सर्वेकृता श्रीगणेशस्तुतिः
सर्वे ऊचुः ।
दीननाथ ! दयासिन्धो ! योगिहृत्पद्मसंस्थित ! ।
अनादिमध्यरहितस्वरूपाय नमो नमः ॥ २३॥
जगद्भास ! चिदाभास ! ज्ञानगम्य ! नमो नमः ।
मुनिमानसविष्टाय नमो दैत्यविघातिने ॥ २४॥
त्रिलोकेश ! गुणातीत ! गुणक्षोभ ! नमो नमः ।
त्रैलोक्यपालन ! विभो ! विश्वव्यापिन् ! नमो नमः ॥ २५॥
मायातीताय भक्तानां कामपूराय ते नमः ।
सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते ॥ २६॥
अमेयशक्तये तुभ्यं नमस्ते चन्द्रमौलये ।
चन्द्रगौराय शुद्धाय शुद्धज्ञानकृते नमः ॥ २७॥
फलश्रुतिः -
क उवाच ।
एवं स्तुवत्सु देवेषु तेजोराशिरभूत् पुरः ।
सर्वे हतदृशो देवा विस्मिता अभवँस्तदा ॥ २८॥
ततस्तत्कृपया देवः सौम्यतेजा अजायत ।
ततस्ते ददृशुर्दैवं सिंहारूढं विनायकम् ॥ २९॥
दशायुधधरं तावद्भुजं दिव्यकिरीटिनम् ।
नानाभूषाभिरामं चमुक्तादामविभूषितम् ॥ ३०॥
दिव्यगन्धानुलेपाढ्यं व्यालबद्धोदरं विभुम् ।
क्षुद्रघण्टाक्वणत्पादं कस्तूरीतिलकोज्ज्वलम् ॥ ३१॥
एवं दृष्ट्वा सुरा देवं नमस्कृत्योचिरे तदा ॥
यश्चिन्तितो गुरोर्वाक्यात् स एवायं विनायकः ॥ ३२॥
स एव दृष्टः साक्षात् तु वाङ्मनोऽगोचरो विभुः ।
जन्म धन्यं दृशिर्धन्या तपो दानं चनः सुराः ॥ ३३॥
तत ऊचे सुरान् देवस्तृप्तोऽहं भवतां स्तवैः ॥
पूजया चैव भक्त्या च सङ्कष्टीव्रततोऽपि च ॥ ३४॥
सङ्कष्टहरमेतच्च स्तोत्रं ख्यातं भविष्यति ।
यः पठेत् प्रयतो नित्यं स मे मान्यो भवेत् सुराः ॥ ३५॥
तस्य दर्शनतः सर्वे नश्येयुर्यक्षराक्षसाः ।
भोगान् भुनक्ति विविधानन्ते मोक्षपदं लभेत् ॥ ३६॥
इति सर्वेकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ७८ । २.७८ २३-३६॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 78 . 2.78 23-36..
Proofread by Preeti Bhandare