श्रीयोनिस्तवराजः

श्रीयोनिस्तवराजः

अथ योनि-ध्यानम् । अतिसुललितगात्रां हास्यवक्त्रां त्रिनेत्रां जितजलदसुकान्तिं पट्टवस्त्रप्रकाशाम् । अभयवरकराढ्यां रत्नभूषातिभव्यां सुरतरुतलपीठ रत्नसिंहासनस्थाम् ॥ १॥ हरिहरविधिवन्द्यां बुद्धिशुद्धिस्वरूपां मदनरससमाक्तां कामिनीं कामदात्रीम् । निखिलजनविलासोद्दामरूपां भवानीं कलिकलुषनिहन्त्रीं योनिरूपां भजामि ॥ २॥ श्रीदेव्युवाच - भगवान् सर्वधर्मज्ञ कुलशास्त्रार्थपारग । सर्वं मे कथितं नाथ न त्वेकं परमेश्वर ॥ १॥ श्रीयोनेः स्तवराजं हि तथा कवचमुत्तमम् । श्रोतुमिच्छामि सर्वज्ञ यदि तेऽस्ति कृपा मयि ॥ २॥ सारभूतं महादेव निगमान्तर्गतं हर । यदि न कथ्यते देव प्राणत्यागं करोम्यहम् ॥ ३॥ दिवानिशि महाभाग ममाश्रुः पतितं भवेत् । अतस्तद् देवदेवेश कथ्यतां मे दयानिधे ॥ ४॥ श्रीमहादेव उवाच । श‍ृणु पार्वति वक्ष्यामि देहत्यागं कथं कुरु । अत्यन्तगोपनीयं हि निगमे कथितं पुरा ॥ ५॥ ब्रह्माविष्णुग्रहादीनां न मया कथितं पुरा । अकथ्यं परमेशानि इदानीं कि करोमि ते ॥ ६॥ तव स्नेहेन बद्धोऽहं कथयामि तव प्रिये । मातर्देवि महाभागे यदि कस्मै प्रकाश्यते । शपथं कुरु मे दुर्गे यदि त्वं मत्प्रिया स्मृता ॥ ७॥ ब्रह्मा यदि चतुर्वक्त्रैः पञ्चवक्त्रैः सदाशिवः । वर्णितुं स्तवराजञ्च न शक्नोति कदाचन । सम्यग् वक्तुं न शक्नोमि संक्षेपात् कथयामि ते ॥ ८॥ श्री महादेव उवाच । अस्य श्री योनिस्तवराजस्य कुलाचार्य-ऋषिः कौलिकछन्दः । श्रीयोनिरूपा दशविद्यात्मिका देवता सर्वसाधने विनियोगः ॥ ॐ योनिरूपे महामाये सर्वसम्पत्प्रदे शुभे । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ १॥ सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ २॥ महाघोरे महाकालि कुलाचारप्रिये सदा । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ ३॥ घोरदंष्ट्रे चोग्रतारे सर्वशत्रुविनाशिनि ॥ कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ ४॥ योनिरूपा महाविद्ये सर्वदा मोक्षदायिनी । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ ५॥ जगद्धात्रि महाविद्ये जगदुद्धारकारिणि । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ ६॥ जगद्धात्रि महामाये योनिरूपे सनातनि । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ ७॥ जय देवि जगन्मातः सृष्टिस्थित्यन्तकारिणी । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ ८॥ सिद्धिदात्रि महामाये सर्वसिद्धि-प्रदायिनि । कृपया सर्वसिद्धिं में देहि देवि जगन्मयि ॥ ९॥ महालक्ष्मि महादेवि महा-मोक्ष-प्रदायिनि । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ १०॥ गौरी लक्ष्मीश्च मातङ्गी दुर्गा च नव-चण्डिका । बगलामुखी भुवनेशी भैरवी च तथा प्रिये । छिन्नमस्ता च काली च योनि-रुपा सनातनी । कृपया सर्वसिद्धिं मे देहि देवि जगन्मयि ॥ ११॥ काली कपालिनी कुल्ला कुरु-कुल्ला विरोधिनी । नायिका विप्रचित्ताद्या अन्या या नायिका स्मृताः । वसन्ति योनिमाश्रित्य ताभ्योऽपीह नमो नमः ॥ १२॥ अणिमाद्यष्टसिद्धिश्च वसत्यस्याः समीपतः । नमस्तेऽस्तु नमस्तेऽस्तु योग-मोक्ष-प्रदायिनि ॥ १३॥ सर्वशक्तिमये देवि सर्वकल्मषनाशिनि । हे योने! हर विघ्नं मे सर्वसिद्धिं प्रयच्छ मे ॥ १४॥ आधारभूते सर्वेषा पूजकानां प्रियंवदे । स्वर्गपाताल वासिन्ये योनये च नमो नमः ॥ १५॥ विष्णुसिद्धिप्रदे देवि शिवसिद्धिप्रदायिनी । ब्रह्मसिद्धिप्रदे देवि रामचन्द्रस्य सिद्धिये । शक्रादीनाञ्च सर्वेषां सिद्धिदायै नमो नमः ॥ १६॥ फलश्रुतिः । इति ते कथितं देवि सर्वसिद्धिप्रदायकम् । स्तोत्र योनेर्महेशानि प्रकाशयामि ते प्रिये ॥ १॥ सर्वसिद्धिप्रदं स्तोत्रं यः पठेत् कौलिकः प्रिये । लिखित्वा पुस्तके देवि रक्तद्रव्यैश्च सुन्दरि ॥ २॥ तस्या-साध्यानि कर्माणि वश्यादीनि कुलेश्वरि । नास्ति नास्ति पुनर्नास्ति नास्त्येव भुवनत्रये । यः पठेत् प्रातरुत्थाय गाणपत्यं लभेन्नरः ॥ ३॥ रात्रौ कान्तासमायोगे यः पठेत् साधकोत्तमः । स्तवेनानेन संस्तुत्य साधकः किं न साधयेत् ॥ ४॥ सालङ्कृतां स्वकान्ताञ्च लीलाहावविभूषिताम् । रक्तवस्त्रपरीधानां कृत्वा सम्पूज्य साधकः । भोजयित्वा ततो देवि स्वयं भुञ्जीत तत्परः ॥ ५॥ मत्स्यमांसादिकान् भुक्त्वा क्रोडे कृत्वा स्वयोषितम् । रात्रौ यदि जपेन्मन्त्रं सा दुर्गा स सदाशिवः । भवत्येव न सन्देहो मम वक्त्राद्विनिर्गतम् ॥ ६॥ येन दत्तं मयि स्तोत्रं स एव मद्गुरुः स्मृतेः । तस्यैव यदि भक्तिः स्यात् स भवेज्जगदीश्वरः ॥ ७॥ नमोस्तु स्तवराजाय नमः स्तवप्रकाशिने । यत्रास्ते स्तवराजोऽयं तत्रास्ते श्रीसदाशिवः ॥ ८॥ इति शक्तिकागमसर्वस्वे हरपार्वतीसंवादे श्रीयोनिस्तवराजः समाप्तः । Source- Shakti Agama Encoded and proofread by Durga Sharma
% Text title            : Yoni StavarAjah
% File name             : yonistavarAjaH.itx
% itxtitle              : yonistavarAjaH (shaktikAgamasarvasve)
% engtitle              : yonistavarAjaH
% Category              : devii, devI, stavarAja
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma, NA
% Indexextra            : (Scan, Hindi)
% Latest update         : June 28, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org