महाविष्णुकृता एकदन्तस्तुतिः

महाविष्णुकृता एकदन्तस्तुतिः

॥ श्रीगणेशाय नमः ॥ श्रीमहाविष्णुरुवाच । नमो गणपते तुभ्यं विघ्नराजाय ते नमः । नमः कृपानिधे ढुण्ढे भक्तसंरक्षकाय ते ॥ ३७॥ सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे । अभक्तेभ्यः सदा विघ्नदात्रे हेरम्बरूपिणे ॥ ३८॥ निर्गुणाय गुणानां वै चालकाय नमो नमः । नमः प्रपञ्चरूपाय प्रपञ्चरहिताय ते ॥ ३९॥ ब्रह्मभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे । नरकुञ्जररूपाय नानामायामयाय ते ॥ ४०॥ कारणानां च देवेश कारणाय नमो नमः । ज्येष्ठराजाय वै तुभ्यं कारणै रहिताय च ॥ ४१॥ योगिनां हृदि संस्थाय योगिभ्यो योगदायिने । योगरूपधरायैव गणेशाय नमो नमः ॥ ४२॥ मायाश्रयाय मायाया आधाराय नमो नमः । मायिभ्यो मायया त्वं वै मोहदाता नमो नमः ॥ ४३॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारेण वर्तसे । यत्र वेदा विकुण्ठाश्च शास्त्रैः सर्वैः सहाङ्गकैः ॥ ४४॥ मनोवाणीविहीनस्त्वं न हि देव कृपाकर । मनोवाणीमयो नैव कथं त्वां स्तौमि विघ्नपम् ॥ ४५॥ तथापि बुद्धिदाता त्वं त्वत्प्रसादेन संस्तुतः । धन्योऽहं देवदेवेश तव दर्शनतोऽधुना ॥ ४६॥ साक्षाद् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः । जातो नास्त्यत्र सन्देहो योगीन्द्रो योगदायकः ॥ ४७॥ इत्युक्त्वा तं प्रणम्याऽसौ त्वनृत्यद् भक्तिभावितः । रोमाञ्चितशरीरश्च हर्षाश्रुभिरपिप्लुतः ॥ ४८॥ (फलश्रुतिः) एकदन्त उवाच । तमुवाच गणाधीशो वरं वृणु जनार्दन । तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितम् ॥ ४९॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विष्णो पठतां श‍ृण्वतां सदा ॥ ५०॥ धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति । ईप्सितार्थप्रदं सद्यः प्रसादान्मे च केशव ॥ ५१॥ मुद्गल उवाच । गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः । जगाद तं प्रणम्यादौ वाञ्छितं संवृणे त्विति ॥ ५२॥ विष्णुरुवाच । यदि प्रसन्नतां यातस्तदा भक्तिं सुदुर्लभाम् । तव पादयुगे देहि दृढामव्यभिचारिणीम् ॥ ५३॥ अन्यद्देहि गणाधीश ज्ञानं मे ह्यतुलं तथा । कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा ॥ ५४॥ मधुकैटभनाशार्थमुपायं वद साम्प्रतम् । अन्यदैत्याभिहनने सामर्थ्यं देहि विघ्नप ॥ ५५॥ तस्य तद्वचनं श्रुत्वा तथेति गणपोऽब्रवीत् । युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ बलात् ॥ ५६॥ तयोर्मरणमत्यन्त सुगुप्तं ब्रह्मणा कृतम् । समये वरदानस्य तपसा तोषितेन च ॥ ५७॥ इति महाविष्णुकृता एकदन्तस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ४ । २.४ ३७-५७॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 4 . 2.4 37-57.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Ekadanta Stuti Mahavishnukrita
% File name             : ekadantastutiHmahAviShNukRRitA.itx
% itxtitle              : ekadantastutiH mahAviShNukRitA (mudgalapurANAntargatA)
% engtitle              : ekadantastutiH mahAviShNukRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 4 | 2.4 37-57||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org