श्रीगणेशपूजाविधि
ब्रह्मोवाच ।
शृणु राजन् ! प्रवक्ष्यामि सर्वसिद्धिप्रदं व्रतम् ॥ ६॥
यस्यानुष्ठानमात्रेण चिन्तितं प्राप्नुयान्नरः ।
ओषधीभिः शुक्लतिलैर्दिवा स्नायात् प्रसन्नधीः ॥ ७॥
सङ्कल्पं कारयेत् सम्यग् ध्यात्वा देवं गजाननम् ।
गणेश पूजयेद् भक्त्या मन्त्रैरागमसम्भवैः ॥ ८॥
कृष्णपक्षे चतुर्थ्याञ्च निशि चन्द्रोदयेऽपि च ।
नृप उवाच ।
कथं सम्पूजयेद् ब्रह्मन् ! देवदेवं गजाननम् ॥ ९॥
विस्तरेण मम ब्रूहि प्रणयात् परिपृच्छते ।
ब्रह्मोवाच ।
नित्यकर्म समाप्याऽथ निशायामुदये विधोः ॥ १०॥
शुचौ देशे गोमयेन लिप्ते मण्डपिकान्विते ।
तत्र पीठं गणेशस्य पूजयेत् कुङ्कुमाक्षतैः ॥ ११॥
स्थापयेत् कलशं तत्र पञ्चरत्नसमन्वितम् ।
तस्योपरि न्यसेत्पात्रं सौवर्णकलशान्वितम् ॥ १२॥
तदभावे तु रौप्यं वा ताम्रं वैणवमेव च ।
तस्योपरि न्यसेद् वस्त्रं क्षौमं वा शक्तिसंयुतः ॥ १३॥
तस्योपरि लिखेद्यन्त्रमागमोक्तविधानतः ।
तत्र मूर्तिं गणेशस्य सौवर्णी लक्षणान्विताम् ॥ १४॥
ध्यानम् -
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं ज्वलत्पावकलोचनम् ॥ १५॥
आखुपृष्ठसमारूढञ्चामरैर्वीजितं गणैः ।
शेषयज्ञोपवीतञ्च चिन्तयेत् तं गजाननम् ॥ १६॥
आवाहनम् -
आगच्छ देवदेवेश ! सङ्कटान्मां निवारय ।
यावद् व्रतं समाप्येत तावत् त्वं सन्निधौ भव ॥ १७॥
(पुरुषसूक्ते
अथवा
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥)
आसनम् -
गणाधीश ! नमस्तेऽस्तु सर्वसिद्धिप्रदायक !।
आसनं गृह्यतां देव सङ्कटान्मां निवारय ॥ १८॥
(अथवा
पुरुष एवेदगुं सर्वं यद्भूतं यच्छ भव्यम् ।
उतामृतत्वस्येशानः यदन्नेनातिरोहति ॥)
पाद्यम् -
उमापुत्र ! नमस्तेऽस्तु नमस्ते मोदकप्रिय ! ।
पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥ १९॥
(अथवा
एतावानस्य महिमा अतो ज्यायागंश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥)
अर्घ्यम् -
लम्बोदर ! नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।
अर्घ्यं गृहाण देवेश ! सङ्कटं मे निवारय ॥ २०॥
(अथवा
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात्पुनः ।
ततो विश्वङ्व्यक्रामत् साशनानशने अभि ॥)
आचमनीयम् -
गङ्गादि सर्वतीर्थेभ्यः आहृतं तोयमुत्तमम् ।
गृहाणाऽऽचमनीयार्थं सङ्कटं मे निवारय ॥ २१॥
(अथवा
तस्माद्विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमि मथो पुरः ॥)
पञ्चामृतम् -
पयो दधि घृतञ्चैव शर्करामधुसंयुतम् ।
पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥ २२॥
(अथवा
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥)
स्नानम् -
नर्मदा चन्द्रभागा च गङ्गासङ्गमजैर्जलैः ।
स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥ २३॥
(अथवा
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मश्शरद्धविः ॥)
वस्त्रयुग्मम् -
इभवक्त्र ! नमस्तुभ्यं गृहाण परमेश्वर ! ।
वस्त्रयुग्मं गणाध्यक्ष ! सङ्कटं मे निवारय ॥ २४॥
(अथवा
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥)
यज्ञोपवीतम् -
विनायक ! नमस्तुभ्यं नमः परशुधारिणे ! ।
उपवीत गृहाणेदं सङ्कटां मे निवारय ॥ २५॥
(अथवा
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूगुँस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये ॥)
चन्दनम् -
ईशपुत्र ! नमस्तुभ्यं नमो मूषकवाहन ! ।
