श्रीगणेशगीतम्
(सुब्रह्मण्ययोगिकृतम्)
क्व प्रासूत कदा त्वां गौरी न प्रामाण्यं तव जनने ।
विप्राः प्राहुरजं गणराजं यः प्राचामपि पूर्वतमः ॥ १॥
नासि गणपते शङ्करात्मजो भासि तद्वदेवाखिलात्मकः ।
ईशता तवानीशता नृणां केशवेरिता साशयोक्तिभिः ॥ २॥
गजमुख तावकमन्त्र महिम्ना सृजति जगद्विधिरनुकल्पम् ।
भजति हरिस्त्वां तदवनकृत्ये यजति हरोऽपि विरामविधौ ॥ ३॥
सुखयति शतमखमुखसुरनिकरानखिलक्रतु विघ्नघ्नोऽयम् ।
निखिलजगज्जीवनदः स खलु यतः पर्जन्यात्मा ॥ ४॥
प्रारम्भे कार्याणां हेरम्बं यो ध्यायेत् ।
पारं यात्येव कृतेरारादाप्नोति सुखम् ॥ ५॥
गौरीसुनोः पादाम्भोजे लीना चेतोवृत्तिर्मे ।
घोरे संसाररण्ये वासः कैलासे वास्तु ॥ ६॥
गुहगुरु पदयुगमनिशमभयदम् ।
वहसि मनसि यदि शमयसि दुरितम् ॥ ७॥
जय जय शङ्करवरसूनो भयहर भजतां गणराज ।
नय मम चेतस्तव चरणं नियमय धर्मेऽन्तः करणम् ॥ ८॥
चलसि चित्त किन्नु विषमविषयकानने
कलय वृत्तिममृत दातृकरिवरानने ।
तुलय खेदमोदयुगलमिदमशाश्वतं
विलय भयमलङ्घ्यमेव जन्मनि स्मृतम् ॥ ९॥
सोमशेखरसूनवे सिन्दूरसोदरभानवे
यामिनीपतिमौलये यमिहृदयविरचितकेलये ।
मूषकाधिपगामिने मुख्यात्मनेऽन्तर्यामिने
मङ्गलं विघ्नद्विषे मत्तेभवक्त्रज्योतिषे ॥ १०॥
अवधीरितदाडिमसुम सौभगमवतु गणेशज्योतिर्मामवतु गणेशज्योतिः ।
हस्तचतुष्टय धृतवरदाभयपुस्तकबीजापूरं धृतपुस्तकबीजापूरम् ॥ ११॥
रजताचल वप्रक्रीडोत्सुकगजराजास्यमुदारं भज श्रीगजराजास्यमुदारम् ।
फणिपरिकृत कटिवलयाभरणं कृणु रे
जनहृदि कारणं तव कृणु रे जनहृदि कारणम् ॥ १२॥
यः प्रगे गजराजमनुदिनमप्रमेयमनुस्मरेत् ।
स प्रयाति पवित्रताङ्गो विप्रगङ्गाद्यधिकताम् ॥ १३॥
सुब्रह्मण्यमनीषिविरचिता त्वब्रह्मण्यमपाकुरुते ।
गणपतिगीता गानसमुचिता सम्यक्पठतां सिद्धान्तः ॥ १४॥
इति सुब्रह्मण्ययोगिकृतं श्रीगणेशगीतं सम्पूर्णम् ।
Proofread by Narendran Madathil