शेषकृता श्रीगणेशप्रार्थना
क उवाच ।
ततो वव्रे वरान् शेषो नत्वा स्तुत्वाखिलेश्वरः ।
अनादिनिधनं देव ! वन्देऽहं गणनायकम् ॥ २७॥
सर्वव्यापिनमीशानं जगत्कारणकारणम् ।
सर्वस्वरूपं विश्वेशं विश्ववन्द्यं नमाम्यहम् ॥ २८॥
गजाननं गणाध्यक्षं गरुडेशस्तु तं विभुम् ।
गुणाधीशं गुणातीतं गणाधीशं नमाम्यहम् ॥ २९॥
विद्यानामधिपं देव ! देवदेवं सुरप्रियम् ।
सिद्धिबुद्धिप्रियं सर्वसिद्धिदं भुक्तिमुक्तिदम् ॥ ३०॥
सर्वविघ्नहरं देवं नमामि गणनायकम् ।
क उवाच ।
एवं स्तुत्वा तु देवेशं वरदं द्विरदाननम् ॥ ३१॥
वरयामास यान् कामांस्तां शृणुष्व महामने ।
शेष उवाच ।
अद्य धन्यं तपो ज्ञानं पिता माता जनुर्मम ॥ ३२॥
देहो नेत्राणि भूरीणि मस्तकानि बहूनि च ।
त्वां स्तोतुं सम्प्रवृत्ता या धन्यास्या रसना मम ॥ ३३॥
कुलं शीलं चधन्यं मे त्वङ्घ्रियुगदर्शनात् ।
अखण्डितं ते भजनं देहि मेऽखण्डविक्रम ॥ ३४॥
दुःखं किं किं नु वक्तव्यं सर्वज्ञे त्वयि विघ्नराट् ।
अखर्वगर्वकरणात् स्फुटिता मस्तका मम ॥ ३५॥
महारुषा महेशेनाऽऽस्फालितस्य महीतले ।
नारदस्य प्रसादेन दृष्टं ते चरणाम्बुजम् ।
इदानीं देव ! मे देहि श्रेष्ठतां भुवनत्रये ॥ ३६॥
पाटवं सर्वशिरसि सामर्थ्यं धारणे भुवः ।
अचलं देहि मे स्थानं दर्शनं ते निरन्तरम् ॥ ३७॥
सान्निध्यं शङ्करस्यापि कुलश्रेष्ठ्यं शिवे रतिम् ।
गणपतिरुवाच ।
यदि ते दशधा जातो मस्तको भुजगाधिप ॥ ३८॥
तदा सहस्रवदनः सहस्रफणिमण्डितः ।
भविष्यसि जने ख्यातो यावच्चन्द्रार्कतारकाः ॥ ३९॥
धराधरणसामर्थ्यं दृढं तव भविष्यति ।
पञ्चास्यपञ्चशिरसि मत्प्रसादात् स्थितिं स्थिराम् ॥ ४०॥
लप्स्यसे भुजगश्रेष्ठ ! मत्सान्निध्यं निरन्तरम् ।
अन्यत् ते वाञ्छितं शेष ! तदशेषं भविष्यति ॥ ४१॥
इति शेषकृता श्रीगणेशप्रार्थना सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ९० । १.९० २६-३०॥
- .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 90 . 1.90 26-30..
Proofread by Preeti Bhandare