श्रीगणेशाष्टोत्तरशतनामस्तोत्रम् ५
गणेश्वरो गणक्रीडो महागणपतिस्तथा ।
विश्वकर्ता विश्वमुखो दुर्जयो धूर्वहो जयः ॥ १॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ २॥
चित्राङ्कश्यामदशनो भालचन्द्रश्चतुर्भुजः ।
शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ॥ ३॥
कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः ।
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ॥ ४॥
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ।
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ॥ ५॥
इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः ।
अक्षमालाधरो ज्ञानमुद्रावान् विजयावहः ॥ ६॥
कामिनीकामनः काममालिनी केलिलालितः ।
अमोघसिद्धिराधार आधाराधेयवर्जितः ॥ ७॥
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ८॥
कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत् ॥
कारुण्यदेहः कपिलो गुह्यागमनिरूपितः ॥ ९॥
गुहाशयो गुहाब्धिस्थो घटकुम्भो घटोदरः ।
पूर्णानन्दः परानन्दो धनदो धरणीधरः ॥ १०॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
भव्यो भूतालयो भोगदाता चैव महामनाः ॥ ११॥
बरेण्यो वामदेवश्च बन्यो वज्र-निवारणः ।
विश्वकर्ता विश्वचक्षुर्हवनं हव्यकव्यभुक् ॥ १२॥
स्वतन्त्रस्सत्यसङ्कल्पस्तथा सौभाग्य वर्द्धनः ।
कीर्तिदः शोकहारी च त्रिवर्गफलदायकः ॥ १३॥
चतुर्बाहुश्चतुर्दन्तश्चतुर्थीतिथिसम्भवः ।
सहस्रशीर्षा पुरुषः सहस्राक्षस्सहस्रपात् ॥ १४॥
कामरूपः कामगतिर्द्विरदो द्वीपरक्षकः ।
क्षेत्राधिपः क्षमाभर्ता लयस्थो लड्डुकप्रियः ॥ १५॥
प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः ।
भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः ॥ १६॥
इत्येवं देवदेवस्य गणराजस्य धीमतः ।
शतमष्टोत्तरं नाम्नां सारभूतं प्रकीर्तितम् ॥ १७॥
सहस्रनाम्नामाकृष्य देवप्रोक्तं मनोहरम् ।
ब्राह्मे मुहूर्ते उत्थाय स्मृत्वा देवं गणेश्वरम् ।
पठेत्स्तोत्रमिदं भक्त्या गणराजः प्रसीदति ॥ १८॥
इति श्रीगणेशाष्टोत्तरशतनामस्तोत्रं (५) सम्पूर्णम् ।
Proofread by Narendran Madathil