस्त्वं हि दयाहीनो यतः प्रभो ॥ २४॥
तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना ।
ये वदन्ति च साधुं त्वां ते भ्रान्ता हि न संशयः ॥ २५॥
भक्तो विनापराधेन परार्थे च कथं हतः ।
भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः ॥ २६॥
ततश्च करुणां दृष्ट्वा करुणारससागरः ।
नयेन तां बोधयितुमुवाच कमलापतिः ॥ २७॥
श्रीभगवानुवाच ।
तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् ।
त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ॥ २८॥
कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् ।
अधुना दातुमुचितं तवैव तपसः फलम् ॥ २९॥
इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ।
रामे रम मया सार्धं त्वं रमासदृशी भव ॥ ३०॥
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ।
पूता सुपुण्यदा नॄणां पुण्ये भवतु भारते ॥ ३१॥
तव केशसमूहश्च पुण्यवृक्षो भविष्यति ।
तुलसीकेशसम्भूता तुलसीति च विश्रुता ॥ ३२॥
त्रिषु लोकेषु पुष्पाणां पत्राणां देवपूजने ।
प्रधानरूपा तुलसी भविष्यति वरानने ॥ ३३॥
स्वर्गे मर्त्ये च पाताले गोलोके मम सन्निधौ ।
भव त्वं तुलसी वृक्षवरा पुष्पेषु सुन्दरी ॥ ३४॥
गोलोके विरजातीरे रासे वृन्दावने वने ।
भाण्डीरे चम्पकवने रम्ये चन्दनकानने ॥ ३५॥
माधवीकेतकीकुन्दमालिकामालतीवने ।
वासस्तेऽत्रैव भवतु पुण्यस्थानेषु पुण्यदः ॥ ३६॥
तुलसीतरुमूलेषु पुण्यदेशेषु पुण्यदम् ।
अधिष्ठानं च तीर्थानां सर्वेषां च भविष्यति ॥ ३७॥
तत्रैव सर्वदेवानां ममाधिष्ठानमेव च ।
तुलसीपत्रपतनप्राप्तये च वरानने ॥ ३८॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥ ३९॥
सुधाघटसहस्राणां या तुष्टिस्तु भवेद्धरेः ।
सा च तुष्टिर्भवेन्नूनं तुलसीपत्रदानतः ॥ ४०॥
गवामयुतदानेन यत्फलं तत्फलं भवेत् ।
तुलसीपत्रदानेन तत्फलं कार्तिके सति ॥ ४१॥
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् ।
मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते ॥ ४२॥
नित्यं यस्तुलसीतोयं भुङ्क्ते भक्त्या च मानवः ।
लक्षाश्वमेधजं पुण्यं सम्प्राप्नोति स मानवः ॥ ४३॥
तुलसीं स्वकरे कृत्वा धृत्वा देहे च मानवः ।
प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति ॥ ४४॥
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ४५॥
तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति ।
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ ४६॥
करोति मिथ्याशपथं तुलस्या योऽत्र मानवः ।
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ॥ ४७॥
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।
रत्नयानं समारुह्य वैकुण्ठे प्राप्यते ध्रुवम् ॥ ४८॥
पूर्णिमायाममायां च द्वादश्यां रविसङ्क्रमे ।
तैलाभ्यङ्गं च कृत्वा च मध्याह्ने निशि सन्ध्ययोः ॥ ४९॥
अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः ।
तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः ॥ ५०॥
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ।
श्राद्धे व्रते च दाने च प्रतिष्ठायां सुरार्चने ॥ ५१॥
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ।
शुद्धं च तुलसीपत्रं क्षालनादन्यकर्मणि ॥ ५२॥
वृक्षाधिष्ठातृदेवी या गोलोके च निरामये ।
कृष्णेन सार्धं नित्यं च नित्यक्रीडां करिष्यसि ॥ ५३॥
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ।
लवणोदस्य सा पत्नी मदंशस्य भविष्यति ॥ ५४॥
त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ ।
रमासमा च रामा च भविष्यसि न संशयः ॥ ५५॥
अहं च शैलरूपेण गण्डकीतीरसन्निधौ ।
अधिष्ठानं करिष्यामि भारते तव शापतः ॥ ५६॥
कोटिसङ्ख्यास्तत्र कीटास्तीक्ष्णदंष्ट्रावरायुधैः ।
