वृन्दावनद्वादशीव्रतम्
(व्रतचूडामणौ )
तुलसी विष्णुविवाहविधिः
देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत् ।
पुण्याहं वाचयित्वाऽथ नान्दीश्राद्धं समाचरेत् ॥ १॥
वेदवाद्यादिनिर्घोषैः विष्णुमूर्तिं समानयेत् ।
तुलस्या निकटे सा तु स्थाप्या चान्तर्हिता घटैः ॥ २॥
आगच्छ भगवन् देव अर्हयिष्यामि केशव ।
तुभ्यं ददामि तुलसीं सर्वकामप्रदो भव ॥ ३॥
दद्याद् द्विवारमर्घ्यं च पाद्यं विष्टरमेव च ।
ततश्चाचमनीयं च त्रिरुक्त्वा च प्रदापयेत् ॥ ४॥
पयो दधि घृतं क्षौद्रं कांस्यपात्रपुटे घृतम् ।
मधुपर्कं गृहाण त्वं वासुदव नमोऽस्तु ते ॥ ५॥
ततो ये स्वकुलाचाराः कर्तव्या विष्णुतुष्टये ।
हरिद्रालेपनाभ्यङ्गः कार्यः सर्वं विधाय च ॥ ६॥
गोधूलि समये पूज्यौ तुलसीकेशवौ पुनः ।
पृथक्पृथक्ततः कार्यौ सम्मुखं मङ्गलं पठेत् ॥ ७॥
इष्टदेशे भास्वरे तु सङ्कल्पं तु समर्पयेत् ।
स्वगोत्रप्रवरानुक्त्चा तथा त्रिपुरुषादिकम् ॥ ८॥
अनादिमध्यनिधन त्रैलोक्यप्रतिपालक ।
इमां गृहाण तुलसीं विवाहविधिनेश्वर ॥ ९॥
पार्वती बीजसम्भूतां वृन्दाभस्मनि संस्थिताम् ।
अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ॥ १०॥
पयोघृतैश्च सेवाभिः कन्यावद्वर्धितां मया ।
त्वत्प्रियां तुलसीं तुभ्यं दास्यामि त्वं गृहाण भोः ॥ ११॥
एवं दत्वा तु तुलसीं पश्चात्तौ पूजयेत्ततः ।
रात्रौ जागरणं कुर्यात् विवाहोत्सवपूर्वकम् ॥ १२॥
प्रतिवर्षमिदं कुर्यात् कार्तिकव्रतसिद्धये ।
ततः प्रभातसमये तुलसीं विष्णुमर्चयेत् ॥ १३॥
वह्नि संस्थापनं कृत्वा द्वादशाक्षरविद्यया ।
पायसाज्य क्षौद्रतिलैः हुनेदष्टोत्तरं शतम् ॥ १४॥
ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः ।
आचार्यं च समभ्यर्च्य होमशेषं समापयेत् ॥ १५॥
चतुरो वार्षिकान्मासान् नियमं यस्य यत्कृतम् ।
कथयित्वा द्विजेभ्यस्तत् तथाऽन्यत्परिपूजयेत् ॥ १६॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो ।
नूनं सम्पूर्णतां यातु त्वत्प्रसादात् जनार्दन ॥ १७॥
रेवतीतुर्यचरणे द्वादशीसंयुते नरः ।
न कुर्यात्पारणां कुर्वन् व्रतं निष्फलतां व्रजेत् ॥ १८॥
ततो येषां पदार्थानां वर्जनं तु कृतं भवेत् ।
चातुर्मास्येऽथवा तूर्जे ब्राह्मणेभ्यः समर्पयेत् ॥ १९॥
ततः सर्वं समश्नीयात् यद्यदुक्तं व्रते स्थितः ।
दम्पतिभ्यां सहैवात्र भोक्तव्यं वा द्विजैः सह ॥ २०॥
ततो भुक्तोत्तरं यानि गलितानि दलानि च ।
तुलस्यास्तानि भुक्त्वा तु सर्वपापैः प्रमुच्यते ॥ २१॥
भोजनानन्तरं विष्णोरर्पितं तुलसीदलम् ।
भक्षणात्पापनिर्मुक्तिः चान्द्रायण शताधिकम् ॥ २२॥
इक्षुखण्डं तथा धात्रीफलं पूगीफलं तथा । ।
भुक्त्वा तु भोजनस्यान्ते तस्योच्छिष्टं विनश्यति ॥ २३॥
एषु त्रिषु न भुक्तं चेदैककमपि येन तु ।
ज्ञेयं उच्छिष्ट आवर्षं नरोऽसौ नात्र संशयः ॥ २४॥
ततः सायं पुनः पूज्यौ इक्षुवंशैश्च मण्डितौ ।
तुलसीवासुदेवौ च कृतकृत्यो भवेत्ततः ॥ २५॥
ततो विसर्जनं कुर्यात् दत्वा देयादिकं हरेः ।
वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो ॥ २६॥
मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा ।
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ॥ २७॥
यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन ।
एवं विसृज्य देवेशं आचार्याय प्रदापयेत् ॥ २८॥
मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः ।
प्रतिवर्षं करोत्येवं तुलस्युद्वाहनं शुभम् ॥ २९॥
इह लोके परत्रापि विपुलं सद्यशो भवेत् ।
प्रतिवर्षं तु यः कुर्यात् तुलसीकरपीडनम् ।
भक्तिमान् धनधान्यैश्च युक्तो भवति निश्चितम् ॥ ३०॥
इति सनत्कुमारसंहितान्तर्गतम् वृन्दावनद्वादशीव्रतं सम्पूर्णम् ।
Encoded and proofread by Shree Devi Kumar