देवमुनिकृतं धूम्रवर्णस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे ।
गणेशाय परेशाय परात्पराय ते नमः ॥ ३४॥
लम्बोदराय विघ्नानां पतये ते नमो नमः ।
विघ्नकर्त्रे च तद्धर्त्रे हेरम्बाय नमो नमः ॥ ३५॥
अनादये विशेषेण ज्येष्ठाय सर्वपूजित ।
मनोवाणीविहीनाय मनोवाणीमयाय ते ॥ ३६॥
नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने ।
ब्रह्मणां पतये तुभ्यं मन्त्रनाथाय ते नमः ॥ ३७॥
महोरूपाय देवाय देवदेवेशरूपिणे ।
देवेभ्यो वरदात्रे ते महोदर नमो नमः ॥ ३८॥
आदिपूज्याय सर्वेषां मात्रे पित्रे नमो नमः ।
सर्वरूपाय सर्वात्मन् कर्मरूपाय ते नमः ॥ ३९॥
शूर्पकर्णाय शूराय वीराय परमात्मने ।
चतुर्भुजाय धूम्राय गुणेशाय नमो नमः ॥ ४०॥
कर्त्रे हर्त्रे च भर्त्रे ते परज्ञानस्वरूपिणे ।
स्वाधीनाय महामोहदात्रे हर्त्रे नमो नमः ॥ ४१॥
यत्र वेदादयः स्वामिन् शान्तिं प्राप्ताश्च योगिनः ।
गणेश तत्र के नाथ वयं ते स्तवने प्रभो ॥ ४२॥
वर्णा धूम्रायिता यत्राव्यक्तरूपे पूरा त्वयि ।
धूम्रवर्णः समाख्यातो वेदेषु वेदवादिभिः ॥ ४३॥
धन्या वयं महाभाग त्वदङ्घ्रियुगदर्शनात् ।
अव्यक्तो व्यक्ततां प्राप्तो भक्तवात्सल्यकारणात् ॥ ४४॥
एवमुक्त्वा प्रणेमुस्तं धूम्रवर्णं सुरर्षयः ।
उत्थाप्य धूम्रवर्णस्तान् जगाद मेघनिःस्वनः ॥ ४५॥
(फलश्रुतिः)
धूम्रवर्ण उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति महाभागाः पठेत शृण्वते परम् ॥ ४६॥
पुत्रपौत्रादिकं धान्यं धनं लभेन्नरस्तथा ।
यद्यदिच्छति तत्तत्तु सफलं सम्भविष्यति ॥ ४७॥
वरान् वृणुत देवेशा मुनयो मनसीप्सितान् ।
दास्यामि तपसा तुष्टः स्तोत्रेण भवतां परान् ॥ ४८॥
इति देवमुनिकृतं धूम्रवर्णस्तोत्रं सम्पूर्णम् ॥
- ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः ४ । ८.४ ३४-४८॥
- .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 4 . 8.4 34-48..
Proofread by Yash Khasbage, Preeti Bhandare