नारदमुनिकृता एकदन्तस्तुतिः

नारदमुनिकृता एकदन्तस्तुतिः

॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अथादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥ यदीय वीर्येण समर्थभूतं स्वमायया संरचितं च विश्वम् । तुरीयकं ह्यात्मकवित्तिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ ७॥ त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् । भजन्त आद्यं तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥ ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै । समानरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ९॥ तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभातम् । अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥ ततस्त्वया प्रेरितकेन सृष्टं सुसूक्ष्मभावं जगदेकसंस्थम् । सुसात्त्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥ तत् स्वप्नमेवं तपसा गणेश सुसिद्धिरूपं द्विविधं बभूव । सदैकरूपं कृपया च ते यत्तमेकदन्तं शरणं व्रजामः ॥ १२॥ त्वदाज्ञया तेन सदा हृदिस्थ तथा सुसृष्टं जगदंशरूपम् । विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥ तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेश्च । बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥ तदैव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥ सर्वे ग्रहा भानि यदाज्ञया च प्रकाशरूपाणि विभान्ति खे वै । भ्रमन्ति नित्यं स्वविहारकार्यात्तमेकदन्तं शरणं व्रजामः ॥ १६॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहारको हरो वै तमेकदन्तं शरणं व्रजामः ॥ १७॥ यदाज्ञया भूस्तु जले प्रसंस्था यदाज्ञयाऽऽपः प्रवहन्ति नद्यः । स्वतीरसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥ यदाज्ञया देवगणा दिविस्था यच्छन्ति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १९॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहद एव कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः । यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥ तदन्तरिक्षं स्थितमेकदन्तं त्वदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं त्वां तमेकदन्तं शरणं व्रजामः ॥ २२॥ सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवने समर्थः । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥ गृत्समद उवाच । एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् । तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥ स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै । एकदन्तो महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५॥ (फलश्रुतिः) एकदन्त उवाच । स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः खलु । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥ भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत् । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥ यद्यदिच्छति तत्तद्वै प्राप्नोति स्तोत्रपाठकः । पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २८॥ गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श‍ृण्वतां नॄणां भवेत्तद्बन्धहीनता ॥ ३०॥ एकविंशतिवारं यः श्लोकानेवैकविंशतिम् । पठेद्वै हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम् ॥ ३१॥ न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥ नित्यं यः पठति स्तोत्रं ब्रह्मीभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३३॥ इति नारदमुनिकृता एकदन्तस्तुतिः सम्पूर्णा ॥ एकविंशतिस्तोत्रं - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ५५ । २.५५। ३-३३॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 55 . 2.55. 3-33.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Ekadanta Stuti Naradamunikrita
% File name             : ekadantastutiHnAradamunikRRitA3.itx
% itxtitle              : ekadantastutiH nAradamunikRitA 3 (mudgalapurANAntargatA sadAtmarUpaM sakalAdibhUtamamAyinaM)
% engtitle              : ekadantastutiH nAradamunikRRitA 3
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 55 | 2.55. 3-33||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org