॥ उमासहस्रम् ॥

%c01-q1/Nalini.Kalavacharla/uma\_sahasram1-25।txt medskip प्रथमं शतकम् प्रथमः स्तबकः व्योमशरीरा, स्त्रीरूपा च (आर्यावृत्तम्) अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् । अनुगृह्णात्वनुकम्पासुधार्द्रया हसितचन्द्रिकया ॥ १.१॥ निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् । अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥ १.२॥ सा तत्त्वतः समन्तात्सत्यस्य विभोस्तता तपश्शक्तिः । लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥ १.३॥ परमः पुरुषो नाभिर्लोकानां सत्य उच्यते लोकः । परितस्ततः सरन्ती सूक्ष्मा शक्तिस्तपो लोकः ॥ १.४॥ अन्तर्गूढार्थानां पुरुषाग्नेर्धूमकल्प उद्गारः । शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनो लोकः ॥ १.५॥ अतिसूक्ष्मधूमकल्पं लोकं ततमाख़्ययाऽन्यया नाकम् । एतं ततोऽपि सूक्ष्मा व्याप्ताऽन्तरतः परा शक्तिः ॥ १.६॥ धूमान्तरोष्मकल्पा शुद्धज्वालोपमा च या शक्तिः । तां दिवमाहुः केचन परमं व्योमापरे प्राहुः ॥ १.७॥ उद्गीर्णधूमकल्पो योऽयमपारो महाञ्जनो लोकः । व्योमान्तरिक्षगगनप्रभृतिभिरभिधाभिराहुस्तम् ॥ १.८॥ प्रान्तेषु कोऽपि शक्तेः पृथगात्मा वियदुपाधिसङ्गेन । परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पेदे ॥ १.९॥ दक्षः परोक्षमुदितः पन्था एष त्विषां जनो लोकः । तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः ॥ १.१०॥ सत्याः प्रागपि शक्तेः प्रादुर्भावः स कीर्त्यते प्रथमः । ईशाभिमानमय्याः पृथगभिमानित्वनिष्पत्त्या ॥ १.११॥ आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूः शक्तिः । अदितेर्दक्षो दक्षाददितिरिति श्रुतिरबाधैवम् ॥ १.१२॥ जगतां मातापितरौ सतीभवौ केऽपि पण्डिताः प्राहुः । अदितिप्रजापती तावपरेषां भाषया विदुषाम् ॥ १.१३॥ दिव्यपुमाकृतिमीशे बिभ्रति लीलार्थमस्य रमणाय । दिव्यवनिताकृतिं सा बभार माता च भुवनानाम् ॥ १.१४॥ भासुरहेमाभरणां बहुशोभामीश्वरप्रमोदकलाम् । मूर्तिं पावनकीर्तिं तां हैमवतीमुमामाहुः ॥ १.१५॥ तस्य प्रथमः साक्षी भुवनजुषां नयनशालिनां मध्ये । वपुषः कीलादिसुदृशो निरुपमपुण्यो निलिम्पपतिः ॥ १.१६॥ पल्लवमृदु वेदिगतज्वलनपवित्रं महार्घमणिकान्तम् । नवचन्द्रखण्डसौम्यं शिवसुदृशस्तत्स्मरामि वपुः ॥ १.१७॥ केचन गौरीं देवीं शीताद्रेर्देवतात्मनो जाताम् । कथयन्ति स्त्रियमुत्तमलावण्यास्वादितो गण्याम् ॥ १.१८॥ सत्यैव भवतु सेयं कथा तथाऽपि प्रभाषितां भक्तैः । तां मूर्तिमादिसुदृशो जानीयात्कमपि तेजोंशम् ॥ १.१९॥ मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा । प्रादुर्भवति गभीरध्वनिरविषह्या यतः शक्तिः ॥ १.२०॥ आकाशो गोलेभ्यो यद्वितरति निजरजश्चयादन्नम् । नेशाय कीर्त्यते सा संसारे दक्षयागकथा ॥ १.२१॥ व्याप्ताऽपि यन्निगूढा बहिरीक्षकबुद्ध्यपेक्षया नष्टा । शक्तिर्यागे तस्मिन्नवसानं तदुदितं सत्याः ॥ १.२२॥ पर्वतनाम्नो वैदिकभाषायां यदियमतिबला शक्तिः । घनतो भवति व्यक्ता तदभिहितं पार्वतीजननम् ॥ १.२३॥ तेजोंशतः शिवाविह हिमाचलेऽनुग्रहाय भूमिजुषाम् । दत्तो यत्सान्निध्यं लीलाचारित्रमन्यदिदम् ॥ १.२४॥ एतासामार्याणां जानन्तः शास्त्रसम्मतं भावम् । जानीयुर्भवमहिषीं भुवनानामम्बिकां देवीम् ॥ १.२५॥ 25
%c01-q2/Nandini.Kuppa/uma-c01-q2।txt medskip द्वितीयः स्तबकः सर्गादिवर्णनम् (पञ्चचामरवृत्तम्) सहादरेण यो वलक्षपारिजातमालया गलस्थलीविभूषया ध्वनिं विनैव भाषते । महेशपुण्ययोषितो मनोज्ञहास एष मे विभूतये प्रकल्पतां विधूतये च पाप्मनाम् ॥ २.१॥ निरन्तरश्रिते सदा कृपारसप्रवाहिनी विलासिनीतनुर्विभोः पुमाकृतेर्विमोहिनी । सुधातरङ्गकल्पहासभासुरानना शिवा पदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम ॥ २.२॥ करोति या बिभर्ति या निहन्ति या जगत्त्रयं समन्ततो विभाति या न दृश्यते क्वचिच्च या । अतीव गुप्तरूपिणी गुरूपदेशमन्तरा न शक्यते बुधैश्च बोद्धुमन्धकारिसुन्दरी ॥ २.३॥ महान्धकारबन्धुरस्य भूतसञ्चयस्य या विनिद्रितस्य सर्वबीजधाम्नि मौनमुद्रिते । समन्ततो विजृम्भणाय भासनाय चाभवन् महद्विधाय चेष्टितं ममेयमिष्टदेवता ॥ २.४॥ महेशगर्भतः समस्तभूतबीजकोशतः किरन्त्यशेषविश्वमप्यपारदिव्यवैभवा । विचित्रचेष्टयाऽऽद्यया विधूतनाथनिद्रया जगन्नुता जयत्यसावनादिशक्तिरद्भुता ॥ २.५॥ भवं भणन्ति तान्त्रिकास्त्वदाश्रयं तमव्ययं समामनन्ति वैदिकाः सदर्चिते सदाह्वयम् । न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवे- द्भिदेयमादिमं पदं पुमान्परं नपुंसकम् ॥ २.६॥ स चेद्भवोऽभिधानतो भवान्यसि त्वमव्यये समीर्यते स सद्यदि त्वमम्ब भण्यसे सती । न तेऽस्ति भावता न शक्तिरूपिणी हि विद्यसे न वेद्मि कालिके कथं सतोऽसतश्च भिद्यसे ॥ २.७॥ जगद्विधानकार्यतः पुरा सुरासुरस्तुते त्वमम्ब जीवितं भवस्यभावमूलवादिनाम् । विकल्पवर्जिता मतिः प्रबोधमूलवादिनां रसोऽनपेक्ष उत्तमः प्रमोदमूलवादिनाम् ॥ २.८॥ भवत्यसावतो भवान्यनादिरन्तवर्जिता जगन्ति माति नित्यमोरसौ तदभ्युधाय्युमा । रसात्मिकोश्यतेऽखिलैरसौ ततः शिवोच्यते परैवमीशितुश्चितिस्त्रिधा बुधैरुदीर्यते ॥ २.९॥ चितिः परैव कामना रसेन केनचिद्युता चितिः परैव सर्वदाऽप्यनस्त्यजस्य तु क्रिया । चितिः परैव गोचरावभासिका मतिः स्मृता त्रितैवमन्यथा चितेश्चिरन्तनैरुदीर्यते ॥ २.१०॥ चिकीर्षति प्रभौ ज्वलत्त्वदीयकीलसन्ततेर्- विकीर्णधूमजालमेतदम्बरस्थलं ततम् । विसृष्टितः पुराऽसि या शिवप्रभुत्वरूपिणी पृथक्प्रभुश्च लक्षिताऽसि सा सवित्रि पुष्करे ॥ २.११॥ पुनर्विपाकतो घनीभवद्भिरक्षिगोचरै- स्ततस्ततः समुज्ज्वलैः खसूक्ष्मरेणुगोलकैः । अजाण्डवृक्षकोटिकन्दबृन्दवद्व्यधाः पुरा महेशदृष्टिमय्युमेऽम्ब मण्डलानि भास्वताम् ॥ २.१२॥ तपोऽग्निधूमजालके भवन्ति तैजसाणवो भवन्ति जीवनाणवो भवन्ति पार्थिवाणवः । क्रमेण तद्विसृष्टिरीशशक्तिपाकवैभवे सहस्रभानुमण्डलं तु गोचरादि गृह्यताम् ॥ २.१३॥ मयूखमालिमण्डले निधाय पादमुग्रया मयूखशक्तिरूपया त्वयाऽम्ब चेष्टमानया । खकोशतः समाहृतैः पुनस्त्रिरूपरेणुभिर्- व्यधायि मङ्गलादिभिः सह ग्रहैरियं मही ॥ २.१४॥ विसर्जनेन भूयसाऽपि देव्यतृप्तयेयता विचेष्टितं विलक्षणं पुनर्व्यधीयत त्वया । इहान्तरे वसुन्धरामयूखमालिबिम्बयोर्- अमुष्य कर्मणः सवित्रि चन्द्रमण्डलं फलम् ॥ २.१५॥ वधूपुमाकृती ततो बभूवथुर्युवां शिवे त्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे । अहो प्रभुं नभस्तनुं त्वदीयगर्भसम्भवा- द्भणन्ति कालि तत्र चित्रभाषणास्त्वदात्मजम् ॥ २.१६॥ पुमानथो स बिम्बतो हिरण्मयो दिवाकरे धियाऽपि नैव केवलं हिरण्मयेन वर्ष्मणा । इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभो- रिहान्तरे नृणां पुनर्वपुस्तदम्ब बिम्बितम् ॥ २.१७॥ स्वयं च काञ्चनप्रकाशवर्ष्मणा प्रभाकरे तथाऽन्तरे नृणां च तस्य बिम्बिताऽसि सन्निधौ । रसस्य देवताऽसि देवि पुष्करे दिवाकरे मयूखदेवताऽसि भोगदेवताऽसि देहिषु ॥ २.१८॥ विसर्जनेन भूयसा नभस्यमुत्र भास्करे महीषु चाम्बिके युवां विधाय देहिनो बहून् । क्षितेः सुधाकरं गतान् पितॄन् विनेतुमव्यये तनू च तत्र बभ्रथुः प्रपञ्चराज्ञि मायया ॥ २.१९॥ नभोऽन्तरे हिरण्मयं विभुं प्रचक्षते हरं दिनेशबिम्बबिम्बितं भणन्ति पङ्कजासनम् । इहास्मदन्तरालयं वदन्ति विष्णुमच्युतं सवित्रि जन्मिनामियं त्रिमूर्तिवादिधोरणि ॥ २.२०॥ नभोऽन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरं दिनेशबिम्बपूरुषं हिरण्यगर्भमाख्यया । विराजमानमक्षरं विराजमन्तरे नृणां सवित्रि तत्त्ववेदिनामियं तु नामकल्पना ॥ २.२१॥ हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिके दिवाकरस्य मण्डले तु बिम्बितं पुरन्दरम् । शरीरिणामिहान्तरेऽग्निमालपन्ति भासुरं चिरन्तनोक्तिदर्शिनामियं शिवे प्रणालिका ॥ २.२२॥ सरोरुहाक्षवाग्वधूमनोहरौ तु पूर्वव- त्सुधांशुबिम्बपूरुषस्तु रुद्रसंज्ञकः शिवे । हिरण्मयोऽन्तरिक्षजात ईश्वरः सदाशिवः सदेव वस्तु काञ्चनाङ्गि पञ्चमूर्तिवादिनाम् ॥ २.२३॥ प्रभोः प्रमाऽऽदितस्ततः प्रमावती स्वयं पृथग् विहायसा शरीरिणी प्रभौ ततो हिरण्मये हिरण्मयाङ्गनाकृतिर्नभोऽन्तरे च भास्करे तथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा ॥ २.२४॥ मदीयमम्बिकाऽखिलस्य विष्टपस्य दुष्टधी- दविष्ठपादपङ्कजा धुनोतु कष्टजालकम् । इमे च कोमलैः पदैरमूल्यतल्पशालिन- स्तदीयमञ्चरूपतां भजन्तु पञ्चचामराः ॥ २.२५॥ 50
%c01-q3/Sarada.Susarla/uma-c01-q3-itrans.txt medskip तृतीयः स्तबकः सशरीरायाश्च साधनम् (तनुमध्यावृत्तम्) शुभ्रस्मितलेशो मातुर्मरुतान्नः । अन्तस्तिमिराणामन्तं विदधातु ॥ ३.१॥ आद्यौ भुवनानां मातापितरौ तौ । देवासुरमर्त्यैर्वन्द्यावविनिन्द्यौ ॥ ३.२॥ ब्रूते पृथगेकस्तौ विग्रहवन्तौ । आहैकशरीरं द्वन्द्वं कविरन्यः ॥ ३.३॥ शक्तिं तनुशून्यामीशं च पुमांसम् । वक्ति प्रमदायां सन्देहयुतोऽन्यः ॥ ३.४॥ ईशं च तमेके सन्मात्रमुशन्ति । ब्रह्मैकमथान्ये गायन्ति न शक्तिम् ॥ ३.५॥ केचित्तनुहीनं प्रज्ञायुतमीशम् । शक्तिं विदुरस्य प्रज्ञामविकुण्ठाम् ॥ ३.६॥ उक्तं दधतस्तैः केचित् पुनराहुः । मायातनुबन्धं नाथस्य न शक्तेः ॥ ३.७॥ नित्यं सशरीरौ येषां पितरौ तौ । एकोऽप्यथवा तान् प्रत्याह निसर्गः ॥ ३.८॥ मातापितरौ यत् तावेकशरीरौ । चित्रप्रथनार्था सा काचन लीला ॥ ३.९॥ सन्मात्रकथानां कार्ये मनुजादौ धीस्वान्तविकासः स्यात्कारणहीनः ॥ ३.१०॥ अद्वैतिभिरन्या मायाऽऽश्रयणीया । शक्तेरतिरिक्ता सा किं किमु वादैः ॥ ३.११॥ न स्यात् पृथगात्मा शक्तेः किमुपाधेः । चक्षुः श्रितचित्तेर्विश्वाकृतिता वा ॥ ३.१२॥ एकान्तविदेहौ तौ चेदतिसूक्ष्मौ । लीलातनुबन्धाशक्तावभिधेयौ ॥ ३.१३॥ भक्ताननुगृह्णन् दिव्याद्भुतलीलः । तद्विग्रहबन्धो बोध्यो लसदर्थः ॥ ३.१४॥ स्त्रीत्वं यदि नेष्टं पुंस्त्वं कुत इष्टम् । ना वा किमु नारी न स्यादनुमेया ॥ ३.१५॥ तस्मात् पितरौ तौ वाच्यौ मतिमन्तौ । सूक्ष्मावपि भूयो लीलातनुमन्तौ ॥ ३.१६॥ नास्मत्तनुवत्ते शक्तीश्वरमूर्ती । एकाऽमृतरूपा त्वन्या प्रणवात्मा ॥ ३.१७॥ दिव्यं घनतेजः कुर्वद् ध्वनिमन्तः । सम्पश्यदशेषं मूर्तिः प्रणवात्मा ॥ ३.१८॥ दिव्यो घनसोमः स्यंदन् रसमन्तः । भुञ्जन् भुवनौघं पीयूषशरीरम् ॥ ३.१९॥ बोधोऽनवलम्बो दिव्यं खलु तेजः । मोदः परिशुद्धो दिव्यः खलु सोमः ॥ ३.२०॥ सोमांशमहोंशौ यातो घनभावम् । पित्रोर्भुवनानां सङ्कल्पमहिम्ना ॥ ३.२१॥ आराधयसीशं तं चिन्मयकायम् । आनन्दमयाङ्गी त्वम् देवि किलेयम् ॥ ३.२२॥ दिव्यं तव कायं दिव्ये तव वस्त्रे । दिव्यानि तवाम्ब स्वर्णाभरणानि ॥ ३.२३॥ यद्देवि विलोक्याऽस्यप्राकृतकाया । युक्तीः समतीता सेयं तव माया ॥ ३.२४॥ नव्यास्तनुमध्याः प्रत्नां तनुमध्याम् । विद्वत्सदसीमाः सम्यक्प्रथयन्तु ॥ ३.२५॥ 75
%c01-q4/Prasad.Kuppa/c01-q4।txt medskip चतुर्थः स्तबकः आध्यात्मिकविभूतयः (गीतिवृत्तम्) अमृतांशुबिंबसाराद् भूयोऽपि विनिर्गतो भृशं सूक्ष्मः । सारो गौरीवदनाद् दरहासो हरतु दुःखजालं नः ॥ ४.१॥ कुलकुण्डे प्राणुवन्ती चेतन्ती हृदि समस्तजन्तूनाम् । मूर्धनि विचिन्तयन्ती मृत्युञ्जयमहिषि विजयते भवती ॥ ४.२॥ तेजोजलान्नसारैस्त्रयोऽणवो मूलहृदयमस्तेषु पाकात्ते निष्पन्नास्त्रैलोक्यव्यापिकेऽंब देहवताम् ॥ ४.३॥ पूर्णे शरीरशिल्पे द्वारेण ब्रह्मरन्ध्रसंज्ञेन । नाडीपथेन गत्वा तैजसमणुमाविशस्यमेयबले ॥ ४.४॥ अंशेनाविश्यादौ यासि पुनस्तं ततश्च निर्यासि । मार्गाभ्यां द्वाभ्यां त्वं नाड्याः पश्चात् पुरश्च सिद्धाभ्याम् ॥ ४.५॥ यातायातविहारे मातस्तस्मिन् भवत्युपाधिस्ते आरभ्य मस्तकस्थलमामूलाधारमस्थिपञ्जरिका ॥ ४.६॥ नृतनुषु विहरन्तीं त्वाम् उपाधिवीणाकृतेर्जगन्मातः । सादृश्यात् कुण्डलिनीं परोक्षवादप्रियाः प्रभाषन्ते ॥ ४.७॥ नभसः शीर्षद्वारा प्रवहन्तीं य इह विग्रहे शक्तिम् । अनुसन्दधाति नित्यं कृतिनस्तस्येतरैरलं योगैः ॥ ४.८॥ सर्वेषु विशसि तुल्यं निर्गच्छसि तुल्यमम्ब भुवनानाम् । ज्ञाता चेदसि शक्त्यै न ज्ञाता चेद्भवस्यहङ्कृत्यै ॥ ४.९॥ अवतरणं ध्यातं चेद् आरोहणमद्भुतं भवेच्छक्तेः । यस्मिन्निदं शरीरं भवति महद्वैद्युताग्नियन्त्रमिव ॥ ४.१०॥ आरोहणमध्यातृषु हृदयेऽहङ्कारमात्रनिष्पत्यै । तदनु शरीरमिदं स्यात् सुखाय दुःखाय वा यथाभोगम् ॥ ४.११॥ या व्यक्तिता जनिमतामहङ्कृतिः सकलभेदधीभूमिः । पृथगिव तवाम्बिके सा सत्तैवोपाधिसंश्रयाद् भान्ती ॥ ४.१२॥ एतामाहुरविद्यां बीजं संसारवृक्षराजस्य । सर्वरसफलयुतस्य प्रारब्धजलेन देवि दोहदिनः ॥ ४.१३॥ व्यक्तित्वार्पकदेहे निम्ने कुल्येव जनिमतां मातः । प्रवहत्यनारतं ते शक्तिश्चित्राणि देवि तन्वाना ॥ ४.१४॥ सारमपामणुभूतं हृदयस्थं सूरयो विदुश्चित्तम् । श्रेष्ठं प्राणं केचन पञ्चानिलमूलभूतमाहुरिमम् ॥ ४.१५॥ मन एव चित्तसंज्ञं व्यवहरतां विभजनानभिज्ञानाम् । कविलोकव्यवहारस्तदधीनस्तत्त्वधीर्भवत्यन्या ॥ ४.१६॥ तदनाहतस्य विलसद् दक्षिणतो दहरनामकगुहायाम् । चित्तं कुलकुण्डात्ते काऽप्यनुगृह्णाति देवि रश्मिकला ॥ ४.१७॥ चित्तमणु श्लिष्टं ते कलयाऽङ्गुष्ठप्रमाणमिव भासा । दर्पणममलब्रह्मप्रतिबिम्बाकर्षकं शिवे भवति ॥ ४.१८॥ अन्तरमावर्ताभं प्रतिबिम्बमकायमेतदीशस्य । अंगुष्ठाभं प्राहुर्मानेनोपाधिचैत्तभासस्ते ॥ ४.१९॥ दम्पत्योर्वां रूपप्रतिबिम्बौ चक्षुषोः शिवे भवतः । कुलकुण्डे हृदये चाप्यरूपयोरेव कश्चिदुल्लासः ॥ ४.२०॥ चित्तमणीयो वित्तं य इदं मूल्ये प्रपञ्चतोऽप्यधिकम् । हृदयगुहायां निहितं जानीते स विजहाति बहिराशाः ॥ ४.२१॥ अप्राप्ता मूर्धानं हृदयात् सम्प्रस्थिता धृता नाड्या । त्वद्रुचिरुक्ता बुद्धिस्त्वयि निष्ठा भवति देवि तन्निष्ठा ॥ ४.२२॥ अन्नमयाणुं प्राप्तं धीज्योतिश्चन्द्रमार्कमिव तेजः । परिभाष्यते महेश्वरि मन इति सङ्कल्पसम्भवस्थानम् ॥ ४.२३॥ सङ्कल्पे सङ्कल्पे चिच्छक्तिं मनसि विस्फुरन्तीं त्वाम् । य उपास्ते स जनस्ते गृह्णाति महेशवल्लभे चरणम् ॥ ४.२४॥ आधारचक्रशयने ममेह निद्रां विहाय विचलन्तीम् । गीतय एताः परमामुपतिष्ठन्तां जगद्विभोः कान्ताम् ॥ ४.२५॥ 100 ॥ समाप्तं च प्रथमं शतकम् ॥
%c02-q1/Ravi.Shamavedam/uma-c02-q1।txt medskip द्वितीयं शतकम् पञ्चमः स्तबकः परिणयः (उपजातिवृत्तम्) श्रीखण्डचर्चामिव कल्पयन्त्यो मुहुः कपोलेषु सखीजनस्य । श्रीकण्ठकान्ताहसिताङ्कुराणां श्रीमन्ति कुर्वन्तु जगन्ति भासः ॥ ५.१॥ कीर्तिर्वलक्षा कुसुमायुधस्य स्वर्णाद्रिकोदण्डजयोन्नतस्य । दरस्मितश्रीर्द्विरदास्यमातुर्- द्राघीयसीं वो वितनोतु भूतिम् ॥ ५.२॥ प्रमथ्यमानामृतराशिवीचि- प्रोद्गच्छदच्छाच्छतुषारकल्पाः । युष्माकमिच्छां विदधत्वमोघां विघ्नेशमातुर्दरहासलेशाः ॥ ५.३॥ चन्द्रातपः कश्चन सम्प्रसन्नो महेशनेत्रातिथितर्पणो नः । मनोभिलाषं सफलीकरोतु महेश्वरीहासलवप्रकाशः ॥ ५.४॥ वलक्षवक्षोजपटाञ्चलेन चलेन सार्धं कृतकेलयो नः । पुरत्रयारातिकलत्रहास- भासो निरासं विपदां क्रियासुः ॥ ५.५॥ भूयासुरायासहराणि तानि स्मितानि भूतेशमृगीदृशो नः । येषां त्विषो बिभ्रति दिग्वधूटी- गण्डेषु कर्पूरपरागलीलाम् ॥ ५.६॥ कुर्वन्तु कामं सफलं (त्व) मदीयं कुलाद्रिकन्याहसितानि तानि । येषां मयूखैः क्रियते सिताद्रेर्- उद्यानवाटीषु नवो वसन्तः ॥ ५.७॥ आम्रेडितं भूषणचन्द्रभासां नासाविभूषामहसां द्विरुक्तिः । पुरारिनारीस्मितकान्तयो मे पूर्णानि कुर्वन्तु समीहितानि ॥ ५.८॥ निर्माय विश्वालयमम्ब शर्व- स्त्वया समं शिल्पविदा स शिल्पी । विहर्तुमिच्छन्नयि वोढुमैच्छ- न्नारीं भवन्तीं पुरुषो भवंस्त्वाम् ॥ ५.९॥ दिव्यं दुकूलं धवलं दधाना वेण्या फणीन्द्रोपमया लसन्ती । प्रफुल्लराजीवविलोचना त्वं प्रपञ्चभर्तुर्नयनान्यहार्षीः ॥ ५.१०॥ प्रत्यङ्गबन्धं ज्वलदुत्तमं ते भुजङ्गराजोपमवेणिरूपम् । आत्मैकनिष्ठस्य च विश्वभर्तुर्- आराधयामास विलोचनानि ॥ ५.११॥ अभूस्त्वमाद्यस्य मनोमदाय स चापि ते प्रीतिपदं बभूव । न केवलं वां सकलस्य चासी- द्दाम्पत्यबन्धस्य तदम्ब बीजम् ॥ ५.१२॥ तवातिकान्ता नयानान्तवृत्ति- र्हासः पुरारेश्च नवेन्दुहारी । उभौ विवाहोत्सवपूर्वरङ्गं निर्वर्तयामासतुरादिरामे ॥ ५.१३॥ दातुं प्रभुः सान्त्वयितुं समर्थः कर्तुं क्षमस्तर्जयितुं च शक्तः । संरक्षतान्मां तव सर्ववन्द्ये करस्तुषारांशुभृता गृहीतः ॥ ५.१४॥ स्प्रष्टुं न शक्या परमे परैस्त्वं स चान्यया चिन्तयितुं न शक्यः । त्वमेव शर्वस्य स एव तेऽम्ब दाम्पत्यमेवं युवयोस्तु सत्यम् ॥ ५.१५॥ निजाद्वतंसेन्दुत इन्दुमन्य- मुत्पाद्य ते शम्भुरदाद्वतंसम् । मूर्तामिवासौ शुभगात्रि रात्रिं प्राप्य त्वदीयां कबरीं चकासे ॥ ५.१६॥ बभूविथागेन्द्रगृहे यदा त्वं स चेश्वरस्तत्र चकार वासम् । विलोकमानस्तव देवि विद्युत् पाञ्चालिकायाः कमनीयभावम् ॥ ५.१७॥ सिद्धं स वां साधयितुं प्रवृत्तो योगं प्रदग्धो मदनश्च कल्पे । वशीति कीर्तिं गिरिशस्य भर्तुं तुभ्यं त्वपर्णेति यशश्च कर्तुम् ॥ ५.१८॥ घोरं तपश्चेद्रचितं त्वयाऽपि प्राग्रूपभर्तुः समनुग्रहाय । विहाय यत्नं क इहाखिलाऽम्ब सम्बद्धमप्यर्थमुपैतु जन्तुः ॥ ५.१९॥ ज्वलत्कपर्दो दहनाङ्कभालः कपालमाली करिकृत्तिवासाः । भुजङ्गभूषो भसिताङ्गरागः पुष्पेषु वैरी परुषाट्टहासः ॥ ५.२०॥ श्मशानवासी पुरुषस्त्रिशूली जहार ते चेदनघाङ्गि चेतः । दृष्टान्तमर्थोऽयमवाप नैव प्रीतिर्बहिःकारणमाश्रितेति ॥ ५.२१॥ रूपं पुरारेरथवा तदेतत् सेयं च चेष्टा समयान्तरेषु । कान्तं वपुः कान्ततराश्च लीला- स्त्वया समं खेलितुमेष धत्ते ॥ ५.२२॥ प्रहृष्टयक्षः समवेतसिद्धो नृत्यद्गणेन्द्रो विकसन्मुनीन्द्रः । भूयोऽपि योगो युवयोर्हिमाद्रौ बभार मातर्महमद्वितीयम् ॥ ५.२३॥ महेश्वरस्त्वां परिणीय लेभे यावात्मजौ द्वावनघाङ्गि मुख्यौ । एकस्तयोर्भ्राम्यति विश्वमत्तुं भूभृत्तटीराश्रयते बतान्यः ॥ ५.२४॥ सङ्कीर्तयन्त्यो जगतां जनन्याः कल्याणवार्ताः कमनीयकीर्तेः । इमाः प्रमोदाय सतां भवन्तु सन्दर्भशुद्धा उपजातयो नः ॥ ५.२५॥ 125
