गणेशापामार्जनस्तोत्रम्
ॐ अस्य श्रीमहागणपत्यपामार्जनस्तोत्रमालामन्त्रस्य ब्रह्मा ऋषिः ।
श्रीमहागणपतिर्देवता । नानाविधानि छन्दांसि । मम सकलदोषरोगशान्तये
दिव्यभौमान्तरिक्षत्रिविधोत्पातशान्तये सर्वाभीष्टफलप्राप्त्यर्थे जपे विनियोगः ।
ॐ गणेशाय गुणेशाय निर्गुणाय गुणात्मने ।
पूर्णाय परमेशाय विघ्नराजाय सम्मुदे ॥ १॥
अरूपबहुरूपाय व्यापिने परमात्मने ।
अकल्मषाय शुद्धाय ध्यातुः पापहराय च ॥ २॥
विनायकाय धाम्ने च मयूरेशाय सर्वशः ।
चिन्तामणिगणेशाय गजदन्तधराय च ॥ ३॥
नमस्कृत्य प्रवक्ष्यामि यथा सिध्यतु मे वचः ।
चतुर्थीतिथिजाताय सर्वसङ्कटहारिणे ॥ ४॥
नमस्कृत्य प्रवक्ष्यामि येन सिध्यतु मे वचः ।
आखुध्वज मयूरेश देवदेव जगत्पते ॥ ५॥
सिद्धिबुद्धिप्रदात्रे च सकलं मे हराशुभम् ।
गणनाथ गणाधीश गजानन गणेश्वर ॥ ६॥
ढुण्ढिराज गदापाणे दन्तायुधधर प्रभो ।
मृत्युबन्धार्तिभयदं दुर्दिष्टस्य च यत्फलम् ॥ ७॥
परापध्यानसहितं प्रयुक्तं चाभिचारिकम् ।
गरस्पर्शमहारोगं प्रयोगं च यथाकृतम् ॥ ८॥
एकाहिकं द्वयाहिकं च त्र्याहिकं च महाज्वरम् ।
चातुर्थिकं पाक्षिकं वा सन्निपातज्वरं तथा ॥ ९॥
दोषमामयसम्भूतमपस्मारभगन्दरम् ।
शिरोरोगं नेत्ररोगं कर्णरोगमथाखिलम् ॥ १०॥
वाल्मीकं पीनसं हिक्कां सन्धिशूलं क्षयं तथा ।
कासं श्वासं तथा दद्रुं लूताविस्फोटकं तथा ॥ ११॥
मेहप्लीहयक्ष्मगुल्मव्यङ्गपिप्लुरुजं पुनः ।
दशदोर्दण्डभृद्देवो महागणपतिः क्षणात् ॥ १२॥
हरतु प्रणतः प्राणत्राणकारी शिवात्मजः ।
उक्तानुक्ताश्च ये रोगा ये च जन्मान्तरार्जिताः ॥ १३॥
ते सर्वे विलयं यान्तु हेरम्बस्य भयार्दिताः ।
डाकिन्यः पिशिताशिन्यः भूतवैतालिकास्तथा ॥ १४॥
सर्वे विलयं यान्तु ढुण्ढिराजभयातुराः ।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ॥ १५॥
दन्तोद्भवं नखोद्भूतमाकाशप्रभवं तथा ।
पिशाचप्रभवं यच्च विषमत्यन्तदुःखहम् ॥ १६॥
शमयित्वाशु भगवान् परमात्मा गजाननः ।
ह्रीं क्रौं ॐ नमः । सर्वविघ्नाधिपतये सर्वार्थसिद्धिदाय सर्वदुःखप्रशमनाय
एह्येहि भगवन् सर्वदुष्टरोगान् खादय खादय स्तम्भय स्तम्भय स्तम्भय ह्रीं
गां नमः स्वाहा ।
क्रौं ह्रीं दुण्ढिमयूरेश नामोच्चारणभेषजात् ।
क्षीयन्तां सकला रोगाः सत्यं सत्यं न संशयः ॥ १७॥
ग्रहा बालग्रहाश्चैव पिशाचा यक्षराक्षसाः ।
नश्यन्ति स्मरणादेव महागणपतेः प्रभोः ॥ १८॥
