यमुनाञ्जलिः
हिमधवलहिमाद्रेर्यद्यपि त्वं प्रसूता
प्रथयसि यमुने त्वं कालिमानं जलौघैः ।
कथमिदमिति वेत्तुं न क्षमं तेन गत्वा
त्वदुदययमुनोत्रिर्देवि नासेवि येन ॥ १॥
उपलविषममार्गेणोत्प्लुतैस्स्यन्दितं ते
विहितहसितमुच्चैरुर्मिभिर्मर्मरैश्च ।
तटपथमधि पान्थीभूय पश्यन् जलौघं
त्वदुदययमुनोत्रिं गन्तुमेकस्समर्थः ॥ २॥
तटभुवि महिषाणां तत्र तत्रासितानां
ततिरपि तव दृश्या भ्रातृवाहान्वयानाम् ।
त्वयि बहुमतिभाजां स्वामिनो नस्स्वसेति
तव च बहुमतानां भ्रातृवाहप्रजेति ॥ ३॥
असितमहिषवृन्दैराश्रितानूपदेशैः
अनुदिनमवगाढैर्गाढमालोड्यमानः ।
यमभगिनि तृषार्तैरेष पीतावशेषो
भजति सलिलपूरस्ते ध्रुवं कालिमानम् ॥ ४॥
त्वदुपरि पतितानां पर्वतेभ्यश्शिलानां
तव शुभनवतोयैः धावितक्षालितानाम् ।
वपुषि धवलिमानं सूर्यजे लम्भितानां
मलमुपहरतीव त्वज्जले कालिमानम् ॥ ५॥
हरिरपि तव कृष्णं वीक्ष्य तोयं त्वदद्भिः
असितिमपरिपुष्टिं कृष्णवेषेऽभिलष्यन् ।
शिशुरपि मथुरायां गोकुलेऽभूत् कुमारः
तटमधि तव वृन्दारण्य आसीत् किशोरः ॥ ६॥
श्रितजनमलजालक्षालनैकव्रता त्वं
यमभगिनि मदीयं क्षालयित्वा मलौघम् ।
त्वयि निहितमतेम गोपवेषस्य विष्णोः
चरणकमलसेवां शाश्वतीं प्रापयेथाः ॥ ७॥
अधिकरतिमवेक्ष्य त्वय्यतो नन्दसूनोः
तमधिजिगमिषूणां त्वज्जले मज्जितानाम् ।
नयनयुगविमृष्टैः कज्जलैर्वल्लवीनां
नियतमधिकमासीर्नीलनीरा पुरा त्वम् ॥ ८॥
उपजिगमिषवस्तं पर्वतं सर्वसेव्यं
कथमपि यमुनोत्रेः केचनातीव धन्याः ।
प्रथमपदि हनूमच्छट्टिमागत्य दिग्भ्यः
खरनरहयरूढा वा स्वपद्भ्यां प्रयान्ति ॥ ९॥
खरकिरणसुतायाः स्थानमुत्पत्तिपूतं
खरवरमधिरूढाः प्रातरुत्थाय यान्ति ।
खररिपुपददासच्छट्टितः प्रस्थितास्ते
खरकरकुलकेतुप्रेयसीच्छद्यतीताः ॥ १०॥
खरखुरततिघातः कर्कशेनाध्वनाऽदेः
खरवरमधिरूढाः ये स्वसुस्तं यमस्य ।
खरजलयमुनोत्रं यान्ति ते नैव यान्ति
खरवरमधिरूढास्तां दिशं भ्रातुरस्याः ॥ ११॥
प्रथममनिलसूनोश्छरिग्रे सुरर्षैः
तदनु सरिति सेतुर्यत्र फूलच्छहिरिन्धे ।
अथ भृशरमणीयो जानकीच्छट्टिरेव
विलसति यमुनोत्रेरध्वनिच्छट्टिपङ्क्तिः ॥ १२॥
प्रभवति यमुनोत्रिं प्राप्तुमेको मनुष्यः
इतरनरधृतस्सन् पादयात्रास्वशक्तः ।
नरमृतनिजकायस्स्पष्टकौबेरभोगः
स भवति यमुनायाः दर्शनात् पूर्वमेव ॥ १३॥
क्वचिदुपलपथेन प्रसवन्निर्झरीभिः
क्वचन हिमवृताः क्वापि शैलैर्वनाढ्यैः ।
हरितहरिदुपान्तः प्रान्त एष प्रशान्तः
हरति झटिति कान्तस्स्वान्तमागन्तुकानाम् ॥ १४॥