%c02-q2/Bhoga.Pappu/uma-02-q2-itrans.txt medskip षष्ठः स्तबकः माहाभाग्यम् (मदलेखावृत्तम्) हर्तारः शशिकीर्तेः कर्तारो नवभासाम् । भर्तारो मम सन्तु स्कन्दाम्बादरहासाः ॥ ६.१॥ दिग्वल्लीष्वतिशुभ्रां कुर्वन्तः कुसुमर्द्धिम् । भूयासुस्तव भूत्यै मन्मातुः स्मितलेशाः ॥ ६.२॥ एकश्चेत्तव शक्तो ब्रह्माण्डस्य भवाय । भर्गप्रेयसि हासः किं स्तोत्रं तव भूयः ॥ ६.३॥ उद्याने वियदाख्ये कालि त्वां विहरन्तीम् । गोलैः कन्दुककल्पैरल्पा वाक्किमु माति ॥ ६.४॥ खं क्रीडाभवनं ते कः कार्यालय एषः । पृथ्वीयं बहुलान्ना मातर्भोजनशाला ॥ ६.५॥ बुद्धीनामसि दात्री सिद्धीनामसि नेत्री । वीर्याणामसि पेटी कार्याणामसि धाटी ॥ ६.६॥ विद्यानामसि भावो हृद्यानामसि हावः । देवानामसि लीला दैत्यानामसि हेला ॥ ६.७॥ गन्तॄणामसि चेष्टा स्थाणूनामसि निष्ठा । लोकानामसि मूलं लोकादेरसि जालम् ॥ ६.८॥ देवी व्यापकतेजः शक्तिस्तत्त्वविचारे । अत्यन्तं सुकुमारी नारी मूर्तिविचारे ॥ ६.९॥ क्व ज्योतिर्महतोऽस्मादाकाशादपि भूयः । तत्सर्वं विनयन्ती तन्वङ्गी क्व नु नारी ॥ ६.१०॥ देवेन्द्राय विभुत्वं सूर्यायोस्रसहस्रम् । ऊष्माणं दहनाय ज्योत्स्नामोषधिराजे ॥ ६.११॥ वातायामितवीर्यं विस्तारं गगनाय । सान्द्रत्वं वसुधायै तोयाय द्रवभावम् ॥ ६.१२॥ माहाभाग्यमपारं कोटिभ्यो विबुधानाम् । चित्राः काश्चन सिद्धीर्लक्षेभ्यो मनुजानाम् ॥ ६.१३॥ स्थाणुभ्यो धृतिशक्तिं गन्तृभ्यो गतिशक्तिम् । कस्माच्चिन्निजकोशादेका देवि ददाना ॥ ६.१४॥ आश्चर्यं विदधाना सर्वं वस्तु दधाना । हन्त त्वं मम मातः काचित्कोमलगात्री ॥ ६.१५॥ श्रोणीभारनतायां कस्याञ्चित्तनुगात्र्याम् । ईदृक्षा यदि शक्तिः कावेतो ननु माया ॥ ६.१६॥ रूपं ते तनुगात्रं वाणी ते मृदुनादा । चापं ते मधुरेक्षुः पाणिस्ते सुकुमारः ॥ ६.१७॥ लोले लोचनयुग्मे भीरुत्वं प्रकटं ते । ब्रह्माण्डं त्वदधीनं श्रद्धत्तामिह को वा ॥ ६.१८॥ भ्रूभङ्गं कुरुषे चेन्मुग्धे गौरि मुखाब्जे । भूतान्यप्ययि बिभ्यत्येजेरन्नपि ताराः ॥ ६.१९॥ शुद्धान्तेश्वरि शम्भोरिच्छा चेत्तव काऽपि । घोरोऽग्निस्तृणगर्भाद्घोराग्नेरपि शैत्यम् ॥ ६.२०॥ द्रष्टुं विश्वमपारं भारस्ते दयितस्य । कर्तुं कार्यमशेषं श्रीमातस्तव भारः ॥ ६.२१॥ साक्षी केवलमीशः कर्तुं भर्तुमुताहो । हर्तुं वाऽखिलमम्ब त्वं साक्षाद्धृतदीक्षा ॥ ६.२२॥ कारङ्कारमुमे यद् ब्रह्माण्डानि निहंसि । तन्मन्ये सुरमान्ये बालैवाऽम्ब सदा त्वम् ॥ ६.२३॥ लीलोज्जीवितकामे रामे शङ्करसक्ते । त्वत्पादार्चनसक्तं भक्तं मां कुरु शक्तम् ॥ ६.२४॥ एताः पावनगन्धाः सर्वेशप्रमदे ते । हैरम्ब्यो मदलेखाः सन्तोषाय भवन्तु ॥ ६.२५॥ 150
%c02-q3/Amrutha.Kuppa/c02-q3-b.txt medskip सप्तमः स्तबकः व्योमशरीरा, मातृकादिविभूतयश्च (वसन्ततिलकावृत्तम्) वाणीसरोरुहदृशो हयराजहंसो वक्त्रारविन्दनिलयाद्बहिरागतायाः । आलापकालदरहास इह स्थितानां क्षेमं करोतु सुतरां हरसुन्दरीयः ॥ ७.१॥ नादोऽसि वागसि विभाऽसि चिदस्यखण्डा खण्डीभवन्त्यपि चिदस्यखिलेन्द्रकान्ते । तत्तादृशीं निखिलशक्तिसमष्टिमीशे त्वामन्तरिक्षपरिकॢप्ततनुं नमामि ॥ ७.२॥ विश्वप्रसिद्धविभवास्त्रिषु विष्टपेषु याः शक्तयः प्रविलसन्ति परःसहस्राः । तासां समष्टिरतिचित्रनिधानदृष्टिः सृष्टिस्थितिप्रलयकृद् भुवनेश्वरि त्वम् ॥ ७.३॥ जाने न यत्तव जगज्जनयित्रि रूपं सङ्कल्प्यते किमपि तन्मनसो बलेन । सङ्कल्पितस्य वपुषः श्रितशोकहन्त्रि विन्यस्यते तव वचोतिगधाम नाम ॥ ७.४॥ कामं वदन्तु वनितामितिहासदक्षा- स्त्वां सर्वलोकजनयित्रि सदेहबन्धाम् । सत्यं च तद्भवतु सा तव काऽपि लीला दिव्यं रजस्तु तव वास्तविकं शरीरम् ॥ ७.५॥ भूजन्मपांसुभिरगर्हितशुद्धरूपा या काऽपि पांसुपटली विपुलेऽन्तरिक्षे । सा ते तनुः सुमहती वरदे सुसूक्ष्मा तामेव देवसरणिं कथयन्ति धीराः ॥ ७.६॥ या देवि देवसरणिर्भवमग्नदुर्गा वैरोचनीति कथिता तपसा ज्वलन्ती । राजीवबन्धुमहसा विहिताङ्गरागा सा ते तनुर्भवति सर्वसुपर्ववर्ण्ये ॥ ७.७॥ प्राणास्तवात्र हृदयं च विराजतेऽत्र नेत्राणि चात्र शतशः श्रवणानि चात्र । घ्राणानि चात्र रसनानि तथा त्वचश्च वाचोऽत्र देवि चरणानि च पाणयोऽत्र ॥ ७.८॥ सर्वत्र पश्यसि शृणोषि च सर्वतोऽम्ब सर्वत्र खादसि विजिघ्रसि सर्वतोऽपि । सर्वत्र च स्पृशसि मातरभिन्नकाले कः शक्नुयान्निगदितुं तव देवि भाग्यम् ॥ ७.९॥ सर्वत्र नन्दसि विमुञ्चसि सर्वतोऽम्ब सर्वत्र संसरसि गर्जसि सर्वतोऽपि । सर्वत्रदेवि कुरुषे तव कर्मजाल- वैचित्र्यमीश्वरि निरूपयितुं क्षमः कः ॥ ७.१०॥ विश्वाम्बिके त्वयि रुचां पतयः कियन्तो नानाविधाब्धिकलिता क्षितयः कियत्यः । बिम्बानि शीतमहसां लसतां कियन्ति नैतच्च वेद यदि को विबुधो बहुज्ञः ॥ ७.११॥ अव्यक्तशब्दकलयाऽखिलमन्तरिक्षं त्वं व्याप्य देवि सकलागमसम्प्रगीते । नादोऽस्युपाधिवशतोऽथ वचांसि चासि ब्राह्मीं वदन्ति कवयोऽमुकवैभवां त्वाम् ॥ ७.१२॥ नानाविधैर्भुवनजालसवित्रि रूपैर्- व्याप्तैकनिष्कलगभीरमहस्तरङ्गैः । व्यक्तं विचित्रयसि सर्वमखर्वशक्ते सा वैष्णवी तव कला कथिता मुनीन्द्रैः ॥ ७.१३॥ व्यक्तित्वमम्ब हृदये हृदये दधासि येन प्रभिन्न इव बद्ध इवान्तरात्मा । सेयं कला भुवननाटकसूत्रभर्त्रि माहेश्वरीति कथिता तव चिद्विभूतिः ॥ ७.१४॥ आहारशुद्धिवशतः परिशुद्धसत्त्वे नित्यस्थिरस्मृतिधरे विकसत्सरोजे । प्रादुर्भवस्यमलतत्त्वविभासिका या सा त्वं स्मृता गुरुगुहस्य सवित्रि शक्तिः ॥ ७.१५॥ हव्यं यया दिविषदो मधुरं लभन्ते कव्यं यया रुचिकरं पितरो भजन्ते । अश्नाति चान्नमखिलोऽपि जनो ययैव सा ते वराहवदनेति कलाऽम्ब गीता ॥ ७.१६॥ दुष्टान्निहंसि जगतामवनाय साक्षा- दन्यैश्च घातयसि तप्तबलैर्महद्भिः । दम्भोलिचेष्टितपरीक्ष्यबला बलारेः शक्तिर्न्यगादि तव देवि विभूतिरेषा ॥ ७.१७॥ सङ्कल्परक्तकणपानविवृद्धशक्त्या जाग्रत्समाधिकलयेश्वरि ते विभूत्या । मूलाग्निचण्डशशिमुण्डतनुत्रभेत्र्या चामुण्डया तनुषु देवि न किं कृतं स्यात् ॥ ७.१८॥ त्वं लोकराज्ञि परमात्मनि मूलमाया शक्रे समस्तसुरभर्तरि जालमाया । छायेश्वरान्तरपुमात्मनि योगमाया संसारसक्तहृदयेष्वसि पाशमाया ॥ ७.१९॥ त्वं भूतभर्तरि भवस्यनुभूतिनिद्रा सोमस्यपातरि बिडौजसि मोदनिद्रा । सप्ताश्वबिम्बपुरुषात्मनि योगनिद्रा संसारमग्नहृदयेष्वसि मोहनिद्रा ॥ ७.२०॥ विष्णुश्चकार मधुकैटभनाशनं यन्- मुक्तः सहस्रदलसम्भवसंस्तुता सा । काली घनाञ्जननिभप्रभदेहशालि- न्युग्रा तवाम्ब भुवनेश्वरि कोऽपि भागः ॥ ७.२१॥ विद्युत्प्रभामयमधृष्यतमं द्विषद्भि- श्चण्डप्रचण्डमखिलक्षयकार्यशक्तम् । यत्ते सवित्रि महिषस्य वधे स्वरूपं तच्चिन्तनादिह नरस्य न पापभीतिः ॥ ७.२२॥ शुम्भं निशुम्भमपि या जगदेकवीरौ शूलाग्रशान्तमहसौ महती चकार । सा कौशिकी भवति काशयशाः कृशोद- र्यात्माङ्गजा तव महेश्वरि कश्चिदंशः ॥ ७.२३॥ माये शिवे श्रितविपद्विनिहन्त्रि मातः पश्य प्रसादभरशीतलया दृशा माम् । एषोऽहमात्मजकलत्रसुहृत्समेतो देवि त्वदीयचरणं शरणं गतोऽस्मि ॥ ७.२४॥ धिन्वन्तु कोमलपदाः शिववल्लभाया- श्चेतो वसन्ततिलकाः कविकुञ्जरस्य । आनन्दयन्तु च पदाश्रितसाधुसङ्घं कष्टं विधूय सकलं च विधाय चेष्टम् ॥ ७.२५॥ 175
%c02-q4/Shailaja.Dhulipala/umasahasram\_ashtamasthabakam.txt medskip अष्टमः स्तबकः चरित्रत्रयम् (अनुष्टुब्वृत्तम्) तमसामभितो हन्ता चण्डिकाहासवासरः । सतां हृदयराजीवविकासाय प्रकल्पताम् ॥ ८.१॥ या निद्रा सर्वभूतानां योगनिद्रा रमापतेः । ईड्यतां सा महाकाली महाकालसखी सखे ॥ ८.२॥ विरिञ्चिना स्तुते मातः कालि त्वं चेन्न मुञ्चसि । मधुकैटभसंहारं करोतु कथमच्युतः ॥ ८.३॥ वासवः काशनीकाशयशोलङ्कृतदिङ्मुखः । महोग्रविक्रमाद्यस्मादासीदाजौ पराङ्मुखः ॥ ८.४॥ यत्प्रतापेन सन्तप्तो मन्ये बाडबरूपभृत् । भगवाननलोऽद्यापि सिन्धुवासं न मुञ्चति ॥ ८.५॥ कुर्वाणे भूतकदनं यस्मिन्विस्मितचेतसः । एष एवान्तको नाहमित्यासीदन्तकस्य धीः ॥ ८.६॥ रणे येनातिरस्कृत्य त्यक्तो राक्षस इत्यतः । चिराय हरिदीशेषु कोणेशः प्राप्तवान्यशः ॥ ८.७॥ यन्नियन्तुमशक्तस्य कुर्वाणमसतीः क्रियाः । नियन्तुरसतामासीत्पाशिनो मलिनं यशः ॥ ८.८॥ बाहुवीर्यपराभूतो यस्य प्रायेण मारुतः । बभूव क्षणदान्तेषु रतान्तपरिचारकः ॥ ८.९॥ निधीन्येन जितो हित्वा राजराजः पलायितः । स्पष्टं बभाण माधुर्यं प्राणानामखिलादपि ॥ ८.१०॥ यस्मिन्नुत्तरपूर्वस्या दिश एकादशाधिपाः । कुण्ठा बभूवुरात्मीयकण्ठोपमितकीर्तयः ॥ ८.११॥ निजशुद्धान्तकान्तानामाननैरेव निर्जितम् । ललज्जे यः पुनर्जित्वा शूरमानी सुधाकरम् ॥ ८.१२॥ बालस्येव क्रीडनकैः प्रवीरैर्यस्य खेलतः । लीलाकन्दुकधीरासीद्देवे दीधितिमालिनि ॥ ८.१३॥ त्रियामाचरशुद्धान्तभ्रूविलासनिवारणम् । विष्णोः सुदर्शनं चक्रं यस्य नापश्यदन्तरम् ॥ ८.१४॥ महिषं तं महावीर्यं या सर्वसुरदेहजा । अवधीद्दानवं तस्यै चण्डिकायै नमो नमः ॥ ८.१५॥ मुखं तवासेचनकं ध्यायं ध्यायं निरन्तरम् । मृगेन्द्रवाहे कालेन मृडस्त्वन्मुखतां गतः ॥ ८.१६॥ कार्तिकीचन्द्रवदना कालिन्दीवीचिदोर्लता । अरुणाम्भोजचरणा जयति त्रिरुचिः शिवा ॥ ८.१७॥ यत्ते कचभरः कालो यद्बाहुर्लोकरक्षकः । युक्तं द्वयं शिवे मध्यस्त्वसन्नाको न नाकराट् ॥ ८.१८॥ स्वदेहादेव या देवी प्रदीपादिव दीपिका । आविर्भभूव देवानां स्तुवतां हर्तुमापदः ॥ ८.१९॥ धैर्यचातुर्यगाम्भीर्यवीर्यसौन्दर्यशालिनीम् । रत्नं नितम्बिनीजातौ मेनिरे यां सुरासुराः ॥ ८.२०॥ यदीयहुङ्कृत्यनले धूम्राक्षोऽभवदाहुतिः । समाप्तिं भीषणं यावन्नैवावाप विकत्थनम् ॥ ८.२१॥ चामुंडाशिवदूत्यौ यत् कले दारुणविक्रमे । भक्षयामासतुर्मूर्तीः कीर्तिभिः सह रक्षसाम् ॥ ८.२२॥ यस्याः शूले जगामास्तं यशः शुम्भनिशुम्भयोः । नमामि विमलश्लोकां कौशिकीं नाम तामुमाम् ॥ ८.२३॥ यशोदागर्भजननाद् यशोदां गोकुलस्य ताम् । वन्दे भगवतीं नन्दां विन्ध्याचलनिवासिनीम् ॥ ८.२४॥ अम्बिकामुपतिष्ठन्तामेताश्चण्डीमनुष्टुभः । प्रसन्नाः साध्वलङ्काराः सिद्धपद्मेक्षणा इव ॥ ८.२५॥ 200 ॥ समाप्तं च द्वितीयं शतकम् ॥
% c03-q1/Vijay.Sai.Reddy/c03-q1।txt medskip तृतीयं शतकम् नवमः स्तबकः मन्दहासः (आर्यावृत्तम्) शारदवलक्षपक्षक्षणदावैमल्यशिक्षकोऽस्माकम् । जागर्तु रक्षणाय स्थाणुपुरन्ध्रीमुखविकासः ॥ ९.१॥ व्याख्यानं हर्षस्य प्रत्याख्यानं शरत्सुधाभानोः । दिशतु हृदयप्रसादं गौरीवदनप्रसादो नः ॥ ९.२॥ अन्तर्गतस्य हर्षक्षीरसमुद्रस्य कश्चन तरङ्गः । हासो हरहरिणदृशो गतपङ्कं मम करोतु मनः ॥ ९.३॥ दिशि दिशि विसर्पदंशुप्रशमिततापं परास्तमालिन्यम् । कुशलानि प्रदिशतु नः पशुपतिहृदयेश्वरीहसितम् ॥ ९.४॥ अन्तर्गतं च तिमिरं हरन्ति विहसन्ति रोहिणीकान्तम् । हसितानि गिरिशसुदृषो मम प्रबोधाय कल्पन्ताम् ॥ ९.५॥ भाषातुषारदीधितिदीधित्या सह विहायसो रङ्गे । विचरन् पुरहरतरुणीदरहासो मे हरत्वेनः ॥ ९.६॥ रुद्राणीदरहसितान्यस्माकं संहरन्तु दुरितानि । येषामुदयो दिवसो भूषापीयूषकिरणस्य ॥ ९.७॥ स्कन्दजननीमुखेन्दोरस्मान् पुष्णातु सुस्मितज्योत्स्ना । मुनिमतिकैरविणीनामुल्लासकथा यदायत्ता ॥ ९.८॥ कमनीयकण्ठमालामुक्तामणितारकावयस्यो नः । कामान् वितरतु गौरीदरहासो नाम धवलांशुः ॥ ९.९॥ अनवद्यकण्ठमालामुक्तावलिकिरणनिवहसहवासी । हरदयितादरहासो हरतु ममाशेषमज्ञानम् ॥ ९.१०॥ ञ इव ज्ञदृश्य उत्तम इलाधराधीशनन्दिनीहासः । पूर्णं करोतु मानसमभिलाषं सर्वमस्माकम् ॥ ९.११॥ आलोकमात्रतो यः शङ्करमसमास्त्रकिङ्करं चक्रे । अल्पोऽप्यनल्पकर्मा हासो नः पातु स शिवायाः ॥ ९.१२॥ स्मरमतरतमीशं यः करोति भावप्रसङ्गचातुर्या । द्विजगणपुरस्कृतोऽव्यात् स शिवाहासप्रवक्ता नः ॥ ९.१३॥ रदवाससा रथी मां शरी करैः पातु पार्वतीहासः । पावकदृशं जिगीषोः पञ्चपृषत्कस्य सेनानीः ॥ ९.१४॥ शिवहृदयमर्मभेदि स्मितं तदद्रीशवंशमुक्तायाः । दशनद्युतिद्विगुणितश्रीकं शोकं धुनोतु मम ॥ ९.१५॥ ब्रह्माण्डरङ्गभाजो नट्याः शिवसूत्रधारसहचर्याः । श्रीवर्धनोऽनुलेपो मुखस्य हासः पुनात्वस्मान् ॥ ९.१६॥ अधरप्रवालशयने नासाभरणप्रभाविलासिन्या । रममाणो हररमणीहासयुवा हरतु नः शोकम् ॥ ९.१७॥ अधरोष्ठवेदिकायां नासाभरणांशुशाबकैः साकम् । कुलमखिलमवतु खेलन्नद्रिसुताहासबालो नः ॥ ९.१८॥ अनुलेपनस्य वीप्सा द्विर्भावः कुचतटीदुकूलस्य । हरतु हृदयव्यथां मे हसितं हरजीवितेश्वर्याः ॥ ९.१९॥ गिरिशाङ्गरागभसितं स्वागतवचसाऽभिनन्ददादरतः । गिरिजालीलाहसितं गरीयसीं मे तनोतु धियम् ॥ ९.२०॥ दयितेन सँल्लपन्त्याः सह तुहिनमरीचिशिशुकिरीटेन । वागमृतबुद्बुदोऽव्यादलसो मामगभुवो हासः ॥ ९.२१॥ शुद्धः कुचाद्रिनिलयादपि मुक्ताहारतो हरपुरन्ध्र्याः । वदनश्रीप्रासादे विलसन् हासोऽलसोऽवतु माम् ॥ ९.२२॥ व्यर्थीभूते चूते गतवति परिभूतिमसितजलजाते । अनिते सिद्धिमशोके कमलेऽपि गलज्जयश्रीके ॥ ९.२३॥ बहुधा बिभेद हृदयं हरस्य बाणेन येन सुमबाणः । तदुमालीलाहसितं मल्लीसुममस्तु मे भूत्यै ॥ ९.२४॥ अमलदरस्मितचिह्नास्ता एताः सर्वमङ्गला आर्याः । कमनीयतमास्वसमामुपतिष्ठन्तामुमां देवीम् ॥ ९.२५॥ 225
%c03-q2/Sriarsha.Pvss/Umashahasram-c03-q02।txt medskip दशमः स्तबकः केशादिपादान्तवर्णनम् (ललितावृत्तम्) सङ्क्षालनाय हरितां विभूतये लोकत्रयस्य मदनाय धूर्जटेः । कात्यायनीवदनतः शनैः शनैर्- निर्यन्ति शुभ्रहसितानि पान्तु नः ॥ १०.१॥ स्वल्पोऽपि दिक्षु किरणान् प्रसारयन् मन्दोऽपि बोधममलं दधत्सताम् । शुभ्रोऽपि रागकृदनङ्गवैरिणो हासः पुराणसुदृशः पुनातु नः ॥ १०.२॥ चेतोहरोऽप्यतिजुगुप्सितो भवेत् सर्वोऽपि जीवकलया यया विना । सा वर्ण्यतां कथमपारचारुता पीयूषसिन्धुरखिलेन्द्रसुन्दरी ॥ १०.३॥ अत्यल्पदेववनितां च पार्थिवैर्- भावैर्वयं तुलयितुं न शक्नुमः तां किं पुनः सकलदेवसुन्दरी । लोकाक्षिपारणतनुप्रभामुमाम् ॥ १०.४॥ वर्षापयोदपटलस्य सान्द्रता सूर्यात्मजोर्मिचयनिम्नतुङ्गता । कालाहिभूमिपतिदीर्घता च ते केशेषु भर्गभवनेश्वरि त्रयम् ॥ १०.५॥ ईशानसुन्दरि तवास्यमण्डला- न्नीचैर्नितान्तममृतांशुमण्डलम् । को वा न कीर्तयति लोष्टपिण्डकं लोके निकृष्टमिह मानवीमुखात् ॥ १०.६॥ बिभ्रत्यमर्त्यभुवनस्थदीर्घिका पङ्केरुहाणि वदनाय ते बलिम् । नो चेत् कथं भवति सौरभं मह- द्भिन्ने सुमेभ्य उरुकेशि ते मुखे ॥ १०.७॥ गीर्वाणलोकतटिनीजलेरुहां गन्धे शुभे भवतु ते मनोरतिः । लोकाधिराज्ञि तव वक्त्रसौरभे लोकाधिराजमनसस्तु सम्मदः ॥ १०.८॥ को भाषतां तव सवित्रि चारुतां यस्याः स्मितस्य धवलद्युतिर्लवः । यस्याः शरीररुचिसिन्धुवीचयः शम्पालताः पृथुलदीप्तिभूमयः ॥ १०.९॥ लोकाम्बिके न विलसन्ति के पुरो मन्दस्मितस्य तव रोचिषां निधेः । ये तु व्यधायिषत तेन पृष्ठतो हन्तैषु काऽपि तिमिरच्छटा भवेत् ॥ १०.१०॥ किं वा रदावलिरुचिर्मुखस्य किं सम्फुल्लता वरधियः किमूर्मिका । सन्तोषपादपसुमं नु शङ्कर- प्रेमस्वरूपमुत देवि ते स्मितम् ॥ १०.११॥ दिक्षु प्रकाशपटलं वितन्वता कोटिप्रभाकरविभक्ततेजसा । नेत्रेण ते विषमनेत्रवल्लभे पङ्केरुहं क उपमाति पण्डितः ॥ १०.१२॥ श्रीकर्ण एष तव लोचनाञ्चले भान्त्या दयादयितया प्रबोधितः । एतं सवित्रि मम कञ्चन स्तवं श्रुत्वा तनोतु भरतावनेः श्रियम् ॥ १०.१३॥ स्वा नासिका भवति युञ्जतां सतां संस्तम्भिनी चलतमस्य चक्षुषः । त्वन्नासिका पुरहरस्य चक्षुषः संस्तम्भिनी भवति चित्रमम्बिके ॥ १०.१४॥ बिम्बप्रवालनवपल्लवादितः पीयूषसारभरणाद् गुणाधिकः । गोत्रस्य पुत्रि शिवचित्तरञ्जकः श्रेष्ठो नितान्तमधराधरोऽपि ते ॥ १०.१५॥ दोर्वल्लिके जननि ते तटित्प्रभा- मन्दारमाल्यमृदुतापहारिके । निश्शेषबन्धदमनस्य धूर्जटेर्- बन्धाय भद्रचरिते बभूवतुः ॥ १०.१६॥ हस्ताब्जयोस्तव मृदुत्वमद्भुतं गृह्णाति ये सदयमेव धूर्जटिः अत्यद्भुतं जननि दाढर्यमेतयोः शुम्भादिदर्पविलयो ययोरभूत् ॥ १०.१७॥ राजन्तु ते कुचसुधाप्रपायिनो लोकस्य मातरनघाः सहस्रशः । एतेषु कश्चन गजाननः कृती गायन्ति यं सकलदायिसत्करम् ॥ १०.१८॥ त्वन्नाभिकूपपतितां दृशं प्रभोर्- नेतुं विनिर्मलगुणे पुनस्तटम् । सौम्यत्वदीयहृदयप्रसारितः पाशः सवित्रि तव रोमराजिका ॥ १०.१९॥ त्वन्मध्यमो गगनलोक एव चेत् त्वद्दिव्यवैभवविदो न विस्मयः । प्राज्ञैर्हि सुन्दरि पुरत्रयद्विष- स्त्वं देहिनी त्रिभुवनेन गीयसे ॥ १०.२०॥ नाभिहृदाद्विगलितः कटीशिला- भङ्गात् पुनः पतति किं द्विधाकृतः । कान्तोरुयुग्ममिषतः सवित्रि ते भावारिपूर इभशुण्डयोः समः ॥ १०.२१॥ जङ्घायुगं तव महेशनायिके लावण्यनिर्झरि जगद्विधायिके । अन्तःपरिस्फुरदगुप्तसुप्रभा- बाणाढ्यतूणयुगलं रतीशितुः ॥ १०.२२॥ पुष्पास्त्रशासननिशान्तराज्ञि ते लोकत्रयस्थखलकम्पनं बलम् । श्रोणीभरेण गमने किल श्रमं प्राप्नोषि केन तव तत्त्वमुच्यताम् ॥ १०.२३॥ यत्रैव नित्यविहृतेरभूद्रमा राजीवमन्दिरचरीति नामतः । तन्मे सदा भणतु मङ्गलं शिवा पादाम्बुसम्भवममेयवैभवम् ॥ १०.२४॥ केशादिपादकमलान्तगायिनीः कन्तुप्रशासननिशान्तनायिका । अङ्गीकरोतु ललिता इमाः कृतीर्- गौरी कवेश्चरणकञ्जसेविनः ॥ १०.२५॥ 250
