ढुण्ढिराजविनायकगणेशस्तुतिः
जय विघ्नकृतामाद्य भक्तनिर्विघ्नकारक ।
अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत् ॥ १॥
जय सर्वगणाधीश जय सर्वगणाग्रणी ।
गणप्रणतपादाब्ज गणनातीतसद्गुण ॥ २॥
जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे ।
सर्वमायाप्रपञ्चज्ञ सर्वकर्माग्रपूजित ॥ ३॥
सर्वमङ्गलमाङ्गल्य जय त्वं सर्वमङ्गल ।
अमङ्गलोपशमन महामङ्गलहेतुक ॥ ४॥
जय सृष्टिकृतां वन्द्य जय स्थितिकृतानत ।
जय संहृतिकृत्स्तुत्य जय सत्कर्मसिद्धिद ॥ ५॥
सिद्धवन्द्यपदाम्भोज जय सिद्धिविधायक ।
सर्वसिद्ध्येकनिलय महासिद्ध्यृद्धिसूचक ॥ ६॥
अशेषगुणनिर्माण गुणातीत गुणाग्रणी ।
परिपूर्णचरित्रार्थ जय त्वं गुणवर्णित ॥ ७॥
जय सर्वबलाधीश बलाराति बलप्रद ।
बलाकोज्ज्वल दन्ताग्र बालाबालपराक्रम ॥ ८॥
अनन्तमहिमाधार धराधर विदारण ।
दन्ताग्रप्रोता दिङ्नाग जय नागाविभूषण ॥ ९॥
ये त्वां नमन्ति करुणामयदिव्यमूर्ते
सर्वैनसामपि भुवो भुविमुक्तिभाजः ।
तेषां सदैव हरसीहमहोपसर्गा-
न्स्वर्गापवर्गमपि संप्रददासि तेभ्यः ॥ १०॥
ये विघ्नराज भवता करुणाकटाक्षैः
सम्प्रेक्षिताः क्षितितले क्षणमात्रमत्र ।
तेषां क्षयन्ति सकलान्यपिकिल्विषाणि
लक्ष्मीः कटाक्षयतितान्पुरुषोत्तमान्हि ॥ ११॥
ये त्वां स्तुवन्ति नतविघ्नविघात दक्ष-
दाक्षायणीहृदयपङ्कजतिग्मरश्मे ।
श्रूयन्त एव त इह प्रथिता न चित्रं
चित्रं तदत्र गणपा यदहो त एव ॥ १२॥
ये शीलयन्ति सततं भवतोऽङ्घ्रियुग्मं
ते पुत्रपौत्रधनधान्यसमृद्धिभाजः ।
संशीलिताङ्घ्रिकमला बहुलाबहुभृत्यवर्गै-
र्भूपालभोग्यकमलां विमलां लभन्ते ॥ १३॥
त्वं कारणं परमकारणकारणानां
वेद्योऽसि वेदविदुषां सततं त्वमेकः ।
त्वं मार्गणीयमसि किञ्चन मूलवाचां
वाचामगोचरचराचरदिव्यमूर्ते ॥ १४॥
वेदा विदन्ति न यथार्थतया भवन्तं
ब्रह्मादयोऽपि न चराचर सूत्रधार ।
त्वं हंसि पासि विदधासि समस्तमेकः
कस्तेस्तुतिव्यतिकरोमनसाप्यगम्य ॥ १५॥
त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि
दैत्यान्पुरान्धकजलन्धरमुख्यकांश्च ।
कास्यास्ति शक्तिरिह यस्त्वदृतेऽपि तुच्छं
वाञ्छेद्विधातुमिह सिद्धिदकार्यजातम् ॥ १६॥
अन्वेषणे ढुण्ढिरयं प्रथितोऽस्तिधातुः
सर्वार्थढुण्ढिततया तव ढुण्ढि नाम ।
काशीप्रवेशमपि को लभतेऽत्र देही
तोषं विना तव विनायकढुण्ढिराज ॥ १७॥
ढुण्ढे प्रणम्यपुरतस्तवपादपद्मं
यो मां नमस्यति पुमानिह काशिवासी ।
तत्कर्णमूलमधिगम्य पुरा दिशामि
तत्किञ्चिदत्र न पुनर्भवतास्ति येन ॥ १८॥
स्नात्वा नरः प्रथमतो मणिकर्णिकाया-
मुद्धूलिताङ्घ्रियुगलस्तु सचैलमाशु ।
देवर्षिमानवपितॄनपि तर्पयित्वा
ज्ञानोदतीर्थमभिलभ्य भजेत्ततस्त्वाम् ॥ १९॥
सामोदमोदकभरैर्वरधूपदिपै-
र्माल्यैः सुगन्धबहुलैरनुलेपनैश्च ।
सम्प्रीण्यकाशिनगरीफलदानदक्षं
प्रोक्त्वाथ मां क इह सिध्यति नैव ढुण्ढे ॥ २०॥
तिर्थान्तराणि च ततः क्रमवर्जितोऽपि
संसाधयन्निह भवत्करुणाकटाक्षैः ।
दूरीकृतस्वहितघात्युपसर्गवर्गो
ढुण्ढे लभेदविकलं फलमत्र काश्याम् ॥ २१॥
यः प्रत्यहं नमति ढुण्ढिविनायकं त्वां
काश्यां प्रगे प्रतिहताखिलविघ्नसङ्घः ।
नो तस्य जातु जगतीतलवर्ति वस्तु
दुष्प्रापमत्र च परत्र च किङ्चनापि ॥ २२॥
यो नाम ते जपति ढुण्ढिविनायकस्य
तं वै जपन्त्यनुदिनं हृदि सिद्धयोऽष्टौ ।
भोगान्विभुज्य विविधान्विबुधोपभोग्या-
न्निर्वाणया कमलया प्रियते स चान्ते ॥ २३॥
दूरेस्थितोऽप्यहरहस्तव पादपीठं
यः संस्मरेत्सकलसिद्धिद ढुण्ढिराज ।
काशीस्थिते रविकलं सफलं लभेत
नैवान्यथा न वितथा मम वाक्कदाचित् ॥ २४॥
जाने विघ्नानसङ्ख्यातान्विनिहन्तुमनेकधा ।
क्षेत्रस्यास्य महाभाग नानारूपैरिहस्थितः ॥ २५॥
इति स्कन्दपुराणे काशीखण्डे सप्तपञ्चाशतमोऽध्यान्तर्गता
ढुण्ढिविनायकस्तुतिः समाप्ता ।
अध्याय ५७ श्लोकाः १७-४१
Encoded and proofread by Divya K Suresh, NA