शेषकृता श्रीगणेशप्रार्थना

शेषकृता श्रीगणेशप्रार्थना

क उवाच । ततो वव्रे वरान् शेषो नत्वा स्तुत्वाखिलेश्वरः । अनादिनिधनं देव ! वन्देऽहं गणनायकम् ॥ २७॥ सर्वव्यापिनमीशानं जगत्कारणकारणम् । सर्वस्वरूपं विश्वेशं विश्ववन्द्यं नमाम्यहम् ॥ २८॥ गजाननं गणाध्यक्षं गरुडेशस्तु तं विभुम् । गुणाधीशं गुणातीतं गणाधीशं नमाम्यहम् ॥ २९॥ विद्यानामधिपं देव ! देवदेवं सुरप्रियम् । सिद्धिबुद्धिप्रियं सर्वसिद्धिदं भुक्तिमुक्तिदम् ॥ ३०॥ सर्वविघ्नहरं देवं नमामि गणनायकम् । क उवाच । एवं स्तुत्वा तु देवेशं वरदं द्विरदाननम् ॥ ३१॥ वरयामास यान् कामांस्तां श‍ृणुष्व महामने । शेष उवाच । अद्य धन्यं तपो ज्ञानं पिता माता जनुर्मम ॥ ३२॥ देहो नेत्राणि भूरीणि मस्तकानि बहूनि च । त्वां स्तोतुं सम्प्रवृत्ता या धन्यास्या रसना मम ॥ ३३॥ कुलं शीलं चधन्यं मे त्वङ्घ्रियुगदर्शनात् । अखण्डितं ते भजनं देहि मेऽखण्डविक्रम ॥ ३४॥ दुःखं किं किं नु वक्तव्यं सर्वज्ञे त्वयि विघ्नराट् । अखर्वगर्वकरणात् स्फुटिता मस्तका मम ॥ ३५॥ महारुषा महेशेनाऽऽस्फालितस्य महीतले । नारदस्य प्रसादेन दृष्टं ते चरणाम्बुजम् । इदानीं देव ! मे देहि श्रेष्ठतां भुवनत्रये ॥ ३६॥ पाटवं सर्वशिरसि सामर्थ्यं धारणे भुवः । अचलं देहि मे स्थानं दर्शनं ते निरन्तरम् ॥ ३७॥ सान्निध्यं शङ्करस्यापि कुलश्रेष्ठ्यं शिवे रतिम् । गणपतिरुवाच । यदि ते दशधा जातो मस्तको भुजगाधिप ॥ ३८॥ तदा सहस्रवदनः सहस्रफणिमण्डितः । भविष्यसि जने ख्यातो यावच्चन्द्रार्कतारकाः ॥ ३९॥ धराधरणसामर्थ्यं दृढं तव भविष्यति । पञ्चास्यपञ्चशिरसि मत्प्रसादात् स्थितिं स्थिराम् ॥ ४०॥ लप्स्यसे भुजगश्रेष्ठ ! मत्सान्निध्यं निरन्तरम् । अन्यत् ते वाञ्छितं शेष ! तदशेषं भविष्यति ॥ ४१॥ इति शेषकृता श्रीगणेशप्रार्थना सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ९० । १.९० २६-३०॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 90 . 1.90 26-30.. Proofread by Preeti Bhandare
% Text title            : Sheshakrita Shri Ganesha Prarthana
% File name             : gaNeshaprArthanAsheShakRRitA.itx
% itxtitle              : gaNeshaprArthanA sheShakRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshaprArthanA sheShakRRitA
% Category              : ganesha, gaNeshapurANa
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 90 | 1.90 26-30||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org