%c03-q3/Ravi.Shamavedam/uma-c03-q3।txt medskip एकादशः स्तबकः पादादिकेशान्तवर्णनम् (आर्यावृत्तम्) झषकेतुना प्रयुक्तः सम्मोहनचूर्णमुष्टिरीशाने । दरहासो धरदुहितुः करोतु भुवनं वशेऽस्माकम् ॥ ११.१॥ उपजीवद्भिः कान्तेर्लेशांस्ते जगति सुन्दरैर्भावैः । उपमितुमङ्गानि तव प्रायो लज्जेऽम्ब यतमानः ॥ ११.२॥ अवतंसपल्लवतुलां बिभ्राणं श्रुतिनतभ्रुवः शिरसि । चरणं व्रजामि शरणं वामं कामारिललनायाः ॥ ११.३॥ शङ्करनयनोन्मादनमतिमधुरं भाति मतिमता वर्ण्ये । जङ्घायुगं भवत्याः कुसुमपृषत्कस्य सर्वस्वम् ॥ ११.४॥ एकैकलोकने द्वयमन्योन्यस्मरणहेतुतामेति । देवि भवस्य तवोरुः शुण्डा च गजेन्द्रवदनस्य ॥ ११.५॥ नाकोऽवलग्नमीश्वरि कटिरवनिर्भोगिनां जगन्नाभिः । कुक्षौ न केवलं ते बहिरपि वपुषि त्रयो लोकाः ॥ ११.६॥ मन्ये महाकृपाणं तव वेणीमचलपुत्रि मदनस्य । असिधेनुकां विशङ्के निशिततराग्रां तु रोमालिम् ॥ ११.७॥ द्विरदवदनेन पीतं षड्वदनेनाथ सकलभुवनेन । अक्षय्यक्षीरामृतमम्बायाः कुचयुगं जयति ॥ ११.८॥ जगदम्ब लम्बमाना पार्श्वद्वितये तवागलाद्भाति । सान्द्रग्रथितमनोज्ञप्रसूनमालेव भुजयुगली ॥ ११.९॥ जानन्ति शक्तिमसुराः सुषमां सख्यो वदान्यतामृषयः । मृदुतां तवाम्ब पाणेर्वेद स देवः पुरां भेत्ता ॥ ११.१०॥ कम्बुसदृगम्ब जगतां मणिवेषोडुस्रजाकृताकल्पः । कण्ठोऽनघस्वरस्ते धूर्जटिदोर्नयनकर्णहितः ॥ ११.११॥ हरकान्ते वदनं ते दर्शं दर्शं वतंसशीतांशुः । पूर्णोऽप्यवाप कृशतां प्रायेणासूयया शुष्कः ॥ ११.१२॥ चन्द्रं रणाय सकला चपलाक्षीवदनजातिराह्वयताम् । तं तु महसा मुखं ते महेशकान्ते जिगायैकम् ॥ ११.१३॥ वदनकमलं तवेश्वरि कमलजयाद्दर्पितं सुधाभानुम् । निर्जित्य कमलजातेरमलं महदाजहार यशः ॥ ११.१४॥ लावण्यमरन्दाशा भ्रमद्भवालोकबम्भरं परितः । मुग्धं मुखारविन्दं जयति नगाधीशनन्दिन्याः ॥ ११.१५॥ शुद्धेन्दुसारनिर्मितमास्यार्धं ते भवानि भालमयम् । सकलरमणीयसारैर्निर्मितमर्धान्तरं विधिना ॥ ११.१६॥ वदनं तवाद्रिदुहितर्विजिताय नताय शीतकिरणाय । द्वारपपदवीं प्रददा वयमिह दरहासनामधरः ॥ ११.१७॥ ते ते वदन्तु सन्तो नयनं ताटङ्कमालयं मुकुटम् । कवयो वयं वदामः सितमहसं देवि ते हासम् ॥ ११.१८॥ बिम्बाधरस्य शोभामम्बायाः को नु वर्णयितुमीष्टे । अन्तरपि या प्रविश्य प्रमथपतेर्वितनुते रागम् ॥ ११.१९॥ गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः । अधरपुटे त्रिपुरजिते दधासि पियूषमम्ब त्वम् ॥ ११.२०॥ दृक्पीयूषतटिन्यां नासासेतौ विनिर्मिते विधिना । भासां भवति शिवे ते मुखे विहारो निरातङ्कः ॥ ११.२१॥ कमलाविलासभवनं करुणाकेलीगृहं च कमनीये । हरदयिते ते विनितहिते नयने ते जननि विजयेते ॥ ११.२२॥ सर्वाण्यप्यङ्गानि श्रीमन्ति तवेन्दुचूडकुलकान्ते । कविनिवहविनुतिपात्रे श्रोत्रे देवि श्रियावेव ॥ ११.२३॥ अपि कुटिलमलिनमुग्धस्तव केशः पुत्रि गोत्रसुत्राम्णः । बिभ्रत्सुमानि कान्यपि हृदयं भुवनप्रभोर्हरति ॥ ११.२४॥ चरणादिकुन्तलान्तप्रकृष्टसौन्दर्यगायिनीरेताः । अङ्गीकरोतु शम्भोरम्भोजदृगात्मजस्यार्याः ॥ ११.२५॥ 275
%c03-q4/Jayanth.Ganapathiraju/transliteration.txt medskip द्वादशः स्तबकः शृङ्गारवर्णनम् (रथोद्धतावृत्तम्) शर्वधैर्यगुणशातशस्त्रिका शम्बरारिजयकेतुपट्टिका । मन्दहासिकलिका मदापदं पर्वतेन्द्रदुहितुर्व्यपोहतु ॥ १२.१॥ मुक्तभोगिकटकेन पाणिना मुग्धगात्रि परिगृह्य ते करम् । एकदा शशिकिशोरशेखरः सञ्चचार रजताद्रिभूमिषु ॥ १२.२॥ तस्य तत्र परितः परिभ्रमन् वल्लभां वकुलपुष्पचुम्बिनीम् । पार्वति त्वदलकोपमद्युतिः च्ञ्चरीकतरुणो मनोऽधुनोत् ॥ १२.३॥ प्रेयसीं चपलचारुलोचनामुल्लिखन् वपुषि शृङ्गकोटिना । त्वद्विलोकितनिभैर्विलोकितैः धूर्जटेरमदयन्मनो मृगः ॥ १२.४॥ मञ्जुकुञ्जभवनानि मालतीपुष्परेणुसुरभिः समीरणः । पेशला च पिकबालकाकली मोहमीश्वरि हरस्य तेनिरे ॥ १२.५॥ अग्रतः कुसुमशोभिता लताः पार्श्वतस्त्वमगपालबालिके । सर्वतो मदनशिञ्जिनीध्वनिर्धीरता कथमिवास्य वर्तताम् ॥ १२.६॥ कीरकूजितसमाकुले वने शम्भुमम्ब तव पार्श्ववर्तिनम् । आजघान मकरध्वजश्शरैरर्दयन्त्यवसरे हि शत्रवः ॥ १२.७॥ ताडितो मकरकेतुना शरैरंसदेशमवलम्ब्य पणिना । एकहायनकुरङ्गलोचना त्वामिदं किल जगाद शङ्करः ॥ १२.८॥ काकलीकलकलं करोत्यसौ बालचूतमधिरुह्य कोकिला । वाचमुद्गिर सरोजलोचने गर्वमुन्नतमियं विमुञ्चतु ॥ १२.९॥ फुल्लकुन्दमकरन्दवाहिनो मल्लिकामुकुलधूलिधारिणः । कम्पयन्ति शिशवः समीरणाः पल्लवानि हृदयं च तन्वि मे ॥ १२.१०॥ वर्णनेन हृतचक्षुषः श्रियः सुप्रसन्नमधुराकृतीनि ते । अङ्गकानि दयिते भजेऽर्भकः स्वेदबिन्दुहरणेन वाऽनिलः ॥ १२.११॥ तावदेव मम चेतसो मुदे बर्हमेतदनघाङ्गि बर्हिणः । यावदक्षिपथमेष विश्लथो गाहते न कबरीभरस्तव ॥ १२.१२॥ रागवानधर एष सन्ततं निर्मलद्विजसमीपवर्त्यपि । एभिरस्य सहवासतः प्रिये नेषदप्यपगतो निजो गुणः ॥ १२.१३॥ चक्षुषः सुदति ते सगोत्रता कैरवैर्निशि दिने कुशेशयैः । कश्यपैरपि वसिष्ठबान्धवैर्भूसुपर्वण इव द्विगोत्रिणः ॥ १२.१४॥ अल्पयाऽप्यतिसमर्थया स्मितज्योत्स्नया गगनगं हरत्तमः । केवलं सुवचनामृतं किरच्चन्द्रबिम्बमतुषारमाननम् ॥ १२.१५॥ नित्यमब्जमुखि ते परस्परश्लिष्टमश्लथपटीकुटीरगम् । शर्वरीभयविवर्जितं स्थलीचक्रवाकमिथुनं कुचद्वयम् ॥ १२.१६॥ लालनीयमयि देवमौलिभिः कोमलं चरणपल्लवद्वयम् । कच्चिदद्रिपुरुहूतपुत्रिके न स्थली तुदति कर्कशा तव ॥ १२.१७॥ एवमादि वदति त्रिलोचने त्वन्मुखे लसति मौनमुद्रया । आततान जलचारिकेतनो नर्तनं नगमहेन्द्रबालिके ॥ १२.१८॥ देवि ते पुरजितावतंसितः पारिजातकुसुमस्रजा कचः । मानसं पुरजितोऽमुना हृतं स्मर्यते क्व मलिनात्मना कृतम् ॥ १२.१९॥ ब्रह्मचर्यनियमादचञ्चला नायिका यदि लुलायमर्दिनी । नायकश्च सुमबाणसूदनो वेद को रतिरहस्यमावयोः ॥ १२.२०॥ लोचनोत्सवविधौ विशारदे वारिदावरणदोषवर्जिते । मर्दयत्यपि नभोगतं तमः श्यामिकारहितसुन्दराकृतौ ॥ १२.२१॥ भाति शीतकिरणस्तनन्धये प्राणनायकजटाकुटीजुषि । शुभ्रपर्वततटे शुभाङ्गि ते सम्मदाय न बभूव का निशा ॥ १२.२२॥ सन्तु भूषणसुधांशुदीधिति व्यक्तमुग्धमुखशोभयोर्मिथः । तानि तानि गिरिजागिरीशयोः क्रीडितानि जगतो विभूतये ॥ १२.२३॥ मोदकादनपरस्य सृष्टये क्रीडितं जननि वां किमप्यभूत् । शक्तिभृत्तनयरत्नजन्मने किञ्चिदीश्वरि बभूव खेलनम् ॥ १२.२४॥ माधुरीरसपरिप्लुता इमाः काव्यकण्ठविदुषो रथोद्धताः । आदधत्वचलनाथनन्दिनी मानसे कमपि मोदमुत्तमम् ॥ १२.२५॥ 300 ॥ समाप्तं च तृतीयं शतकम् ॥
%c04-q1/Prabhanjan.Pandalaneni/umasahasramu\_301-325।txt medskip चतुर्थं शतकम् त्रयोदशः स्तबकः कटाक्षः (उपजातिवृत्तम्) भवाम्बुधिं तारयताद्भवन्तं हासोऽद्भुतः कुञ्जरवक्त्रमातुः । यो हन्ति बिम्बाधरलङ्घनेऽपि व्यक्तालसत्वो हरितां तमांसि ॥ १३.१॥ सक्तः सदा चन्द्रकलाकलापे सर्वेषु भूतेषु दयां दधानः । गौरीकटाक्षो रमणो मुनिर्वा मदीयमज्ञानमपाकरोतु ॥ १३.२॥ कृपावलोको नगकन्यकायाः करोतु मे निर्मलमन्तरङ्गम् । येनाङ्कितः शङ्कर एकतत्त्वं विश्वं लुलोके जगते जगौ च ॥ १३.३॥ कालीकटाक्षो वचनानि मह्यं ददातु मोचामदमोचनानि । यत्पातपूतं रघुवंशकारं नराकृतिं प्राहुरजस्य नारीम् ॥ १३.४॥ युष्माकमग्र्यां वितनोतु वाणी- मेणीदृगेषा गिरिशस्य योषा । यस्याः कटाक्षस्य विसारि वीर्यं गिरामयं मे विविधो विलासः ॥ १३.५॥ नगात्मजायाः करुणोर्मिशाली दृगन्तसन्तानधुनीप्रवाहः । भीष्मेण तप्तान्भवनामकेन ग्रीष्मेण युष्माँच्छिशिरीकरोतु ॥ १३.६॥ अजस्रमार्द्रा दर्ययाऽन्तरङ्गे यथा भवो निम्नगयोत्तमाङ्गे । सन्तापशान्तिं भवसुन्दरी मे करोतु शीतेन विलोकितेन ॥ १३.७॥ पुण्या सदाऽपीश्वर एव सक्ता पतिव्रतासाम्यमिता तवेक्षा । कुलाचलाधीश्वरकन्यके मे संहरमंहोविततेर्विधत्ताम् ॥ १३.८॥ शर्वस्य रामे नियमेन हीना श्यामा तवेक्षा गणिकाङ्गनेव । नीचेऽपि मर्त्ये निपतत्यनर्घा बिभर्ति ना षोडश यः सुवर्णान् ॥ १३.९॥ पद्मायताक्षि क्षितिधारिकन्ये कटाक्षनामा तव कालसर्पः । यं सन्दशत्येष जगत्समस्तं विस्मृत्य चाहो न दधाति मोहम् ॥ १३.१०॥ ईशद्विषा शैलमहेन्द्रकन्ये करोति मैत्रीं विषमायुधेन । प्रभाषते पातकिनश्च पक्षे कुतः कटाक्षो न तवाम्ब मुग्धः ॥ १३.११॥ कृपान्वितः कर्णसमीपचारी श्रीमान्सदा पुण्यजनानुकूलः । साम्यं कुरुणामधिपस्य शम्भोः प्राणप्रिये ते भजते कटाक्षः ॥ १३.१२॥ कर्णान्तिकस्थोऽपि न धर्मवैरी कृष्णोऽपि मतार्नकुलं न पाति । शीतोऽपि सन्दीपयति स्मराग्निं हरस्य ते शैलसुते कटाक्षः ॥ १३.१३॥ अयं कटाक्षस्तव तोयवाहः कारुण्यकाले परिजृम्भमाणः । गृहेषु लीनान् सुखिनो विहाय निराश्रयान् सिञ्चति विश्वमातः ॥ १३.१४॥ कस्यापि वाचा वपुषा बलेन समस्य सर्वैरपि यन्निदेशाः । अम्भोधिवेलास्वपि न स्खलन्ति शम्भोः प्रियेऽयं तव दृक्प्रसादः ॥ १३.१५॥ द्वारेषु तेषां विचरन्ति शूराः सौधेषु सारङ्गदृशस्तरुण्यः । प्रगल्भवाचः कवयः सभासु शर्वाणि ते येषु कृपाकटाक्षः ॥ १३.१६॥ यत्राम्ब ते कोऽपि कटाक्षलेशः स दुर्जयः सङ्गरसीम्नि शूरः । पूर्वं दिवं पूरयति द्विषद्भि- स्ततो यशोभिर्भुवमिन्दुगौरैः ॥ १३.१७॥ यं तारकाकान्तकलापकान्ते न लोकसे कोऽपि न लोकते तम् । यं लोकसे तेन विलोकितोऽपि श्रियं समृद्धां समुपैति लोकः ॥ १३.१८॥ सुधां हसन्ती मधु चाक्षिपन्ती यशो हरन्ती वनिताधरस्य । परिष्करोत्यस्य कवित्वधारा मुखं हरप्रेयसि लोकसे यम् ॥ १३.१९॥ सर्वेन्द्रियानन्दकरी पुरन्ध्री विद्याऽनवद्या विपुला च लक्ष्मीः । इयं त्रिरत्नी पुरुषस्य यस्य दुर्गे त्वया दृष्टमिमं तु विद्मः ॥ १३.२०॥ मुधा क्षिपस्यद्रिसुते कटाक्षान् कैलासकान्तारमहीरुहेषु । इतः किरेषत्तव नास्ति हानिः सिद्ध्यत्यभीष्टं च समस्तमस्य ॥ १३.२१॥ शीताचलाधीशकुमारि शीतः संरक्षणे संश्रितमानवानाम् । दुर्धर्षदुष्टासुरमर्दनेषु नितान्तमुष्णश्च तवावलोकः ॥ १३.२२॥ रुषा समेतं विदधाति नाशं करोति पोषं कृपया सनाथम् । अम्बौषधस्येव तवेक्षितस्य योगस्य भेदेन गुणस्य भेदः ॥ १३.२३॥ नाशाय तुल्योद्धतकामलोभ- क्रोधत्रिदोषस्य भवामयस्य । शिवप्रिये वीक्षितभेषजं ते क्रीणानि भक्त्या वद भोः कियत्या ॥ १३.२४॥ अभिष्टुतां चारणसिद्धसङ्घै- स्त्रिष्टुब्विशेषा अपि मर्त्यसूनोः कृपाकटाक्षैर्विनतान्पुनानां कपर्दिनः सम्मदयन्तु कान्ताम् ॥ १३.२५॥ 325
%c04-q2/eama.krishnan.Dadibhatla/c04-q2।txt medskip चतुर्दशः स्तबकः काली गौरी कुण्डलिनी च (उपगीतिवृत्तम्) कारणमखिलमतीनां वारणमन्तर्लसत्तमसः । मन्दस्मितं महेश्वरसुदृशो मे श्रेयसे भवतु ॥ १४.१॥ विश्वतनुस्तनुगात्री वज्रमयी पुष्पसुकुमारी । सर्वस्य शक्तिरबला काली गौर्यम्बिका जयति ॥ १४.२॥ तामाहुर्जगदंबां गौरीं केचित् परे कालीम् । सा गौरी महिलातनुरम्बरतनुरुच्यते काली ॥ १४.३॥ पाचकशक्तेः काल्याः केवललिङ्गेन भिद्यते कालः । यत्पाकतो गभीराद्भुवने सर्वेऽपि परिणामाः ॥ १४.४॥ सर्वभुवनाश्रयत्वात् काली नाम्ना दिगन्येन । लोके तु व्यवहरणं विदुषां दिक्कालयोर्भाक्तम् ॥ १४.५॥ दिगदितिरगाद्यखण्दा परिणमयित्री स्मृता काली । दक्षस्यैका दुहिता सा द्वे गुणभेदमुग्धदृशाम् ॥ १४.६॥ देहे देहे सेयं कुण्डलिनी नाम जगदम्बा । सा स्वपिति संसृतिमतां युञ्जानानां प्रबुद्धा स्यात् ॥ १४.७॥ मूलाधारादग्निर्ज्वलति शिरस्तः शशी द्रवति । कुण्डलिनीमयि मन्ये वीणाशयनात्प्रबुद्धेयम् ॥ १४.८॥ यद्द्रवति तत्र किं त्वं किं तत्र त्वमसि यज्ज्वलति । किमु तत्रासि महेश्वरि यदुभयमेतद्विजानाति ॥ १४.९॥ एतावग्नीषोमौ ज्वालभिश्चन्द्रिकाभिरपि । आवृणुतस्तनुमनयोर्व्यक्तित्वं मे पशुर्भवतु ॥ १४.१०॥ अग्निस्त्वं सोमस्त्वं त्वमधो ज्वलसि द्र्वस्यूर्ध्वम् । अमृतमनयोः फलं त्वं तस्य च भोक्त्री चिदम्ब त्वम् ॥ १४.११॥ किन्नु सुकृतं मया कृतमखिलेश्वरि किं तपस्तप्तम् । क्रीडयसि मां प्रतिक्षणमानन्दसुधानिधावन्तः ॥ १४.१२॥ क्षान्तं किं मम दुरितं शान्तं किं देवि ते स्वान्तम् । अनुगृह्णासि विचित्रं मामप्यपराधिनां प्रथमम् ॥ १४.१३॥ काले काले सन्ध्यारूपा नोपासिता भवती । विच्छिन्नः स्मार्ताग्निस्त्रेता कुत एव वह्नीनाम् ॥ १४.१४॥ दातुं नार्जितमन्नं बहु देवेभ्यश्च भूतेभ्यः । यत्किञ्चिदार्जितं वा कलत्रपुत्रान्वितोऽश्नामि ॥ १४.१५॥ कश्चिदपि पापहारी न पुरश्चरितश्च ते मन्त्रः । कं गुणमभिलक्ष्य मम प्रबुद्ध्यसेऽन्तर्जगन्मातः ॥ १४.१६॥ तव मयि पृथक्तनूजप्रेमा चेत्पक्षपातोऽयम् । अथवा सतां निसर्गः सोऽयं त्वयि चांब सम्भाव्यः ॥ १४.१७॥ लक्ष्यं विनैव मन्त्रः किं सिद्ध्यति कोटिशोऽप्युक्तः । दध्मस्तद्यदि लक्ष्यं तव रूपं गलति हा मन्त्रः ॥ १४.१८॥ सङ्कल्पानां वाचामनुभूतीनां च यन्मूलम् । यत्र प्राणो बद्धस्तल्लक्ष्यं देवि ते रूपम् ॥ १४.१९॥॥ ३४४। नैसर्गिकस्ववृत्तेरहङ्कृतेर्मूलमन्विष्य । त्वां किल साक्षात्कुरुते रमणमहर्षेरियं दृष्टिः ॥ १४.२०॥ मन्ये पर्वतकन्ये मम सेयमहङ्कृतिर्महती । अवतरता वर्षगणैरपि तन्मूलं न लब्धमहो ॥ १४.२१॥ एष प्रौढो भगवति बहुलं गर्जत्यहङ्कारः । एतस्मिन्नयि काले भवती चाबोधि कुण्डलिनी ॥ १४.२२॥ तव पश्चात्सम्भूतिं जानाति न सोऽयमद्यापि । प्रागिव गर्जति धीरं बिभेति मृत्योर्न नेदिष्ठात् ॥ १४.२३॥ अतिपुष्टमहङ्कारं पशुमेतं तुभ्यमर्पयते । प्रमथपतिप्राणेश्वरि गणपतिरेकान्तभक्तोऽयम् ॥ १४.२४॥ उपगीतयो गणपतेरुपतिष्ठन्तामिमाः प्रीत्या । उत्सवसहस्रलोलामुकारवाच्यस्य गृहनाथाम् ॥ १४.२५॥ 350
%c04-q3/Sarada.Susarla/uma-c04-q3-itrans.txt medskip पञ्चदशः स्तबकः शक्तेः स्वागतम् (स्वागतावृत्तम्) आपदामपहरन्तु ततिं नः सम्पदामपि दिशन्तु समृद्धिम् । दन्तकुन्दरुचिदत्तबलानि व्योमकेशसुदृशो हसितानि ॥ १५.१॥ अल्पमप्यधिकशक्तिसमृद्धं मन्दमप्यधिकसूक्ष्मविसारम् । सुस्मितं स्मरविरोधिरमण्याः कल्पतां मम कुलस्य शुभाय ॥ १५.२॥ पुष्कराद्रविमतो भुवमेतां भूमितश्शशधरं क्रममाणा । नैव मुञ्चति पदं बत पूर्वं नोत्तरं व्रजति नेशपुरन्ध्री ॥ १५.३॥ भूषणेष्विव सवित्रि सुवर्णं मृत्तिकामिव घटेष्वखिलेषु । विश्ववस्तुषु निरस्तविशेषां देवि पश्यति सतीं विबुधस्त्वाम् ॥ १५.४॥ किट्टभूतमखिलेश्वरजाये दृश्यजातमखिलं निजपाके । प्राणबुद्धिमनसामिह वर्गः सारभूत इति सूरिजनोक्तिः ॥ १५.५॥ सारमीश्वरि तिलेष्विव तैलं विग्रहेषु निखिलेषु निगूढम् । ये धिया मथनतो विदुरेकं ते भवन्ति विबुधास्त्वयि लीनाः ॥ १५.६॥ आयसं त्रिभुवनेश्वरि पिण्डं वह्निनेव तपसा तनुपिण्डम् । यस्य चिज्ज्वलनजालमयं स्यात् तप्तमम्ब स तवालयभूतः ॥ १५.७॥ योऽरणेर्मथनतोऽतिपवित्रं वीतिहोत्रमिव वीतकलङ्कः । प्राणमुज्ज्वलयति स्वशरीरात् त्वामसावभयदेऽर्हति यष्टुम् ॥ १५.८॥ प्राणता श्वसितमेव विचार्यं कुर्वता करणमेव निभाल्यम् । गच्छता गमनमेव विशोध्यं तत्तनौ मथनमागमबोध्यम् ॥ १५.९॥ यो रसं पिबति मूर्धसरोजात् सोमपोऽयमनघः प्रयतात्मा । अग्निहोत्रमखिलेश्वरि नित्यं मूलकुण्डदहनस्थितिरस्य ॥ १५.१०॥ चिन्मयी पिबसि सोममिमं किं सोम एव किमसावसि मातः । पीयसे पिबसि च स्वयमेका पेयपातृयुगलं किमु भूत्वा ॥ १५.११॥ तैजसं कनकमग्निवितप्तं तेज एव कनकाङ्गि यथा स्यात् । मोदरूपकलया तव तप्तं तन्मयं भवति मोदजपिण्डम् ॥ १५.१२॥ काऽपि मोदलहरी तव वीचिर्- निर्गता दशशतारसुधाब्धेः । पूरयत्यखिलमम्ब शरीरं नेह वेद्मि परमे जडभागम् ॥ १५.१३॥ सेयमुत्तमतमा निपतन्ती शीतलाद्दशशतारपयोदात् । प्रेरितादखिलराज्ञि भवत्या बुद्धिसस्यमवताद्रसवृष्टिः ॥ १५.१४॥ दुग्धसिन्धुमथनादमृतं वा शब्दसिन्धुमथनात्प्रणवो वा । लभ्यते सुकृतिभिस्तव वीचिर्- मूर्धकञ्जमथनाद्रस एषः ॥ १५.१५॥ अस्थिषु प्रवहति प्रतिवेगं मज्जसारममृतं विदधाना । बिभ्रती मदमनुष्णमदोषं मूर्धकञ्जनिलये तव धारा ॥ १५.१६॥ तैत्तिरीयकथितो रसलाभः सोऽयमेव सकलागमवर्ण्ये एतदेव शशिमण्डलनाथे तन्त्रभाषितपरामृतपानम् ॥ १५.१७॥ मूर्धसोममजरामररूपे युक्तवीक्षणकरेण निपीड्य । शम्भुसुन्दरि सुनोमि धिनोमि त्वां प्रदीप्तकुलकुण्डनिशान्ताम् ॥ १५.१८॥ दृष्टिरेव रविदीधितिरुग्रा शीर्षकञ्जशशिनं प्रविशन्ती । शीतलामृतमयी खलु भूत्वा योगिनो द्रवति मोदकला ते ॥ १५.१९॥ मूर्धनि द्रवसि योगयुतानां चक्षुषि ज्वलसि शङ्करभामे तिष्ठसि स्थिरपदा कुलकुण्डे बाह्यतः स्खलसि नैव कदाऽपि ॥ १५.२०॥ सा यदि द्रवति मोदकला स्यात् सा यदि ज्वलति चित्कलिका स्यात् । सा परा स्थिरपदा यदि तिष्ठ- त्यक्षरा भवति काचन सत्ता ॥ १५.२१॥ पश्यता नयनमण्डलवृत्तिं गृह्यसे त्वमचलाधिपकन्ये । जानता दशशतारविलासं स्पृश्यसे विदितमम्ब रहस्यम् ॥ १५.२२॥ व्याप्तशक्त्यसुबलेन लसन्ती भानुबिम्बनयनेन तपन्ती । चन्द्रबिम्बमनसा विहरन्ती सा पुनर्जयति मूर्ध्नि वसन्ती ॥ १५.२३॥ स्वागतं सकललोकनुतायै स्वागतं भुवनराजमहिष्यै । स्वागतं मयि भृशं सदयायै स्वागतं दशशतारमितायै ॥ १५.२४॥ सत्कविक्षितिभुजो ललिताभिः स्वागताभिरनघाभिरिमाभिः । स्वागतं भणितमस्तु भवान्यै खेलनाय शिर एतदितायै ॥ १५.२५॥ 375
