वज्रयोगिन्याः स्तुतिप्रणिधानम्

वज्रयोगिन्याः स्तुतिप्रणिधानम्

ॐ नमः श्री वज्रयोगिन्यै, नमोबुद्धधर्मसङ्घेभ्यः, नमो गुरुबुद्धबोधिसत्त्वेभ्यः, नमो लोचनादिदशवज्रविलासिनीभ्यः, नमो यमान्तकादिदशक्रोधवीरेभ्यः सप्रज्ञेभ्यः । ॐ ओ आ हूं इति कायवाकचित इन्द्रियविज्ञानानि, वाकचित्तानि मनोविज्ञानानि, परचित्तज्ञानाभिज्ञा, परकायप्रवेशाभिज्ञा पुण्डरीकेषु नाभिस्थे रक्तसूर्य मण्डलः ॥ १॥ धर्मोदया पद्ममध्ये सिन्दूरारुणरूपिणी । त्रिश‍ृङ्गा हि त्रिकोणा वा चतुःपीठसमन्विता ॥ २॥ ह्रीङ्कारं मध्यभागेऽस्याः पीतवर्णः प्रकीर्तितः । तद्भवा पीतवर्णा च अवधूत्या(ती) स्वयं स्थिता ॥ ३॥ ललनायां तु सुश्यामा रसनायां च गौरिका । प्रत्यालीढपदा नाम्ना मध्ये पीता मनोरमा ॥ ४॥ त्रिमार्गे संस्थिता देवी त्रिकायवज्रयोगिनी । सेयं नाम्ना भवेदेका सर्वसम्बुद्धडाकिनी ॥ ५॥ त्रैलोक्ये दिव्यरूपा च सर्वाशापरिपूरिका । स्वकर्तिना कर्तितं च वामहस्ते स्वमस्तकम् ॥ ६॥ दक्षिणेऽस्या स्थिता कर्तिर्जगतो दुःखच्छेदिनी । अस्या वामे स्थिता श्यामा नाम्ना सा वरवर्णिनी ॥ ७॥ कर्परः सव्यहस्ते च कर्तिर्वामे च संस्थिता । दक्षिणे चैव पीता वै वज्रवैरोचनी स्थिता ॥ ८॥ कर्तिका दक्षिणे हस्ते वामे कपालधारिणी । प्रत्यालीढपदा देवी नग्निका तु विशेषतः ॥ ९॥ करौ च द्वौ तयोः पादौ विपरीतौ तथा स्थितौ । बुद्धानां जननी मध्या सम्यक्सम्बुद्धरूपिणी ॥ १०॥ अक्षया सुभगा नित्यं हन्त्री च मृत्युजन्मनोः । धर्मसम्भोगनिर्माणमहासुखस्वरूपिणी ॥ ११॥ सेयं त्रिभुवने देवी राजये चन्द्रवत्सदा । कबन्धादवधूत्याश्च प्रविशेत्स्वमुखेष्वसृक् ॥ १२॥ ललनारसनाभ्यां च निःसृत्य शिरसि तथा । करूणारक्तरूपेण पिबन्ती सर्वशान्तये ॥ १३॥ दुःखं संप्रेक्ष्य लोकानां चतुर्मारनिषूदिनी । दौर्मनस्यादि कर्त्या च कर्तन्ती सर्वमेव तत् ॥ १४॥ स्तुता हि जिनमातस्त्वं सुप्रसीद भवार्णवे । स्वार्थं कर्तुं परार्थं च भवाम्यहं यथा क्षमः ॥ १५॥ तत्त्वया देवी कर्तव्यमनुग्रहं मयि सृज । बालोऽहमज्ञरूपी च कायवाकचित्तदोषतः ॥ १६॥ गुरुभक्तिं न जानेऽहं त्वद्भक्तिं च विशेषतः । इत्याकलय लोकेशि कृपा मयि विधीयताम् ॥ १७॥ कायवाकचेतसां साम्यं कुरु मे त्वं प्रसादतः । येन मुञ्चामि संसारं षड्गतिं न विशाम्यहम् ॥ १८॥ यथा च वज्रवद्देहो यावन्मुक्तो भवाम्यहम् । मारैः सर्वैः परित्यक्तो यथा कायो भवेन्मम ॥ १९॥ लीलया सिद्धिभागाः स्युर्निर्विघ्नः सर्वसिद्धिभाक् । सर्वसाधनसिद्धि स्यात् कायश्चैवाजरामरः ॥ २०॥ त्रासनं सर्वमाराणां सर्वाशापरिपूरणम् । देहि मे त्वं वरां सिद्धिं हित्वा चैव गमागमम् ॥ २१॥ मनो विलीयतां देवि पञ्चेन्द्रियानुसंयुतम् । सिद्ध्येच्च वज्रसत्त्वायुर्यौवनारोग्यसत्सुखम् ॥ २२॥ त्वत्प्रसादान्महामुद्रा सर्वेषामेव सम्भवेत् । देवासुरमनुष्याश्च यत्र यत्र च संस्थिताः । सुखिनस्ते च सर्वे स्युर्बुद्धत्वफललाभिनः ॥ २३॥ इति श्रीगुह्यसमयतन्त्रे त्रिकायवज्रयोगिन्याः स्तुतिप्रणिधानं सम्पूर्णम् । इति सिद्धाचार्यकृतं श्रीविरूपादानाम् सम्पूर्णम् ॥
% Text title            : Vajrayoginyah Stutipranidhanam
% File name             : vajrayoginyAHstutipraNidhAnam.itx
% itxtitle              : vajrayoginyAH stutipraNidhAnam (siddhAchAryakRitam)
% engtitle              : vajrayoginyAH stutipraNidhAnam
% Category              : devii, devI, buddha, stuti
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DSBC staff
% Proofread by          : Miroj Shakya
% Indexextra            : (Scan, Text 1, 2)
% Acknowledge-Permission: Prof. Miroj Shakya, Text  Nagarjuna Institute of Exact Methods, Digital Sanskrit Buddhist Canon Project, University of the West https://www.dsbcproject.org/
% Latest update         : March 8, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org