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥ ५७॥
एकद्वारं चतुश्चक्रं वनमालाविभूषितम् ।
नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥ ५८॥
एकद्वारं चतुश्चक्रं नवीननीरदोपमम् ।
लक्ष्मीजनार्दनो ज्ञेयो रहितो वनमालया ॥ ५९॥
द्वारद्वये चतुश्चक्रं गोष्पदेन विराजितम् ।
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥ ६०॥
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ।
तद्वामनाभिधं ज्ञेयं रहितं वनमालया ॥ ६१॥
अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् ।
विज्ञेयं श्रीधरं रूपं श्रीप्रदं गृहिणा सदा ॥ ६२॥
स्थूलं च वर्तुलाकारं रहितं वनमालया ।
द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ ६३॥
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ।
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ ६४॥
मध्यमं सप्तचक्रञ्च छत्रभूषणभूषितम् ।
राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम् ॥ ६५॥
द्विसप्तचक्रं स्थूलं च नवनीरदसुप्रभम् ।
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ॥ ६६॥
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ।
सगोष्पदं मध्यमं च विज्ञेयं मधुसूदनम् ॥ ६७॥
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ।
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम् ॥ ६८॥
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ।
नरसिंहं सुविज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ ६९॥
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ।
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां च सुखप्रदम् ॥ ७०॥
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ।
वासुदेवं तु विज्ञेयं सर्वकामफलप्रदम् ॥ ७१॥
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ।
सुषिरच्छिद्रबहुलं गृहिणा च सुखप्रदम् ॥ ७२॥
द्वे चक्रे चैकलग्ने च पृष्ठं यत्र तु पुष्कलम् ।
सङ्कर्षणं सुविज्ञेयं सुखदं गृहिणां सदा ॥ ७३॥
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ।
सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ ७४॥
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता ॥ ७५॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात् ॥ ७६॥
छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः ।
दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥ ७७॥
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च ।
भग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं ध्रुवम् ॥ ७८॥
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् ।
शालग्रामस्य सान्निध्यात्प्रशस्तं तद्भवेदिति ॥ ७९॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
सर्वयज्ञेषु तीर्थेषु व्रतेषु च तपःसु च ॥ ८०॥
पाठे चतुर्णां वेदानां तपसां करणे सति ।
तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात् ॥ ८१॥
(शालग्रामशिलातोयैर्योऽभिषेकं सदा चरेत् ।
सर्वदानेषु यत्पुण्यं प्रदक्षिणं भुवो यथा ॥)॥
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः ।
सुरेप्सितं प्रसादं च लभते नात्र संशयः ॥ ८२॥
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ।
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ ८३॥
तत्रैव हरिणा सार्धमसङ्ख्यं प्राकृतं लयम् ।
यास्यत्येव हि दास्ये च नियुक्तो दास्यकर्मणि ॥ ८४॥
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
तं दृष्ट्वा च पलायन्ते वैनतेयादिवोरगाः ॥ ८५॥
तत्पादरजसा देवी सद्यःपूता वसुन्धरा ।
पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मतः ॥ ८६॥