%c04-q4/Kamesvararao.Tata/c04-q4।txt medskip षोडशः स्तबकः अध्यात्मं शक्तिवैभवम् (कुमारललितावृत्तम्) महोविहतमोहं महेशमहिलायाः । स्मितं वितनुतान्मे गृहेषु महमग्र्यम् ॥ १६.१॥ इयद्बहुलगोलं जगल्लघु दधाना । पितामहमुखैरप्यखण्डितविधाना ॥ १६.२॥ अदुष्टचरितेभ्यः शुभान्यभिदधाना । कुलानि मलिनानां हतानि विदधाना ॥ १६.३॥ दुकूलमरुणांशुप्रभं परिदधाना हरस्य रजताद्रिक्षितीशितुरधीना ॥ १६.४॥ मुनीन्द्रकृततन्त्रप्रसिद्धबहुदाना उमा बलमलं नस्तनोत्वतुलमाना ॥ १६.५॥ निरस्तविषयां यद् दधाति मतिकीलाम् । समस्तजगदीशे धृतिस्तव मतेयम् ॥ १६.६॥ श्रुता प्रवणचित्तं स्मृता नरमपापम् । धृता हृदि विधत्से गतस्वपरभावम् ॥ १६.७॥ अहंमतितटिन्याः सतामवनिमूलम् । त्वमेव किल सेयं महर्षिरमणोक्तिः ॥ १६.८॥ अहंमतिलतायास्त्वयीशवधु कन्दे । स्थितोऽम्ब भुवनस्य प्रविन्दति रहस्यम् ॥ १६.९॥ यदेतदखिलाम्ब प्रसिद्धमिव दृश्यम् । तवैव किल जालं गतो भणति मूलम् ॥ १६.१०॥ प्रपश्यसि पराची जगद्विविधभेदम् । स्वतः किमपि नान्यत्प्रतीचि पुरतस्ते ॥ १६.११॥ स्तुता भवसि शश्वत् स्मृता च भजने त्वम् । धृता भवसि योगे तता भवसि बोधे ॥ १६.१२॥ स्तुता दिशसि कामं स्मृता हरसि पापम् । धृताऽस्यधिकशक्त्यै तता भवसि मुक्त्यै ॥ १६.१३॥ विशुध्यति यताशी प्रमाद्यति न शुद्धः । प्रमादरहितस्य स्फुटे लससि कञ्जे ॥ १६.१४॥ स्फुटं यदि सरोजं नटीव पटु नाट्यम् । करोषि यतबुद्धेर्जगज्जननि शीर्षे ॥ १६.१५॥ शिरोगतमिदं नः प्रफुल्लमयि पद्मम् । अनल्पमकरन्दं त्वमम्ब भव भृङ्गी ॥ १६.१६॥ सरोजमतुदन्ती पिबाम्ब मकरन्दम् । महामधुकरि त्वं भजेर्मदममन्दम् ॥ १६.१७॥ अमङ्गलमितः प्राङ् मयेशवधु भुक्तम् । इतः परममेये सुखान्यनुभव त्वम् ॥ १६.१८॥ अहङ्कृतिवशान्मे चिदीश्वरि पुराऽभूत् । तवाभवदिदानीं ममास्ति न विभुत्वम् ॥ १६.१९॥ यदाऽभवदियं मे तदाऽन्वभवदार्तिम् । तवेश्वरि भवन्ती भुनक्तु शमिदानीम् ॥ १६.२०॥ करोत्वियमहन्ता विवादमधुनाऽपि । तथाऽपि पुरतस्ते महेश्वरि विवीर्या ॥ १६.२१॥ इयं च तव बुद्धेर्यतो भवति वृत्तिः इमामपि कुरु स्वां क्षमावति विरोषा ॥ १६.२२॥ सुधाब्धिरिह मातस्तरङ्गशतमाली । चिदभ्रपुरमत्र प्रभापदमदभ्रम् ॥ १६.२३॥ कुरु त्वमिदमेकं निजालयशतेषु । सवित्रि विहरास्मिन् यथेष्टमयि देहे ॥ १६.२४॥ कुमारललितानां कृतिर्गणपतीया । करोतु मुदमेषा कपर्दिदयितायाः ॥ १६.२५॥ 400 ॥ समाप्तं च चतुर्थं शतकम् ॥
%c05-q1/Mohana.Rao/us-ch5-q1।TXT medskip पञ्चमं शतकम् सप्तदशः स्तबकः मदकरीशक्तिः (चम्पकमालावृत्तम्) पापविधूतौ निर्मलगङ्गा तापनिरासे चन्द्रमरीचिः । भर्गपुरन्ध्रीहासकला मे भद्रममिश्रं काऽपि करोतु ॥ १७.१॥ शिष्टकुलानां सम्मदयित्री दुष्टजनानां संशमयित्री । कष्टमपारं पादजुषो मे विष्टपराज्ञी सा विधुनोतु ॥ १७.२॥ नूतनभास्वद्बिम्बनिभाङ्घ्रिं शीतलरश्मिद्वेषिमुखाब्जाम् । ख्यातविभूतिं पुष्पशरारेः पूतचरित्रां योषितमीडे ॥ १७.३॥ उज्ज्वलतारे व्योम्नि लसन्ती सारसबन्धौ भाति तपन्ती । शीतलभासा चिन्तनकर्त्री पातु कुलं मे विष्टपभर्त्री ॥ १७.४॥ प्राणमनोवाग्व्यस्तविभूतिर्लोकविधातुः काचन भूतिः । पुष्करपृथ्वीपावकरूपा शुष्कमघं नः सा विदधातु ॥ १७.५॥ इष्टफलानामम्ब समृद्ध्यै कष्टफलानां तत्क्षणधूत्यै । चेष्टितलेशोद्दीपितशक्तिं विष्टपभर्त्रि त्वामहमीडे ॥ १७.६॥ भूमिरुहाग्रस्थापितभण्डाद्यो मधु पायं पायमजस्रम् । विस्मृतविश्वो नन्दति मातस्तत्र किल त्वं धाम दधासि ॥ १७.७॥ कोऽपि सहस्रैरेष मुखानां शेष इतीड्यः पन्नगराजः । उद्गिरतीदं यद्वदनेभ्यो देवि तनौ मे तद्वत पासि ॥ १७.८॥ साकममेये देवि भवत्या प्रातुमहन्ता यावदुदास्या । तावदियं तां मूर्छयतीशे पन्नगराजोद्गारजधारा ॥ १७.९॥ शाम्यतिचिन्ताजीवितमस्यामिन्द्रियसत्ताऽप्यस्तमुपैति । याति निरुद्धा हा गलदेशे संशयमेषा मातरहन्ता ॥ १७.१०॥ गौरि महेशप्राणसखी मां पाहि विपन्नां मातरहन्ताम् । सा यदि जीवेदीश्वरि तुभ्यं दासजनस्तामर्पयतेऽयम् ॥ १७.११॥ त्वत्स्मृतिवीर्याच्छान्तिसमृद्धां मातरहन्तां शुद्धतमां मे । आत्मभुजिष्यां कर्तुमिदानीं शांतधियस्ते कोऽस्ति विकल्पः ॥ १७.१२॥ मन्दरधारी नामृतहेतुर्वासुकिरज्जुर्नामृतहेतुः । मन्थनहेतुस्साऽमृतहेतुः सर्वबलात्मा शर्वपुरन्ध्री ॥ १७.१३॥ प्राणिशरीरं मन्दरशैलो मूलसरोजं कच्छपराजः । पूर्णमनन्तं क्षीरसमुद्रः पृष्ठगवीणा वासुकिरज्जुः ॥ १७.१४॥ दक्षिणनाडी निर्जरसेना वामगनाडी दानवसेना । शक्तिविलासो मन्थनकृत्यं शीर्षजधारा काऽपि सुधोक्ता ॥ १७.१५॥ कण्ठनिरुद्धे भूरिविषाग्नौ तैजसलिङ्गावासिहरेण । त्वद्बलजातं स्वाद्वमृत्तं को देवि निपीय प्रेत इह स्यात् ॥ १७.१६॥ येन विभुस्ते माद्यति शर्वो यत्र शिवे त्वं क्रीडसि हृष्टा । सम्मदमूलं तं मदमाद्ये वर्धय पुत्रेऽनुग्रहपात्रे ॥ १७.१७॥ यो मदमीदृङ्मार्गमुपेक्ष्य स्वर्विभुपूज्ये गर्वसमेतः । आहरति श्रीबाह्यसमृद्ध्या ना सुरया वा सोऽसुर उक्तः ॥ १७.१८॥ ताम्यति तीव्राफेननिषेवी क्लाम्यति संवित्पत्रनिषेवी । भ्राम्यति हालाभाण्डनिषेवी शाम्यति शीर्षद्रावनिषेवी ॥ १७.१९॥ अस्तु विरेके पथ्यमफेनं पत्रमजीर्णेष्वस्तु निषेव्यम् । अस्तु हितं तद्यक्ष्मणि मद्यं संसृतिहारी देवि रसस्ते ॥ १७.२०॥ नैव महान्तस्सत्त्वसमृद्धाः सर्वमदेष्वप्यम्ब चलन्तु । अल्पजनानां मादकवस्तुप्राशनमीशे नाशनमुक्तम् ॥ १७.४२१॥ केऽपि यजन्ते यन्मधुमांसैस्त्वां त्रिपुरारेर्जीवितनाथे । अत्र न यागो दूषणभागी द्रव्यससङ्गो दुष्यति यष्टा ॥ १७.२२॥ दक्षिणमार्गे सिद्ध्यति भक्तः सव्यसरण्यां सिद्ध्यति वीरः । नेश्वरि सव्ये नाप्यपसव्ये सिद्ध्यति दिव्ये त्वध्वनि मौनी ॥ १७.२३॥ नार्चनभारो नापि जपोऽस्यां दिव्यसरण्यां भव्यतमायाम् । केवलमम्बापादसरोजं निश्चलमत्या मृग्यमजस्रम् ॥ १७.२४॥ काचिदमूल्या चंपकमाला वृत्तनिबद्धा मञ्जुलमाला । अस्तु गणेशस्येश्वरकान्ता कण्ठविलोला चंपकमाला ॥ १७.२५॥ 425
%c05-q2/Subhadra.bala.Venuturupalli/c05-q2।txt medskip अष्टादशः स्तबकः रूपविशेषाः कुण्डलिनीसमुल्लासश्च (प्रहर्षिणीवृत्तम्) धुन्वन्त्यस्तिमिरततिं हरित्तटीनां धिन्वन्त्यः पुरमथनस्य लोचनानि । स्कन्दाम्बाहसितरुचो हरन्तु मोहं सान्द्रं मे हृदयगतं प्रसह्य सद्यः ॥ १८.१॥ तन्वाना विनतहितं विरोधिवर्गं धुन्वाना बुधजनमोदमादधाना । सम्राज्ञी त्रिदिवधरारसातलानां रुद्राणी भणतु शिवानी मत्कुलस्य ॥ १८.२॥ योऽम्ब त्वां हृदि विदधत्तटित्प्रकाशां पीयूषद्युतिमदहृन्मुखारविन्दाम् । अन्यत्तु स्मृतिपथतो धुनोति सर्वं कामारेः सुदति नतस्य भुव्यसाध्यम् ॥ १८.३॥ कालाभ्रद्युतिमसमानवीर्यसारां शक्त्यूर्मिभ्रमकरशुक्लघोरदंष्ट्राम् । यो धीरो मनसि दधाति भर्गपत्नि त्वामस्य प्रभवति सङ्गरेषु शस्त्रम् ॥ १८.४॥ यः प्राज्ञस्तरुणदिवाकरोज्ज्वलाङ्गीं तन्वङ्गि त्रिपुरजितो विचिन्तयेत्त्वाम् । तस्याज्ञां दधति शिरस्सु फुल्लजाजी- मालां वा धरणिजुषो वशे भवन्तः ॥ १८.५॥ यो राकाशशधरकान्तिसारशुभ्रां बिभ्राणां करकमलेन पुस्तकं त्वाम् । भूतेशं प्रभुमस्कृत्प्रबोधयन्तीं ध्यायेद्वाग्भवति वशेऽस्य नाकदूती ॥ १८.६॥ जानीमो भगवति भक्तचित्तवृत्ते- स्तुल्यं त्वं सपदि दधासि रूपमग्र्यम् । प्रश्नोऽयं भवति नगाधिनाथकन्ये रूपं ते मदयति कीदृशं स्मरारिम् ॥ १८.७॥ चारु स्यादलमिति वक्तुमम्ब शक्यं रूपं ते न वदति कोऽपि कीदृशं वा । सम्मोहं परमुपयान्ति कान्तिभाण्डे कामारेरपि नयनानि यत्र दृष्टे ॥ १८.८॥ सङ्कल्पैः किमु तव भूषणान्यभूवँ- च्छिल्पीन्द्राः किमु विदधुर्यथाऽत्र लोके । तत्स्वर्णं भगवति कीदृशं मणीनां किं रूपं भवति च तत्र योजितानाम् ॥ १८.९॥ यान्यङ्गान्यखिलमनोज्ञसारभूता- न्येतेषामपि किमु भूषणैरुमे ते । आहोस्विल्ललिततमानि भान्ति भूयो भूषाभिर्विकृततमाभिरप्यमूनि ॥ १८.१०॥ मुक्ताभिर्भवति तवाम्ब किन्नु हारः पीयूषद्युतिकरसारनिर्मलाभिः । मुण्डैर्र्वा घलघलशब्दमादधद्भिः सङ्घर्षात् त्रिभुवनसार्वभौमभामे ॥ १८.११॥ वस्त्रं स्याद्यदि तव सर्वशास्त्रगम्ये कार्पासं दिवि च तदुद्भवोऽनुमेयः । क्षौमं चेद्भगवति तस्य हेतुभूताः कीटाः स्युर्गगनजगत्यपीति वाच्यम् ॥ १८.१२॥ रुद्रस्य प्रियदयितेऽथवा सुरद्रुर्- भूषाणां मणिकनकप्रकल्पितानाम् । वस्त्राणामपि मनसे परं हितानां कामं ते भवति समर्पकः समर्थः ॥ १८.१३॥ सुस्कन्धो बहुविटपः प्रवालशोभी सम्फुल्लप्रसवसुगन्धवासिताशः । वृक्षः किं भगवति कल्पनामकोऽयं सङ्कल्पः किमु तव कोऽपि देवि सत्यः ॥ १८.१४॥ सङ्कल्पान्न भवति कल्पपादपोऽन्यः स्वर्दोग्ध्री पुनरितरा न कुण्डलिन्याः । यः कुर्याद् द्वयमिदमुद्गतात्मवीर्यं कारुण्यात्तव भुवि चास्य नाकभाग्यम् ॥ १८.१५॥ आपीनं भवति सहस्रपत्रकञ्जं वत्सोऽस्याः पटुतरमूलकुण्डवह्निः । दोग्धाऽऽत्मा दहरसरोरुहोपविष्टो मौनं स्यात्सुरसुरभेस्तनूषु दोहः ॥ १८.१६॥ दोग्ध्र्यास्ते भगवति दोहनेन लब्धं वत्साग्निप्रथमनिपानसद्रवायाः । दुग्धं स्वाद्वमृतमयं पिबन्ममात्मा सन्तृप्तो न भवति दुर्भरोऽस्य कुक्षिः ॥ १८.१७॥ वत्सोऽग्निः पिबति दृढाङ्घ्रिरम्ब पश्चा- दश्रान्तं पिबति दुहन् पुरोऽन्तरात्मा । वृद्धिं च व्रजति पयः प्रतिप्रद्रोहं दोग्ध्र्यास्ते द्रव इह कुण्डलिन्यपारः ॥ १८.१८॥ सोमस्य द्रवमिममाहुरम्ब केचिद् दुग्धाब्धेरमृतरसं गदन्ति केऽपि । बाष्पं केऽप्यभिदधते तु कौलकुण्डं पीनोधस्स्रवमितरे भणन्ति धेनोः ॥ १८.१९॥ मूले त्वं ज्वलदलनप्रकाशरूपा वीणायां प्रबलमहामदोष्मरूपा । शीर्षाब्जे सततगलद्रसस्वरूपा भ्रूमध्ये भवसि लसत्तटित्स्वरूपा ॥ १८.२०॥ हार्दे चेदवतरसीह पुण्डरीके छायावत्सकलमपि प्रपश्यसि त्वम् । आरूढा दशशतपत्रमद्रिपुत्रि स्याश्चेत्त्वं भणसि जगत्सुधासमुद्रम् ॥ १८.२१॥ नेत्राभ्यां सरसिरुहच्छदायताभ्यां वक्त्रेण प्रविमलहासभासुरेण । प्रत्यक्षा मम मनसः पुरः पुरन्ध्री कामारेः परणितमस्मदीयभाग्यम् ॥ १८.२२॥ पुण्यानां परिणतिरेव भूतभर्तुः सिद्धानां बलनिधिरेव कोऽपि गूढः । भक्तानां दृढतरिरेव शोकसिन्धौ मग्नानां मम जननी महीध्रपुत्री ॥ १८.२३॥ उद्धर्तुं विनतजनं विषादगर्तात् संस्कर्तुं भुवनहिताय योगयुक्तम् । संहर्तुं खलकुलमुद्धतं च दर्पाद् भर्गस्य प्रियतरुणी सदा सदीक्षा ॥ १८.२४॥ मृद्वीकां मधुरतया सुधां महिम्ना गाम्भीर्यात्सुरतटिनीं च निर्जयन्ती । शर्वाणीचरितपरा प्रहर्षिणीनां श्रेणीयं जयतु गणेश्वरेण बद्धा ॥ १८.२५॥ 450
%c05-q3/Syam.Sunder.Vinjamuri/umAsahasram\_c05-q3।txt medskip एकोनविंशः स्तबकः ध्येयललितारूपम् (प्रमाणिकावृत्तम्) प्रफुल्लकल्पपादपप्रसूनसद्यशोहरम् । महारुजं धुनोतु ते महेशसुन्दरीस्मितम् ॥ १९.१॥ मुनीन्द्रमूलवेदिभूधनञ्जयप्रबोधनम् । यतीन्द्रहार्दपेटिका कवाटबन्धभेदनम् ॥ १९.२॥ यथाविधिक्रियापरद्विजातिचित्तशोधनम् । ममाम्बिकास्मितं भवत्वघप्रतापरोधनम् ॥ १९.३॥ सुवर्णसालभञ्जिका चरेव शोभयाऽधिका । अतीव मार्दवान्विता नवेव पुष्पिता लता ॥ १९.४॥ सुपर्वमौलिरत्नभा विराजिहेमपादुका । मरालिकानिमन्त्रकप्रशस्तरत्ननूपुरा ॥ १९.५॥ वलक्षदीधितिप्रभाविशेषहृन्नखावली । मुनीन्द्रशुद्धमानसप्रमेयपादसौष्ठवा ॥ १९.६॥ घनीभवत्तटित्प्रभाप्रवाहकल्पजङ्घिका । मतङ्गजेन्द्रनासिका मनोज्ञसक्थिशोभिनी ॥ १९.७॥ प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका । विशालकेशचुम्बितोल्लसन्नितम्बमण्डला ॥ १९.८॥ अजाण्डपिण्डसंहतिप्रपूर्णकुक्षिशालिनी । अपारदिव्यकान्तिवार्निधाननाभिदीर्घिका ॥ १९.९॥ बिसप्रसूनसायकच्छुराभरोमराजिका । जगत्त्रयीवसज्जनोपजीव्यदुग्धभृत्कुचा ॥ १९.१०॥ महेशकण्ठबन्धकप्रशस्तबाहुवल्लरी । समस्तविष्टपाभयप्रदायिपाणिपङ्कजा ॥ १९.११॥ विलोलहारमौक्तिकप्रतानसंवदत्स्मिता । विशुद्धसुन्दरस्मितप्रकाशभासिताम्बरा ॥ १९.१२॥ सुकोमलोष्ठकम्पनप्रभीतदुर्जयासुरा । सुयुक्तकुन्दकुट्मलप्रकाशदन्तपङ्क्तिका ॥ १९.१३॥ शरत्सुधांशुमण्डलप्रभाविगर्हणानना । सुधामरन्दवज्जपासुमोपमाधराधरा ॥ १९.१४॥ तिलप्रसूनचारुताऽपहासिभासिनासिका । नवीनभाभनासिकाविलम्बिदिव्यमौक्तिका ॥ १९.१५॥ विशुद्धगण्डबिम्बितस्वरूपरत्नकुण्डला । महामहस्तरङ्गितप्रभावशालिलोचना ॥ १९.१६॥ दलान्तरस्थयामिनीप्रभुप्रभालिकस्थली । मयूरबर्हगर्हणप्रकृष्टकेशभासिनी ॥ १९.१७॥ दिवाकरायुतोज्ज्वला हिमांशुलक्षशीतला । तटित्सहस्रभासुरा निरङ्कचन्द्रशेखरा ॥ १९.१८॥ नभोन्तरालचारिणी महाविचित्रकारिणी । कुलाग्निकुण्डशायिनी जगत्कथाविधायिनी ॥ १९.१९॥ नभस्तले बलेश्वरी धरातले क्रियेश्वरी । दिवाकरे विभेश्वरी सुधाकरे रसेश्वरी ॥ १९.२०॥ महेशवेश्मदीपिका जगत्त्रयप्रमापिका । अशेषशीर्षशासिनी समस्तहृन्निवासिनी ॥ १९.२१॥ गुणस्तवे गुणस्तवे गुणप्रकर्षदायिनी । विचिन्तने विचिन्तने विशिष्टशक्तिधायिनी ॥ १९.२२॥ भ्रमाकुलेन दुस्तरा भवालसेन दुर्गमा । अमन्त्रकेण दुर्भरा जगत्त्रयेण दुर्जया ॥ १९.२३॥ सुवर्णचेलधारिणी समस्तमोदकारिणी । विलासिनी निरामया विचिन्त्यतां मनस्त्वया ॥ १९.२४॥ पदाब्जवन्दिनः कवेरियं प्रमाणिकावली । महेशमानसेश्वरी गृहे महाय कल्पताम् ॥ १९.२५॥ 475
%c05-q4/Rekha.Venuturupalli/uma-c05-q4।txt medskip विंशः स्तबकः सर्वसारमयी (मणिबन्धवृत्तम्) प्रीतिविकासे स्वल्पतमो रोषविशेषे भूरितरः । अद्भुतहासो विश्वसुवो रक्षतु साधुं हन्तु खलम् ॥ २०.१॥ सज्जनचित्तानन्दकरी संश्रितपापव्रातहरी । लोकसवित्री नाकचरी स्तान्मम भूयो भद्रकरी ॥ २०.२॥ अर्चनकाले रूपगता संस्तुतिकाले शब्दगता । चिन्तनकाले प्राणगता तत्त्वविचारे सर्वगता ॥ २०.३॥ उज्ज्वलरूपे नृत्यकरी निष्प्रभरूपे सुप्तिकरी । गोपितरुपे सिद्धिकरी गोचररूपे बन्धकरी ॥ २०.४॥ अम्बरदेशे शब्दवती पावकताते स्पर्शवती । काञ्चनवीर्ये रूपवती सागरकाञ्च्यां गन्धवती ॥ २०.५॥ अप्स्वमलासु स्पष्टरसा चन्द्रविभायां गुप्तरसा । संसृतिभोगे सर्वरसा पूर्णसमाधावेकरसा ॥ २०.६॥ चक्षुषि दृष्टिश्शाततमा चेतसि दृष्टिश्चित्रतमा । आत्मनि दृष्टिश्शुद्धतमा ब्रह्मणि दृष्टिः पूर्णतमा ॥ २०.७॥ शीर्षसरोजे सोमकला भालसरोजे शक्रकला । हार्दसरोजे सूर्यकला मूलसरोजे वह्निकला ॥ २०.८॥ स्थूलशरीरे कान्तिमती प्राणशरीरे शक्तिमती । स्वान्तशरीरे भोगवती बुद्धिशरीरे योगवती ॥ २०.९॥ सारसबन्धोरुज्ज्वलभा कैरवबन्धोः सुनदरभा । वैद्युतवह्नेरद्भुतभा भौमकृशानोर्दीपकभा ॥ २०.१०॥ योधवराणामायुधभा योगिवराणामीक्षणभा । भूमिपतीनामासनभा प्रेमवतीनामाननभा ॥ २०.११॥ शस्त्रधराणां भीकरता शास्त्रधराणां बोधकता । यन्त्रधराणां चालकता मन्त्रधराणां साधकता ॥ २०.१२॥ गानपटूनां रञ्जकता ध्यानपटूनां मापकता । नीतिपटूनां भेदकता धूतिपटूनां क्षेपकता ॥ २०.१३॥ दीधितिधारा लोकयतां जीवितधारा वर्तयताम् । ज्ञापकधारा चिन्तयतां मादकधारा द्रावयताम् ॥ २०.१४॥ मन्त्रपराणां वाक्यबलं योगपराणां प्राणबलम् । आत्मपराणां शान्तिबलं धर्मपराणां त्यागबलम् ॥ २०.१५॥ सूरिवराणां वादबलं वीरवराणां बाहुबलम् । मर्त्यपतीनां सैन्यबलं रागवतीनां हासबलम् ॥ २०.१६॥ वैदिकमन्त्रे भाववती तान्त्रिकमन्त्रे नादवती । शाबरमन्त्रे कल्पवती सन्ततमन्त्रे सारवती ॥ २०.१७॥ ब्रह्ममुखाब्जे वाग्वनिता वक्षसि विष्णोः श्रीर्ललिता । शम्भुशरीरे भागमिता विश्वशरीरे व्योम्नि तता ॥ २०.१८॥ भूग्रहगोलैः कन्दुकिनी विष्टपधाने कौतुकिनी । यावदनन्तं वैभविनी प्राणिषु भूयस्सम्भविनी ॥ २०.१९॥ कञ्जभवाण्डे मण्डलिनी प्राणिशरीरे कुण्डलिनी । पामरभावे सल्ललना पण्डितभावे मोदघना ॥ २०.२०॥ नार्यपि पुंसा मूलवती तन्व्यपि शक्त्या व्याप्तिमती । व्याप्तिमतीत्वे गुप्तिमती चित्रविचित्रा काऽपि सती ॥ २०.२१॥ दीधितिरूपा चित्तमयी प्राणशरीराऽप्यद्वितयी । ब्रह्मशरीरं ब्रह्मविभा ब्रह्मविभूतिर्ब्रह्मपरम् ॥ २०.२२॥ विष्टपमाता भूरिकृपा विष्टपराज्ञी भूरिबला । विष्टपरूपा शिष्टनुता विष्टपपारे शिष्टमिता ॥ २०.२३॥ दुर्जनमूलोच्छेदकरी दीनजनार्तिध्वंसकरी । धीबललक्ष्मीनाशकृशं पुण्यकुलं नः पातु शिवा ॥ २०.२४॥ चन्द्रकिरीटाम्भोजदृशः शान्तिसमृद्धं स्वान्तमिमे । सम्मदयन्तु श्रोत्रसुखाः सन्मणिबन्धाः सूरिपतेः ॥ २०.२५॥ 500 ॥ समाप्तं च पञ्चमं शतकम् ॥

Shloka hailaja Dhulipala/umasahasram\_ch\_06\_q1।txt medskip षष्ठं शतकम् एकविंशः स्तबकः अर्धनारीश्वरः (अनुष्टुब्वृत्तम्) इतः पीत्वा कुचं स्कन्दे प्रसारितकरे ततः । जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ॥ २१.१॥ एकतो मणिमञ्जीरक्वाणाहूतसितच्छदम् । अन्यतो नूपुराहीन्द्रफूत्कारकृततद्भयम् ॥ २१.२॥ गीर्वाणपृतनापालं बालं लालयदेकतः । उत्सङ्गे गणसम्राजमर्भकं बिभ्रदन्यतः ॥ २१.३॥ विडम्बितब्रह्मचारिकोकैकस्तनमेकतः । कवाटार्धनिभं बिभ्रद्वक्षः केवलमन्यतः ॥ २१.४॥ सेनान्याऽऽस्वादितस्तन्यमनुफूत्कुर्वतैकतः । फूत्कारमुखरं नागमुग्रं जाग्रतमन्यतः ॥ २१.५॥ एकतो दोर्लतां बिभ्रन् मृणालश्रीविडम्बिनीम् । शुक्रशुण्डालशुण्डाभं चण्डं दोर्दण्डमन्यतः ॥ २१.६॥ कुत्राप्यविद्यमानेऽपि वन्दनीये तदा तदा । परस्परकरस्पर्शलोभतो विहिताञ्जलि ॥ २१.७॥ शक्रनीलसवर्णत्वाद् भागयोरुभयोरपि । ऊर्ध्वाधराङ्गसापेक्षसन्धिज्ञानगलस्थलम् ॥ २१.८॥ एकतः कैरवश्रेणीनिद्रामोचनलोचनम् । अन्यतः कमलावासक्षणाधायकवीक्षणम् ॥ २१.९॥ एकतश्चक्षुषा चारुतारेणाधीतविभ्रमम् । अन्यतः पाणिपाथोजे खेलतो मृगबालतः ॥ २१.१०॥ एकतो भालफलके काश्मीरेण विशेषितम् । अन्यतोऽर्धेक्षणेनैव रतिभ्रूविभ्रमद्रुहाः ॥ २१.११॥ एकतः शीतलालोकं साधुलोकशिवङ्करम् । अन्यतः प्रज्वलत्प्रेक्षं दुष्टगोष्ठीभयङ्करम् ॥ २१.१२॥ एकतो मणिताटङ्कप्रभाधौतकपोलकम् । अन्यतः कुण्डलीभूतकुण्डलीभूतकुण्डलि ॥ २१.१३॥ एकतः कुन्तलान् बिभ्रदिन्द्रनीलोपमद्युतीन् । अन्यतः पावकज्वालापाटलांशुच्छटा जटाः ॥ २१.१४॥ एकतः केशपाशेन कीर्णेनोरसि भासुरम् । अन्यतो लम्बमानस्य भोगिनो हरता श्रियम् ॥ २१.१५॥ अवतंसितमम्लानपारिजातस्रजैकतः । विमलोल्लोलमालिन्या विभुधापगयाऽन्यतः ॥ २१.१६॥ रौप्याचलकृतावासं प्राप्यं युक्तेन चेतसा । वस्तु रामापुमाकारं हृदि सन्निदधातु मे ॥ २१.१७॥ कान्तार्धविग्रहे मातर्जटार्धाश्चिकुरास्तव । दधत्यदभ्रसन्ध्याभ्रयुक्तकालाभ्रविभ्रमम् ॥ २१.१८॥ दम्पत्योर्युवयोरेष लोपो यन्नास्ति शैलजे । वामं पार्श्वं विभोः शेतुं दातुं ते दक्षिणः करः ॥ २१.१९॥ लोके स्त्री स्तनयुग्मेन पुष्णात्येकं सुतं न वा । स्तनेनैकेन शर्वाणि पुष्णासि त्वं जगत्त्रयम् ॥ २१.२०॥ खिद्यन्ति योषितः कुक्षौ वहन्त्योऽर्भकमेककम् । अर्धकुक्षौ दधासि त्वं त्रिलोकीमम्ब लीलया ॥ २१.२१॥ अनुरूपा शिवस्य त्वमनुरूपः शिवस्तव । अलङ्कारोऽनुरूपो वामकलङ्कोऽर्भकः शशी ॥ २१.२२॥ तवैव तव देहांशो हरस्यैव हरस्य यः । प्राणास्तु जगतां धात्रि हरस्य त्वं हरस्तव ॥ २१.२३॥ अविभक्तं भवानि स्वं भवस्य तव चोभयोः । सकृत्सकरुणं चेतः सङ्कल्पयतु नश्शिवम् ॥ २१.२४॥ भवस्य भागमुत्सृज्य भवानी भागमात्मनः । भजत्वनुष्टुभामासां सृष्टानां नारसिंहिना ॥ २१.२५॥ 525
