श्रीगणेशाष्टोत्तरशतनामस्तोत्रम् ६
सूर्य उवाच -
इक्षुसागरमध्यस्थो निजलोकनिवासकृत् ।
स्वानन्दभवनाधीशो निजानन्दगृहस्थितः ॥ १॥
चिन्तामणिमण्टपस्थो दिव्यसिंहासनाश्रयः ।
पद्मकिञ्जल्कसंविष्टः स्वयञ्ज्योतिस्स्वरूपवान् ॥ २॥
तीव्राशिरोधृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीः भोगदाभूषितासनः ॥ ३॥
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ४॥
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजे स्थितः ।
ज्योतिर्मध्ये सुखासीनः तत्त्वम्पदसुविग्रहः ॥ ५॥
जपाकुसुमसङ्काशः शुण्डादण्डविराजितः ।
गजाननो ब्रह्ममूर्द्धा जगद्देहश्शुचिस्मितः ॥ ६॥
कुटिलालकशोभाढ्यः सोमसूर्याग्निलोचनः ।
फालचन्द्रश्शूर्पकर्णो दन्तद्वयविराजितः ॥ ७॥
स्तबकाकारकुम्भाग्रो लम्बोष्ठो लम्बनासिकः ।
ह्रस्वनेत्रत्रयो लम्बकर्णो निबिडमस्तकः ॥ ८॥
कम्बुकण्ठो बृहद्बाहुः पीनवक्षाः पिचण्डिलः ।
निम्रनाभिश्चतुर्बाहुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ९॥
श्लिष्टजानुः पीनजङ्घः पद्मपादद्वयान्वितः ।
उन्नतप्रपदो गूढगुल्फस्संवृतपार्ष्णिकः ॥ १०॥
रक्तवस्त्रधरः पीतरक्तवस्त्रोत्तरीयकः ।
हेमतन्तुसमुद्भूतब्रह्मसूत्रत्रयान्वितः ॥ ११॥
भानुकोटिप्रतीकाशरत्नमौलिविराजितः ।
रत्नकुण्डलशोभाढ्यः शूर्पश्रुतिविभूषणः ॥ १२॥
दन्तालङ्कारसंयुक्तः फालपट्टविराजितः ।
चिन्तामणीरत्नमयकेयूरकटकान्वितः ॥ १३॥
चिन्तामणीसुरचितराजमुद्राङ्गुलीयकः ।
चिन्तामणीकण्ठभूषो रत्नहारसमन्वितः ॥ १४॥
चिन्तामण्यग्रसंयुक्तकटिसूत्रविराजितः ।
शिञ्जानमणिमञ्जीररत्नपादुकसंयुतः ॥ १५॥
दूर्वाशम्यर्कमन्दारकुसुमैस्सुविराजितः ।
सर्वाभरणशोभाढ्यः सुगन्धतिलकोज्ज्वलः ॥ १६॥
रक्तगन्धविलिप्ताङ्गो रक्तमन्दारमालिकः ।
पाशाङ्कुशपरशूनां धारकः पद्मधारकः ॥ १७॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
स्मितवक्त्रस्सुन्दराङ्गो मृदुमञ्जुलभाषकः ॥ १८॥
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ।
महासिद्धिमहाबुद्धिशोभिपार्श्वद्वयान्वितः ॥ १९॥
गकारमस्तकोपेतो णकारजठरान्वितः ।
ईशपादद्वययुतो निर्गुणब्रह्मवक्त्रकः ॥ २०॥
सगुणब्रह्मदेहाढ्यो निजानन्दकलेबरः ।
समष्टिव्यष्टिसंज्ञाढ्यब्रह्मकुम्भस्थलान्वितः ॥ २१॥
त्रयीमयनेत्रधरो महाकारणशुण्डकः ।
बिन्दुकण्ठस्साङ्ख्यकर्णः चतुर्ब्रह्मभुजान्वितः ॥ २२॥
जीवब्रह्मपादयुतः सोऽहम्ब्रह्मविषाणवान् ।
भुक्तिमुक्तिरूपचिन्तामणिभूषणभूषितः ॥ २३॥
गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
वक्रतुण्डश्चैकरदो गजवक्त्रो महोदरः ॥ २४॥
लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः ।
विनायको महावाक्यलभ्ययोगसुखात्मकः ॥ २५॥
इदमष्टोत्तरशतं नाम्नां गणककीर्तितम् ।
यः पठेद्भक्तिभावेन भुक्तिं मुक्तिं लभेन्नरः ॥ २६॥
यः पूजयेदनेनैव स्वानन्देशगजाननम् ।
दूर्वाङ्कुरैश्शमीपत्रैः श्वेतार्ककुसुमैश्च वा ॥ २७॥
मन्दारकुसुमैर्वापि पुष्पैरन्यैश्शुभाक्षतैः ।
सम्प्राप्य विपुलान् भोगानन्ते ब्रह्मपदं ब्रजेत् ॥ २८॥
इति श्रीगणेशाष्टोत्तरशतनामस्तोत्रं (६) सम्पूर्णम् ।
Proofread by Narendran Madathil