चन्दनं गृह्यतां देव सङ्कटं मे निवारय ॥ २६॥
(अथवा
तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दाँगसि जज्ञिरे तस्मात् यजुस्तस्मादजायत ॥)
अक्षताः -
घृतकुङ्कुमसंयुक्तास्तन्दुलाः सुमनोहराः ।
अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥ २७॥
(अथवा
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥)
पुष्पम् -
चम्पकं मल्लिका दूर्वाः पुष्पजातिरनेकशः ।
गृहाण त्वं गणाध्यक्ष ! सङ्कटं मे निवारय ॥ २८॥
(अथवा
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥)
धूपम् -
लम्बोदर ! महाकाय ! धूम्रकेतो ! सुवासितम् ।
धूपं गृहाण देवेश ! सङ्कटं मे निवारय ॥ २९॥
(अथवा
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कौ बाहू कावूरु पादावुच्येते ॥)
दीपम् -
विघ्नान्धकारसंहारकारक ! त्रिदशाधिप ! ।
दीपं गृहाण देवेश ! सङ्कटं मे निवारय ॥ ३०॥
(अथवा
ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः ।
ऊरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥)
नैवेद्यम् -
मोदकापूपलड्डूकपायसं शर्करान्वितम् ।
पक्वान्नं सघृतं देव ! नैवेद्यं प्रतिगृह्यताम् ॥ ३१॥
(अथवा
चंद्रमा मनसो जातः चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥)
फलम् -
नारिकेल फलं द्राक्षां रसालं दाडिमं शुभम् ।
फलं गृहाण देवेश ! सङ्कटं मे निवारय ॥ ३२॥
(अथवा
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पदभ्यां भूमिर्दिशः श्रोत्रात् तथा लोकांग अकल्पयन् ॥)
ताम्बूलम् -
क्रमुकैला लवङ्गादि नागवल्लीदलानि च ।
ताम्बूलं गृह्यतां देव ! सङ्कटं मे विनाशय ॥ ३३॥
(अथवा
पूगिफलं सताम्बूलं नागवल्लि दलैर्युतम् ।
ताम्बूलं गृह्यतां देव येल लवङ्ग संयुक्तम् ॥)
दक्षिणा -
सर्वप्रीतिकरं देव ! हिरण्यं सर्वसिद्धिदम् ।
दक्षिणार्थं गृहाणेदं सङ्कटं मे विनाशय ॥ ३४॥
(अथवा
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥
वा
हिरण्य गर्भ गर्भस्थ हेमबीज विभावसोः ।
अनंत पुण्य फलदा अथः शांतिं प्रयश्च मे ॥)
एकविंशतिदूर्वाङ्कुरुमर्पण् ।
ततो दूर्वाङ्कुरान् गृह्य विंशत्येकञ्च भक्तितः ।
एभिर्नामपदेर्देवमर्चयेत् सुसमाहितः ॥ ३५॥
दूर्वापणमन्त्रा -
गणाधिपतये नमः । १। उमापुत्राय नमः । २। अघनाशनाय नमः । ३।
एकदन्ताय नमः । ४। इभवक्त्राय नमः । ५। मूषकवाहनाय नमः । ६।
विनायकाय नमः । ७। ईशपुत्राय नमः । ८। सर्वसिद्धिप्रदाय नमः । ९।
लम्बोदराय नमः । १०। वक्रतुण्डाय नमः । ११। मोदकप्रियाय नमः । १२।
विघ्नविध्वंसकर्त्रे नमः । १३। विश्ववन्द्याय नमः । १४।
अमरेशाय नमः । १५। गजकर्णाय नमः । १६।
नागयज्ञोपवीतिने नमः । १७। भालचन्द्राय नमः । १८।
परशुधारिणे नमः । १९। विघ्नाधिपाय नमः । २०। विद्याप्रदाय नमः । २१।
नीराजनम् -
कर्पूरानलसंयुक्तं शेषाघौघविनाशनम् ।
नीराजनं गृहाणेश ! सङ्कटान्मां विमोचय ॥ ३६॥
(अथवा
ॐ आ रात्रि पार्थिवँ रजः पितुरप्रायि धामभिः ।
दिवः सदाँसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ।)
पुष्पाञ्जलि -
चम्पकाशोकबकुलपारिजातभवैः शुभैः ।
पुष्पाञ्जलिं गृहाणेमां सङ्कटान्मां विमोचय ॥ ३७॥
(अथवा
यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥)
स्तुतिः -
त्वमेव विश्वं सृजसीभवक्त्र ! त्वमेव विश्वं परिपासि देव ! ।
त्वमेव विश्वं हरसेऽखिलेश ! त्वमेव विश्वात्मक ! आविभासि ॥ ३८॥
