यमकृता जानकीस्तुतिः
धर्मराज उवाच ।
नमोऽस्तु ते धर्मवसुन्धरायै धर्मात्मिकायै धर्मफलात्मिकायै ।
समस्तधर्मातिगदैत्यवंशमूलच्छिदे रामपरप्रियायै ॥ १॥
समस्तजीवाभ्युदयैकहेतुर्धर्मः परस्त्वं फलदा च तस्य ।
विभासि चेत्तस्य प्रतियोगिनी त्वं तदा भवेददुःखततिर्जनानाम् ॥ २॥
समासतो व्यासत एव चापित्वमेव धर्मः श्रुतिलक्षणो यः ।
सर्गाय विश्वस्य तनोषि रूप मर्यादाख्यं यत एवास्य बन्धः ॥ ३॥
प्रवाहमार्गोऽप्यखिलस्त्वयीशि प्रतिष्ठितो यत्र भवः पुनः पुनः ।
निजेच्छया रामरमे कदाचिदनुग्रहं चेत्कुरुषे विमुक्त्यै ॥ ४॥
कर्त्ता क्रिया कर्मगणः समस्तस्त्वयीशि सर्वं करणप्रतिष्ठितम् ।
सर्वस्याधिष्ठानमयैकशक्त्या विचिन्त्य भोगेच्छतयास्त्वधोजुषे ॥ ५॥
कुतर्कमोहोपहतस्वभावाः कुतः क्व वा नेति वदन्ति विश्वम् ।
अध्यात्मविद्याकुशलाः पुनस्त्वा सर्वस्य मूल परमामनन्ति ॥ ६॥
दण्डं भवे धारयाम्युग्रमद्धा पापात्मसु त्वत्स्वरूपद्रुहेषु ।
सोऽहं यदा स्यां परमोशमानी तदा मयि त्व विदधासिदण्डम् ॥ ७॥
लिखाम्यहं सदसच्चेतरेषां भवप्रवाहोपगतात्मनां नृणाम् ।
न तु त्वदीयोन्नतपादपद्मपरायणानां पुरुषेश्वराणाम् ॥ ८॥
कदाचिदानेतुमभूत्प्रवृत्तो मद्भूतवर्गः प्रमुदाटवीस्थम् ।
कञ्चित्त्वदीयं जनमात्ममोहाद्बहिः कदाचित्कलितात्यधर्मम् ॥ ९॥
तथा ह्यम्ब काश्चिदन्त्यजः पापाचार आजन्मकृतमांसाशनो
मदिरामत्तो मत्स्यान्घ्नन् सन्तततत्पिशितैकपरिपोषितनिजकुटुम्बः
शिश्नोदरपरायणः केचित्कर्मणा प्रमोदाटव्यां चातुर्मास्यप्रसङ्गे
समागतानां परमहंसानां मुनीनां श्रीरामभक्तानामङ्गसङ्गिनं
पवमानं सेवमानः स्वपत्न्याऽऽनीतं तदुच्छिष्टं जुषाणः
श्रीहरिचरणसरोजसङ्गितुलसीदलसौरभमम्भः पिबन्
कालमतिवाहयामास ।
ततः कदाचिन्मृगयां गतो वराहान्महिषान्मृगांश्चोद्वेजयमानः
केनचित्केसरिणाकालितः प्राणात्यपमगात् ।
ततस्तमानेतुं यमदूतास्तीक्ष्णदंष्ट्राः करालवदनाः सुदीर्घनासा
भयानकाः कल्मषविग्रहाः पिशङ्गोग्रोर्ध्वप्ररूढकेशाः
कठिनकशाभिघातिन उच्चावचदशनाः प्रेता इव सयमनी नेतुं
प्रवृत्ताः ।
तांश्चार्द्धपथ एव तर्जयन्तस्तर्जयन्तइव सधनुर्वाणाम्बुजकराः
पीतवाससो वेत्रधराः श्रीरामराघवेन्द्रस्य दूता मिलिताः ।
ते च तैः पराभूतामन्निदेश्या असमर्था इव जाताः ।
किमर्थमसकौवर्णाधमो धर्मविमुख आजन्मयचितपिशितो मृगाशनः
श्रीरामचन्द्र दूतैः श्रीरामपार्श्वमेव नीयत इति शोचमानास्ततः
परावृत्ता बभूवुरागत्य च मामूचुः ॥ १०॥
यमदूता ऊचु
भगवन् वैवस्वत श्राद्धेऽव कश्चिन्दन्त्यजः प्रमोदवनस्य पार्श्वे
लुब्धको भूत्वा विचरन् केशरिणाहतः ।
सोऽस्मयात्केरभ्य आच्छिद्य श्रीरामचन्द्रदूतैः श्रीरामपार्श्वमेव
मीयत इति महदाश्चर्यं नः संवृतं यतोऽयं दुराचारः
पापिष्ठतमोऽन्त्यजः सन्यासिनामूर्द्धरेतसां योगीश्वराणामात्मज्ञानामपि
दुराप रामपदं केन कर्मातिशयेन नीयत इति भवानेव वदेति ।
तानहं विमृश्य तस्याचिन्त्यगतितामवोचम् ॥ ११॥
अहो दूता न ज्ञायत एष भवद्भिः
प्रमोदवनैकतिष्ठन्सकलभाग्यवतां
मूर्द्धानमधिरूढस्तत्र खलु कदाचिद्रामभक्ताः परमहंसा
मुनयोऽभ्युपेतास्तेषामुच्छिष्टमनेन भक्षितमभूत्सारवं
चाम्बुश्रीचरणसुगन्धितुलसीतरुमञ्जरीमञ्जुलसोवहं
स्फुटमाजन्म पीयूष तमभूत्तदङ्गसङ्गीशीतलमन्दसुगन्धिः
