सोमदत्तकृतं श्रीगणेशस्तोत्रम्

सोमदत्तकृतं श्रीगणेशस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ सोमदत्त उवाच । गणेशाय परेशाय सदा शान्तिप्रदायिने । योगिनां योगरूपाय हृदिस्थाय नमो नमः ॥ ६१॥ विघ्नेशाय महाविघ्नविघ्नदाय परात्मने । विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय ते नमः ॥ ६२॥ अनादये महाकाल कालाय कालरूपिणे । अन्ते विहारयुक्तायादिनाथाय नमो नमः ॥ ६३॥ विनायकाय देवाय सर्वेषां नायकाय च । नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः ॥ ६४॥ लम्बोदराय सर्वेषामुदरस्थाय ते नमः । अपारोदारभावाय ब्रह्मेशाय नमो नमः ॥ ६५॥ आदिमध्यान्तहीनाय तदाकारस्वरूपिणे । स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः ॥ ६६॥ सिद्धिदात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे । सिद्धिपते महासिद्धिरूपाय ते नमो नमः ॥ ६७॥ बुद्धिपते सुबुद्धीनां दात्रे साधुजनप्रिय । दुर्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः ॥ ६८॥ सम्प्रज्ञातस्वरूपायासम्प्रज्ञातं महाशिरः । तयोर्योगे नराकार गजाकाराय ते नमः ॥ ६९॥ किं स्तौमि गणनाथ त्वां सदा योगस्वरूपिणे । अतस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् ॥ ७०॥ धन्योऽहं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् । कुलं शीलं यशो धन्यं जनकौ तप आश्रमः ॥ ७१॥ धन्यं व्रतं गणाधीश महत् कार्तिकमासगम् । तस्याचरणमात्रेण त्वं मे दृष्टिगतः प्रभो ॥ ७२॥ भक्तिं त्वदीयपादेषु देहि मे द्विरदानन । नान्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः ॥ ७३॥ तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाच ह । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ७४॥ गाणपत्यप्रियोऽत्यन्तं भविष्यसि महामुने । भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि ॥ ७५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विप्र पठतां श‍ृण्वतां सदा ॥ ७६॥ एवमुक्त्वांऽतर्दधेऽसौ विघ्नेशः करुणानिधिः । सोमदत्तो महाभागो गौतमं प्रणनाम ह ॥ ७७॥ तदादि स मुनिः ख्यातो बभूव गणपप्रियः । योगी योगविदां श्रेष्ठः सर्ववेदार्थतत्त्ववित् ॥ ७८॥ इति सोमदत्तकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः २१ । ८.२१ ६१-७८॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 21 . 8.21 61-78.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stotram Somadattakritam
% File name             : gaNeshastotramsomadattakRRitaM.itx
% itxtitle              : gaNeshastotram somadattakRitaM (mudgalapurANAntargataM)
% engtitle              : gaNeshastotram somadattakRRitaM
% Category              : ganesha, mudgalapurANa, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 21 | 8.21 61-78||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org