वरुणदेवकृता सीतास्तुतिः
वरुण उवाच ।
कूप्याः सरस्याः सरितां यथायः समुद्रमेव प्रविशन्ति सर्वाः ।
उच्चावचास्त्वयि सर्वेऽपि भावाः प्रविश्यास्तं यान्ति नित्यस्वरूपे ॥ १॥
यथा जलोत्थं मलमातृणोति जलस्वरूपं सर्वतः सम्प्लुतं यत् ।
त्वदुद्भवा देवि तथैव माया त्वामावृणीते व्यापिका ब्रह्मरूपाम् ॥ २॥
क्षारांस्तथा मधुराः सत्य आपो न माधुर्यं क्वचन व्यभिचरन्ति ।
एवं भावाः सदसद्रूपिणोऽपि न ते सत्तां व्यभिचरन्ति कुत्रचित् ॥ ३॥
स्वतन्त्रञ्च ते धाम नित्याव्ययं यत् सत्त्वान्तःस्थं भाति सर्वावतारे ।
तदेवेदं भासते शुद्धसत्त्वमन्तर्हितं तावकं शुद्धरूपम् ॥ ४॥
त्वमात्मभूता जगतामन्तरङ्गा माया गुणैर्लक्ष्यसे नो पृथक्त्वम् ।
एकत्वे सद्विदुषां ज्ञानगम्या प्रकाशसे बहिरङ्गेऽपि चार्थे ॥ ५॥
विशन्नयोगोलकमन्तरानलः स्वरूपशक्ति वितरति लोहपिण्डे ।
तथा त्वमन्तः प्रविशन्ती जनानां स्वावेशेन स्फुरमाणं करोषि ॥ ६॥
त्वदाविष्टं मानसं सज्जनानां कल्याणैस्त्वद्गुणावर्गैरुपैति ।
त्वया विवर्ज्यं हृदयं दुर्जनानां मायागुणैराक्रमितं भवेच्च ॥ ७॥
कारुण्यं ते प्रकृतिः सर्वजीवेष्टाभद्रहृद्भाति सामान्यतोऽपि ।
तथाप्यमी दुखस्था भजन्ते स्वकर्मभिः सदविद्याविलासाः ॥ ८॥
निर्गुणा सगुणा च त्वं निष्क्रिया चापि सक्रिया ।
असौम्या चापि सौम्या त्वमेकैवानेकरूपिणी ॥ ९॥
परा त्वं च पश्यन्तिका मध्यमा त्वं त्वं वैखरी सृष्टिरनन्तरूपा ।
त्वं वर्णरूपा पदवाक्यार्थरूपा त्वं तद्वृत्तिः स्फोटरूपा त्वमेका ॥ १०॥
यथा नभो दूरतौ नीलवर्णं शुद्धादर्शे प्रतिबिम्बत्वमेति ।
तथैव त्वं प्रविकर्षेण दृष्टेर्मायागुणेषु प्रतिरूपं करोषि ॥ ११॥
त्वद्बोधकं वाक्यमेकं वदन्ति ओन्तत्सदित्युच्चकेः सम्प्रयुक्तम् ।
तेनाशेषा वेदयज्ञाः क्रियाद्याः सद्वस्तुवर्गा प्रभवन्त्यर्थदाने ॥ १२॥
जयं तपश्चापि यज्ञादिकाः क्रियाः प्रकुर्वतां फलवाञ्छापराणाम् ।
श्रद्धारूपा त्वं मनस्यभ्युपैषि यथा शेषः सिध्यति कार्यवर्गः ॥ १३॥
जीवन्नैवासौ परेतो मनुष्यो यस्त्वद्रूपं क्वापि जानाति नैव ।
यज्ञेर्दानैस्तपोभिरनाशकाद्यैर्यस्याम्भक्तिं स्पृहयन्ति प्रवीणाः ॥ १४॥
निन्दावादस्तावको यत्र मातः सञ्जायेताज्ञानिनामासुराणाम् ।
ततो गच्छेद्देवि कर्णौ पिधाय तिष्ठैद्वापि स्वामिर्न यस्त्वदीयः ॥ १५॥
त्वन्नामनादामृतसिन्धुमध्ये कृतावगाहो मनुजः श्रद्धया यः ।
तमुग्रसंसारसमुद्र एष सदोत्तरङ्गोऽपि न संस्पृशव्यहो ॥ १६॥
सर्वानु धर्मान् ये परित्यज्य मातस्त्वदङ्घ्रिपोतं संश्रयन्तीह भक्तया ।
