श्रीगणेशाष्टोत्तरशतनामावलिः ५
ॐ गणेश्वराय नमः ।
ॐ गणक्रीडाय नमः ।
ॐ महागणपतये नमः ।
ॐ विश्वकर्त्रे नमः ।
ॐ विश्वमुखाय नमः ।
ॐ दुर्जयाय नमः ।
ॐ धूर्वहाय नमः ।
ॐ जयाय नमः ।
ॐ सुरूपाय नमः ।
ॐ सर्वनेत्राधिवासाय नमः । (१०)
ॐ वीरासनाश्रयाय नमः ।
ॐ योगाधिपाय नमः ।
ॐ तारकस्थाय नमः ।
ॐ पुरुषाय नमः ।
ॐ गजकर्णकाय नमः ।
ॐ चित्राङ्कश्यामदशनाय नमः ।
ॐ भालचन्द्राय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ शम्भुतेजसे नमः ।
ॐ यज्ञकायाय नमः । (२०)
ॐ सर्वात्मने नमः ।
ॐ सामबृंहिताय नमः ।
ॐ कुलाचलांसाय नमः ।
ॐ व्योमनाभये नमः ।
ॐ कल्पद्रुमवनालयाय नमः ।
ॐ निम्ननाभये नमः ।
ॐ स्थूलकुक्षये नमः ।
ॐ पीनवक्षसे नमः ।
ॐ बृहद्भुजाय नमः ।
ॐ पीनस्कन्धाय नमः । (३०)
ॐ कम्बुकण्ठाय नमः ।
ॐ लम्बोष्ठाय नमः ।
ॐ लम्बनासिकाय नमः ।
ॐ सर्वावयवसम्पूर्णाय नमः ।
ॐ सर्वलक्षणलक्षिताय नमः ।
ॐ इक्षुचापधराय नमः ।
ॐ शूलिने नमः ।
ॐ कान्तिकन्दलिताश्रयाय नमः ।
ॐ अक्षमालाधराय नमः ।
ॐ ज्ञानमुद्रावते नमः । (४०)
ॐ विजयावहाय नमः ।
ॐ कामिनीकामनाय नमः ।
ॐ काममालिनीकेलिलालिताय नमः ।
ॐ अमोघसिद्धये नमः ।
ॐ आधाराय नमः ।
ॐ आधाराधेयवर्जिताय नमः ।
ॐ इन्दीवरदलश्यामाय नमः ।
ॐ इन्दुमण्डलनिर्मलाय नमः ।
ॐ कर्मसाक्षिणे नमः ।
ॐ कर्मकर्त्रे नमः । (५०)
ॐ कर्माकर्मफलप्रदाय नमः ।
ॐ कमण्डलुधराय नमः ।
ॐ कल्याय नमः ।
ॐ कपर्दिने नमः ।
ॐ कटिसूत्रभृते नमः ।
ॐ कारुण्यदेहाय नमः ।
ॐ कपिलाय नमः ।
ॐ गुह्यागमनिरूपिताय नमः ।
ॐ गुहाशयाय नमः ।
ॐ गुहाब्धिस्थाय नमः । (६०)
ॐ घटकुम्भाय नमः ।
ॐ घटोदराय नमः ।
ॐ पूर्णानन्दाय नमः ।
ॐ परानन्दाय नमः ।
ॐ धनदाय नमः ।
ॐ धरणीधराय नमः ।
ॐ बृहत्तमाय नमः ।
ॐ ब्रह्मपराय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मवत्प्रियाय नमः । (७०)
ॐ भव्याय नमः ।
ॐ भूतालयाय नमः ।
ॐ भोगदात्रे नमः ।
ॐ महामनसे नमः ।
ॐ वरेण्याय नमः ।
ॐ वामदेवाय नमः ।
ॐ वन्ध्याय नमः ।
ॐ वज्रनिवारणाय नमः ।
ॐ विश्वकर्त्रे नमः ।
ॐ विश्वचक्षुषे नमः । (८०)
ॐ हवनाय नमः ।
ॐ हव्यकव्यभुजे नमः ।
ॐ स्वतन्त्राय नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ सौभाग्यवर्धनाय नमः ।
ॐ कीर्तिदाय नमः ।
ॐ शोकहारिणे नमः ।
ॐ त्रिवर्गफलदायकाय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ चतुर्दन्ताय नमः । (९०)
ॐ चतुर्थीतिथिसम्भवाय नमः ।
ॐ सहस्रशीर्ष्णे पुरुषाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ कामरूपाय नमः ।
ॐ कामगतये नमः ।
ॐ द्विरदाय नमः ।
ॐ द्वीपरक्षकाय नमः ।
ॐ क्षेत्राधिपाय नमः ।
ॐ क्षमाभर्त्रे नमः । (१००)
ॐ लयस्थाय नमः ।
ॐ लड्डुकप्रियाय नमः ।
ॐ प्रतिवादिमुखस्तम्भाय नमः ।
ॐ दुष्टचित्तप्रसादनाय नमः ।
ॐ भगवते नमः ।
ॐ भक्तिसुलभाय नमः ।
ॐ याज्ञिकाय नमः ।
ॐ याजकप्रियाय नमः । (१०८)
इति श्रीगणेशाष्टोत्तरशतनामावलिः (५) सम्पूर्णा ।
Proofread by Narendran Madathil