%c06-q2/Karthik.Sitaram.Tenneti/c06-q2।txt medskip द्वाविंशः स्तबकः हरकुटुम्बकम् (वियोगिनीवृत्तम्) अखिलस्य विकासकारणं व्यसनिज्ञानिजनावनेषु नः । वितनोतु विशेषतः शिवं शिवराजीवदृशो दरस्मितम् ॥ २२.१॥ विकले सकले सुरव्रजे व्रजति श्यामलिमानमच्युते । जगतस्सदयो हलाहलं चुलुकीकृत्य भयं नुनोद यः ॥ २२.२॥ निगमैस्तुरगी भुवा रथी विधिना सारथिमान् बिभेद यः । कनकाद्रिवरेण कार्मुकी कमलाक्षेण शरी पुरत्रयम् ॥ २२.३॥ अजितस्य च गाढमत्सरैः कमलाकान्तपुरस्सरैस्सुरैः । पदजायुधधारया रयाद्वधमाधत्त जलन्धरस्य यः ॥ २२.४॥ कमलासनकञ्जलोचनौ छललिङ्गस्य शिरोङ्घ्रि वीक्षितुम् । बत हंसवराहभूमिकौ यतमानावपि यस्य न प्रभू ॥ २२.५॥ नयनं निटलान्तरस्थितं विघटय्येषदिवान्वितो रुषा । भुवनत्रयनिर्जयोन्नतं मदनं गाढमदं ददाह यः ॥ २२.६॥ सकले धवलः कलेबरे हरिनीलोपलमञ्जुलः क्वचित् । अमृतांशुरिवादधाति यः परमामक्षिमुदं प्रपश्यताम् ॥ २२.७॥ अवतंसतुषारदीधितिद्युतिभिर्यस्य यशोभरैरपि । सममच्छतरीकृतो दिशामवकाशस्सुतरां प्रकाशते ॥ २२.८॥ गगनानलजीवनानिलक्षितिसोमारुणसोमयाजिभिः । महतो बत यस्य मूर्तिभिर्भुवनं क्रान्तमिदं समन्ततः ॥ २२.९॥ सह तेन धवेन राजते वसुधाधारिणि काऽपि राजते । वनिता भवतापनाशिनी चरणप्रेष्यनिवेदिताशिनी ॥ २२.१०॥ वनितापुरुषौ पुरातनौ विमले व्योमनि देवदम्पती । भुवनत्रितयस्य तौ विभू रजताद्राविह सिद्धदम्पती ॥ २२.११॥ गजचर्मधरः कपालभृद् गृहनाथो गृहिणी तु कालिका । रुधिराविलमुण्डमालिनी कथितौ तौ बत पण्डितैः शिवौ ॥ २२.१२॥ स किमिन्दुकलाशिरोमणिः किमुताश्लीलकपालभूषणः । किमुमे भवती कपालिनी किमु विभ्राजितरत्नमालिनी ॥ २२.१३॥ रमसेऽम्ब कपालमालिनी क्वचिदीशेन कपालमालिना । अतुलप्रभनिष्कमालिना क्वचिदत्युत्तमरत्नमालिनी ॥ २२.१४॥ युवयोर्मरुतस्तनूभुवो बलवन्तो भुवनप्रकम्पनाः । शशिदीधितिहारि यद्यशो निगमे पावनमम्ब गीयते ॥ २२.१५॥ गुरुमुत्तममभ्रचारिणामसमब्रह्मनिधाननायकम् । तव देवि शिवे तनूभुवां मरुतामन्यतमं प्रचक्षते ॥ २२.१६॥ द्विरदं वदने महामदं सितदन्तच्छविधौतदिक्तटम् । इतरत्र मुखान्नराकृतिं विदुरस्यैव विवर्तमद्भुतम् ॥ २२.१७॥ अखिलामरनिर्जयोन्नतः प्रथने तारकदानवो बली । हृतवीर्यमदो बभूव यद्घनशक्त्यायुधतेजसाऽञ्जसा ॥ २२.१८॥ अमले हृदि निर्मलाशनाच्छिथिले ग्रन्थिचये नराय यः । परिपक्वधिये प्रदर्शयेत् तमसः पारमपारवैभवः ॥ २२.१९॥ द्रविडेषु शिशुत्वमेत्य यो गिरिशश्लोकविशेषगायिनीम् । अमृतद्रवसारहारिणीं निगमाभां निबबन्ध संस्तुतिम् ॥ २२.२०॥ भुवि भट्टकुमारिलाख्यया भवमेत्याध्वररक्षणाय यः । वरजैमिनिभाषिताशयं बहुलाभिः खलु युक्तिभिर्दधौ ॥ २२.२१॥ अधुना विधुनोति यस्तमो विबुधप्रेक्षितमार्गरोधकम् । रमणाख्यमहर्षिवेषभृत्श्रितशोणाचलचारुकन्दरः ॥ २२.२२॥ स गुहोऽतिमहो महामहास्रिदशानां प्रथितश्चमूपतिः । जगतामधिराज्ञि कोऽपि ते सुतरां प्रीतिपदं कुमारकः ॥ २२.२३॥ जयति त्रिपुरारिभामिनी गणपत्यादिमरुत्प्रसूरुमा । तमसूत सुरारिधूतये त्रिदशानामपि या चमूपतिम् ॥ २२.२४॥ स्वकुटुम्बकथाभिधायिनीर्गणनाथस्य वियोगिनीरिमाः । अवधारयतु प्रसन्नया नगनाथप्रियनन्दिनी धिया ॥ २२.२५॥ 550
%c06-q3/Mohana Rao/us-ch6-q3।TXT medskip त्रयोविंशः स्तबकः प्रकीर्णकम् (नरमनोरमावृत्तम्) (अस्मिन् स्तबके तत्सवितुरिति गायत्रीमन्त्रस्य चतुर्विंशतिवर्णाः क्रमशः पद्यानां तृतीयपादस्य चतुर्थवर्णे दृश्यन्ते ) । किरदिवामृतं किरणमालया । जयति तत्सितं शिववधूस्मितम् ॥ २३.१॥ तव पदं परे मम गुहान्तरे । स्फुरतु सर्वदा विकसितं मुदा ॥ २३.२॥ पदमधोऽम्बुजान्न किल भिद्यते । मदनविद्विषः सदनराज्ञि ते ॥ २३.३॥ विभुतयोररीकृतबहूद्भवौ । विदधतुर्जगत्त्रयमिदं शिवौ ॥ २३.४॥ तव तु खेलने नलिनजाण्डकम् । गिरिशवल्लभे भवति कन्दुकम् ॥ २३.५॥ सकलमस्त्युमे सदभयङ्करे । तव करे परे किमपि नो नरे ॥ २३.६॥ किमिव वर्ण्यतां कशशिकुण्डला । उडुमणिस्रजाप्रविलसद्गला ॥ २३.७॥ भण निरन्तरं बहुगुणामुमाम् । गतभयं विधेह्यमलवाणि माम् ॥ २३.८॥ अव जहीहि वा ननु भजाम्यहम् । भुवनभर्त्रि ते चरणमन्वहम् ॥ २३.९॥ गणपतेः शिरःकमलचुम्बिनी । भवतु गोपतिध्वजकुटुम्बिनी ॥ २३.१०॥ दहरमज्जनं विदधतं जनम् । परमदेवते नयसि धाम ते ॥ २३.११॥ जननि विज्ञता भवतु धीमताम् । अनुभवस्तु ते करुणया सताम् ॥ २३.१२॥ अचलया धिया हृदि गवेषणम् । वृषहयप्रियानगरशोधनम् ॥ २३.१३॥ न विजहामि ते चरणनीरजम् । अवनि धीमतामव न वा निजम् ॥ २३.१४॥ पदमुमेऽम्ब ते हृदि विचिन्वते । पलितमस्तकाः परमदेवते ॥ २३.१५॥ स्वयमनामये सकलधात्र्यसि । निजमहिम्नि सा त्वमयि तिष्ठसि ॥ २३.१६॥ स्थितिमसादयँस्तव पदाम्बुजे । विधिमधिक्षिपत्यलसनीरजे ॥ २३.१७॥ स्यतु मदापदं शिववधूपदम् । यदृषयो विधुस्त्रिभुवनास्पदम् ॥ २३.१८॥ गुणगणं गृणँस्तव शिवे शिवम् । गतभयोऽभवं मदमितो नवम् ॥ २३.१९॥ तवकृपावशात् तदिदमव्यये । जननि नः प्लुतिस्तव यदङ्घ्रये ॥ २३.२०॥ नयनदृश्ययोरयि यदन्तरम् । तदमरस्तुते तव वपुः परम् ॥ २३.२१॥ अहमिति स्मृतिः क्व नु विभासते । इति विचोदयन् महति लीयते ॥ २३.२२॥ अमृतसंज्ञके सुखचिदात्मके । मतिमदर्थिते जननि धाम्नि ते ॥ २३.२३॥ अयि मुदास्पदं स्पृशति ते पदम् । श्वसितयात्रया सततदृष्टया ॥ २३.२४॥ दधतु सत्कवेर्गणपतेरिमाः । नगभुवो मुदं नरमनोरमाः ॥ २३.२५॥ 575
%c06-q4/Pattabhi Nadimpally/Arava \_satakamu \_chaturtha \_stabakamu \_576 \_600txt medskip चतुर्विंशः स्तबकः प्रकीर्णकम् (सुप्रतिष्ठावृत्तम्) चन्द्रिकासितं चण्डिकास्मितम् । भूतले सतां भातु भूतये ॥ २४.१॥ भालचक्षुषश्चक्षुषां धनम् । किञ्चिदस्तु मे शस्तवर्धनम् ॥ २४.२॥ साधुसन्ततिक्षेमकारिणी । घोरदानवानीकदारिणी ॥ २४.३॥ योगयुक्तसच्चित्तचारिणी । पादसेवकप्राज्ञतारिणी ॥ २४.४॥ पुष्पबाणजिन्नेत्रहारिणी । पातु मां जगच्चक्रधारिणी ॥ २४.५॥ द्वादशान्तभूजातशारिका । सर्ववाङ्मयस्यैककारिका ॥ २४.६॥ पुण्यकर्मसु स्वच्छमस्तका । योगशालिषु छिन्नमस्तका ॥ २४.७॥ आत्मनि स्थितेः सम्प्रदायिका । सर्वजन्मिनां सम्प्रवर्तिका ॥ २४.८॥ मां पुनातु सत्पूज्यपादुका । भाललोचनप्राणनायिका ॥ २४.९॥ दानतो यशः पौरुषाद्रमा । सम्पदो मदः शीलतः क्षमा ॥ २४.१०॥ सत्यतो जगत्यत्र गौरवम् । यज्ञतो दिवि स्थानमुज्ज्वलम् ॥ २४.११॥ संयमादघव्रातवीतता । योगतो महासिद्धिशालिता ॥ २४.१२॥ शर्वनारि ते पादसेवया । सर्वसत्फलावाप्तिरग्र्यया ॥ २४.१३॥ नोद्यमेन या सिद्धिरुत्तमा । विश्वनायिकावीक्षितेन सा ॥ २४.१४॥ सम्पदां रमा भारती गिराम् । त्वं शिवे प्रभुः प्राणसंविदाम् ॥ २४.१५॥ चक्षुषा नभोलक्ष्यधारिणा । सिद्ध्यतीव ते देवि धारणा ॥ २४.१६॥ आशिरो दधन्नाभितोऽनिलम् । देवि विन्दति त्वन्मुनिर्बलम् ॥ २४.१७॥ हृद्गृहान्तरे यद्विशोधनम् । तत्सवित्रि ते स्यादुपासनम् ॥ २४.१८॥ काऽप्यहम्मतिर्गोचरं विना । लोकधात्रि ते रूपभावना ॥ २४.१९॥ अस्यमण्डनं कोऽपि विद्यया । खण्डनं परः प्राह ना यया ॥ २४.२०॥ मातरेतया जीयते त्वया । एकया तनूभिन्नया धिया ॥ २४.२१॥ बाह्यदर्शने विश्वपङ्किला । अन्यथा भवस्यम्ब केवला ॥ २४.२२॥ खण्डवन्नृणां भासि भोगिनाम् । अस्यभिन्नचित् काऽपि योगिनाम् ॥ २४.२३॥ बन्ध एष यद्भासि खण्डिता । मोक्ष एष यद्भास्यखण्डिता ॥ २४.२४॥ एतदीशितुः पत्नि हृन्मुदे । सौप्रतिष्ठसद्गीतमस्तु ते ॥ २४.२५॥ 600 ॥ समाप्तं च षष्ठं शतकम् ॥
%c07-q1/Madhusudhan.Reddy/uma\_c07-q1\_itrans.txt medskip सप्तमं शतकम् पञ्चविंशः स्तबकः क्षेत्रमाला (इन्द्रवज्रावृत्तम्) कन्याकुमारी सुतरां वदान्या मान्या समस्तैः प्रकृतेरनन्या । आक्षेपकं सागरबुद्बुदानां हासं विधत्तां जगतः सुखाय ॥ २५.१॥ रक्ष स्वचेतो मदमत्सरादेर्- भिक्षस्व काले तनुरक्षणाय । वीक्षस्व रामेशवधूपदाब्जं मोक्षस्वलाभे यदि तेभिऽलाषः ॥ २५.२॥ लोकस्व दूरीकृतभक्तशोकं हालास्यनाथेक्षणपुण्यपाकम् । भीतिः सखे चेद्भवतः पवित्रं ज्योतिर्विशेषं जलचारिनेत्रम् ॥ २५.३॥ यो लोकते तामखिलाण्डराज्ञी- मज्ञानविध्वंसविधानविज्ञाम् । अम्बां परां जीवनलिङ्गशक्तिं भूयः स कायं न भवे लभेत ॥ २५.४॥ बिभ्रत्सहस्रं च मुखानि शक्तो वक्तुं गुणान् कः कमलालयस्य । जन्मापि यत्र प्रभवेज्जनानां मुक्त्यै मुनीनामपि दुर्लभायै ॥ २५.५॥ व्याघ्राङ्घ्रिवाताशनपूजितस्य नाट्यस्थलीनायिकया शिवस्य । नेत्राध्वभाजा शिवकामया वो मित्राणि कामाः फलिनो भवन्तु ॥ २५.६॥ आलोकतेऽपीतकुचामयि त्वा- मालोलचित्तामरुणाचले यः । निर्वेदवान् पर्वसुधांशुवक्त्रे सर्वे वशे तस्य भवन्ति कामाः ॥ २५.७॥ यः कुण्डलीपट्टणराजधानी- मालोकते कामपि कृत्तमस्ताम् । निस्सारमानन्दकथाविहीनं संसारमेतं स जहाति बुद्ध्या ॥ २५.८॥ दृष्ट्वा वधूमादिपुरीश्वरस्य यो लोचनारोचकमाधुनोति । तस्यान्तरङ्गं धुतसर्वसङ्गं भूयो भवारोचकमावृणोति ॥ २५.९॥ काञ्ची रमण्याः कुरुतां गृहस्थे क्वाणैर्मुदं कामपि किङ्किणीनाम् । काञ्ची भुवः पुण्यपुरी यतीन्द्र त्वामम्बिकानामरवैर्धिनोतु ॥ २५.१०॥ श्रीकालहस्तिस्थलदर्शनस्य कैलासवीक्षां पुनरुक्तिमाहुः । ज्ञानं प्रदातुं चरणाश्रितेभ्यो ज्ञानाम्बिका यत्र निबद्धदीक्षा ॥ २५.११॥ श्रीशैलशृङ्गस्य विलोकनेन सङ्गेन हीनो भविता मनुष्यः । धामास्ति यत्र भ्रमरालकायाः शान्तभ्रमं तद्भ्रमराम्बिकायाः ॥ २५.१२॥ तीरे विपश्चिद्वर पश्चिमाब्धेर्- गोकर्णगां लोकय भद्रकर्णीम् । बुद्धिं शिवां सर्वमनोरथानां सिद्धिं च यद्यस्ति मनोऽधिगन्तुम् ॥ २५.१३॥ धाम्नि प्रसिद्धे करवीरनाम्नि पुण्याभिधानां कृतसन्निधानाम् । देवीं परां पश्यति यो विरक्तो मुक्तेः स पाणिग्रहणाय शक्तः ॥ २५.१४॥ ज्ञाने दृढा ते यदि कापि काङ्क्षा नानेहसं मित्र मुधा क्षिपेमम् । सेवस्व देवीं तुलजापुरस्थां नैव स्वरूपादितरा किलेयम् ॥ २५.१५॥ गोपालिनीवेषभृतं भजस्व लीलासखीं तां भुवनेश्वरस्य । इष्टं हृदिस्थं तव हस्तगं स्यात् कष्टं च संसारभवं न भूयः ॥ २५.१६॥ आराध्यते वैतरणीतटस्था येनेयमम्बा विरजोऽभिधाना । आराधितं तेन समस्तमन्यत् सारो धरायामयमार्यगीतः ॥ २५.१७॥ सङ्गीयमानं स्थलमार्यबृन्दैर्- बृन्दारकाणां सरितस्तटेऽस्ति । यः कालिकां पश्यति कालकेशीं तत्रास्य कालादपि नैव भीतिः ॥ २५.१८॥ नीलाचलं सिद्धसमूहसेव्यं लीलानिकेतं प्रवदन्ति यस्याः । भद्रा परा काचन गुह्यमुद्रा कामेश्वरी सा भुवनस्य मूलम् ॥ २५.१९॥ माङ्गल्यगौरीपददर्शनस्य कर्ता तु भूत्वा सुकृतस्य भर्ता । आचारपूतैरधिगम्यमग्र्यं स्थानं प्रपद्येत यतो न पातः ॥ २५.२०॥ वाराणसी शुभ्रगिरेरनूनं क्षेत्रं पवित्रं भुवनत्रयेऽपि । अर्थे प्रजानां विधृतान्नपात्रा गौरी स्वयं यत्र विशालनेत्रा ॥ २५.२१॥ बृन्दारकाराधितपादपद्मां नन्दामिमामिन्दुसमानवक्त्राम् । आलोक्य विन्ध्याचलवासिनीं ना नालोचयेत्संसृतितो भयानि ॥ २५.२२॥ आनन्ददेहामिह मुक्तिसंज्ञां नारीं परीरब्धुमना मनुष्यः । दूतीं वृणोतु प्रमथेश्वरस्य कान्तामवन्तीपुरनायिकां ताम् ॥ २५.२३॥ यत्राचलच्छिद्रकृता सहाहं भ्रात्रा मुहुः खेलितवान् वनेषु । तं सिद्धदेवर्षिनुतं स्मरामि कैलासमावासगिरिं जनन्याः ॥ २५.२४॥ पूर्णाऽम्बरे शीतकरेऽधिकारं बिभ्रत्यगेन्द्रे धवले सलीला । क्षेत्रेषु काश्यादिषु गुप्तशक्तिर्- गौरीन्द्रवज्रासु च सन्निधत्ताम् ॥ २५.२५॥ 625
%c07-q2/Jayanth.Ganapathiraju/c07-q2।txt medskip षड्विंशः स्तबकः अपीतकुचाम्बा (दोधकवृत्तम्) आगमविन्मतिकैरविणीनां बोधमजस्रमसौ विदधानः । पातु महेशवधूवदनांशो हासशशी सकलानि कुलानि ॥ २६.१॥ आयतलोचनचुम्बितकर्णा दानयशोजिततोयदकर्णा । शोणनगेशमनः प्रियवर्णा नाशयताज्जगदार्तिमपर्णा ॥ २६.२॥ वेदतुरङ्गविलोचनभाग्यं वेदशिरोनिचयैरपि मृग्यम् । शोकविदारिसुधाकिरणास्यं शोणगिरौ समलोकि रहस्यम् ॥ २६.३॥ मुञ्च समस्तमनोरथलाभे संशयमद्य करामलकाभे । दृक्पथमाप नगेन्द्रतनूजा सोऽहमितः परमन्तरराजा ॥ २६.४॥ शिल्पविदः प्रतिमां प्रविशन्ती स्वल्पविदां तरणाय चकास्ति । शोणधराभृति सम्प्रति लब्धा हन्त चिरादियमेव ममाम्बा ॥ २६.५॥ भारतभूवलयेऽत्र विशाले सन्त्वनघानि बहूनि गृहाणि । आस्यविगीतसुधाकरबिम्बा शोणगिरौ रमतेऽत्र मदम्बा ॥ २६.६॥ वारितसंश्रितपातकजाला वारिधिवीचिनिरङ्कुशलीला । वारिजपत्रविडम्बननेत्रा वारणराजमुखेन सपुत्रा ॥ २६.७॥ आयतवक्रघनासितकेशी तोयजबाणरिपोर्हृदयेशी । काशसुमाच्छयशाः परमैषा पाशभिदस्तु तवेन्दुविभूषा ॥ २६.८॥ पङ्कजसम्भवपूजितपादा पङ्कविनाशनपावननामा । किङ्करकल्पलता परमेयं शङ्करनेत्रसुधा शरणं नः ॥ २६.९॥ चञ्चलदृग्विनतामरवल्ली पञ्चपृषत्कशरासनझिल्ली । काञ्चनगर्भमुखप्रणुतेयं पञ्चमुखप्रमदा शरणं नः ॥ २६.१०॥ अम्ब विधूय भटान्मदनादीन् नूपुरनादबिभीषिकयैषः । हन्त जहार बलेन मनो मे शोणनगाङ्घ्रिनिवासिनि तेऽङ्घ्रिः ॥ २६.११॥ कर्णपुटे कुरु मुग्ध ममोक्तिं मुञ्च धनादिषु मानससक्तिम् । शोणगिरीन्द्रवधूपदभक्तिं शीलय शीलय यास्यसि मुक्तिम् ॥ २६.१२॥ जीर्णतरे जरयाऽखिलदेहे बुद्धिबलं च विलुम्पति मोहे । हन्त सवित्रि तपन्मतिरन्ते सेवितुमिच्छति ना चरणं ते ॥ २६.१३॥ तन्त्रविदो नवयोनि तु चक्रं शोणधराधररूपमुशन्ति । अर्धममुष्य वपुर्मदनारे- रर्धमगेन्द्रसुते तव गात्रम् ॥ २६.१४॥ अस्तु नगेश्वरनन्दिनि लिङ्गं तैजसमेतदिहापि तवांशः । वीतगुणस्य विना तव योगं देवि शिवस्य कुतः खलु तेजः ॥ २६.१५॥ स्थापितमूर्तिरियं तव नम्या पूजयितुं जगदीश्वरि रम्या । शोणनगार्धमिदं तव रूपं कीर्तयितुं नगजे धुतपापम् ॥ २६.१६॥ शोणनगार्धतनोऽनिशमङ्के धारयसेऽयि गुहं रमणाख्यम् । आगतमप्ययि हा मुहुरम्बो- च्चाटयसे गणपं ननु कस्मात् ॥ २६.१७॥ अङ्कजुषे रमणाय नु दातुं मानववेषधराय गुहाय । शोणनगार्धतनो बहु दुग्धं मातरपीतकुचेह विभासि ॥ २६.१८॥ पूर्णसमाधिवशात् स्वपिषि त्वं पीतमपीतकुचेऽम्ब न वेत्सि । अङ्कजुषा रमणेन सुतेन प्रेक्ष्य यथेष्टमुरोरुहदुग्धम् ॥ २६.१९॥ ज्ञानरसाह्वयमम्ब निपीय स्तन्यमसौ रमणो मुनिराट् ते । ज्ञानमयोऽभवदीश्वरि सर्वः पुष्यति येन तनुं हि तदात्मा ॥ २६.२०॥ प्रीतिपदाय पयोधरकुम्भात् पार्वति धीमयदुग्धमपीतात् । अस्तु गुहाय शिवे बहु दत्तं किञ्चिदिवेश्वरि धारय मह्यम् ॥ २६.२१॥ प्रौढमिमं यदि वेत्सि तनूजं शैलसुते मदवारि दधानम् । मास्तुपयो वितरानघमन्नं येन दधानि महेश्वरि शक्तिम् ॥ २६.२२॥ स्वार्जितमेव मया यदि भोज्यं सम्मद एव ममाखिलमातः । आशिषमग्र्यतमामयि दत्त्वा प्रेषय यानि जयानि धरित्रीम् ॥ २६.२३॥ विद्युति विद्युति वीक्ष्यविलासा वीक्षितकर्मणि लक्ष्यरहस्या । पार्वणचन्द्रमुखी ललिताङ्गी तैजसलिङ्गसखी शरणं नः ॥ २६.२४॥ मातरपीतकुचेऽरुणशैला- धीश्वरभामिनि भामहनीये । साधु विधाय समर्पयते ते दोधकमाल्यमिदं गणनाथः ॥ २६.२५॥ 650
%c07-q3/Sarada.Susarla/uma-c07-q3-itrans.txt medskip सप्तविंशः स्तबकः प्रचण्डचण्डी (शिखरिणीवृत्तम्) विधुन्वन्ध्वान्तानि प्रतिदिशमधर्मं परिहरँ- च्छ्रियं व्यातन्वानस्सपदि शमयन् दुःखपटलम् । सहस्राराम्भोजे द्रवमसदृशं मे प्रजनयन् प्रचण्डायाश्चण्ड्यास्सितहसितलेशो विजयते ॥ २७.१॥ अरीणां शीर्षेषु ज्वलितदवकीलीन्द्रसदृशं विनम्राणां शीर्षेष्वमृतकरबिम्बेन तुलितम् । विरोधिध्वान्तानां तरुणतरणिप्राभवहरं प्रचण्डायाश्चण्ड्याश्चरणमसतां हन्तु विभवम् ॥ २७.२॥ भजे भासां शालां निखिलधिषणानां जनिभुवं बलानामाधात्रीं निखिलभुवनेन्द्रस्य दयिताम् । भजन्ते यां गीतैर्मधुसमयमाद्यात्पिकवधू- कलालापा हृद्यैर्हयवदनपङ्केरुहदृशः ॥ २७.३॥ ज्वलन्ती तेजोभिर्महिषमथने या तव तनुर्- लसन्ती लावण्यैर्गिरिशरमणे या तव तनुः । विना क्रोधप्रीति न किमपि तयोर्भेदकमभूत् तयोराद्या दुर्गा भवति ललिताऽन्या मुनिनुते ॥ २७.४॥ सहस्रं भानूनां भवति दिवासानामधिपतेः सहस्रं शीर्षाणां भवति भुजगानामधिपतेः । सहस्रं नेत्राणां भवति विबुधानामधिपतेः सहस्रं बाहूनां भवति समये हैमवति ते ॥ २७.५॥ प्रसन्नो वक्त्रेन्दुर्न च नयनयोः कोऽप्यरुणिमा न कम्पो बिम्बोष्ठे स्मितमपि लसत्काशविशदम् । सरोजाभः पाणिः किणविरहितः कोमलतमो ज्वलच्छूलं त्वासीज्जननि ताव शुम्भाय भयदम् ॥ २७.६॥ वधे शुम्भस्यासीत्तव जननि या काचन तनुर्- दधानाऽग्र्याः शक्तीः शशिकिरणसारोपमरुचिः । इमां ध्यायं ध्यायं स्मरहरसखि व्याकुलमिदं मनो मे विश्रान्तिं भजति भजतां कल्पलतिके ॥ २७.७॥ यदि त्वं संहारे पटुरसि सवित्रि त्रिजगत- स्तदेतत्त्वां याचे सरसिरुहगर्भादिविनुते । इमे मे पाप्मानो भगवति नदन्तो बहुविधा- स्तदेषु प्रख्यातं प्रतिभयतमं दर्शय बलम् ॥ २७.८॥ बिभेदोरः क्रोधात्कनककशिपोरब्धितनया- कुचग्रावोल्लीढैरतिशितशिखैर्यः किल नखैः । त्वया दत्ता शक्तिर्नरहरिशरीराय जगतां विनेत्रे पुंसेऽस्मै जननि रणरङ्गस्थलरमे ॥ २७.९॥ अजेयस्त्रैलोक्यप्रकटितपताकः पलभुजां बिडौजा यत्कारागृहपरिचयी पङ्क्तिवदनः । सहस्रारं साक्षाद्धृतनरशरीरं तमजयत् तवैवावेशेन प्रियपरशुरम्ब द्विजशिशुः ॥ २७.१०॥ त्वदीया सा शक्तिस्ककलजगदन्तेऽप्यनलसा पुरा कार्यस्यान्ते तनयमयि हित्वा नृपरिपुम् । अविक्षत्काकुत्स्थं दशमुखकुलोन्माथविधये सहस्रांशुं हित्वा शशिनमिव घस्रे गलति भा ॥ २७.११॥ हृते लोकव्राते भगवति भवत्यैव स पुरा- मरिः कीर्तिं लब्धुं चतुरमतिरायाति समये । त्वया लोकत्राणे जननि रचिते राक्षसबधाद् यशोऽवाप्तुं विष्णुर्मिलति च कुतोऽप्येष निपुणः ॥ २७.१२॥ स्वरूपं ते वज्रं वियति रजसां सूक्ष्ममहसा- मुपाधिस्ते स्तोमो भवति चपला काऽपि तनुभा । अरुद्धा ते व्याप्तिर्बलमखिलदत्तं बलनिधेः सहस्रांशः स्वस्य प्रभवसि समस्तस्य च शिवे ॥ २७.१३॥ यतः कालव्याजात्पचसि भुवनं वैद्युतमहः- प्रभावात्कालीं त्वामयि विदुरतः पण्डितवराः । प्रभोः शस्त्रं भूत्वा दहसि यदरीन्वज्रवपुषा प्रचण्डां चण्डीं तद्भगवति भणन्त्यक्षयबले ॥ २७.१४॥ अयि त्वामेवेन्द्रं कथयति मुनिः कश्चिदजरे त्वया शस्त्राढ्यं तं भणति तु परस्तत्त्वविदृषिः । युवां मातापुत्रौ भगवति विभाज्यौ न भवतस्- ततो धीनां द्वेधा विबुधजनगोष्ठीषु गतयः ॥ २७.१५॥ विकुर्वाणा विश्वं विविधगुणभेदैः परिणमद् विधुन्वाना भावान् भुवनगतिरोधाय भवतः । वितन्वाना शर्वं चलवदचलं काचिदवितुं विचिन्वाना जन्तोः कृतलवमपीशा विजयते ॥ २७.१६॥ प्रभा भानोर्यद्वद्भवसि सकलस्यापि तपनी प्रचण्डा शक्तिः सत्यखिलभुवनेशस्य तपतः । सुधांशोर्ज्योत्स्नेव प्रमदयसि चेतः प्रविशतो भवन्ती भूतादेर्दहरकुहरं मोदलहरी ॥ २७.१७॥ प्रचण्डा गौरी वा त्वमसि वसुरुद्रार्कविनुते स भीमः शम्भुर्वा विभुरभयदः पादसुहृदाम् । तयोरेकं रूपं तव सहविभोः खेलति मह- त्यमुष्मिन्नाकाशे धवलमहसि क्रीडति परम् ॥ २७.१८॥ विभक्ता या द्वेधा त्वमसि गगने शीतमहस- स्तथा रम्ये बिम्बे ज्वलितललितस्त्रीतनुविधा । तयोर्ब्रूहीशाने जननि कतमा मे जननभूः पुराजन्मन्यासीद्विकटमथवोग्रैव सुषुवे ॥ २७.१९॥ दृशोर्भेदाद् दृष्टेर्न भवति भिदा काऽपि करयोर्- न भेदाद्भिन्नं स्यात्कृतमभिविमानैक्यवशतः । भिदा तन्वोरेवं न भवति भिदायै तव शिवे वियद्देशे चण्ड्यां सितमहसि गौर्यां च भवति ॥ २७.२०॥ तव च्छिन्नं शीर्षं विदुरखिलधात्र्यागमविदो मनुष्याणां मस्ते बहुलतपसा यद्विदलिते । सुषुम्नायां नाड्यां तनुकरणसम्पर्करहिता बहिश्शक्त्या युक्ता विगतचिरनिद्रा विलससि ॥ २७.२१॥ उताहो तन्वङ्ग्यां भृगुकुलविधात्र्यां पितृगिरा तनूजेनच्छिन्ने शिरसि भयलोलाक्षि नलिने । न्यधास्तेजो भीमं निजमयि यदक्षुद्रमनघं तदाहुस्त्वामम्ब प्रथितचरिते कृत्तशिरसम् ॥ २७.२२॥ हुतं धाराज्वालाजटिलचटुले शस्त्रदहने तपस्विन्याः कायं भगवति यदाऽम्ब त्वमविशः । तदा तस्याः कण्ठप्रगलदसृजः कृत्तशिरसः कबन्धेन प्राप्तो भुवनविनुतः कोऽपि महिमा ॥ २७.२३॥ निधेस्त्वत्तो हृत्वा भगवति न लज्जे भुवि सृजन् रसक्षोणीर्वाणीस्त्वदमलयशस्सौरभजुषः । नृपोद्यानात्सूनोत्करमपहरन् भक्तिनटनं वितन्वानस्तस्मै मुहुरुपहरँत्सेवक इव ॥ २७.२४॥ दधानास्सन्तोषं मनसि सुकवीनामतितरां ददानाः प्रत्यग्रं विबुधसदसे भावमलघुम् । कुलानामुत्साहं सपदि विदधानाश्शिववधू- पराणां शोभन्तां जगति शिखरिण्यो गणपतेः ॥ २७.२५॥ 675