ते संसाराब्धिं शनकैरुत्तरन्ति ते वै जना ज्ञातशास्त्रैकसाराः ॥ १७॥
यावन्न ते जायते सम्प्रपत्तिर्हस्तग्राहं नैव तावत्करोषि ।
त्वयाङ्गीकृतमेनं मनुष्यं श्रीरामोऽपि प्रभुरुत्तारयेत्किम् ॥ १८॥
विश्वास एवाश्रयिणां ते जनानां संसाराब्द्यौनावमज्जाम एव ।
यज्जानकीचरणसरोजयुग्मे आत्मोपहारीकृत आदाय सर्वम् ॥ १९॥
भारोऽप्य शेषस्त्वयि चेत् समर्पितो यो वैदिको लौकिकश्चाप्यशेषः ।
न वै तेषामिह चामुत्र किञ्चित्कर्तव्यं स्याज्जनकनरेन्द्रकन्ये ॥ २०॥
नृपोऽप्यसौ भाग्यवतां शिरोमणिर्न ज्ञायते किं कृतवान् पुण्यजातम् ।
यदालयालङ्करणाय जातया लोकत्रयं शश्वदलङ्कृतं त्वया ॥ २१॥
अहो मातर्वयमिन्द्रादिदेवास्त्वत्सेवकानां नितरामिन्द्रियाणि ।
प्रविश्य नित्यं निभृतं पिबामस्त्वदीयलीलाश्रवणादिकाः सुधाः ॥ २२॥
अहो इयं मिथिलानामभूमेरनन्यशोभाकरणी वभूव ।
आविर्भूता यत्र रामस्य रामा त्वं वै साक्षात्प्रकृतेः पूरुषात्परा ॥ २३॥
कीतिस्त्वदीया जनकेन्द्रसम्भवे गङ्गादितीर्थावलिपावनोचिता ।
येषामन्तः सम्प्रविष्टा जनानां तं आवलीपावनपावनास्युः ॥ २४॥
यस्याः कटाक्षस्पृशिमात्रेण लक्ष्मीर्नारायणस्याङ्कगा सम्भूवः ।
ब्रह्माणी च ब्रह्मण उमा शिवस्य तां त्वां श्रयामः सर्वसौभाग्यलक्ष्मीम् ॥ २५॥
एकैव त्वं बहुधाऽऽकारयुक्ता रामेन्दुना रमसे रासमध्ये ।
तां त्वां परां भक्तियुक्ताः प्रपद्य स्वात्मानमत्यर्थकृताश्च यामः ॥ २६॥
त्वदाननेन्दुप्रभवज्योत्स्नया वयं यद्वत्प्रमोदाटविगाश्चकोराः ।
स्वानन्दसम्पत्तिसमुद्रगमग्नाः शश्वत्कृतार्थाः सुभगे देवि सीते ॥ २७॥
अधिप्रमोदाटवि देवि यद्वदद्विरेफमाला सुखिताङ्गसौरभैः ।
तथा मदीयेन्द्रियवृत्तिराजी त्वद्भक्ति सम्पृक्ततयास्तु मोदिनी ॥ २८॥
इदं परं सन्तते कामयामो वयं निजं स्थानमभ्येत्य मा क्वचित् ।
दर्पाचिताः किञ्चिदभूभयत्त्वत्पराङ्मुखा क्वापि न स्याम सीते ॥ २९॥
सहजानन्दिनीं तां त्वां प्रयत्नाः शरणं वयम् ।
ब्रह्माण्डानां कोटयोऽपि यस्यां शात्पुरुषाद्वभुः ॥ ३०॥
इत्युक्त्वा वरुणस्तात दण्डवत्प्रायतद्भुवि ।
रोमाञ्चिताशेषतनुर्भक्तिपीयूषपूरितः ॥ ३१॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मस्तुतौ वरुणस्तुतिर्नाम चतुर्विंशोऽध्यायः ॥ २४॥
भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय २४/१-३१॥
bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 24/1-31..
Encoded and proofread by Mrityunjay Rajkumar Pandey