पवमानश्चसेविततमस्तेन कर्मणाध्वस्तरजस्तमोमलः
सुविशुद्धमानसोऽयं देहात्यये रामदूतैरेव नीयते श्रीकुञ्जाख्यन्धाम
नातः परमीदृग्विधोऽप्यन्योऽपि भवद्भिरिहानीयतां तत्रैता
गाथाः स्मर्तव्याः येषां प्रमोदवनवासजुषां जनानां पापात्मनामपि
सुखार्थमतीतमायुः ।
स्वेच्छाक्रियाश्च हरिनामपराङ्मुखाश्च तान्नैव संस्पृशत
दूतवरा मदीयाः ॥ १२॥
ये सारवं मलिलमिन्दुसुधावलक्षं श्रीपादसङ्कलितमञ्जलिभिः पिबन्ति ।
तत्तीरऽभूरुहगतातपगात्रतापास्तान्नैव संस्पृशत दूतवरा मदीयाः ॥ १३॥
येषां च कुक्षिगतमन्नमतीव पूत-
मुच्छिष्टभूतममृतोपममेकसिक्थम् ।
श्रीरामचन्द्रमधुराधरसङ्गमिष्टं
तान्नैव संस्पृशत दूतवरा मदीयाः ॥ १४॥
श्रीरामसेवककेरेर्विपुलप्रसादेरुच्छिष्टदत्तममृतोपमिष्टमन्त्रम् ।
ये भक्षयन्ति नितरामपि नीचजातास्तान्नैव संस्मृशत दूतवरामदीया ॥ १५॥
ये रामचन्द्रचरणाम्बुजलग्नचारुनित्योल्लसत्तुलसिकारजसाभिषिक्ताः ।
श्रीरामनामगदनैर्वदने पवित्रास्तान्नैव संस्पृशत दूतवरा मदीयाः ॥ १६॥
चाण्डालयोनिपतिता अपि येऽन्तकाले श्रीमत्प्रमोदवनभूतुलसीतरूणाम् ।
मूलोद्भवां कर्हिचिन्मृदमुद्वहन्ति तान्नैव संस्पृशत दूतवरा मदीयाः ॥ १७॥
ये चित्रकूटरमणाद्रिशिलातलोत्थां मृत्स्नामतीवरुचिरां च समुद्वहन्ति ।
मन्दाकिनीपुलिनधूलिसुधृसराङ्गास्तान्नैव संस्पृशत दूतवरा मदीयाः ॥ १८॥
ये कोसलानगरराजपवित्रवीथी-
धूलीसुपृक्तवपुषो मनुजा म्रियन्ते ।
आजन्म पातककृतोऽपि नृशंसयोऽपि
तान्नैव संस्पृथत दूतवरा मदीयाः ॥ १९॥
येषां प्रमोदवनवीथिषु काककोलपेर्वादयः कवलयन्ति वपुः कदाचित् ।
पिण्डादिकर्मरहितानपि चातिपापांस्तान्नैव संस्पृशत दूतवरा मदीयाः ॥ २०॥
ये कोसलापरिसरत्सरयूतरङ्गासम्पृक्तमारुतसमागममात्रपूताः ।
देशेषु तेषु निवसन्ति च मानवा ये तान्नैव संस्पृशत दूतवरा मदीयाः ॥ २१॥
इत्येवमुक्तास्ते मदीया अत्युग्रयातनाकारिणोऽपि दूता कोसलापुरोपान्त
भूमिषु प्रमोदवनवीथिषु चित्रकूटपरितः प्रदेशेषु
सरयूतीरप्रदेशेषु तदुपान्तदेशेषु च मृतान्नैवाधुनाऽऽनयन्ति
पक्षिणो मृगान् मशकान् कीटानपि किमुत मानवान् ।
सोऽयं तवैव महिमा श्रीमज्जनकनरेन्द्रनन्दिन्याः
साकेतपुराधीशमहिष्या मिथिलापुर कुमारिकायाः ।
प्रमोदवननित्यवासिन्याः
श्रीप्रमुदाटवीसाम्राज्यसुखितश्रीराघवचन्द्रचन्द्रिकायाः
श्रीनन्दननन्दिन्याः श्री सहजानन्दिन्यास्त्रिभुवनसुखसमूहवितरणाय
नित्य मुञ्जृम्भतेस्म ।
ॐ नमस्तस्यै
सुवर्णहलाकृष्टजनकनरेन्द्रयज्ञावनीयावनीकरणप्रवणायै
रत्नसिंहासनपरिसरपृसृत्वरनवनवीन-
नदीतरङ्गच्छटाचाखीज्यमानाद्भुतविग्रहायै
ऊर्मिला माण्डवीश्रुतकीर्तिमण्डितमहामहासनप्रतिष्ठितायै
धरणीदेवताकरकमलवितीर्णायैजनकनरेन्द्रसादरगृहीतायै-
सुनयनादेवीनयनानन्दिचन्द्रिकायैचलच्चकोरीनयनाञ्जलि-
निपीतमुखचन्द्रसुधायै श्रीसहजानन्दिन्यै ।
इत्युक्त्वा वैवस्वतो भगवान् मुहुर्मुहुरूपहृतोपढौकनीय
कृतनिजविग्रहः साष्टाङ्ग प्रणम्योपरराम ॥ २२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोपाख्याने यमकृतजानकीस्तुतिर्नाम द्वाविंशोऽध्यायः ॥ २२॥
भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय २२/१-२२॥
bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 22/1-22..
Encoded and proofread by Mrityunjay Rajkumar Pandey