%c07-q4/Padmaja Pandalaneni/umasahasramu\_676-700।txt medskip अष्टाविंशः स्तबकः रेणुकादिवर्णनम् (वसन्ततिलकावृत्तम्) अन्तर्वलक्षपरिधिभ्रममादधानो वक्त्रस्य पूर्णतुहिनद्युतिमण्डलस्य । हासः करोतु भवतां परमं प्रमोदं शुद्धान्तपङ्कजदृशः प्रमथेश्वरस्य ॥ २८.१॥ सम्मोहनानि तुहिनांशुकलाधरस्य सञ्जीवनानि सरसीरुहसायकस्य । सन्दीपनानि विनतेषु जनेषु शक्तेः संहर्षणानि मम सन्तु शिवास्मितानि ॥ २८.२॥ पापानि मे हरतु काचन कृत्तशीर्षा माता पदाम्बुजभुजिष्यवितीर्णहर्षा । या भक्तलोकवरदानविधौ विनिद्रा वासं कमण्डलुधुनीपुलिने करोति ॥ २८.३॥ षष्ठावतारजननावनिरेकवीरा भीमा धुनोतु दुरितानि गणाधिपस्य । या भक्तरक्षणविधावतिजागरूका पुण्ये कमण्डलुधुनीपुलिने चकास्ति ॥ २८.४॥ छेदाय चेद् गतरजा मुनिरादिदेश चिच्छेद चेद्बहुगुणस्तनयः सवित्रीम् । दाह्यं शरीरमखिलप्रभुरीशशक्तिः यद्याविवेश च कथा परमाद्भुतेयम् ॥ २८.५॥ पुत्रः प्रियस्तव शिरः सहसा चकर्त कृत्ता च हर्षभरिता भवती ननर्त । नो तस्य पापमपि नो तव काऽपि हानिः नाशोऽस्य हा भुजभुवामभवद्विपाकः ॥ २८.६॥ अम्बैव सा सुरभिर्जुनभूपतिर्यां वीर्याज्जहार स च भार्गव आजहार । तस्या हतेः परगृहस्थितिरेव हेतुः गन्धर्वदर्शनकथा रिपुकल्पितैव ॥ २८.७॥ छिन्नानि नो कति शरीरभृतां शिरांसि तत्पूज्यते जगति रैणुकमेव शीर्षम् । कृत्ताः कलेवरवतां कति नाभयो न चेतो धिनोति सुरभिर्मृगनाभिरेकः ॥ २८.८॥ प्राणा वसन्ति शिरसा रहिते शरीरे लीलासरोजति शिरस्तु करेऽस्य कृत्तम् । तन्निघ्नमेतदखिलं च धियैव धीराः पश्यन्तु नन्दनगरे तदिदं विचित्रम् ॥ २८.९॥ प्राणेश्वरी विधिपुरे लसतः पुरारे- रङ्गीकरोतु शरणागतिमम्बिका मे । लब्धं निपीय यदुरोरुहकुम्भदुग्धं सम्बन्धमूर्तिरभवत्कविचक्रवर्ती ॥ २८.१०॥ अप्राप्य लोकरचनावनपातनेषु यस्यास्त्रयोऽपि पुरुषाः करुणाकटाक्षम् । नैवेशते किमपि सा जगदेकमाता भद्रा परा प्रकृतिरस्त्वघनाशिनी नः ॥ २८.११॥ राका प्रबोधशशिनो हृदयोदयस्य नौका विपज्जलनिधौ पततां जनानाम् । वेदध्वजस्य ललिता त्रिरुचिः पताका काचिन्ममास्तु शरणं शिवमूलटीका ॥ २८.१२॥ मौलौ महेन्द्रसुदृशस्सुमनोनिकाय- संशोभिते सदसि मान्य इवाभिजातः । रेणुश्च यच्चरणभूर्लभतेऽग्रपीठं त्राणाय सा भवतु भूतपतेर्वधूर्नः ॥ २८.१३॥ अम्बावृणोति परितोऽप्ययमन्धकारो नात्मानमेव मम किं तु कुलं च देशम् । शीघ्रं मदीयहृदयोदयपर्वताग्रे श्रीमानुदेतु तव पादमयूखमाली ॥ २८.१४॥ कष्टं धुनोतु मम पर्वतपुत्रिकायाः प्र्त्यग्रपङ्करुहबान्धवकान्तिकान्तम् । अम्भोरुहासनमुखामरमौलिरत्न- ज्योतिर्विशेषितगुणं चरणारविन्दम् ॥ २८.१५॥ ज्याशिञ्जितानि समरे गिरिशं जिगीषोः कामस्य हंसनिवहस्य निमन्त्रणानि । धुन्वन्तु मे विपदमद्रिकुमारिकायाः पादारविन्दकटकक्वणितानि तानि ॥ २८.१६॥ यः सर्वलोकमथनं महिषं जिगाय यस्यैव कर्म दमनं च तदन्तकस्य । नारीनराकृतिभृतो महसस्तमङ्घ्रिं मञ्जीरनादमधुरं शरणं व्रजामि ॥ २८.१७॥ आपन्महोग्रविषराशिनिमग्नमेतं दीनं त्वदीयचरणं शरणं प्रपन्नम् । उद्धर्तुमम्ब करुणापरिपूर्णचित्ते वित्तेशमित्रकुलनारि तवैव भारः ॥ २८.१८॥ लोकाधिराज्ञि पतितं विपदन्धकूपे संरुद्धदृष्टिमभितस्तिमिरच्छटाभिः । मातः समुद्धर कृपाकलिते मृडानि पुत्रं करेण जगतामभयङ्करेण ॥ २८.१९॥ अस्य त्वदीयपदपङ्कजकिङ्करस्य दुर्भाग्यपाकविफलीकृतपौरुषस्य । प्राणेश्वरि प्रमथलोकपतेरुपायं वीक्षस्व तारणविधौ निपुणे त्वमेव ॥ २८.२०॥ मृत्युञ्जयोरुमणिपीठतटे निषण्णे ताटङ्ककान्तिबहुलीकृतगण्डशोभे । माणिक्यकङ्कणलसत्करवारिजाते जाते कुलाचलपतेर्जहि पातकं नः ॥ २८.२१॥ किं ते वपुर्जननि तप्तसुवर्णगौरं कामारिमोहिनि किमिन्दुकलावलक्षम् । पाकारिनीलमणिमेचककान्त्युताहो बन्धूकपुष्पकलिकारुचि वा स्मरामि ॥ २८.२२॥ त्वं सुन्दरी नृपतिजातिजितस्त्वमम्बा धूमावती त्वमजरे भुवनेश्वरी त्वम् । काली त्वमीश्वरि शुकार्भकधारिणी त्वं तारा त्वमाश्रितविपद्दलनासिधारा ॥ २८.२३॥ त्वं भैरवी भगवती बगलामुखी त्वं रामा च सा कमलकाननचारिणी त्वम् । कैलासवासिनयनामृतभानुरेखे को वेद ते जननि जन्मवतां विभूतीः ॥ २८.२४॥ धुन्वन्तु सर्वविपदः सुकृतप्रियाणां धुन्वन्तु चाखिलसुखान्यघलालसानाम् । आवर्ज्य भूरिकरुणं पुरजित्तरुण्या- श्चित्तं वसन्ततिलकाः कविभर्तुरेताः ॥ २८.२५॥ 700 ॥ समाप्तं च सप्तमं शतकम् ॥
%c08-q1/Sesha.talpasAyi.Vadapalli/c08\_q1\_itrans.txt medskip अष्टमं शतकम् एकोनत्रिंशः स्तबकः नवविधभजनम् (मदलेखावृत्तम्) आयुष्या भुवनानां चक्षुष्यास्त्रिपुरारेः । कुर्वन्तु प्रमदं नः पार्वत्याः स्मितलेशाः ॥ २९.१॥ नात्यर्घाणि निरर्थं नेतव्यानि दिनानि । अम्बायाश्चरितानि श्रोतव्यान्यनघानि ॥ २९.२॥ उद्योगं कुरु जिह्वे संहर्तुं दुरितानि । पूतान्यद्रिसुतायाः कीर्त्यन्तां चरितानि ॥ २९.३॥ श्रीसक्तिर्विनिवार्या चिन्ता काऽपि न कार्या । नित्यं चेतसि धार्या दीनानां गतिरार्या ॥ २९.४॥ ज्ञातुं या गदितुं या श्रोतुं या श्वसितुं या । द्रष्टुं याऽन्तरशक्तिस्तिष्ठात्र स्मृतिरेषा ॥ २९.५॥ विभ्राजीनशताभं बिभ्राणं शिरसीन्दुम् । स्मर्तव्यं जगदम्बारूपं वा धुतपापम् ॥ २९.६॥ येषां स्यात्परितप्तं प्रायश्चित्तमघेन । रुद्राणीपदसेवा प्रायश्चित्तममीषाम् ॥ २९.७॥ तद्दीप्तं पदयुग्मं सेवे यत्र भवन्ति । अङ्गुल्यो दश भानोर्भानूनां शतकानि ॥ २९.८॥ नो चेत् कुप्यसि किञ्चिद् याचे वाचमतीते । सेवां मातरुरीकुर्विष्टं मे कुरु मा वा ॥ २९.९॥ शर्वाणीचरणार्चापीठं पीवरकाणाम् । वध्यस्थानमिदं स्यादुग्राणां दुरितानाम् ॥ २९.१०॥ स्कन्दाम्बापदपीठस्पृष्टं चेद्बलमाप्तम् । एकैकं सुममंहस्वेकैकं कुलिशं स्यात् ॥ २९.११॥ अम्भोजोपममङ्घ्रिं शम्भोः पट्टमहिष्याः । अंहस्संहतिमुग्रां संहर्तुं प्रणमामः ॥ २९.१२॥ ये कालीपदवेषं नालीकं प्रणमन्ति । नैषां किञ्चिदशक्यं नालीकं मम वाक्यम् ॥ २९.१३॥ वासस्तेऽत्र समाप्तः पङ्केतो व्रज दूरम् । कालीं शङ्करनारीं कालेऽस्मिन् प्रणमामः ॥ २९.१४॥ आशा रे तदवस्था भूभागनटतस्ते । कामानां क्व नु पारः कामारेर्नम नारीम् ॥ २९.१५॥ धन्यास्ते तुहिनाद्रेः कन्यां ये प्रणमन्ति । अन्यानुन्नतशीर्षान् मन्ये वन्यलुलायान् ॥ २९.१६॥ पादाम्भोजमुमायाः प्राज्ञास्सम्प्रणमन्तः । गृह्णन्ति श्रियमस्मिन् राजन्तीं निजशक्त्या ॥ २९.१७॥ मन्दाराद्रिसुताङ्घ्री दातारौ सदृशौ स्तः । उत्कण्ठैः फलमाद्यादन्यस्मान्नतकण्ठैः ॥ २९.१८॥ कालस्यापि विजेतुः शर्वाण्याश्चरणस्य । एषोऽहं कविलोकक्ष्मापालोऽस्मि भुजिष्यः ॥ २९.१९॥ रक्ते दर्शय रागः रुद्राणीपदपद्मे । चेतः पुष्यति शोभां सारस्सारवतोऽग्रे ॥ २९.२०॥ संशोध्यागमजालं सारांशं प्रवदामः । स्कन्दाम्बापदभक्तिर्भुक्त्यै चाथ विमुक्त्यै ॥ २९.२१॥ वात्सल्यं गतिहीनेष्वायुष्यं सुकृतस्य । भूयोभिः सह सख्यं श्रीहेतुष्विह मुख्यम् ॥ २९.२२॥ श्लाघ्यं पुष्यति कामं प्रेमा स्वप्रमदायाम् । शर्वाणीपदभक्तिर्नित्याय प्रमदाय ॥ २९.२३॥ एकैवं बहुभेदा भिन्नत्वाद्विषयाणाम् । रत्याख्या द्रुतिरन्तः सा सूते फलभेदान् ॥ २९.२४॥ हर्षं कञ्चन मातुर्मत्तो भक्तिभरेण । तन्वन्नेष विधत्तां हेरम्बो मदलेखाः ॥ २९.२५॥ 725
%c08-q2/Pattabhi.Nadimpally/enimidava\_satakamu\_dvitiya\_stabakamu\_726\_750।txt medskip त्रिंशः स्तबकः मानसपूजा (प्रमाणिकावृत्तम्) कृतेन सा निसर्गतो धृतेन नित्यमानने । सितेन शीतशैलजा स्मितेन शं तनोतु मे ॥ ३०.१॥ प्रतिक्षणं विनश्वरानये विसृज्य गोचरान् । समर्चयेश्वरीं मनो विविच्य विश्वशायिनीम् ॥ ३०.२॥ विशुद्धदर्पणेन वा विधारिते हृदाऽम्ब मे । अयि प्रयच्छ सन्निधिं निजे वपुष्यगात्मजे ॥ ३०.३॥ पुरस्य मध्यमाश्रितं सितं यदस्ति पङ्कजम् । अजाण्डमूल्यमस्तु ते सुरार्चिते तदासनम् ॥ ३०.४॥ अखण्डधारया द्रवन्नवेन्दुशेखरप्रिये । मदीयभक्तिजीवनं दधातु तेऽम्ब पाद्यताम् ॥ ३०.५॥ विवासनौघमानसप्रसादतोयमम्ब मे । समस्तराज्ञि हस्तयोरनर्घमर्घ्यमस्तु ते ॥ ३०.६॥ महेन्द्रयोनिचिन्तनाद् भवन्भवस्य वल्लभे । महारसो रसस्त्वया निपीयतां विशुद्धये ॥ ३०.७॥ सहस्रपत्रपङ्कजद्रवत्सुधाजलेन सा । सहस्रपत्रलोचना पिनाकिनोऽभिषिच्यते ॥ ३०.८॥ ममार्जितं यदिन्द्रियैः सुखं सुगात्रि पञ्चभिः । तदम्ब तुभ्यमर्पितं सुधाख्यपञ्चकायताम् ॥ ३०.९॥ वसिष्ठगोत्रजन्मना द्विजेन निर्मितं शिवे । इदं शरीरमेव मे तवास्तु दिव्यमंशुकम् ॥ ३०.१०॥ विचित्रसूक्ष्मतन्तुभृन्ममेयमात्मनाडिका । सुखप्रबोधविग्रहे मखोपवीतमस्तु ते ॥ ३०.११॥ महद्विचिन्वतो मम स्वकीयतत्त्ववित्तिजम् । इदं तु चित्तसौरभं शिवे तवास्तु चन्दनम् ॥ ३०.१२॥ महेशनारिनिःश्वसँस्तथाऽयमुच्छ्वसँस्तदा । तवानिशं समर्चको ममास्तु जीवमारुतः ॥ ३०.१३॥ विपाककालपावकप्रदीप्तपुण्यगुग्गुलुः । सुवासनाक्यधूपभृद् भवत्वयं ममाम्ब ते ॥ ३०.१४॥ गुहावतारमौनिना मयीश्वरि प्रदीपिता । इयं प्रबोधदीपिका प्रमोददायिकाऽस्तु ते ॥ ३०.१५॥ इमामयि प्रियात्प्रियां महारसामहङ्कृतिम् । निवेदयामि भुज्यतामियं त्वया निरामये ॥ ३०.१६॥ सरस्वती सुधायते मनो दधाति पूगताम् । हृदेव पत्रमम्बिके त्रयं समेत्य तेऽर्प्यते ॥ ३०.१७॥ विनीलतोयदान्तरे विराजमानविग्रहा । निजाविभूतिरस्तु ते तटिल्लता प्रकाशिका ॥ ३०.१८॥ स्वरोऽयमन्तरम्बिके द्विरेफवत्स्वरँस्तदा । ममाभिमन्त्र्य धीसुमं ददाति देवि तेऽङ्घ्रये ॥ ३०.१९॥ तवार्चनं निरन्तरं यतो विधातुमस्म्यहम् । न विश्वनाथपत्नि ते विसर्जनं विधीयते ॥ ३०.२०॥ वियोग इन्दुधारिणा न चेह विश्वनायिके । मदम्ब सोऽत्र राजते तटिल्लताशिखान्तरे ॥ ३०.२१॥ इदं शरीरमेककं विभाव्य नव्यमन्दिरम् । विहारमत्र सेश्वरा भवानि कर्तुमर्हसि ॥ ३०.२२॥ जडेष्विवालसेष्विव प्रयोजनं न निद्रया । विहर्तुमेव याच्यसे हृदीशसद्मराज्ञि मे ॥ ३०.२३॥ अयं तवाग्रिमः सुतः श्रितो मनुष्यविग्रहम् । तनूजवेश्मसौष्ठवं मृडानि पश्य कीदृशम् ॥ ३०.२४॥ गणेशितुर्महाकवेरसौ प्रमाणिकावली । मनोम्बुजे महेश्वरीप्रपूजनेषु शब्द्यताम् ॥ ३०.२५॥ 750
%c08-q3/Sesha.talpasAyi.Vadapalli/c08\_q3\_itrans.txt medskip एकत्रिंशः स्तबकः नामवैभवम् (उपजातिवृत्तम्) दरस्मितश्रीकपटा सुपर्व- स्रोतस्विनी पर्वतजास्यजाता । पङ्कं मम क्षालयतादशेषं संसारमग्ने हृदये विलग्नम् ॥ ३१.१॥ हराट्टहासेन समं मिलित्वा पित्रेव पुत्रो गुरुणेव शिष्यः । विभ्राजमानो मम शं करोतु हासाङ्कुरः केसरिवाहनायाः ॥ ३१.२॥ नमश्शिवायै भणत द्विपादो युष्माकमग्र्यां धिषणां दधत्यै । आधारचक्रेशितुरम्बिकायै ब्रह्माण्डचक्रस्य विधायिकायै ॥ ३१.३॥ नदन्ति गावोऽपि विशिष्टकाले- ष्वम्बेति यो नाह्वयते स किं ना । लक्ष्यं पुनः प्राणवदस्तु सर्वं सर्वस्य चान्तर्हि पराऽस्ति शक्तिः ॥ ३१.४॥ आत्मन्युतान्यत्र विधाय लक्ष्यं तां शक्तिमाद्यामखिलेषु सुप्ताम् । यावत्प्रबोधं मुहुराह्वयस्व प्रबुध्यते सा यदि किन्न्वसाध्यम् ॥ ३१.५॥ ये नाम शान्तिं परमां वहन्तो नामानि शीताचलपुत्रिकायाः । सङ्कीर्तयन्तो विजने वसन्ति जयन्ततातादपि ते जयन्ति ॥ ३१.६॥ नामानि सङ्कीर्तयतां जनानां कारुण्यवत्याः करिवक्त्रमातुः । पुनर्जनन्या जठरे निवासा- दायासवत्ता भवतीति मिथ्या ॥ ३१.७॥ पापैस्समन्तात्समभिद्रुतोऽपि विश्वस्य ते विक्रममस्मि धीरः । न चेद्रसज्ञे भवती ब्रवीति नामानि शीतांशुभृतो हतोऽहम् ॥ ३१.८॥ देहीति सम्पल्लवदर्पितानां द्वारेषु घोषं कुरुषे परेषाम् । भवानि भद्रे भुवनाम्ब दुर्गे पाहीति नायाति किमम्ब जिह्वे ॥ ३१.९॥ वाक्यानि वक्तुं यदि ते रसज्ञे रसोज्ज्वलानि व्यसनं गरीयः । किं वा नमोन्तानि सुधां किरन्ति नामानि नो सन्ति कुमारमातुः ॥ ३१.१०॥ यद् गीयते शैलसुताभिधानं तदेव बोध्यं सुकृतं प्रधानम् । अज्ञानिलोकस्य कृते भणन्ति यज्ञादिपुण्यानि पराणि विज्ञाः ॥ ३१.११॥ साम्ना प्रयुक्तेन जगद्वशे स्यात् नाम्ना सदोक्तेन जगद्विनेत्री । वेदोभयं सम्यगिदं कृती यो भवे भयं तस्य कुतोऽपि न स्यात् ॥ ३१.१२॥ सङ्कीर्तनात्तुष्यति शर्वयोषा तुष्टा त्वभीष्टं न ददाति नैषा । इमं त्वविज्ञाय जगत्युपायं ब्रजन्त्यपायं बहुधा मनुष्याः ॥ ३१.१३॥ भाषे भुजङ्गाभरणप्रियाया नामानि कामानितरान् विहाय । अपि प्रपञ्चातिगघोरकृत्यं करोतु किं मां तरणेरपत्यम् ॥ ३१.१४॥ यज्ञेन दानैः कठिनव्रतैर्वा सिद्धिं य इच्छेत्स ग्रहीतुमिच्छेत् । मातुः शयानोऽङ्कतले शशाङ्कं महेश्वरीं कीर्तयतस्तु सिद्धिः ॥ ३१.१५॥ रहस्यतन्त्राणि विविच्य दूरं व्याजं विमुच्य प्रवदामि सारम् । नामैव कामारिपुरन्ध्रिकायाः सिद्धेर्निदानं न मखो न दानम् ॥ ३१.१६॥ पीयूषमीषन्मधुरं भणन्ति ये नाम रामाधरपानलोलाः । कामारिरामाह्वयगानलोलाः कवीश्वराः काञ्जिकमालपन्ति ॥ ३१.१७॥ सुधाघटः कोऽप्यधरो वधूनां कविस्सुधातोयधरोऽभिधेयः । अयं सुधावीचिवितानमाली नामप्रणादो नगकन्यकायाः ॥ ३१.१८॥ सुरालये भातितरां सुधैका सुधा परा वाचि महाकवीनाम् । बिम्बाधरे कञ्जदृशां सुधाऽन्या सुधेतरा नामनि लोकमातुः ॥ ३१.१९॥ माधुर्यमाभात्यधरे वधूनां चकोरबन्धोः शकले प्रसादः । त्रिस्रोतसो वारिणि पावनत्वं त्रयं च नाम्नि त्रिपुराम्बिकायाः ॥ ३१.२०॥ या माधुरी प्रेमभरेण दष्टे जागर्ति कान्तावरदन्तचेले । सा दृश्यते भक्तिभरेण गीते धराधराधीशसुताभिधाने ॥ ३१.२१॥ यत्ते जगल्लम्पटकेऽपि वर्णा- स्तन्मेऽमृतं नाम नगात्मजायाः । लालामयो यो मम तं ब्रवीषि सुधामयं स्त्रीदशनच्छदं त्वम् ॥ ३१.२२॥ उच्चारयोच्चाटितपातकानि नामानि जिह्वे भुवनस्य मातुः । तदा वदामो मधुचूतरम्भा- रामाधरास्ते रुचये यदि स्युः ॥ ३१.२३॥ ᳚ ᳚ @@773 ᳚ ᳚ आक्षेपमिक्षोरधिकं विधत्ते पीयूषदोषानभितोऽभिधत्ते । कान्ताधरारब्धदुरन्तवादः कपर्दिकान्तावरनामनादः ॥ ३१.२४॥ विश्वासहीनैः सुतरामबोध्यं नामानुभावं नगकन्यकायाः । जयन्तु सिद्धैरपि गीयमानं गायन्त्य एता उपजातयो नः ॥ ३१.२५॥ 775