विलसति यमुनोत्री मन्दिरं प्रत्नमेकं
जयति पवनपुत्रः पूज्यमानो यदन्तः ।
निजगुरुतनयायाः क्षेत्र उत्पत्तिपूते
निजगुरुवरकुण्डं रक्षति प्रेक्षमाणः ॥ १५॥
अथ हिमगिरिकूटैरावृते शान्तकान्ते
हिमचयधवलाग्रस्याद्रिशृङ्गस्य पादे ।
शिशिरसलिलपूर्णः कुण्ड एको विशालः
जगति विदितनामा भाति सप्तर्षिकुण्डः ॥ १६॥
हिमशिशिरिततोयोत्पत्य सप्तर्षिकुण्डात्
प्रवहति यमुनोत्रेः पार्श्वतश्शीतधारा ।
क्वथितसलिलतप्यत्सूर्यकुण्डोपकण्ठे
मिलति यमुनया सा तप्तकुण्डखविण्या ॥ १७॥
जयति यमभगिन्याः नेत्रमुत्क्षिप्ततप्त-
पय इह यमुनोत्री पश्यदंहोऽविनाशि ।
दिनमणितनया साप्यालये पार्श्ववर्ति-
न्यनुदिनमुपयातैर्वन्द्यते यात्रिवृन्दैः ॥ १८॥
अपि यदि निजनाम्ना वर्णतश्चापि कृष्णा
त्वमिव बहुमताऽऽसीत् सा न कृष्णस्य पूर्वम् ।
अमजदभिमृतत्वं द्रौपदी साऽथ तप्त्वा
तप इह यमुनोत्री द्रौपदीकुण्डपार्श्वे ॥ १९॥
प्रवहसि यमुनोत्रेस्सूर्यजे स्वच्छतोया
जनपदमखिलं नः पावयन्ती तथान्ते ।
मिलसि सुरतटिन्या मेलनाद्यत्र जातः
सुरनरमुनिसेव्यस्तीर्थराज प्रयागः ॥ २०॥
तटमधि मथुराग्रादेहलीति प्रसिद्धं
वहसि नगरवृन्दं वारिणा त्वं पुनाना ।
हरिविहरणपूतं गोकुलं तच्च वृन्दा-
वनमपि परिरभ्य त्वं स्वयं पूयमाना ॥ २१॥
अधिककृषिकृते ते बन्धनं कारयित्वा
निखिलमपि च बन्धे त्वज्जलं पूरयित्वा ।
अपि तटगमधस्तादव्चलं वञ्चयित्वा
चरति कथमधर्म त्वां जनश्शोषयित्वा ? ॥ २२॥
यमभगिनि तथाऽपि त्वं दयामय्यमीषु
शिशुषु करुणयार्द्रा काऽपि माता यथा वा ।
कृषिफलमपि भूयः पेयतोयं तथोज
वितरसि सकलं यत् जीवनं स्वं विसृज्य ॥ २३॥
मलसलिलममेध्यं त्वय्यहो पातयित्वा
विदधति हि महान्तं भारतीयाः अधर्मम् ।
तदपि विषमाणा पूतिदुर्गन्धजातं
वहसि करुणया नः पापिनः पावयन्ती ॥ २४॥
मिहिरदुहितृभूता सा कलिन्दात्मजाता
हिमगिरिसमुदेता पोष्यपुत्री हिमाद्रेः ।
पितृपतिभगिनी श्रीकृष्णकेलीसखी हा !
त्यजति पतिमलवा देहमाश्रित्य गङ्गाम् ॥ २५॥
उपशमयितुकामैरुग्रसंसार-तापं
उचितमुपनताभिः प्रोक्षणं यामुनाद्धिः ।
उतरवितनयायाः उक्तनुत्या अमुष्याः
उरुफलमुपकार्याः प्रेक्षणं तैस्सकृद् वा ॥ २६॥
इति तरणिसुतायाः बालकृष्णप्रियायाः
भवदहनशमन्याः भक्तिमुक्तिप्रदायाः ।
कविमणिरिह नाम्ना सुन्दरश्चैव राजा
व्यतनुत यमुनायास्सुन्दरं स्तोत्रमेतत् ॥ २७॥
इति श्री एस्. सुन्दराजः विरचिता यमुनाञ्जलिः समाप्ता ।
Composed by Shri S. Sundaraja
IAS, Nayapalli, Bhuvaneshwar
Encoded and proofread by Hiranmay