श्रीगणेशाष्टोत्तरशतनामावलिः ६
ॐ इक्षुसागरमध्यस्थाय नमः ।
ॐ निजलोकनिवासकृते नमः ।
ॐ स्वानन्दभवनाधीशाय नमः ।
ॐ निजान्दगृहस्थिताय नमः ।
ॐ चिन्तामणिमण्टपस्थाय नमः ।
ॐ दिव्यसिंहासनाश्रयाय नमः ।
ॐ पद्मकिञ्जल्कसंविष्टाय नमः ।
ॐ स्वयञ्ज्योतिस्वरूपवते नमः ।
ॐ तीव्राशिरोधृतपदाय नमः ।
ॐ ज्वालिनीमौलिलालिताय नमः । (१०)
ॐ नन्दानन्दितपीठश्रिये नमः ।
ॐ भोगदाभूषितासनाय नमः ।
ॐ सकामदायिनीपीठाय नमः ।
ॐ स्फुरदुग्रासनाश्रयाय नमः ।
ॐ तेजोवतीशिरोरत्नाय नमः ।
ॐ सत्यानित्यावतंसिताय नमः ।
ॐ सविघ्ननाशिनीपीठाय नमः ।
ॐ सर्वशक्त्यम्बुजे स्थिताय नमः ।
ॐ ज्योतिर्मध्ये सुखासीनाय नमः ।
ॐ तत्त्वम्पदसुविग्रहाय नमः । (२०)
ॐ जपाकुसुमसङ्काशाय नमः ।
ॐ शुण्डादण्डविराजिताय नमः ।
ॐ गजाननाय नमः ।
ॐ ब्रह्ममूर्ध्ने नमः ।
ॐ जगद्देहाय नमः ।
ॐ शुचिस्मिताय नमः ।
ॐ कुटिलालकशोभाढ्याय नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ फालचन्द्राय नमः ।
ॐ शूर्पकर्णाय नमः । (३०)
ॐ दन्तद्वयविराजिताय नमः ।
ॐ स्तबकाकारकुम्भाग्राय नमः ।
ॐ लम्बोष्ठाय नमः ।
ॐ लम्बनासिकाय नमः ।
ॐ ह्रस्वनेत्रत्रयाय नमः ।
ॐ लम्बकर्णाय नमः ।
ॐ निबिडमस्तकाय नमः ।
ॐ कम्बुकण्ठाय नमः ।
ॐ बृहद्बाहवे नमः ।
ॐ पीनवक्षसे नमः । (४०)
ॐ पिचण्डिलाय नमः ।
ॐ निम्ननाभये नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ स्थूलोरवे नमः ।
ॐ प्रोन्नमत्कटये नमः ।
ॐ श्लिष्टजानवे नमः ।
ॐ पीनजङ्घाय नमः ।
ॐ पद्मपादद्वयान्विताय नमः ।
ॐ उन्नतप्रपदाय नमः ।
ॐ गूढगुल्फाय नमः । (५०)
ॐ संवृतपार्ष्णिकाय नमः ।
ॐ रक्तवस्त्रधराय नमः ।
ॐ पीतरक्तवस्त्रोत्तरीयकाय नमः ।
ॐ हेमतन्तुसमुद्भूतब्रह्मसूत्रत्रयान्विताय नमः ।
ॐ भानुकोटिप्रतीकाशरत्नमौलिविराजिताय नमः ।
ॐ रत्नकुण्डलशोभाढ्याय नमः ।
ॐ शूर्पश्रुतिविभूषणाय नमः ।
ॐ दन्तालङ्कारसंयुक्ताय नमः ।
ॐ फालपट्टविराजिताय नमः ।
ॐ चिन्तामणीरत्नमयकेयूरकटकान्विताय नमः । (६०)
ॐ चिन्तामणीसुरचितराजमुद्राङ्गुलीयकाय नमः ।
ॐ चिन्तामणीकण्ठभूषाय नमः ।
ॐ रत्नहारसमन्विताय नमः ।
ॐ चिन्तामण्यग्रसंयुक्तकटिसूत्रविराजिताय नमः ।
ॐ शिञ्जानमणिमञ्जीररत्नपादुकसंयुताय नमः ।
ॐ दूर्वाशम्यर्कमन्दारकुसुमैः सुविराजिताय नमः ।
ॐ सर्वाभरणशोभाढ्याय नमः ।
ॐ सुगन्धितिलकोज्ज्वलाय नमः ।
ॐ रक्तगन्धविलिप्ताङ्गाय नमः ।
ॐ रक्तमन्दारमालिकाय नमः । (७०)
ॐ पाशाङ्कुशपरशूनां धारकाय नमः ।
ॐ पद्मधारकाय नमः ।
ॐ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकाय नमः ।
ॐ स्मितवक्त्राय नमः ।
ॐ सुन्दराङ्गाय नमः ।
ॐ मृदुमञ्जुलभाषकाय नमः ।
ॐ श्वेतातपत्ररुचिराय नमः ।
ॐ श्वेतचामरवीजिताय नमः ।
ॐ महासिद्धिमहाबुद्धिशोभिपार्श्वद्रयान्विताय नमः ।
ॐ गकारमस्तकोपेताय नमः । (८०)
ॐ णकारजठरान्विताय नमः ।
ॐ ईशपादद्वययुताय नमः ।
ॐ निर्गुणब्रह्मवक्त्रकाय नमः ।
ॐ सगुणब्रह्मदेहाढ्याय नमः ।
ॐ निजानन्दकलेवराय नमः ।
ॐ समष्टिव्यष्टिसंज्ञाढ्यब्रह्मकुम्भ स्थलान्विताय नमः ।
ॐ त्रयीमयनेत्रधराय नमः ।
ॐ महाकारणशुण्डकाय नमः ।
ॐ बिन्दुकण्ठाय नमः ।
ॐ साङ्ख्यकर्णाय नमः । (९०)
ॐ चतुर्ब्रह्मभुजान्विताय नमः ।
ॐ जीवब्रह्मपादयुताय नमः ।
ॐ सोऽहम्ब्रह्मविषाणवते नमः ।
ॐ भुक्तिमुक्तिरूपचिन्तामणि भूषणभूषिताय नमः ।
ॐ गणेश्वराय नमः ।
ॐ गणक्रीडाय नमः ।
ॐ गणनाथाय नमः ।
ॐ गणाधिपाय नमः ।
ॐ वक्रतुण्डाय नमः ।
ॐ एकरदाय नमः । (१००)
ॐ गजवक्त्राय नमः ।
ॐ महोदराय नमः ।
ॐ लम्बोदराय नमः ।
ॐ धूम्रवर्णाय नमः ।
ॐ विकटाय नमः ।
ॐ विघ्ननायकाय नमः ।
ॐ विनायकाय नमः ।
ॐ महावाक्यलभ्ययोगसुखात्मकाय नमः । (१०८)
इति श्रीगणेशाष्टोत्तरशतनामावलिः (६) सम्पूर्णा ।
Proofread by Narendran Madathil