%c08-q4/Jayaram.Manda/itrans.txt medskip द्वात्रिंशः स्तबकः भक्तिर्योगश्च (आर्यागीतिवृत्तम्) विदधातु सम्पदं मे सकलजगन्नाथनयनहारिज़्योत्स्नः । शीतोऽन्धकारहारी हासशशी कश्चिदङ्करहितो मातुः ॥ ३२.१॥ करुणारसार्द्रहृदया हृदयान्तरनिर्यदच्छवीचिस्मेरा । प्रमथेश्वरप्रियतमा पादप्रेष्यस्य भवतु कल्याणय ॥ ३२.२॥ कारणकार्यविभेदाद् रूपद्वितयं तवाम्ब यदृषिप्रोक्तम् । तत्रैकं भर्तुमिदं विहर्तुमन्यत्तु भुतभर्तुर्ललने ॥ ३२.३॥ श्रोतुं स्तोत्रविशेषं भक्तविशेषं च बोद्धुमयमीदृगिति । दातुं च वाञ्छितार्थं तव मातश्चन्द्रलोकरूपं भवति ॥ ३२.४॥ कीशकिशोरन्यायात् कारणरूपं तवाम्ब योगी धत्ते । ओतुकिशोरन्यायाद् भक्तं परिपासि कार्यरूपेण त्वम् ॥ ३२.५॥ दृढधारणा न चेत्त्व- च्च्यवते योगी महेशनयनज्योत्स्ने । नायं ममेति भाव- स्तव यदि सद्यः सवित्रि भक्तं त्यजसि ॥ ३२.६॥ शिथिलधृतिर्योगी स्याद् बाह्यैर्विषयैर्नितान्तमाकृष्टो यः । स्वीयमतिर्लुप्यति ते भक्तेऽहन्ताप्रसारकलुषे मातः ॥ ३२.७॥ साहङ्कृतिर्न भक्तिः सबाह्यविषया धृतिर्न सर्वेश्वरि ते । अविजानन्तावेतद् भक्तो योगी च नैव सिद्धौ स्याताम् ॥ ३२.८॥ व्यक्तित्वादपि यस्य प्रियं त्वदीयं सवित्रि पादाम्भोजम् । सोऽद्भुतशक्तिर्भक्तो भगवति किं किं करोति नास्मिन् जगति ॥ ३२.९॥ व्यक्तित्वलोभविवशे सिद्धः कामोऽपि भवति समवच्छिन्नः । प्राप्तोऽपि सलिलराशिं सलिलानि घटः कियन्ति सङ्गृह्णीयात् ॥ ३२.१०॥ जीवन्नेव नरो यः सायुज्यं ते प्रयाति शम्भोः प्रमदे । सर्वे कामास्तस्य प्रयान्ति वशमाशु वीतविविधभ्रान्तेः ॥ ३२.११॥ व्यक्तित्वं तुभ्यमिदं मनीषया मे प्रदत्तमधिकारिण्या । बहुकालभोगबलतो विवदति देहो मदम्ब किं करवाणि ॥ ३२.१२॥ स्थूलेन वर्ष्मणा सह सूक्ष्मा कलहं मतिर्न कर्तुं शक्ता । सुतरां बलवति मातर्- बलाद् गृहाण स्वयं त्वमस्मात्स्वीयम् ॥ ३२.१३॥ सर्वेषां हृदि यस्मात्- त्वमसि प्राणात्मिकाम्ब हेतोस्तस्मात् । अखिलप्राण्याराधन- माराधननिर्विशेषमगपुत्रि तव ॥ ३२.१४॥ जुह्वति केऽपि कृशानौ तस्मात्प्राप्तिस्तवेति सम्पश्यन्तः । अपरे प्राणिषु जुह्वति साक्षात्प्राणात्मिकाऽसि तेष्वन्तरिति ॥ ३२.१५॥ प्राणिष्वपि यः प्राणं भूतादिमनादिमात्मनि स्थितमनघम् । सततमुपास्ते योगी तस्मिन् होमेन तेऽम्ब तृप्तिस्सुलभा ॥ ३२.१६॥ आत्मनि योऽम्ब श्रेष्ठे प्राणे प्राणान् जुहोति दहराभिमुखः । त्वद्रूपे हतपापे तेन जितं सकलमीशचित्तारामे ॥ ३२.१७॥ उपसंहृतमखिलेभ्यो विषयेभ्यो निर्निमेषमन्तःकृष्टम् । हृदि दृढपदेन चक्षु- स्त्वद्रूपे हूयते मदम्ब प्राणे ॥ ३२.१८॥ अन्तस्स्वरं निगूढं श्रेष्ठप्राणस्य देवि तव भागस्य । शृण्वदिव प्रणवाख्यं श्रवणं तत्रैव भवति जगदम्ब हुतम् ॥ ३२.१९॥ सर्वेषां मन्त्राणां स्तोत्राणां चेशचित्तनाथे प्रकृतौ । गूढं सदा स्वरन्त्यां प्राणन्त्यां त्वयि जुहोति मौनी वाचम् ॥ ३२.२०॥ देहे स्खलति मनश्चेत् विषयेषु हुतं दधाति विषयात्मत्वम् । आवृत्तं यदि देहाद् सूक्ष्मायां त्वयि हुतं त्वदाकृति भवति ॥ ३२.२१॥ त्वग्रसनघ्राणाना- मनुभूतीः प्राणशक्तिसात्कुर्वाणः । कं नार्पयते भोगं भगवति ते सर्वलोकपार्थिववनिते ॥ ३२.२२॥ गच्छन् कुर्वन् विसृजन् रममाणाश्चाम्ब सकललोकाधीशे । यः केवलां क्रियामपि चिन्तयते तेन नित्ययज्ञः क्रियते ॥ ३२.२३॥ सर्वेषामग्नीनां प्राणाग्निस्तव विभूतिरुक्तः श्रेष्ठः । तस्मिन्हुतं तु सुहुतं द्रव्याणि धियः क्रियाश्च मन्त्रः प्रणवः ॥ ३२.२४॥ आर्यागीतीनामय- मधरीकृतमधुसुधाधिमाधुर्यरसः । वर्गो गणपतिवदना- न्निष्क्रान्तो भवतु शर्वसुदृशः प्रीत्यै ॥ ३२.२५॥ 800 ॥ समाप्तं च अष्टमं शतकम् ॥
%c09-q1/Karthik.Sitaram.Tenneti/c09-q1।txt medskip नवमं शतकम् त्रयस्त्रिंशः स्तबकः जपो योगोऽर्पणं च (वंशस्थवृत्तम्) सुधां किरन्तोऽखिलतापहारिणीं तमो हरन्तः पटलेन रोचिषाम् । श्रियं दिशन्तो दिशि दिश्यसङ्क्षयां जयन्ति शीताद्रिसुतास्मिताङ्कुराः ॥ ३३.१॥ कृपाकटाक्षस्तव केन वाऽऽप्यते महेशशुद्धान्तपुरन्ध्रि कर्मणा । निरन्तरं मन्त्रजपेन वा मतेर्- विशोधनेनोत मनोर्पणेन वा ॥ ३३.२॥ विशोधनाद्देवि मतेः प्रगृह्यसे मनोर्पणेनेशवधु प्रसीदसि । जपेन मन्त्रस्य शुभस्य वर्धसे जगत्त्रयीधात्रि कलेबरान्तरे ॥ ३३.३॥ मनःप्रतापस्य भवत्यसंशयं प्रवर्धनं वैदिकमन्त्रचिन्तनम् । प्रशस्यते प्राणमहःप्रदीपने दयान्विते तान्त्रिकमन्त्रसेविता ॥ ३३.४॥ तवाम्बिके तान्त्रिकमन्त्रमुत्तमं स्तवातिगं यः कनकाङ्गि सेवते । विचित्रयन्त्रादिव वैद्युतं मह- स्ततो विनिर्यद् भुवनं विगाहते ॥ ३३.५॥ न तस्य चेतो विकृतेर्वशे भवे- न्न तस्य दृष्टिर्विषयैर्विकृष्यते । न तस्य रोगैरपकृष्यते वपुः सवित्रि यस्ते भजते महामनुम् ॥ ३३.६॥ स्मरन्ति मायां गगनाग्निशान्तिभिः सहाच्छभासा सहिताभिरम्बिके । तथा रसज्ञां द्रुहिणाग्निशान्तिभिर्- भणन्ति दोग्ध्रीं तु खषष्ठबिन्दुभिः ॥ ३३.७॥ अभण्यताद्या भुवनेश्वरी बुधैर्- अनन्तरा मातरगादि कालिका । प्रचण्डचण्डी परिकीर्तिता परा त्रयोऽप्यमी ते मनवो महाफलाः ॥ ३३.८॥ उपाधिभूतं शुचि नाभसं रजो दधाति साक्षाद् भुवनेश्वरीपदम् । तदाश्रया व्यापकशक्तिरद्भुता मनस्विनी काचन कालिकेरिता ॥ ३३.९॥ अमर्त्यसाम्राज्यभृतः प्रवर्तिका विशाललोकत्रयरङ्गनर्तिका । पराक्रमाणामधिनायिकोच्यते प्रचण्डचण्डीति कला सवित्रि ते ॥ ३३.१०॥ स्मरन्मनुं रोदिति भक्तिमांस्तव प्रगृह्य पादं मुनिरम्ब लम्बते । फलं चिराय प्रथमः समाप्नुयात् परो मरन्दं पद एव विन्दति ॥ ३३.११॥ पदं तवान्विष्टमनेकदा मुदा हृदन्तरे स्पृष्टमिवेदमम्बिके । पलायतेऽधोऽहमनन्तरं शुचा परात्परे रोदिमि मन्त्रशब्दतः ॥ ३३.१२॥ भणन्ति सन्तो मरुतां सवित्रि ते महामनुं त्वत्पदभास्करातपम् । ततो हि मूलात्स्वर एष निर्गत- स्तपत्यघौघं जरयन्महोमयः ॥ ३३.१३॥ सवित्रि साक्षाच्चरणस्य ते प्रभां विधारयँस्तज्जनिमूलमार्गणे । मुहुर्मुहुस्सोऽहमजे धृतोद्यमः पथा महर्षी रमणो बभाण यम् ॥ ३३.१४॥ अहम्पदार्थो यदि चिल्लता तता किमेष दोग्ध्रीमनुभावतोऽपरः । अहं यदि प्राणनिनादवैखरी न कूर्च आख्यातुमसेति शक्यते ॥ ३३.१५॥ परे तु यां चेतनशक्तिमामन- न्त्यभाणि सा कुण्डलिनीति तान्त्रिकैः । विलक्षणा नाम चमत्कृतिर्जडान् प्रतारयत्यागमसारदूरगान् ॥ ३३.१६॥ भवत्यखण्डानुभवः प्रबोधिना- मतीव सूक्ष्मानुभवश्च योगिनाम् । करं गतास्सर्वविधाश्च शेरते महेश्वरीमन्त्रपरस्य सिद्धयः ॥ ३३.१७॥ सहस्रसङ्ख्यानि जनूंषि वा मम प्रियाणि भक्तिस्तव चेद्भवे भवे । तव स्मृतिं चेद् गलयेन्न सम्मदं करोति मोक्षोऽपि ममेशवल्लभे ॥ ३३.१८॥ विनैव दृष्टिं यदि सत्प्रशिष्यते न सत्तयाऽर्थः फलहीनया तया । इदं तु सत् किन्न्वसतो विशिष्यते न तात मुक्तोपलयोस्तदा भिदा ॥ ३३.१९॥ शुचां निवृत्तिर्यदि मुक्तिरिष्यते सुखप्रवृत्तिर्यदि नात्र विद्यते । सदेव चेत्तत्र मतिर्न भासते जडं विमुक्ताद्वचसैव भिद्यते ॥ ३३.२०॥ मतिः पराची व्यवहारकारणं भवेत्प्रतीची परमार्थसम्पदि । उभे दिशौ यस्य मतिर्विगाहते पदा च मूर्ध्ना च स सिद्ध इष्यते ॥ ३३.२१॥ दृढं पदं यस्य मतेः सदाऽन्तरे स ना धियोऽग्रेण बहिश्चरन्नपि । सवित्रि मग्नस्त्वयि सम्प्रकीर्त्यते न तस्य भीः सञ्चरतोऽपि संसृतेः ॥ ३३.२२॥ विचिन्तने चिन्तनशक्तिमद्भुतां विलोकने लोकनशक्तिमुज्ज्वलाम् । प्रभाषणे भाषणशक्तिमुत्तमां निभालयंस्त्वां विषयैर्न जीयते ॥ ३३.२३॥ विलोकमानस्य विलोकनं कवेर्- विलोक्यमानेषु विहाय सक्तताम् । विलोचने सन्निहिता निरन्तरं विधूतभीतिर्विबुधस्तुता शिवा ॥ ३३.२४॥ अयं भयानां परिमार्जकस्सतां समस्तपापौघनिवारणक्षमः । मनोज्ञवंशस्थगणो गणेशितुर्- मनो महेशाब्जदृशो धिनोत्वलम् ॥ ३३.२५॥ 825
%c09-q2/Muralidhar.Kalavacharla/uma\_sahasram\_chap9-q2।txt medskip चतुस्त्रिंशः स्तबकः प्रार्थना (हरिणीवॄत्तम्) विदितमहिमा विश्वाधानादनेकविधाद्भुतात् प्रथितचरितः शर्वालोकप्रतापविवर्धनात् । प्रकटितगुणः पापध्वान्तप्रसारनिरोधनात् प्रदिशतु शिवाहासो भासां निधिः कुशलानि मे ॥ ३४.१॥ हृदि करुणया पूर्णा बाह्वोर्बलेन महीयसा पदकमलयोर्लक्ष्म्या भक्तैर्जनैरुपजीव्यया । मुखसितकरे लावण्येन त्रिणेत्रदृशां बलं बहु विदधता काली माताऽवतात्पदसेविनम् ॥ ३४.२॥ जगदधिपया सिद्धं दोग्ध्र्याऽथवोत रसज्ञया मुनिजननुतं देवीमन्त्रं जपेद्यदि मानवः । अमृतजलदीभूतः पूतः वियोगविशेषवित् स इह वसुधालोके धारा गिरामभिवर्षति ॥ ३४.३॥ इममभिमुखीभूता शातोदरी कमलालया हयगजघटापूर्णाऽभ्यर्णं समेत्य निषेवते । सविबुधमिदं विश्वं तस्य प्रयाति पुनर्वशं प्रथितयशसां सिद्धीनां चाप्यमुं भजतेऽष्टकम् ॥ ३४.४॥ सुविमलधियस्तस्य क्रोधाद् दृगम्बुधुतद्युती रिपुजनवधूगण्डाभोगो भवेदुत पाण्डुरः । सपदि भुवनव्याप्तं चाप्तैः प्रमाणपुरस्सरं भणितमजरं भद्रं ज्योतिः परं हृदि भासते ॥ ३४.५॥ अदयमरिभिः क्रान्ते राष्ट्रे त्वमीश्वरि रक्षिका सुमशरमुखैर्धूते चित्ते त्वमीश्वरि रक्षिका । प्रबलदुरितैर्ग्रस्ते वंशे त्वमीश्वरि रक्षिका- ऽप्यसृजति जलं मेघे मोघे त्वमीश्वरि रक्षिका ॥ ३४.६॥ भगवति निजौ साक्षात्पुत्रौ बृहस्पतिपावकौ गणपतिगुहावेतौ वेषान्तरव्यवहारतः । भरतधरणीखण्डे हेतोः कुतः कृतसम्भवौ कलकलयुते काली देवि व्यधाः कथय द्रुतम् ॥ ३४.७॥ समयमयि ते धृत्वा पादाम्बुजं रमणः सुतो गिरिवरगुहास्वन्तः शान्तो नयेद्यदि नाद्भुतम् । स्थलविरहतः स्वीयस्थाने किमत्र समागतो न वदसि कुतः कार्यं तस्मै कुलाचलकन्यके ॥ ३४.८॥ परिभणति चेच्छिष्यव्यूहे महाद्भुतसङ्गतीर्- जननि रमणो योगीशानस्ततो बहु नो फलम् । अमिततमया दृष्टेः शक्त्या कदा सरणिं नये- दपथपतितं धात्रीलोकं तदेव वदाम्बिके ॥ ३४.९॥ अहमिह कुतो हेतोर्जातो विषण्णतमे स्थले चरणकमलच्छायां मायाधिराज्ञि विहाय ते । परमकरुणो घोरः शापः किमेष सवित्रि ते किमपि भुवि वा कार्यं कर्तुं नियोजितवत्यसि ॥ ३४.१०॥ व्रजति विलयं स्नेहो दूरप्रवासवशादिति प्रवदति बुधः कश्चित्सत्यं प्रभाति तदम्बिके । भगवति निजे कुक्षौ जातं दिवो धरणीगतं स्मृतिसरणितो दूरे हा हा करोषि रुषा यथा ॥ ३४.११॥ मम तु विमला हृद्या विद्या महेश्वरि याऽभव- न्मनसि च परा चित्रा शक्तिश्चिरन्तनि याऽभवत् । वचसि च महद्भाग्यं श्लाघ्यं यदीड्यतमेऽभवत् तदयि गलितं मत्तो वित्तत्रयं भवतो भुवि ॥ ३४.१२॥ कृतमयि मया पापं घोरं सुकर्मसु सङ्गिनां यदहमदयो विघ्नं नॄणां मुहुर्मुहुराचरम् । अतिकटु फलं तस्याश्नामि श्रितो नरविग्रहं प्रमथनृपतेर्जाये माये जनन्यव मामिमम् ॥ ३४.१३॥ न भवसि दृशोर्मार्गे लोकाधिराज्ञि कुतो गिरो न च बहुकृपे स्वप्ने वा त्वं प्रयच्छसि दर्शनम् । अपनयसि नो सन्देहं वा परोक्षकृपावशा- दपि सुरनुते लग्ना कार्यान्तरे किमुतादया ॥ ३४.१४॥ निरवधिशिवे माहात्म्यं ते भणन्ति महर्षयो मनसि करुणा न न्यूना ते यथा प्रथिताः कथाः । तदिदमखिलं मिथ्या स्यादित्यसाध्यमुदीरितुं यदसि विमुखी पुत्रे किं वा भवेदिह कारणम् ॥ ३४.१५॥ भुवनभरणं नाल्पं कार्यं न देवि तव क्षणो गुरु च बहुलं कृत्यं नित्यं तवास्ति न तन्मृषा । न तव कठिनं मौनं निन्द्यं तथापि न पार्वति स्मर सकृदिमं दीनं पुत्रं तदेव ममाधिकम् ॥ ३४.१६॥ न भवति सुधाधारावर्षादयं मुदितस्तनौ मधुमदमुषां वाचां सर्गान्न चाप्ययमुद्धतः । तव पदयुगे निष्ठालाभान्न तृप्यति चाप्ययं भगवति चिरात् सन्देशं ते सुतः प्रतिवीक्षते ॥ ३४.१७॥ किमिह भुवने कर्तव्यं मे किमर्थमिहागतो- ऽस्म्यवनि जगतां कं वोपायं श्रये निजशक्तये । किमपि किमपि स्वान्ते ध्वान्ते यथा परिदृश्यते स्फुटमभयदे वक्तुं किञ्चिच्छ्रमं त्वमुरीकुरु ॥ ३४.१८॥ न मम परमे मुक्तावाशा न वा विभवाष्टके न च गजघटापूर्णायां वा महेश्वरि सम्पदि । न च मधुमुचां वाचां सर्गे निरर्गलवैभवे मुनिभुवि कुतो जातः सोऽहं तदेव समीर्यताम् ॥ ३४.१९॥ प्रथममनघं वाञ्छाम्यन्नं सदारसुतातिथेर्- भगवति ततः पादद्वन्द्वे तवाविचलां स्थितिम् । अथ सुरजगद्वार्ताज्ञानं सवित्रि ततः परं मुनिभुवि भवे हेतुं ज्ञातुं मृगाक्षि पुरद्विषः ॥ ३४.२०॥ यदि तव कृपा पुत्रे भक्ते पदांबुजवन्दिनि व्रतशतकृशे शीर्षाम्भोजामृतं त्वयि जुह्वति । भरतधरणीसेवालोले भवप्रियभामिनि स्वयमुपदिशामुष्मै योग्यं विधानमनाविलम् ॥ ३४.२१॥ जननि जगतां स्वल्पे कामेऽप्ययं त्वयि लम्बते पुरभिदबले मध्ये कामेऽप्ययं त्वयि लम्बते । बहुलकरुणे श्रेष्ठे कामेऽप्ययं त्वयि लम्बते भगवति परे वीते कामेऽप्ययं त्वयि लम्बते ॥ ३४.२२॥ तनुभुवि मयि प्रीत्या वाऽम्ब त्रिलोकविधायिके पदयुगरते वात्सल्याद्वा पुरारिपुरन्ध्रिके । स्वविमलयशोगानासक्ते कृपावशतोऽथवा परुषमजरे मौनं त्यक्त्वा स्फुटीकुरु मे गतिम् ॥ ३४.२३॥ जयतु भरतक्षोणीखण्डं विषादविवर्जितं जयतु गणपस्तस्य क्षेमं विधातुमना मुनिः । जयतु रमणस्तस्याचार्यो महर्षिकुलाचलो जयतु च तयोर्माता पूता महेशविलासिनी ॥ ३४.२४॥ गणपतिमुनेरेषा भाषाविदां हृदयङ्गमा सुकविसुहृदः शब्दैरत्युज्ज्वला हरिणीततिः । ललितचतुरैर्भावैर्यान्ती सुरूपवनान्तरं मदयतु मनः कामारातेर्निशान्तमृगीदृशः ॥ ३४.२५॥ 850
%c09-q3/Sai.Susarla/uma-c09-q3।txt medskip पञ्चत्रिंशः स्तबकः प्रार्थना (इन्दुवदनावृत्तम्) अन्धतमसं शशिविभामभिदधाना कान्तिमलमास्यकमलस्य विदधाना । अन्धकविरोधिदयितास्मितलवश्रीर्- भातु भुवनस्य सकलस्य कुशलाय ॥ ३५.१॥ भाहि विविधा कृतिमती द्विजसमूहे पाहि गतिहीनमखिलेश्वरि कुलं नः । देहि बहुकालभजकाय वरमेतं याहि नगनन्दिनि यशः शशिवलक्षम् ॥ ३५.२॥ वारयति घोरतरपातकसमूहं वर्धयति धर्ममपि शर्मकरमन्ते । किङ्करजनस्य न किमावहति भव्यं शङ्करपुरन्ध्रि तव पादपरिचर्या ॥ ३५.३॥ यस्य मनुजस्य हृदयेऽस्ति सदये ते नाकचरसेव्यमयि पादसरसीजम् । तं भजति पद्ममुखि पद्मवनवासा लाभभवने भवतु नामरपुरोधाः ॥ ३५.४॥ यद्यखिलमौनिगणगीतगुणजालं कालभयहारिकरुणारसमरन्दम् । अद्रितनयाङ्घ्रिजलजन्म हृदये स्या- दष्टमगतोऽपि विदधातु रविजः किम् ॥ ३५.५॥ लेखललनाकचसुमैः कृतबलिं ते यो भजति पादघृणिमालिनमनन्ते । निस्तरति नूनमयमस्तमितमोहः शोकतिमिरं सकललोकगणमातः ॥ ३५.६॥ शीतकरदर्पहरवक्त्रजलजाते शीतगिरिनन्दिनि तवाङ्घ्रिजलजातम् । यः स्मरति देवि हृदि विस्मरति सोऽयं विष्टपमशेषमपि कष्टततिमुक्तः ॥ ३५.७॥ सक्तिरयि यस्य तव पादसरसीजे शक्तिधरमातरनलाक्षगृहनाथे । पूर्णशशिजैत्रमुखि पुण्यपुरुषोऽसौ स्वर्णशिखरीव बुधलोकशरणं स्यात् ॥ ३५.८॥ वैरिगणनिर्दलनखड्गवरपाणे वाससि पदोर्दशनवाससि च शोणे । नेत्रमिषपावकविशेषितललाटे पापमखिलं जहि मृगाधिपतिघोटे ॥ ३५.९॥ वेदचयवेदिजनवादविषयस्य प्रतियुतलोकततिशोकशमनस्य । वेतनविवर्जितभटोऽयमहमङ्घ्रेः शीतकरपोतधरपुण्यवनिते ते ॥ ३५.१०॥ कार्यमयि मे किमपि कार्यपटुबुद्धेः पादसरसीजयुगलीपरिजनस्य । अम्ब वद जम्भरिपुगीतगुणजाले शुम्भकुलनाशकरि शम्भुकुलयोषे ॥ ३५.११॥ त्वं यदि शिलावदयि नो वदसि कृत्यं नास्ति तव राज्यपटुबुद्धिरिति सत्यम् । आदिश यथार्हकरणीयकृतिनित्यं राज्ञि भुवनस्य चरणाम्बुरुहभृत्यम् ॥ ३५.१२॥ पञ्चसु विहाय मनसः कमपि सङ्गं पुत्रधनमित्रजनबान्धववधूषु । एष भजते जननि पादजलजं ते पालय नु मुञ्च नु तवोपरि स भारः ॥ ३५.१३॥ वज्रधरमुख्यसुरसञ्चयकिरीट- स्थापितमहार्घमणिरञ्जितनखाय । जीवितमदायि जगदीश्वरि मदीयं पादजलजाय तव पालय नु मा वा ॥ ३५.१४॥ देहि जगदीश्वरि न वा मदभिलाषं पाहि करुणावति न वा कुलमिदं नः । शूलधरकामिनि सुरासुरनिषेव्यं पादकमलं तव परे न विजहामि ॥ ३५.१५॥ पासि किल पादयुगकिङ्करसमूहं हंसि किल पापततिमापदि नुता त्वम् । दन्तिवदनप्रसु वदन्ति मतिमन्तो नानृतमिदं भवतु नाकिजनवर्ण्ये ॥ ३५.१६॥ शक्रमुखदेवततिवन्दितविसृष्टे वक्रघनकेशि चरणे तव लुठन्तम् । आपदि निमग्नमिममाश्रितमनाथं नन्दिहयसुन्दरि न पालयसि केन ॥ ३५.१७॥ घोषमयमम्ब विदधाति पदलग्नो नावसि पुराणि किमु नारि बधिराऽसि । वन्दिसुरबृन्दनुतिभाषितहृतं वा कर्णयुगलं तव कपालिकुलयोषे ॥ ३५.१८॥ अम्ब भव बिम्बफलकल्परदचेले शम्बरसपत्नबलकारिबहुलीले । प्रागमृतभानुमुकुटस्य मदयित्री तं कुरु ततः परमुरीकृतमदर्थम् ॥ ३५.१९॥ निर्मलसुधाकरकलाकलितमस्ते धर्मरतपालिनि दयावति नमस्ते । एतमव देवि चरणाम्बुरुहबन्धुं शीतधरणीधरसुते गमय नान्धुम् ॥ ३५.२०॥ अद्रिकुलपालककुलध्वजपताके भद्रगजगामिनि दरिद्रमयि मत्या । क्षुद्रमिव शोच्यमिममङ्घ्रिजलजाप्तं रुद्रदयिते जननि पाहि न जहीहि ॥ ३५.२१॥ अस्तु तव पादकमले स्थितिरजस्रं नास्ति परदुःखविवशे हृदि तु शान्तिः । अस्तु करुणेऽयमस्तु मतिलोपः कष्टमिदमम्ब मम भूरि परिशिष्टम् ॥ ३५.२२॥ दुःखसुखभेदरहिता न मतिरासीत् साधुखलभेदरहिता न मतिरासीत् । भाग्यमितिमान्यमथवा मम तदेतन्- मातरिह सङ्घभजने यदवकाशः ॥ ३५.२३॥ अस्तु मम भेदमतिरस्तु मम पक्षो यत्नपरताऽस्तु मम मास्तु च विमोक्षः । मोक्षमयि वेद्मि कुलकष्टततिमोक्षं प्रेषय सकृत्तव महेश्वरि कटाक्षम् ॥ ३५.२४॥ शाक्वरगणेन मुखरेऽत्र गणनाथे विष्णुयशसीशवधु जिष्णुमुखवन्द्ये । अम्ब करुणां कुरु शिवङ्करि निरङ्क- स्वच्छकिरणार्भकविभूषितललाटे ॥ ३५.२५॥ 875
