दूर्वायुगलार्पणस्तोत्रम्

दूर्वायुगलार्पणस्तोत्रम्

श्रीमन्मङ्गलमङ्गलं गणपति ब्रह्मण्यदेवं कविं ज्येष्ठं श्रेष्ठतमं वरेण्यममृतं विघ्नेभपञ्चाननम् । त्वां सर्वेप्सितदं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १॥ ब्रह्मानन्दरसाम्बुधिं गुणनिधिं धीऋद्धिसिद्धीश्वरं सिन्दूरारुणविग्रहं त्रिनयनं सद्भक्तहृन्मोदकम् । त्वां गौरीशसुतं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ २॥ ओङ्कारादिमबीजकारणमनिर्वाच्यं जगत्कारणं योगीहृत्कमलं प्रबोधनकरं भानुं भवापद्धरम् । त्वां भालेन्दुमहं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ ३॥ उद्यद्भास्करकोटिभाप्रतिमभं दिव्या गदालङ्कृतं विघ्नेशं विकटं विशालजठरं मन्दारपुष्पप्रियम् । त्वां त्रैलोक्यपतिं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ ४॥ हस्तैर्यः सततं वराभयसृणीपर्शून्वहन्तं मुदा शूर्पश्रोत्रकमम्बुजेक्षणमघौघध्वान्तवैकर्तनम् । त्वामाम्नायनिधिं प्रणम्य गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ ५॥ शुण्डाग्रे धृतमोदकं प्रमुदितं सन्मूषिकेन ध्वजं नूपूरादिकिरीटकुण्डलधरं देवं महातुन्दिलम् । त्वां सङ्कष्टहरं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ ६॥ दानद्राविलगण्डमण्डलयुगं मोदाहृभ्रामरं भक्तारिष्टचिनष्टिविग्रहधरं श्रीवक्रतुण्डं मुहुः । त्वां वागीशमहं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ ७॥ आशापूरकमद्रिराजतनयासत्कुक्षिशुक्त्युद्भवं ढुण्ढिं क्षिप्रवरप्रदानसुमुखं चिन्तामणिं सिद्धिदम् । त्वां विद्याम्बुनिधिं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ ८॥ भूतानां प्रभावाप्ययावनगुणानामादिबीजं परं भात्यस्तिप्रियनामरूपगणपं नैर्गुण्यसौख्यास्पदम् । त्वां सर्वार्तिहरं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ ९॥ हेरम्बं भवघोरमूलविपिनं ध्वान्तार्तिविच्छेदकं सद्यस्तापहरं सुधाकरमनन्तानन्तलीलास्पदम् । त्वां सर्वज्ञमहं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १०॥ ईड्यं श्रेष्ठतमं गुरुं गुरुतमं श्रीज्येष्ठराजं कविं पूर्णानन्दसुधापयोनिधिशयं धीप्रेरकं द्योतकम् । त्वां प्रज्ञानघनं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ ११॥ ध्येयं ब्रह्मसनातनं यदुदितं गाणेशविद्याचणैः वेदज्ञैः सुविविच्य तत्वमसि वाक्यार्थस्य सन्दर्शकैः । तत्तत्वं त्वमिति प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १२॥ यः काशिगृहेऽवतीर्य शिशुभिः लीलां जगत्पावनीं कृत्वा देवनरान्तकादि दितिजान् हत्वाहरद्भूभरम् । त्वां बल्लाळमहं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १३॥ आहुर्यं मुनयोऽनुविप्रतममित्याद्यं कवीनां कविं कार्यं प्राकृतिकं विचित्रमखिलं नो भासते यदृते । तं त्वामेकरदं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १४॥ संहृत्यात्मनि यः प्रसुप्तिसमये विश्वं समग्रं त्विदं शेते स्वात्मसुखार्णवे सुवितते शेषाख्यतल्पे शुभे । त्वां स्वात्माभिरमं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १५॥ ध्यात्वा त्वां हृदये मया परिचिता नो मान्त्रिकी तान्त्रिकी दीक्षादीक्षितशिक्षिताकथमहं स्यां त्वत्कृपाभाजनम् । त्वां चित्तार्त्तिहरं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १६॥ भक्तास्त्वां करुणं त्वमेवमिति यत् नित्यं ब्रुवन्ति स्फुटं तद्दीने मयि चातकेऽल्पमतिके तूर्ण कृपां वर्षय । त्वां भूतीशमहं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १७॥ षट्पञ्चाशतधाष्टधा च दशधा भूत्वा पुनः पञ्चधा काश्यां षोडशधा च यो निवसति श्रीविश्वनाथप्रियः । त्वां लीलात्ततनुं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १८॥ दूर्वालङ्करणं तया प्रतिदिनं दूर्वावनान्तश्चरं दूर्वातल्पशयं शिरस्यपि तथा दूर्वाकिरीटोद्वहम् । त्वादूर्वात्तहृदं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यै तत्त्वमङ्गीकुरु ॥ १९॥ दूर्वे त्वां प्रणमाम्यहं मयि कृपांस् कुर्वाशु मातर्विभुं मद्विज्ञप्त्युररीकृतौ निजपति स्वापेक्षया प्रार्थय । तेऽतिप्रीतिकरस्तवैव वचसा गन्धाक्षतैर्संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यः स्वीकरोत्यद्भुतम् ॥ २०॥ (या प्रीतिर्ममजायतेऽतिविमला दूर्वाङ्कुरैरर्चके सा नैकाक्षरविद्यया च यजतो चान्यैः कुतः साधनैः । श्रुत्वैतद्वचनं प्रणम्य मनसा गन्धाक्षतैः संयुतं दूर्वायुग्ममिदं मयार्पितमिभास्यः स्वीकरोत्यद्भुतम् ॥ २१॥ ये दूर्वायुगलार्पणस्तुतिमिमां श्रीमद्गणेशप्रियां ध्यात्वा स्वात्मनि मङ्गलालयममुं भक्त्या पठन्ति प्रगे । ते वै वैश्रवणोपमास्त्रिभुवने भक्त्या तु सौख्यं महत् गाणेशं पदमाप्नुवन्ति न पुनः पश्यन्ति गर्भालयम् ॥ २२॥) इति बृहद्विष्णुयामले दूर्वायुगलार्पणस्तोत्रं सम्पूर्णम् । Encoded and proofread by Yash Khasbage
% Text title            : Durva Yugalarpana Stotram
% File name             : dUrvAyugalArpaNastotram.itx
% itxtitle              : dUrvAyugalArpaNastotram
% engtitle              : dUrvAyugalArpaNastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Yash Khasbage
% Proofread by          : Yash Khasbage
% Description/comments  : Ganesha Kosha, Amarendra Gadgil
% Indexextra            : (Scan)
% Latest update         : May 9, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org