श्री विन्ध्यवासिनि दशपदी

श्री विन्ध्यवासिनि दशपदी

श्रीविन्ध्यवासिन्यै नमः । सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां शखं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां ध्यायेद् विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम्'' ॥ सिंहस्था मृगराजगा च विजया दुर्गा च पद्मावती नागाधीश्वरविष्टरा च ललिता लक्ष्मीः सरोजस्थिता । मातङ्गी च सुरत्नपीठपदवी स्तुत्याश्च सर्वाः परं सौवर्णाम्बुजमध्यगा विजयते तासां हि विन्ध्येश्वरी ॥ १॥ हस्तास्याङ्घ्रिदशा परं त्रिनयना देवी महाकालिका दुर्गा सिद्धिकरी जया शशिधरा ध्याता त्रिनेत्रा सताम् । आराध्या भुवनेश्वरी शिवशिवा युक्ता त्रिभिर्लोचनैः सौम्या बाहुचतुष्टया त्रिनयना विन्ध्येश्वरी शङ्करी ॥ २॥ नीलाश्मद्युतिकालिकां भगवती कालाभ्रुतुल्या जया विद्युद्दामसमा दिवाकरनिभा दुर्गा च पद्मावती । ध्यातव्या च सरस्वती मतिमतां शीतांशुतुल्यप्रभा दृश्या विन्ध्यनिवासिनी कलियुगे सौदामिनीसन्निभा ॥ ३॥ खड्गादिं दघती करैः सुविदिता श्यामाऽसतां भीषणा मालाकुम्भकपालनीरजकरा पद्मावती संस्तुता । बालानां भुवनेश्वरी नहि तथा सौम्या सपाशाङ्कुशा शखं चक्रवराभयानि दधती विन्ध्येश्वरी वैष्णवी ॥ ४॥ देवी बद्धहिमांशुरत्नमुकुटा मूर्धेन्दुरेखा जया मातङ्गी शशिखण्डधा शशिधरा दुर्गा च कामेश्वरी । ध्यातव्या भुवनेश्वरीन्दुमुकुटा चन्द्रार्धपद्मावती विन्ध्ये काऽपि निरीक्ष्यते सहृदयैरिन्दोः कलां बिभ्रती ॥ ५॥ काली सर्वविभूषणावृतवपुः कह्लारमालाश्रिया मातङ्गी करुणातरङ्गितदृशा स्तुत्या भवानी सती । भास्वद्देहलता सुरत्ननिवहैः पद्मावती, विन्ध्यगा ग्रैवेयाङ्गदहारकुण्डलधरा भूषामृदुर्माधवी ॥ ६॥ आदौ संस्तुतवांस्तथा कमलजो बोधाय कालीं हरेः सिद्ध्यर्थं सुजनैर्जया सुरवृता कन्याभिरासेविता । ध्यातव्या ह्यणिमादिभिश्च किरणैः काम्यैर्भवानी वृता विन्ध्यस्था शरणं स्वतो भुवि परञ्चाखण्डलाद्यैः स्तुता ॥ ७॥ भक्तानां वितनोति सौख्यनिकरं लक्ष्मीः प्रसन्नानना मातुः पालनशिक्षणं वितनुते वक्त्रारविन्दश्रिया । संसारे भुवनेश्वरी स्मितमुखी स्तोतुश्च दाने सदा विन्ध्याद्रौ पृथुलोचना शशिमुखी तापौषधिर्दर्शनात् ॥ ८॥ सिंहस्कन्धगता जया मृगपतिस्कन्धे च दुर्गा स्थिता सर्वज्ञेश्वरभैरवाङ्कनिलया पद्मावती सुप्रिया । सिंहः पार्श्वगतः शिवोऽथ दयितः पञ्चाननो द्वावपि प्रीतिं विन्ध्यगतोभयीं वितनुते पार्श्वस्थपञ्चानना ॥ ९॥ आख्याने प्रथमे स्तुता सुविधिना काली द्वितीये ततो लक्ष्मीश्चापि सरस्वती च महती सर्वा तृतीयेऽन्ततः । मातङ्गी भुवनेश्वरी च विजया दुर्गा भवानी शिवा तासां विन्ध्यनिवासिनी सकरूणा गङ्गासखीलोचना ॥ १०। विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । सासम्मुखगतानां हि प्रीणाति विन्ध्यवासिनी ॥ ११॥ श्रीविन्ध्यवासिनी माता गीता दशपदीस्तुतिः । वितनोतु सतां मोदं सर्वमङ्गलसंयुतम् ॥ १२॥ इति श्री विन्ध्यवासिनि दशपदी सम्पूर्णा । ॥ इति शम् ॥ Proofread by Kavitha Aanand
% Text title            : Vindhyavasini DashapadI
% File name             : vindhyavAsinidashapadI.itx
% itxtitle              : vindhyavAsinidashapadI
% engtitle              : vindhyavAsinidashapadI
% Category              : devii, devI, dashaka
% Location              : doc_devii
% Sublocation           : devii
% Author                : Batohi Jha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kavitha Aanand
% Indexextra            : (Scan)
% Latest update         : January 13, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org