शालग्रामशिलातोयं मृत्युकाले च यो लभेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८७॥
निर्वाणमुक्तिं लभते कर्मभोगात्प्रमुच्यते ।
विष्णोः पदे प्रलीनश्च भविष्यति न संशयः ॥ ८८॥
शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः ।
स याति कुम्भीपाके च यावद्वै ब्रह्मणो वयः ॥ ८९॥
शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् ।
स प्रयात्यसिपत्रं च लक्षमन्वन्तरावधि ॥ ९०॥
तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।
तस्य जन्मान्तरे कान्ते स्त्रीविच्छेदो भविष्यति ॥ ९१॥
तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च ।
भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ॥ ९२॥
शालग्रामं च तुलसीं शङ्खं चैकत्र एव च ।
यो रक्षति महाज्ञानी स भवेच्छ्रीहरेः प्रियः ॥ ९३॥
सकृदेव हि यो यस्यां वीर्याधानं करोति च ।
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ॥ ९४॥
त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि ।
शङ्खेन सार्धं त्वद्भेदः केवलं दुःखदस्तथा ॥ ९५॥
इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद ।
सा च देहं परित्यज्य दिव्यरूपं विधाय च ॥ ९६॥
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ।
स जगाम तया सार्धं वैकुण्ठं कमलापतिः ॥ ९७॥
लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद ।
हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च ॥ ९८॥
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ।
ईश्वरः सोऽपि शैलश्च तत्तीरे पुण्यदो नृणाम् ॥ ९९॥
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ।
जले पतन्ति या याश्च फलदास्ताश्च निश्चितम् ॥ १००॥
स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्रवेरिति ।
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १०१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे तुलसीमाहात्म्येन
सह शालग्राममहत्त्ववर्णनं नाम चतुर्विंशोऽध्यायः ॥ ९.२४॥
९.२५ पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।
नारद उवाच ।
तुलसी च यदा पूज्या कृता नारायणप्रिया ।
अस्याः पूजाविधानं च स्तोत्रं च वद साम्प्रतम् ॥ १॥
केन पूजा कृता केन स्तुता प्रथमतो मुने ।
तत्र पूज्या सा बभूव केन वा वद मामहो ॥ २॥
सूत उवाच ।
नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
कथां कथितुमारेभे पुण्यां पापहरां पराम् ॥ ३॥
श्रीनारायण उवाच ।
हरिः सम्पूज्य तुलसीं रेमे च रमया सह ।
रमासमानसौभाग्यां चकार गौरवेण च ॥ ४॥
सेहे च लक्ष्मीर्गङ्गा च तस्याश्च नवसङ्गमम् ।
सौभाग्यगौरवं कोपात्ते न सेहे सरस्वती ॥ ५॥
सा तां जघान कलहे मानिनी हरिसन्निधौ ।
व्रीडया चापमानेन सान्तर्धानं चकार ह ॥ ६॥
सर्वसिद्धेश्वरी देवी ज्ञानिनां सिद्धियोगिनी ।
जगामादर्शनं कोपात्सर्वत्र च हरेरहो ॥ ७॥
हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम् ।
तदनुज्ञां गहीत्वा च जगाम तुलसीवनम् ॥ ८॥
तत्र गत्वा च सुस्नातो हरिः स तुलसीं सतीम् ।
पूजयामास तां ध्यात्वा स्तोत्रं भक्त्या चकार ह ॥ ९॥
लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् ।
वृन्दावनीति ङेऽन्तं च वह्निजायान्तमेव च ॥ १०॥
अनेन कल्पतरुणा मन्त्रराजेन नारद ।
पूजयेद्यो विधानेन सर्वसिद्धिं लभेद् ध्रुवम् ॥ ११॥
घृतदीपेन धूपेन सिन्दूरचन्दनेन च ।
नैवेद्येन च पुष्पेण चोपचारेण नारद ॥ १२॥
हरिस्तोत्रेण तुष्टा सा चाविर्भूता महीरुहात् ।
प्रसन्ना चरणाम्भोजे जगाम शरणं शुभा ॥ १३॥
वरं तस्यै ददौ विष्णुः सर्वपूज्या भवेरिति ।
अहं त्वां धारयिष्यामि सुरूपां मूर्ध्नि वक्षसि ॥ १४॥
सर्वे त्वां धारयिष्यन्ति स्वमूर्ध्नि च सुरादयः ।
इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः ॥ १५॥
नारद उवाच ।
किं ध्यानं स्तवनं किं वा किं वा पूजाविधानकम् ।
तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि ॥ १६॥
श्रीनारायण उवाच ।
अन्तर्हितायां तस्यां च हरिर्वृन्दावने तदा ।
तस्याश्चक्रे स्तुतिं गत्वा तुलसीं विरहातुरः ॥ १७॥
श्रीभगवानुवाच ।
वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च ।
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् ॥ १८॥
पुरा बभूव या देवी त्वादौ वृन्दावने वने ।
तेन वृन्दावनी ख्याता सौभाग्या तां भजाम्यहम् ॥ १९॥
असङ्ख्येषु च विश्वेषु पूजिता या निरन्तरम् ।
तेन विश्वपूजिताऽऽख्यां पूजितां च भजाम्यहम् ॥ २०॥
असङ्ख्यानि च विश्वानि पवित्राणि त्वया सदा ।
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥ २१॥
देवा न तुष्टाः पुष्पाणां समूहेन यया विना ।
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥ २२॥
विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् ।
नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥ २३॥
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च ।
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥ २४॥
कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती ।
तेन कृष्णजीवनी सा सा मे रक्षतु जीवनम् ॥ २५॥
इत्येवं स्तवनं कृत्वा तस्थौ तत्र रमापतिः ।
ददर्श तुलसीं साक्षात्पादपद्मनतां सतीम् ॥ २६॥
रुदतीमवमानेन मानिनीं मानपूजिताम् ।
प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि ॥ २७॥
भारत्याज्ञां गहीत्वा च स्वालयं च ययौ हरिः ।
भारत्या सह तत्प्रीतिं कारयामास सत्वरम् ॥ २८॥
वरं विष्णुर्ददौ तस्यै सर्वपूज्या भवेरिति ।
शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च ॥ २९॥
विष्णोर्वरेण सा देवी परितुष्टा बभूव च ।
सरस्वती तामाकृष्य वासयामास सन्निधौ ॥ ३०॥
लक्ष्मीर्गङ्गा सस्मिता च तां समाकृष्य नारद ।
गृहं प्रवेशयामास विनयेन सतीं तदा ॥ ३१॥
वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी ।
पुष्पसारा नन्दनी च तुलसी कृष्णजीवनी ॥ ३२॥
एतन्नामाष्टकञ्चैव स्तोत्रं नामार्थसंयुतम् ।
यः पठेत्तां च सम्पूज्य सोऽश्वमेधफलं लभेत् ॥ ३३॥
कार्तिक्यां पूर्णिमायां च तुलस्या जन्म मङ्गलम् ।
तत्र तस्याश्च पूजा च विहिता हरिणा पुरा ॥ ३४॥
तस्यां यः पूजयेत्तां च भक्त्या वै विश्वपावनीम् ।
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ३५॥
कार्तिके तुलसीपत्रं यो ददाति च विष्णुवे ।
गवामयुतदानस्य फलं प्राप्नोति निश्चितम् ॥ ३६॥
अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् ।
बन्धुहीनो लभेद् बन्धून् स्तोत्रश्रवणमात्रतः ॥ ३७॥
रोगी प्रमुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी ॥ ३८॥
इत्येवं कथितं स्तोत्रं ध्यानं पूजाविधिं शृणु ।
त्वमेव वेदे जानासि कण्वशाखोक्तमेव च ॥ ३९॥
तद्वृक्षे पूजयेत्तां च भक्त्या चावाहनं विना ।
तां ध्यात्वा चोपचारेण ध्यानं पातकनाशनम् ॥ ४०॥
तुलसीं पुष्पसारां च सतीं पूतां मनोहराम् ।
कृतपापेध्मदाहाय ज्वलदग्निशिखोपमाम् ॥ ४१॥
पुष्पेषु तुलना यस्या नास्ति वेदेषु भाषितम् ।
पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता ॥ ४२॥
शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी ।
जीवन्मुक्तां मुक्तिदां च भजे तां हरिभक्तिदाम् ॥ ४३॥
इति ध्यात्वा च सम्पूज्य स्तुत्वा च प्रणमेत्सुधीः ।
उक्तं तुलस्युपाख्यानं किं भूयः श्रोतुमिच्छसि ॥ ४४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे
तुलसीपूजाविधिवर्णनं नाम पञ्चविशोऽध्यायः ॥ ९.२५॥
Encoded and proofread by Vishwas Bhide