नमस्कारा -
नमामि देवं गणनाथमीशं विघ्नेश्वरं विघ्नविनाशदक्षम् ।
भक्तार्तिहं भक्तिविमोक्षदक्षं, विद्याप्रदं वेदनिधानमाद्यम् ॥ ३९॥
प्रदक्षिणा -
एवं स्तुवीत विधिवत प्रणमेत पुनः पुनः ।
प्रदक्षिणां प्रकुर्वीत यथा शक्त्यैकविंशतिम् ॥ ४०॥
प्रार्थना -
ये त्वामसम्पूज्य गणेश ! नूनं वाञ्छन्ति मूढा विहितार्थसिद्धिम् ।
त एव नष्टा नियतं हि लोके ज्ञातो मया ते सकलः प्रभावः ॥ ४१॥
वायनं -
आचार्यस्त्वं द्विजाध्यक्ष ! सर्वसिद्धिप्रदायक ! ।
वायनं गृह्यतां ब्रह्मन् ! सङ्कटान्मां निवारय ॥ ४२॥
विशेषार्घ्यं -
फलपुष्पाक्षतैर्युक्तं जलं ते दक्षिणान्वितम् ।
विशेषार्घ्यं मया दत्तं सङ्कटान्मां निवारय ॥ ४३॥
॥ इति षोडशोपचारार्चनम् ॥
गणेशमन्त्रार्चनम् -
ॐ नमो हेरम्ब मदमोदित मम सङ्कटं निवारय स्वाहा ।
इन्द्रादि लोकपालाँश्च समन्तात् पूजयेत् सुधीः ॥ ४४॥
पक्वमुद्गतिलैर्युक्तान् मोदकान् घृतपाचितान् ।
भक्ष्यान्यन्यानि ताम्बूलं यथाशक्ति प्रकल्पयेत् ॥ ४५॥
ततो दूर्वाङ्कुरान्गृह्य विंशत्येकञ्च भक्तितः ।
एभिर्नामपदैर्देवमर्चयेत् सुसमाहितः ॥ ४६॥
गणाधिप ! नमस्तुभ्यमुमापुत्राभयप्रद ! ।
एकदन्तेभवक्त्रेति तथा मूषकवाहन ! ॥ ४७॥
विनायकेशपुत्रेति सर्वसिद्धिप्रदायक ! ।
लम्बोदर ! नमस्तुभ्यं वक्रतुण्डाघनाशन ! ॥ ४८॥
विघ्नविध्वंसकर्तेति विश्ववन्द्यामरेश्वर ! ।
गजवक्र ! नमस्तुभ्यं नागयज्ञोपवीतिने ! ॥ ४९॥
भालचन्द्र ! नमस्तुभ्यं नमः परशुधारिणे ।
विघ्नाधिप ! नमस्तुभ्यं सर्वविद्याप्रदायक ॥ ५०॥
एवं सम्पूजयेद्देवं दूर्वाभिश्च पृथक् पृथक् ।
यदुद्दिश्य कृतं सम्यग् यथाशक्ति प्रपूजनम् ॥ ५१॥
तेन तुष्टो भवाशु त्वं हृत्स्थान्कामान्प्रपूरय ।
विघ्नान्नाशय मे सर्वान् दुष्टांश्च समुपस्थितान् ॥ ५२॥
त्वत्प्रसादेन सर्वाणि कार्याणीह करोम्यहम् ।
शत्रूणां बुद्धिनाशञ्च मित्राणामुदयं कुरु ॥ ५३॥
इति विज्ञाप्य देवेशं प्रणिपत्य पुनः पुनः ।
ततो होमं प्रकुर्वीत शतमष्टोत्तरं व्रती ॥ ५४॥
मोदकैर्वायनं कार्यं व्रतसम्पूर्तिहेतवे ।
लड्डूकैर्वटकाद्यैर्वा त्रिसप्तफलसंयुतम् ॥ ५५॥
रक्तवस्त्रेण सञ्च्छाद्य स्वाचार्याय निवेदयेत् ।
गणाधिप ! नमस्तुभ्यं सर्वसङ्कल्पसिद्धिद ! ॥ ५६॥
वायनस्य प्रदानेन सङ्कटान्मां निवारय ।
तिथ्यर्घ्यं -
कथां श्रुत्वा ततः पुण्यां दद्यादर्घ्यं समाहितः ॥ ५७॥
तिथीनामुत्तमे ! देवि ! गणेशप्रियवल्लभे ! ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ ५८॥
देवार्घ्यं -
लम्बोदर ! नमस्तुभ्यं सततं मोदकप्रिय ! ।
सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ५९॥
चन्द्रार्घ्यं -
चन्द्राय सप्तवारं तु मन्त्रेणानेन पार्थिव ! ।
क्षारोदार्णवसम्भूत ! अत्रिगोत्रसमुद्भव ! ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥ ६०॥
ततः क्षमापयेद्देवं ततो विप्रांश्च भोजयेत् ।
स्वयं भुञ्जीत तच्छेषं ब्राह्मणभ्यो यदर्पितम् ॥ ६१॥
सप्तग्रासान् मौनयुक्तो यथाशक्त्या यथासुखम् ।
इत्थं कुर्यात्तु मासेषु चतुर्ष्वपि विधानतः ॥ ६२॥
इति श्रीगणेशपूजाविधि सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ६९ । १.६९ ६-६२॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 69 . 1.69 6-62..
Note: The pUjA verses are enhanced with verses from different sources.
Proofread by Preeti Bhandare