श्रीगणेशमाहात्म्यं देवर्षयकृतं

श्रीगणेशमाहात्म्यं देवर्षयकृतं

॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमो नमस्ते परमात्मने वै सदा गणानां पतये गणात्मने । अनन्तमायामयखेलकारिणे परेश ब्रह्मेश नमो नमस्ते ॥ १६॥ नमस्तुभ्यं महाविघ्ननाशनाय महात्मने । विघ्नेशाय सुभक्तानां पालकाय नमो नमः ॥ १७॥ हेरम्बाय महादीनपालकाय च ढुण्ढये । लम्बोदराय देवाय देवदेवेश ते नमः ॥ १८॥ अनाथानां प्रणाथाय नाथहीनाय ते नमः । नाथानां नाथरूपाय वक्रतुण्डाय वै नमः ॥ १९॥ परात्परतमायैव योगशान्तिप्रदाय ते । योगानां पतये तुभ्यं नमो योगाय ते नमः ॥ २०॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः ॥ २१॥ अनन्तमायया देव चारिणे ते नमो नमः । मायाहीनाय मायायै मायिनां मोहकारिणे ॥ २२॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । सिद्धिबुद्धिपते तुभ्यं स्वानन्दस्थाय ते नमः ॥ २३॥ किं स्तुमस्त्वां गणाध्यक्ष शान्तिरूपं परात्परम् । वेदादयः समर्था न योगिनः शास्त्रसंयुताः ॥ २४॥ एवमुक्त्वा प्रणेमुस्तं देवर्षयो महामुने । स्वस्वस्थानं ययुः सर्वे हर्षयुक्तेन चेतसा ॥ २५॥ वर्णाश्रमयुता लोका बभूवुर्विगतज्वराः । सर्वे देवर्षयस्तत्र भागयुक्ता बभूविरे ॥ २६॥ एवं वैशाखमासस्य व्रतेन देवनायकः । हत्वा वृत्रासुरं विप्र देवैः सुखयुतोऽभवत् ॥ २७॥ अन्यच्च श‍ृणु माहात्म्यं वैशाखव्रतसम्भवम् । सर्वपापहरं दुःखनाशनं श्रवणान्नृणाम् ॥ २८॥ गार्ग्यः कोऽपि द्विजो नाम्ना शिवदत्तो बभूव ह । स गणेशपरो नित्यमभजद्गणनायकम् ॥ २९॥ स्वधर्मसंयुतो नित्यं भार्यापुत्रसमन्वितः । अग्निहोत्रपरो भूत्वाऽतिष्ठत् स्वतेजसा युतः ॥ ३०॥ तत्रागतं स योगीन्द्रं गर्गं सर्वार्थकोविदम् । तं प्रणम्य महाभागं शिवदत्तः पुपूज ह ॥ ३१॥ नित्यं सेवापरं दृष्ट्वा सुतं विनयसंयुतम् । मुक्तिमिच्छन्तमत्यन्तं गर्गः संहर्षितोऽभवत् ॥ ३२॥ उवाच शिवदत्तं स पुत्र वाञ्छसि किं वद । तत्करिष्यामि ते शीलसन्तुष्टोऽहं न संशयः ॥ ३३॥ इति देवर्षयकृतं श्रीगणेशमाहात्म्यं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः २७ । ८.२७ १६-३३॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 27 . 8.27 16-33.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganeshamahatmyam Devarshayakritam
% File name             : gaNeshamAhAtmyaMdevarShayakRRitaM.itx
% itxtitle              : gaNeshamAhAtmyaMdevarShayakRitaM (mudgalapurANAntargataM)
% engtitle              : gaNeshamAhAtmyaMdevarShayakRRitaM
% Category              : ganesha, mudgalapurANa
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 27 | 8.27 16-33||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org