अतिसारज्वराः घोराः कूष्माण्डजृम्भकादयः ।
ते सर्वे प्रशमं यान्ति विघ्नराजेन तर्जिताः ॥ १९॥
सिंहव्याघ्रवराहोष्ट्रखरमार्जारमूषकाः ।
चौराश्च राजचाराश्च शत्रवो दुष्टचेतसः ॥ २०॥
ते सर्वे विलयं यान्तु धर्षिता धूमकेतुना ।
प्राच्यां दिशि प्रतीच्यां च दक्षिणोत्तरयोस्तथा ॥ २१॥
विदिक्षु दिक्षु सर्वासु हेरम्बः पातु मां सदा ।
उक्तानुक्तस्थले चाव्यात् सदा देवो महोत्कटः ॥ २२॥
स्मरणेन गणेशस्य क्षयमेनांसि यान्ति यत् ।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ २३॥
यथा विघ्नेश्वरो देवः पुराणेषु प्रगीयते ।
सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् ॥ २४॥
शमीपत्रैर्गणेशस्य सदा सन्तोषसाधकैः ।
समार्जितं मया गात्रमरोगं भवतु क्षणात् ॥ २५॥
मदोत्कटो गणाध्यक्षो धूमकेतुर्द्विपाननः ।
शान्ताः समस्तरोगास्ते ग्रहाः सर्वविषाणि च ॥ २६॥
भूतानि प्रलयं यान्ति संस्मृते विघ्नसूदने ।
एतत्समस्तरोगेषु भूतग्रहभयेषु च ॥ २७॥
अपामार्जनकं स्तोत्रमिदमस्त्यभिमन्त्रितम् ॥ २८॥
इयं शमी विघ्नगणेश्वरप्रिया गणेश्वरोऽहं स्वयमेव चागतः ।
अस्मिन्नरे दुष्टमशेषमस्ति स्वस्थो भवत्येष गणेशवाक्यतः ॥ २९॥
शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु ।
यदस्ति दुरितं किञ्चित्तत्क्षिप्तं लवणाम्भसि ॥ ३०॥
स्वास्थ्यमस्य सदैवास्तु सिद्धिबुद्धीशकीर्तनात् ।
यत्र चैवागतं पापं तत्रैव प्रतिगच्छतु ॥ ३१॥
एतद्रोगादिपीडासु जन्तुना हितमिच्छता ।
गाणेश्वरेण कर्तव्यमपामार्जनकं परम् ॥ ३२॥
अनेन सर्वदुःखानि प्रशमं यान्त्यसंशयः ।
सर्वभूतहितार्थाय कुर्यात्तस्मात्सदैव हि ॥ ३३॥
गणेशप्रियकृत्स्तोत्रं यः पठेत्प्रयतः सदा ।
तस्य रोगा न बाधन्ते सत्यमेतद्ब्रवीम्यहम् ॥ ३४॥
सकृत्पठनमात्रेण भालचन्द्रप्रभावतः ।
अश्वमेधसहस्रस्य फलं प्राप्नोति निश्चितम् ॥ ३५॥
अपामार्जनकं स्तोत्रं गणेशप्रीतिवर्धनम् ।
सकृदुच्चरितं येन तस्य मुक्तिः करे स्थिरा ॥ ३६॥
सुमुखस्तवराजोऽयं मुखे यस्य विराजते ।
सुमुखीभूय सद्योऽसौ निजलोकं स गच्छति ॥ ३७॥
इयं सञ्जीवनी विद्या देवानामपि दुर्लभा ।
अभिषिक्तो यया जन्तुः मृत्युग्रस्तोऽपि जीवति ॥ ३८॥
प्रसन्नेन गणेशेन मह्यमुक्तस्तवो ह्यसौ ।
लोकोपरि दयां कृत्वा मया तुभ्यं प्रकाश्यते ॥ ३९॥
इति ब्रह्माण्डपुराणे गणेशापामार्जनस्तोत्रं सम्पूर्णम् ।
Proofread by Narendran Madathil