%c09-q4/Krishnashankavaram/devi\_itranstxt medskip षट्त्रिंशः स्तबकः प्रकीर्णकम् (तूणकवृत्तम्) उन्नतस्तनस्थलीविलोलहारमौक्तिक- व्रातदीधितिप्रतानबद्धसौहृदा सदा । अन्धकारिकामिनीदरस्मितद्युतिर्धुनो- त्वन्धकारमन्तरङ्गवासिनं घनं मम ॥ ३६.१॥ अम्बरस्थले पुरा पुरन्दरो ददर्श यां यां वदन्ति पर्वतप्रसूतिमैतिहासिकाः । सा परा पुरामरेः पुरन्ध्रिकाऽखिलाम्बिका पुत्रकाय मज्जते ददातु दक्षिणं करम् ॥ ३६.२॥ पादपङ्कजे धृता नरैरबाह्यभक्तिभिः पाणिपङ्कजे धृता नवेन्दुखण्डधारिणा । चारुहेमहंसका मनोज्ञरत्नकङ्कणा लोकजालपालिनी पुनातु मां विलासिनी ॥ ३६.३॥ उक्षराजवाहनस्य जीविताद् गरीयसी पक्षिराजवाहनादिवर्ण्यमानवैभवा । केकिलोकचक्रवर्तिवाहनेन पुत्त्रिणी वारणारिसार्वभौमवाहना गतिर्मम ॥ ३६.४॥ बालकुन्दकुट्मलालिकान्तदन्तपङ्क्तिका कुण्डलानुबिम्बशोभिशुद्धगण्डमण्डला । बिभ्रती रतीशवेत्रविभ्रमं भ्रुवोर्युगं शुभ्रभानुशेखरस्य सुन्दरी प्रणम्यते ॥ ३६.५॥ आजिदक्षवाहवैरियातुधानबाधितं या ररक्ष देवबृन्दमिन्दिरादिवन्दिता । सा कटाक्षपातधूतभक्तलोकपातका पावकाक्षसुन्दरी परात्परा गतिर्मम ॥ ३६.६॥ तारकाधिनाथचूडचित्तरङ्गनर्तकी मन्दहाससुन्दरास्यपङ्कजा नगात्मजा । दीनपोषकृत्यनित्यबुद्धबुद्धिरव्यया गृह्यते गणाधिपेन सर्वतो नृणां पदे ॥ ३६.७॥ अष्टमीशशाङ्कखण्डदर्पभञ्जनालिका विष्टपत्रयाधिनाथमानसस्य डोलिका । पापपुञ्जनाशकारिपादकञ्जधूलिका श्रेयसे ममास्तु शैललोकपालबालिका ॥ ३६.८॥ सानुमत्कुलाधिनाथबालिकालिकुन्तला जङ्गमेव काऽपि तप्तहेमसालभञ्जिका । भक्तियुक्तलोकशोकवारणाय दीक्षिता शीतशीतवीक्षिता लघु स्यतादघं मम ॥ ३६.९॥ पुण्यनामसंहतिः पुरारिचित्तमोहिनी पुष्पबाणचापचारुझिल्लिकाऽखिलाम्बिका । पुण्यवैरिपुष्टदुष्टदैत्यवंशनाशिनी पुत्रकस्य रक्षणं पुरातनी करोतु मे ॥ ३६.१०॥ क्षाममध्यमस्थली सुधाघटोपमस्तनी कृष्णसारलोचना कुमुद्वतीप्रियानना । भ्रूविलासधूतधैर्यकाञ्चनाद्रिकार्मुका काचिदिक्षुकार्मुकस्य जीविका जयत्युमा ॥ ३६.११॥ लोहिताचलेश्वरस्य लोचनत्रयीहिता लोहितप्रभानिमज्जदब्जजाण्डकन्दरा । हासकान्तिवर्ध्यमानसारसारिमण्डला वासमत्र मे करोतु मानसे महेश्वरी ॥ ३६.१२॥ दक्षिणेक्षणप्रभाविजृम्भिताम्बुसम्भवा काममित्रवामनेत्रधामतृप्तकैरवा । एकतः परः पुमान्परा वराङ्गनाऽन्यतः शुभ्रकीर्तिरेकमूर्तिरादधातु नश्शिवम् ॥ ३६.१३॥ शुम्भदैत्यमारिणी सुपर्वहर्षकारिणी शम्भुचित्तहारिणी मुनीन्द्रचित्तचारिणी । कामितार्थदायिनी करिप्रकाण्डगामिनी वीतकल्कमादधातु विघ्नराजमम्बिका ॥ ३६.१४॥ देवतासपत्नवंशकाननानलच्छटा वारणारिसार्वभौमवाहना घनालका । नन्दिवाहनस्य काऽपि नेत्रनन्दिनी सुधा नेत्रलाञ्छितालिका सुतं पुनातु कालिका ॥ ३६.१५॥ राजसुन्दरानना मरालराजगामिनी राजमौलिवल्लभा मृगाधिराजमध्यमा । राजमानविग्रहा विराजमानसद्गुणा राजते महीधरे मदम्बिका विराजते ॥ ३६.१६॥ पर्वचन्द्रमण्डलप्रभाविडम्बनानना पर्वताधिनाथवंशपावनी सनातनी । गर्वगन्धनाशिनी विभावरीविचारिणां शर्वचित्तनायिका करोतु मङ्गलं मम ॥ ३६.१७॥ ओजसश्च तेजसश्च जन्मभूमिरच्युता नीलकञ्जबन्धुबद्धमौलिरागमस्तुता । वीतरागपाशजालनाशबद्धकङ्कणा विश्वपालिनी मया महेश्वरी विचिन्त्यते ॥ ३६.१८॥ अण्डमण्डलं यया निरन्तरं च पच्यते संस्फुरत्यशेषभूतहार्दपीठिकासु या । श्वासदृष्टिसंविदूष्मनादवारिवर्त्मभिर्- यामुपासते विदो नमामि तां परात्पराम् ॥ ३६.१९॥ पञ्चयुग्मवेषभृत्परात्परा सुरार्चिता पञ्चवक्त्रवक्त्रपद्मचञ्चरीकलोकना । वञ्चकान्तरङ्गशत्रुसञ्चयप्रणाशिनी प्रेतमञ्चशायिनी कुलं चिराय पातु मे ॥ ३६.२०॥ कर्मणा यथाविधि द्विजातयो यजन्ति यां ब्रह्मणा यथाश्रुतं स्तुवन्ति यामधीतिनः । चेतसा यथा गुरूक्ति चिन्तयन्ति यां विदः सा परा जगत्त्रयीजनन्यजा जयत्युमा ॥ ३६.२१॥ वासुदेवजायया विनम्रया निषेविता वामदेवचाटुचित्रवाक्यबन्धलालिता । वासवादिदेवताजयप्रणादहर्षिता वारयत्वघानि मे वसुन्धराभृतस्सुता ॥ ३६.२२॥ पूर्णिमासुधामरीचिसुन्दरास्यमण्डला फुल्लपद्मपत्रदीर्घसम्प्रसन्नलोचना । पुण्यभूनिषेवणाय पुत्रमेतमुद्यतं पूर्णकाममादधातु पादलग्नमम्बिका ॥ ३६.२३॥ लालयन्ति बालकं वतंसशीतदीधितिं शीलयन्ति सूक्ष्मतां मनांसि योगिनामिव । कालयन्तु पापिनां कुलानि संहतीस्सतां पालयन्तु च स्मितानि योषितः पुरद्विषः ॥ ३६.२४॥ पादसेविनः कवेर्मनोहरातिशक्वरी- वर्ग एष नाट्यकारिनिर्जरीगणो यथा । लोकजालचक्रवर्तिपुण्ययोषितो मन- स्सम्मदाय साधुकष्टवारणाय कल्पताम् ॥ ३६.२५॥ 900 ॥ समाप्तं च नवमं शतकम् ॥
%c10-q1/Jayanth.Ganapathiraju/c10-q1।txt medskip दशमं शतकम् सप्तत्रिंशः स्तबकः तत्त्वविचारः (अनुष्टुब्वृत्तम्) उद्दीपयतु नश्शक्तिमादिशक्तेर्दरस्मितम् । तत्त्वं यस्य महस्सूक्ष्ममानन्दो वेति संशयः ॥ ३७.१॥ पूर्णं प्रज्ञातृ सद्ब्रह्म तस्य ज्ञानं महेश्वरी । महिमा तेज आहोस्विच्छक्तिर्वा प्राण एव वा ॥ ३७.२॥ प्रचक्षते चिदात्मत्वं ज्ञातुर्ज्ञानस्य चोभयोः । प्रदीपस्य प्रभायाश्च ज्योतिराकृतितां यथा ॥ ३७.३॥ चित एकपदार्थत्वाच्चिच्चिता न विशिष्यते । तस्माद् गुणत्वं ज्ञानस्य शङ्करेण निराकृतम् ॥ ३७.४॥ ज्ञातुर्ज्ञानं स्वरूपं स्यान्न गुणो नापि च क्रिया । यदि स्वस्य स्वरूपेण वैशिष्ट्यमनवस्थितिः ॥ ३७.५॥ वाचैव शक्यते कर्तुं विभागस्स्वस्वरूपयोः । नानुभूत्या ततो द्वैतं सच्छक्त्योर्व्यावहारिकम् ॥ ३७.६॥ ब्रह्मज्ञानस्य पूर्णस्य विषयो द्यौरुदीर्यते । सा ब्रह्मणो व्यापकत्वाद्वस्तुतो नातिरिच्यते ॥ ३७.७॥ विकासादपि सङ्कोचात् सर्गप्रलययोर्द्वयोः । प्रज्ञानस्य बुधैरुक्तौ जन्मनाशावुभौ दिवः ॥ ३७.८॥ धर्मभूतं परस्येदं न कार्यं परमं नभः । अखण्डत्वान्न विकृतिर्विश्वस्मिन्नप्रकृतित्वतः ॥ ३७.९॥ आकाशे परमे दीप्यत् प्रज्ञानं परमात्मनः । एकाग्रत्वात्प्रवृद्धोष्मगभीरमभवन्महः ॥ ३७.१०॥ त्रिधैवं धर्मभूतस्य ज्ञानस्य विकृतिं विना । शुद्धत्वविषयत्वाभ्यां महस्त्वाच्च दशात्रयम् ॥ ३७.११॥ विज्ञाने भाति ये भान्ति भावा द्रव्यगुणादयः । न किञ्चिदनुभूयन्ते विज्ञानोपरमे तु ते ॥ ३७.१२॥ एवं स्वतः प्रकाशत्वं विषयाणां न दृश्यते । सिद्धिश्च परतो न स्यात् सम्बन्धं कञ्चिदन्तरा ॥ ३७.१३॥ दृश्यते विषयाकारा ग्रहणे स्मरणे च धीः । प्रज्ञाविषयतादात्म्यमेवं साक्षात्प्रदृश्यते ॥ ३७.१४॥ न चेत्समष्टिविज्ञानविभूतिरखिलं जगत् । विषयव्यष्टिविज्ञानतादात्म्यं नोपपद्यते ॥ ३७.१५॥ यथाऽस्मदादिविज्ञाने ध्येयं बुद्धिरिति द्वयम् । पूर्णे समष्टिविज्ञाने विकृतिः प्रकृतिस्तथा ॥ ३७.१६॥ परिणामो यथा स्वप्नः सूक्ष्मस्य स्थूलरूपतः । जाग्रत्प्रपञ्च एष स्यात्तथेश्वरमहाचितः ॥ ३७.१७॥ विकृतिस्सर्वभूतानि प्रकृतिः परदेवता । सतः पादस्तयोराद्या त्रिपादी गीयते परा ॥ ३७.१८॥ कबलीकृत्य सङ्कल्पानेकाऽपि स्याद्यथा मतिः । भूतानि कबलीकृत्य देवताऽपि तथा परा ॥ ३७.१९॥ भूतानामात्मानस्सर्गे संहृतौ च तथाऽऽत्मनि । प्रभवेद्देवता श्रेष्ठा सङ्कल्पानां यथा मतिः ॥ ३७.२०॥ अनुभूत्यात्मिका सेयमीशशक्तिः परात्परा । आधारचक्रे पिण्डेषु विराजति विभिन्नवत् ॥ ३७.२१॥ सूक्ष्मस्थूले ततः शाखे विद्युच्छक्तिसमीरवत् । तत्राद्या ज्ञानशक्तिस्स्यात् क्रियाशक्तिरनन्तरा ॥ ३७.२२॥ ज्ञानेन्द्रियाणि प्रथमा विभूतिर्मनसा सह । कर्मेन्द्रियाणि त्वपरा विभूतिस्सहसा सह ॥ ३७.२३॥ क्रियामूलमुत ज्ञानमूलं किमिति चिन्तयन् । आत्मशक्तिमितो विद्वानमृतत्वाय कल्पते ॥ ३७.२४॥ गभीरास्सुतरामेताः कालिकातत्त्वकारिकाः । धियो भासो गणपतेर्भवन्तु विदुषां मुदे ॥ ३७.२५॥ 925
%c10-q2/Bhavani.Mallajosyula/uma\_c10\_q2\_1-25।txt medskip अष्टत्रिंशः स्तबकः दशमहाविद्याः (पादाकुलकवृत्तम्) दूरीकुरुताद् दुःखं निखिलं दुर्गायास्तद्दरहसितं नः । रचितास्याम्भोमृद्भ्यां यदभुल्लेपनममलं ब्रह्माण्डस्य ॥ ३८.१॥ जन्तौ जन्तौ भुवि खेलन्ति भूते भूते नभसि लसन्ती । देवे देवे दिवि दीप्यन्ती पृथगिव पूर्णा संविज्जयति ॥ ३८.२॥ दहरसरोजाद् द्विदलसरोजं द्विदलसरोजाद्दशशतपत्रम् दशशतपत्राद्देहं देहात् सकलं विषयं संविद् व्रजति ॥ ३८.३॥ वह्निज्वाला समिधमिवैषा सकलं देहं संवित्प्राप्ता । पृथगिव भूता व्यपगतवीर्या भवति सधूमा संसाराय ॥ ३८.४॥ अत्रानुभवस्सुखदुःखानामत्राहङ्कृतिरनृता भवति । अत्रैवेदं सकलं भिन्नं प्रतिभासेत प्रज्ञास्खलने ॥ ३८.५॥ दशशतपत्राद् द्विदलसरोजं द्विदलसरोजाद्दहरसरोजम् । अवतरतीशा येषामेषा तेषामन्तर्नित्या निष्ठा ॥ ३८.६॥ अथवा देहादावृत्तस्सन्नन्यतमस्यामासु स्थल्याम् । आधारस्थे कुलकुण्डे वा स्थितधीर्नित्यां निष्ठां लभते ॥ ३८.७॥ दशशतपत्रे शक्तिर्ललिता वज्रवती सा द्विदलसरोजे । दहाराम्बुरुहे भद्रा काली मूलाधारे भैरव्याख्या ॥ ३८.८॥ खेलति ललिता द्रवति स्थाने छिन्नग्रन्थिनि राजत्यैन्द्री । बद्धकवाटे भद्रा काली तपसा ज्वलिते भैरव्याख्या ॥ ३८.९॥ यद्यपि कालीवज्रेश्वर्यौ स्यातां भिन्ने इव पिण्डेषु । ओजस्तत्त्वस्यैक्यादण्डे न द्वौ शक्तेर्भेदौ भवतः ॥ ३८.१०॥ एवमभेदो यद्यपि कर्मद्वैधात् द्वैधं तत्रापि स्यात् । सैव पचन्ती भुवनं काली सैव दहन्ती शत्रूनैन्द्री ॥ ३८.११॥ पिण्डे चाण्डे जङ्गमसारः शुद्धा प्रज्ञा सुन्दर्युक्ता । विषयदशायां देशीभूता सेयं भुवनेश्वर्याख्याता ॥ ३८.१२॥ शून्यप्रख्या या चिल्लीना प्रलये ब्रह्मणि जन्मिषु सुप्तौ कबलितसकलब्रह्माण्डां तां कवयः श्रेष्ठां ज्येष्ठामाहुः ॥ ३८.१३॥ निद्राविस्मृतिमोहालस्यप्रविभेदैस्सा भवमग्नेषु । एषैव स्याद्युञ्जानेषु ध्वस्तविकल्पः कोऽपि समाधिः ॥ ३८.१४॥ ऐन्द्री शक्तिर्व्यक्तबला चेद् भिन्ने स्यातां शीर्षकपाले । तस्मादेतां चतुरवचस्काः परिभाषन्ते छिन्नशिरस्काम् ॥ ३८.१५॥ भवति परा वाग्भैरव्याख्या पश्यन्ती सा कथिता तारा । रसनिधिमाप्ता जिह्वारङ्गं मातङ्गीति प्रथिता सेयम् ॥ ३८.१६॥ पिण्डे चाण्डे स्तम्भनशक्तिर्बगला मात्रस्तव महिमैकः । सर्वे व्यक्ताः किरणाः कमला बाह्यो महिमा भुवनाम्ब तव ॥ ३८.१७॥ बोधे बोधे बोद्धुश्शक्तिं सङ्कल्पानां पश्चाद्भान्तीम् । अविमुञ्चन्यो मनुते धीरो यत्किञ्चिद्वा ललिताऽवति तम् ॥ ३८.१८॥ दृष्टौ दृष्टौ द्रष्टुश्शक्तिं लोचनमण्डलमध्ये भान्तीम् । अविमुञ्चन्यः पश्यति धीरो यत्किञ्चिद्वा तमवत्यैन्द्री ॥ ३८.१९॥ प्राणसमीरं विदधानमिमं नित्यां यात्रामत्र शरीरे । चरणे चरणे परिशीलयति स्थिरदृष्टिर्यस्तमवति काली ॥ ३८.२०॥ स्थूलविकारान् परिमुञ्चन्त्या निर्मलनभसि स्थितया दृष्ट्या । मज्जन्त्या वा दहराकाशे लोकेश्वर्याः करुणां लभते ॥ ३८.२१॥ सर्वविकल्पान् परिभूयान्तर्विमलं मौनं महदवलम्ब्य । केवलमेकस्तिष्ठति योऽन्तस्तं सा ज्येष्ठा कुरुते मुक्तम् ॥ ३८.२२॥ मूले स्थित्या भैरव्याख्यां तारां देवीमुद्गीथेन । सेवेतार्यो विदितरहस्यो मातङ्गीं तां गुणगानेन ॥ ३८.२३॥ आसनबन्धादचलो भूत्वा रुद्धप्राणो बगलां भजते । अभितो व्याप्तं व्यक्तं तेजः कलयन् कमलाकरुणां लभते ॥ ३८.२४॥ एकविधादौ बहुभेदाऽथो शक्तिरनन्ता परमेशस्य । सभजनमार्गं गणपतिमुनिना पादाकुलकैरेवं विवृता ॥ ३८.२५॥ 950
%c10-q3/Sarada.Susarla/uma-c10-q3-itrans.txt medskip एकोनचत्वारिंशः स्तबकः प्रायो व्योमशरीरा (इन्द्रवज्रावृत्तम्) व्याप्येदमिन्दोर्भुवनं य येव प्रायेण तस्यामलचन्द्रिकाऽभूत् । मन्दस्तवार्तिं स धुनोतु हासो निःशेषलोकेश्वरवल्लभायाः ॥ ३९.१॥ पूर्णे वियत्येकतटिज्ज्वलन्ती लोकानशेषाननिशं पचन्ती । मेघे कदाचिन्महसा स्फुरन्ती चण्डी प्रचण्डा हरतादघं नः ॥ ३९.२॥ गोलानि कान्यप्यधुनोद्भवन्ति जीर्यन्ति कान्यप्यखिलेशकान्ते यान्त्यम्बिके कान्यपि वृद्धिमत्र पाके भवत्याः परितः प्रवृत्ते ॥ ३९.३॥ भासां विनेत्रा महता ग्रहैश्च भूरिप्रमाणैर्युतमीशकान्ते । एकैकमण्डं तव लोमवच्चेत् कस्ते महद्भाग्यमिह ब्रवीतु ॥ ३९.४॥ नाथस्य ते रूपमणोरणीयो मातस्त्वदीयं महतो महीयः । जनाति यो देवि रहस्यमेतद् व्याख्यातुमेष प्रभवत्यशेषम् ॥ ३९.५॥ यद् गर्जितं वारिदघर्षणेषु शब्दस्तवायं सुगभीरघोषः । यल्लोकराज्ञि स्फुरितं तदेत- दुज्जृम्भितं किञ्चन कान्तिवीचेः ॥ ३९.६॥ इन्द्रस्य वज्रं ज्वलितं कृशानोर्- ज्योतिस्सहस्रच्छदबान्धवस्य । पीयूषभानोर्हसितं विसारि जीवस्य चक्षुर्मम तात दैवम् ॥ ३९.७॥ यस्यैव तेजः प्रविभक्तमर्क- विद्युच्छशाङ्कानललोचनेषु । गूढं तदाकाशगृहे समन्ता- दन्तानभिज्ञं प्रणमामि दैवम् ॥ ३९.८॥ जाग्रत्सु बुद्धिर्निमिषत्सु निद्रा शुष्केषु पक्तिस्तरुणेषु वृद्धिः । धीरेषु निष्ठा चपलेषु चेष्टा देवी ममापत्तिमपाकरोतु ॥ ३९.९॥ विद्यावतो वादविधानशक्तिर्- वीरस्य सङ्ग्रामविधानशक्तिः । नारीमणेर्मोहविधानशक्तिर्- लेशत्रयं किञ्चिदापारशक्तेः ॥ ३९.१०॥ उत्साहयन्ती तपतां मनांसि सञ्चोदयन्ती च महाक्रियासु । सङ्क्षोभयन्ती हृदयं खलानां सम्मोहयन्ती च पराऽवतान्नः ॥ ३९.११॥ सञ्चालयन्ती सकलस्य देहं व्यानस्य शक्त्या परितो लसन्त्या । जेतुः प्रतापेऽस्ति पलायनेऽस्ति भीतस्य चेयं निखिलेशशक्तिः ॥ ३९.१२॥ एकं स्वरूपं बहुचित्रयोगात् सन्दर्शयन्ती विविधं जनेभ्यः । सम्यग्दृशे स्वं विभुमर्पयन्ती सर्वादिमायैव महेशजाया ॥ ३९.१३॥ यस्संश्रयेताखिलसङ्गतिस्त्वां ध्यानेन मन्त्रेण गुणस्तवैर्वा । त्रैलोक्यसाम्राज्यधुरन्धरस्य शुद्धान्तकान्ते स कृती मनुष्यः ॥ ३९.१४॥ मूलाग्निमुद्दीप्य शिरश्शशाङ्कं सन्द्राव्य यस्तर्पयते कृती त्वाम् । तस्मिन्नगाधीश्वरकन्यके त्वं प्रादुर्भवन्ती न किमादधासि ॥ ३९.१५॥ यस्त्वां सहस्रारसरोजमध्ये सोमस्वरूपां भजतेऽम्ब योगी । तस्यान्तरः शान्तिमुपैति तापो बाह्यस्य का नाम कथाऽल्पकस्य ॥ ३९.१६॥ दण्डेन योऽन्तर्दहरेऽवतीर्णः प्राणेन वाचा महसा धिया वा । प्राप्नोति सोऽयं पुरमद्वितीयं यत्र त्वमीशा सह चित्रलीला ॥ ३९.१७॥ तन्त्रोदितं विश्वविनेत्रि मन्त्रं यस्ते नरः संयमवानुपास्ते । रुद्राणि सान्द्राम्बुदकेशपाशे पाशैर्विमुक्तः स जयत्यशेषम् ॥ ३९.१८॥ पद्मासनो द्वादशवर्णशान्ती दम्भोलिपाणिर्भुवनाधिनाथा । गीर्वाणमार्गो भृगुरब्जयोनिर्- अन्ते तथाग्रे च हलां विराजी ॥ ३९.१९॥ जम्भस्य हन्ताऽनलशान्तिचन्द्रैः संयुक्त ऊष्मा गलदेशजन्मा । दन्तस्थलीसम्भव ऊष्मवर्णो वाणीपतिर्वज्रधरश्च लज्जा ॥ ३९.२०॥ विद्या त्वियं पञ्चदशाक्षराढ्या साक्षान्महामौनगुरूपदिष्टा । गोप्यासु गोप्या सुकृतैरवाप्या श्रेष्ठा विनुत्या परमेष्ठिनाऽपि ॥ ३९.२१॥ देहेष्वियं कुण्डलिनी न्यगादि भूतेषु विद्युद् भुवनेषु चाभ्रम् । देवाङ्गनामस्तकलालिताङ्घ्रिर्- देवी भवानी खलु देवतासु ॥ ३९.२२॥ चक्षुर्विधायाचलमन्तरेण प्राणं प्रपश्यन् मनुवर्णरूपम् । संसेवते चेत्सकलस्य धात्रीं सर्वेष्टलाभो विदुषः करस्थः ॥ ३९.२३॥ एकाक्षरीः पञ्चदशाक्षरीं वा विद्याः प्रकृष्टाः सकलेशशक्तेः । यो भक्तियुक्तः प्रजपेदमुष्य प्राणो वशे निस्तुलसिद्धियोनिः ॥ ३९.२४॥ एताः कवीनां पदकिङ्करस्य पूताः प्रमोदं परमावहन्तु । गीतास्सभक्तिद्रवमिन्द्रवज्राः श्वेताचलाधीश्वरवल्लभायाः ॥ ३९.२५॥ 975
%c10-q4/Sai.Susarla/c10-q4।txt medskip चत्वारिंशः स्तबकः दैवगीतम् (पादाकुलकवृत्तम्) शमयतु पापं दमयतु दुःखं हरतु विमोहं स्फुटयतु बोधम् । प्रथयतु शक्तिं मन्दं हसितं मनसिजशासनकुलसुदृशो नः ॥ ४०.१॥ आर्द्रा दयया पूर्णा शक्त्या दृष्टिवशंवदविष्टपराजा । अखिलपुरन्ध्रीपूज्या नारी मम निश्शेषां विपदं हरतु ॥ ४०.२॥ शुद्धब्रह्मणि मोदो दैवं तत्र सिसृक्षति कामो दैवम् । सृजति पदार्थान् दृष्टिर्दैवं तान् बिभ्राणे महिमा दैवम् ॥ ४०.३॥ विकृतौ विकृतौ प्रकृतिर्दैवं विषये विषये सत्ता दैवम् । दृष्टौ दृष्टौ प्रमितिर्दैवं ध्याने ध्याने निष्ठा दैवम् ॥ ४०.४॥ स्फूर्तौ स्फूर्तौ माया दैवं चलने चलने शक्तिर्दैवम् । तेजसि तेजसि लक्ष्मीर्दैवं शब्दे शब्दे वाणी दैवम् ॥ ४०.५॥ हृदये हृदये जीवद्दैवं शीर्षे शीर्षे ध्यायद्दैवम् । चक्षुषि चक्षुषि राजद्दैवं मूले मूले प्रतपद्दैवम् ॥ ४०.६॥ अभितो गगने प्रसरद्दैवं पृथिवीलोके रोहद्दैवम् । दिनकरबिम्बे दीप्यद्दैवं सितकरबिम्बे सिञ्चद्दैवम् ॥ ४०.७॥ श्रावं श्रावं वेद्यं दैवं नामं नामं राध्यं दैवम् । स्मारं स्मारं धार्यं दैवं वारं वारं स्तुत्यं दैवम् ॥ ४०.८॥ श्रुतिषु वटूनां ग्राह्यं दैवं गृहिणामग्नौ तर्प्यं दैवम् । तपतां शीर्षे पुष्टं दैवं यतिनां हृदये शिष्टं दैवम् ॥ ४०.९॥ नमता पुष्पैः पूज्यं दैवं कविना पद्याराध्यं दैवम् । मुनिना मनसा ध्येयं दैवं यतिना स्वात्मनि शोध्यं दैवम् ॥ ४०.१०॥ स्तुवतां वाचो विदधद्दैवं स्मरतां चेतः स्फुटयद्दैवम् । जपतां शक्तिं प्रथयद्दैवं नमतां दुरितं दमयद्दैवम् ॥ ४०.११॥ वाचो विनयद्वह्नौ दैवं प्राणान् विनयद्विद्युति दैवम् । कामान् विनयच्चन्द्रे दैवं बुद्धीर्विनयत्सूर्ये दैवम् ॥ ४०.१२॥ हृदये निवसद् गृह्णद्दैवं वस्तौ निवसद्विसृजद्दैवम् । कण्ठे निवसत्प्रवदद्दैवं कुक्षौ निवसत्प्रपचद्दैवम् ॥ ४०.१३॥ देहे निवसद्विलचद्दैवं पञ्चप्राणाकारं दैवम् । भागि समस्तस्यान्ने दैवं स्वाहाकारे तृप्यद्दैवम् ॥ ४०.१४॥ बिभ्रन्नारीवेषं दैवं शुभ्रदरस्मितविभ्राड् दैवम् । अभ्रमदापहचिकुरं दैवं विभ्रमवासस्थानं दैवम् ॥ ४०.१५॥ शीतज्योतिर्वदनं दैवं रुचिबिन्दूपमरदनं दैवम् । लावण्यामृतसदनं दैवं स्मररिपुलोचनमदनं दैवम् ॥ ४०.१६॥ लक्ष्मीवीचिमदलिकं दैवं प्रज्ञावीचिमदीक्षं दैवम् । तेजोवीचिमदधरं दैवं सम्मदवीचिमदास्यं दैवम् ॥ ४०.१७॥ करुणोल्लोलितनेत्रं दैवं श्रीकाराभश्रोत्रं दैवम् । कुसुमसुकोमलगात्रं दैवं कविवाग्वैभवपात्रं दैवम् ॥ ४०.१८॥ हिमवति शैले व्यक्तं दैवं सितगिरिशिखरे क्रीडद्दैवम् । तुम्बुरुनारदगीतं दैवं सुरमुनिसिद्धध्यातं दैवम् ॥ ४०.१९॥ क्वचिदपि रतिशतललितं दैवं क्वचिदपि सुतरां चण्डं दैवम् । भक्तमनोनुगवेषं दैवं योगिमनोनुगविभवं दैवम् ॥ ४०.२०॥ चरिते मधुरं स्तुवतां दैवं चरणे मधुरं नमतां दैवम् । अधरे मधुरं शम्भोर्दैवं मम तु स्तन्ये मधुरं दैवम् ॥ ४०.२१॥ भुजभृतविष्टपभारं दैवं पदधृतसम्पत्सारं दैवम् । लालितनिर्जरवीरं दैवं रक्षितसात्त्विकधीरं दैवम् ॥ ४०.२२॥ चिच्छक्त्यात्मकमधितनु दैवं तटिदाकृत्यधिभूतं दैवम् । श्रुतिषु शिवेति प्रथितं दैवं जयति जगत्त्रयविनुतं दैवम् ॥ ४०.२३॥ रमणमहर्षेरन्तेवासी मध्यमपुत्रो नरसिंहस्य । वासिष्ठोऽयं मरुतां मातुर्गणपतिरङ्घ्रिं शरणमुपैति ॥ ४०.२४॥ त्रिभुवनभर्तुः परमा शक्तिस्सकलसवित्री गौरी जयति । तन्नुतिरेषा गणपतिरचिता पादाकुलकप्रान्ता जयति ॥ ४०.२५॥ 1000 ॥ समाप्तं च दशमं शतकम् ॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः ॥ गणपतेः कृतिः उमासहस्रं समाप्तम् ॥
% Text title            : umAsahasram
% File name             : uma1000.itx
% itxtitle              : umAsahasram
% engtitle              : umAsahasram
% Category              : sahasranAma, devii, pArvatI, stotra, gaNapati-muni
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Texttype              : stotra
% Author                : Ganapati Muni, disciple of Ramana Maharshi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Various volunteers listed at http://surasa.net/uma/
% Proofread by          : Daksha, Sunder Hattangadi sunderh at hotmail.com
% Indexextra            : (gaNapatimunivirachitam)
% Latest update         : April 15, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP