गणेशाष्टोत्तरशतनामस्तोत्रम्
- शिवपार्वतीसंवादे -
श्रीशिव उवाच -
काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः ।
तच्छान्त्यर्थं दुण्ढिराजः पूजनीयः प्रयत्नतः ॥ ५०॥
अष्टोत्तरशतं दिव्यैर्गणेशस्यैव नामभिः ।
कर्तव्यमतियत्नेन नवदूर्वाङ्कुरार्पणम् ॥ ५१॥
हिरण्मयतनुं शुद्धं सर्वार्तिहरमव्ययम् ।
वरदं गणपं ध्यात्वा पूजा कार्या प्रयत्नतः ॥ ५२॥
ऋषिर्विघ्नेश इत्यादिनाम्नां सर्वेश्वरः शिवः ।
देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम् ॥ ५३॥
सर्वप्रत्यूहशमनं फलं शक्तिः सुधात्मिका ।
कीलकं गणनाथस्य पूजा कार्येति कामदा ॥ ५४॥
अथ नामावलिः ।
ॐ विघ्नेशो विश्ववरदो विश्वचक्षुर्जगत्पतिः । (विश्ववदनो)
हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः ॥ ५५॥
सर्वज्ञः सर्वगः शान्तो गजास्यो विगतज्वरः ।
विश्वमूर्तिरमेयात्मा विश्वाधारः सनातनः ॥ ५६॥
सामगानप्रियो मन्त्री सत्त्वाधारः सुराधिपः ।
समस्तसाक्षी निर्द्वन्द्वो निर्लिप्तोऽमोघविक्रमः ॥ ५७॥
नियतो निर्मलः पुण्यकामदः कान्तिदः कविः ॥ ५८॥
कामरूपी कामवेषो कमलाक्षः कलाधरः ।
सुमुखः सर्वदः शुद्धो मूषिकाधिपवाहनः ॥ ५९॥ (सुमुखः सर्वदः)
दीर्घतुण्डघनुः श्रीमाननन्तो मोहवर्जितः ।
वक्रतुण्डः शूर्पकर्णो परमं पावनेश्वरः ॥ ६०॥ (पवनः पावनो वरः)
योगीशो योगवन्द्याङ्घ्रिरुमाजनुरयापहः ।
एकदन्तो महाग्रीवः शरण्यः सिद्धसेवितः ॥ ६१॥
सिद्धिदः करुणासिन्धुः भगवान् भव्यविग्रहः ।
विकटः कपिलो ढुण्ढिरुग्रो भीमोदरः शुभः ॥ ६२॥ (भीमोदरः)
गणाध्यक्षो गणाराध्यो गणेशो गणनायकः ।
ज्योतिःस्वरूपो भूतात्मा धूमकेतुरनाकुलः ॥ ६३॥
कुमारगुरुरानन्दो हेरम्बो वेदसंस्तुतः ।
नागोपवीती दुर्धर्षो बालदूर्वाङ्कुरप्रियः ॥ ६४॥
भालचन्द्रो विश्वधामा शिवपुत्रो विनायकः ।
लीलावलम्बितवपुः पूर्णः परमसुन्दरः ॥ ६५॥
विघ्नान्धकारमार्ताण्डो विघ्नारण्यदवानलः ।
सिन्धूरवदनो नित्यो प्रभुः प्रथमपूजितः ॥ ६६॥ (विष्णुः प्रमथपूजितः)
शरण्यदिव्यपादाब्जो भक्तमन्दारभूरुहः ।
रत्नसिह्मासनासीनो मणिकुण्डलमण्डितः ॥ ६७॥
भक्तकल्याणदोऽमेयः कल्याणगुणसंश्रयः ।
एतानि दिव्यनामानि गणेशस्य महात्मनः ॥ ६८॥
पठनीयानि यत्नेन सर्वथा सर्वदेहिभिः । (सर्वदा)
नाम्नामेकैकमेतेषां सर्वसिद्धिप्रदायकम् ॥ ६९॥
अथ उपदेशः
सर्वविघ्नेश नाम्नां तु फलं वक्तुं न शक्यते ।
एकैकमेव तन्नाम दिव्यं जप्त्वा मुनीश्वराः ॥ ७०॥
प्रत्यूहमात्ररहितास्तिष्ठन्ति शिवपूजकाः ।
दूर्वायुग्मानि सङ्गृह्य नूतनान्यतियत्नतः ॥ ७१॥
पूजनीयो गणाध्यक्षो नाम्नामेकैकसङ्ख्यया ।
नभस्यशुक्लपक्षस्य चतुर्थ्यां विधिपूर्वकम् ॥ ७२॥
वक्रतुण्डेशकुण्डे तु स्नानं कृत्वा प्रयत्नतः ।
वक्रतुण्डेशमाराध्य सर्वाभीष्टप्रदायकम् ॥ ७३॥
ध्यायेदघहरं शुद्धकाञ्चनाभमनामयम् ।
ततः पूजां यथाशास्त्रं कृत्वा दूर्वाङ्कुरैर्नवः ॥ ७४॥
पूजा कार्या विशेषेण नामोच्चारणपूर्वकम् ।
ततश्च मोदकैदिव्यैः सुगन्धिघृतपाचितैः ॥ ७५॥
नैवेद्यं कल्पयेद्दिव्यंः गणेशाय शुभावहम् ।
अन्यैश्च परमान्नाद्यैर्भक्ष्यैर्भोज्यैर्मनोहरैः ॥ ७६॥
तोषणीयः प्रयत्नेन वक्रतुण्डविनायकः ।
प्रदक्षिणनमस्कारैर्दिव्यैस्तन्नामसङ्ख्यया ॥ ७७॥
कर्तव्या नियतं शुद्धैर्मौनव्रतपरायणः ।
ततः सन्तर्प्य विधिच्छैवान्ब्राह्मणसम्भावान् ॥ ७८॥ (ब्राह्मणसत्तमान्)
पुनरभ्यर्च्य विघ्नेशमिमं मन्त्रमुदीरयेत् ॥ ७९॥
अथ मन्त्रः
वक्रतुण्ड सुराराध्य सूर्यकोटिसमप्रभ ।
निर्विघ्नेनैव सततं काशीवासं प्रयच्छ मे ॥ ८०॥
इति सम्प्रार्थ्य विधिवत्पूजां कृत्वा पुनर्मुदा ।
नमस्कृत्वा प्रसाद्यैनं गच्छेड्ढुण्ढिविनायकम् ॥ ८१॥
ढुण्ढिराजार्चनं सम्यक्कर्तव्यं विधिपूर्वकम् ।
तत्रैवार्चाविशेषेण पूजां कृत्वा ततः परम् ॥ ८२॥
॥ इति शिवरहस्यान्तर्गते गणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । ५०-८२॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 50-82..
Notes:
Śiva शिव tells Pārvatī पार्वती that to have obstacle-free access to Kaśī काशी, one must worship Dhuṇḍhirāja ढुण्ढिराज in the prescribed manner especially on Śukla Caturthī शुक्ल चतुर्थी; and enlists Aṣṭottaraśatanāmāni अष्टोत्तरशतनामानि of Gaṇeśa of गणेश for the purpose.
Proofread by Ruma Dewan