श्रीगणेशस्तुतिः लक्ष्मीनारायणकृता
गुणग्रामार्चितो नेता क्रियते स्वो जनैरिति ।
गुणेशत्वेन शंसन्तं गुणाब्धिं तं मुहुर्नमः ॥ १॥
यः स्वल्पमप्यञ्चति सद्गुणोदयं मूर्ध्नोचितं तस्य समर्हणं सताम् ।
इत्यालपन्बालकलाधरं दधत्स्याद्भूतये भालकलाधरो मम ॥ २॥
नेत्रद्वन्द्वं साधुने जीवनाय नालं, तस्माज्ज्ञाननेत्रं ध्रियेत ।
इत्यक्ष्णा संसूचयन्भालगेन नागास्यो नः पातु धीवारिराशिः ॥ ३॥
नेता विशाल मुदितास्य उदारचेताः
स्यात्सर्वदैव सुमुखः स्वजने प्रवृत्तः ।
इत्युद्गिरन् प्रमुदितास्यतयाऽन्तराय
ध्वान्तापहाऽस्तु शरणं मम कोऽपि भास्वान् ॥ ४॥
हसितविभूषितवदनो जनोऽस्तु सकलोऽपि मोदसम्पत्त्यै ।
इति रददर्शितहृदयः स एकदन्तोऽस्तु मे शरणम् ॥ ५॥
लोकाराधनकर्म दिग्गजमहामूर्धैव कर्तुं प्रभुः
घ्रातुं सर्वगभीरमानसमलं स्याद्दीर्घघोणः पुमान् ।
भङ्ग्याऽऽस्यस्य तथा दधातु मतिमान् नीचेषु चोपेक्षणं
इत्याख्यान् करिवक्रवक्रिमरुचाऽव्यान्नो गणेशो निजान् ॥ ६॥
नेता समस्य शृणुयादपि कष्टवार्तां
रक्षन् सदा सहृदयो विपुलश्रवस्त्वम् ।
इत्युद्गिरन् स शरणं गजकर्णकत्व
स्वीकारवर्यविधिनास्तु गजाननो नः ॥ ८॥
लोकः समोऽपि हृदि विप्रियमन्यदत्तं
तूष्णीं दधत् प्रकटयेत् स्वमहाशयत्वम् ।
इत्यादिशन्नुदधिशोभ्युदरादरेण
लम्बोदरः स भगवानवलम्बनं स्यात् ॥ ८॥
रागमयं स्वावरणं रक्ष्यं सर्वैः स्वकीयहितकायैः ।
इति रक्ताम्बरधृत्याऽऽख्यान् गणपो नः कृपानिधिः पायात् ॥ ९॥
स्वकमिह धवलीकरोतु सर्वः सुकृत भरैरवदातकान्ति वित्तैः ।
इति सितवदनत्विषां प्रसारैः द्विपवदनोऽवतु वेदयन्निजान्नः ॥ १०॥
आरूढो जननायकस्य पदवीं लोकस्य सर्वापदां
नाशायाविरतं हिताय च भवेत् सक्तो मनीषी जनः ।
इत्याख्यानभयं वरं च करयोर्लान्त्या सतोर्मुद्रया
दीनानुग्रहकातरः स भगवान् विघ्नेश्वरः पातु नः ॥ ११॥
नेता नियन्त्रयितुमेव सदाऽखिलानां
बद्धादरो भवतु सेतुभिदां खलानाम् ।
इत्यन्तरायसमुदायहरो भवेन्नः
संसूचयन् स मुदितोऽङ्कुशधारणेन ॥ १२॥
प्रेमाह्वं प्रथितगुणं प्रतत्य पाशं
मोदन्तां वशमखिलं समे नयन्तः ।
इत्याख्यान् करगत पाशरश्मिनाऽसौ
विघ्नेशो जयतु समस्तकामपूरः ॥ १३॥
जन इह सकलः प्रसादकः स्यात् स जनतयाऽऽद्रियते, विषादको न ।
इति पिशुनयतीव मोदकानां ग्रहविधिना बत कोऽपि नः शरण्यः ॥ १४॥
या नार्यः स्वीयभर्तॄन् सततमनुरताः सेवया तोषयन्ति
पातिव्रत्यप्रसादादिह हि दधति ता ऋद्धितां सिद्धितां च ।
दारेषु स्वेषु रक्तः सुसुखमनुभवन् स्याच्च ना हृष्टपुष्टः
इत्यन्योन्यस्निहा नः पिपुरतु गणपस्तत् प्रिये चोद्गिरन्तः ॥ १५॥
कदाचिन्नो तुच्छेष्वपि परिवृढा यायुररुचिं
परं स्वीकुर्युस्तान् निजजनतया स्नेहसहितम् ।
इति व्याख्यानाखुं वहनमुररीकृत्य विहृतैः
गणानामीशः स्वानवतु सततं विघ्नविसरात् ॥
मातरि तथोपमातरि सूनुत्वेनैव वर्ततां सकलः ।
इति गणपोऽवतु शंसन् गङ्गागौर्योः सुतत्त्वसाम्येन ।
नेता स्यादिह यः पुमान् स मतिमान् लोकस्य कल्याणकृत्
खेदच्छेदशुभाभिवर्धन विधेर्विघ्नान् विनिघ्नन् सदा ।
वर्तेतेति स लोकनायकनयं विघ्नौघविध्वंसनैः
शंसन्नः सुषमाविभूषिततनुः पायाद्गणाधीश्वरः ॥
इति लक्ष्मीनारायणकृता श्रीगणेशस्तुतिः सम्पूर्णा ।
Proofread by Narendran Madathil