गणेशवेदपादस्तुतिलहरी

गणेशवेदपादस्तुतिलहरी

खण्डराजकृता सिद्धेर्बुद्धेरधिपतिं नितरां भक्त्या नित्यं भजति यो मनुजः । हे विघ्नाधीश सुरनाथ मुदा तस्य त्राता भवसि तस्य सखा ॥ १॥ आत्मस्वरूपानुभवं सुखं यद्दुर्लभं भुवि । देवदेवः शिवसुतस्तं नो दन्ती प्रचोदयात् ॥ २॥ अहो गुणेश दृश्यते प्रदीयतेऽथ लभ्यते । ततो गृहाण नः स्तुतिमुत प्रवर्धय मतिम् ॥ ३॥ हस्तिवक्त्रलीलयेशसूनो विश्वसर्जनादिकस्य कर्तः । तत्क्षमस्व यद्वदामि यस्मात् ब्रह्मणस्पते त्वमस्य यन्ता ॥ ४॥ दरिद्रत्वं खलु बाधां करोति तवार्चा नः शुभदा रोचते न । अहो दन्त्यास्य ततस्त्वदीयं तदस्मासु द्रविणं धेहि चित्रम् ॥ ५॥ हे गणाधीश देवताभिवन्द्य किं नु वाच्यं जनैः स मान्य इत्थम् । तन्मुदा स्वीकरोषि दीनबन्धो यस्त आतिथ्यमानुषे जुजोषत् ॥ ६॥ अहो गणाधीश ते महत्त्वं कथं प्रवाच्यं नृपस्य सूनुम् । सुरादिमान्यं हि भूमिदेवं ऋषिं चकार स्वपामहोभिः ॥ ७॥ अहो नागेन्द्रास्य कदास्मदीयं गृहं त्यक्त्वा त्वत्सुदयार्द्रदृष्ट्या । पयः सिन्धौ चारुतरं सुरत्नैः सहस्रद्वारं जगमा गृहं ते ॥ ८॥ स्मृतिमात्रेण विघ्नानां नाशकं कामपूरकम् । त्यक्त्वा शिवसुतं विप्रा माचिदन्यद्विशंसत ॥ ९॥ न रोचतेऽस्मभ्यमन्यदहो गणपते कुरु । अस्मांस्तथा तेऽनुदिनमनुस्तोमं मुदीमहि ॥ १०॥ श्रीः कल्याणैः स्वर्णैर्मणिभिः सुनिर्मितैः पादत्राणाद्यैः सुयुतैः सुलक्षणैः । तैर्हेरम्बागच्छ जवैः सुपाहि नः अश्वासो ये ते वृषणो रघुद्रुवः ॥ ११॥ बाधन्ते नितरां म्लेछा ब्राह्मणान् ब्रह्मणस्पते । तावका ये भटाः श्रेष्ठास्तेभिर्नस्तूर्यमागहि ॥ १२॥ यैर्यत्नैः पुरा जगत् गुप्तं तेऽधुना क्व ते । सत्या चेद्दयाब्धिता तेभिर्नोऽविता भव ॥ १३॥ संसारसिन्धौ पतितोऽस्मि नक्राः पुत्रादयो मां वितुदन्ति यस्मात् । अहो गणाधीश दयोदधिं त्वां कदामृळीकं सुमना अभिख्यम् ॥ १४॥ यस्य भ्रूभङ्गतः सर्गस्थित्यन्ता विलसन्ति हि । अहो गणपते तं त्वां क ईशानं न याचिषत् ॥ १५॥ हे नागेन्द्रास्येश्वरपुत्र नाथ यद्रत्नैः स्वर्णैर्जनितं त्विच्छातः । क्षीराब्धौ ते शोभनमस्ति मह्यं यन्धिष्माविप्रः स्तुवते वरूथम् ॥ १६॥ यन्मया मनसा वाचा कायेन दुरितं कृतम् । तस्मान्मोचय मां देव त्वं हि वेत्थ यथातथम् ॥ १७॥ अस्मान्यो द्वेष्टि सततं यं च द्विष्मो वयं सदा । अहो गणपते तूर्णं मा तस्योच्छेषि किञ्चन ॥ १८॥ मदीयषड्रिपून्कुतो न हंस्यहो गजानन । पुराङ्कुशेन विद्विषां शिरो बिभेद वृष्णिना ॥ १९॥ न ते गजेन्द्रास्यैतद्विचित्रं स्वतन्त्रता या ईश्वरतत्वाच्च । खलोऽपि नीचोऽप्येनोनिधिर्यः कृणोषि तं मर्त्येषु प्रशस्तम् ॥ २०॥ अहो गणेश भूमिपाः स्तुवत्सु काञ्चनप्रदाः । न लुब्धता शुभेश ते रयिं गृणत्सु धारय ॥ २१॥ मातामहमहाशैलं पितामहविवर्जितम् । कण्ठोपरि गजं वन्दे जगत्कारणमच्युतम् ॥ २२॥ यस्य मातामही मेना यस्य नास्ति पितामही । तं भालचन्द्रं वन्देऽहं प्रकृतेः पुरुषात्परम् ॥ २३॥ हे हेरम्ब तव हर्षः प्रकामं भक्ष्ये मोदकसमाख्ये मृदौ हि । नित्यानन्द सुरपालो भवान्वै किं मे हव्यमहृणाना जुषेत ॥ २४॥ वेदशास्त्राण्यधीत्य पुत्रादि उत्पाद्येष्ट्वा मखैर्गणाधीश । ज्ञानं सम्पाद्य सद्गुरोर्मुक्ताः घ्नन्तो वृत्राणि सूरिभिः स्याम ॥ २५॥ अहो दयोदधे सुपूर्णकाम सदा प्रमोदपूर्ण हे गणेश । सुभक्तितोयदर्पितं सुभद्रमर्यभोजनं बिभर्षि ॥ २६॥ वदन्त्यात्मेति हि वेदान्ता यां प्रधानं पुरुष इत्थं साङ्ख्याः । बभाषे हीश्वरमेनं योगः ऊरुज्योतिर्विविदुर्दीध्यानाः ॥ २७॥ मदीयान्कामान् गणेश प्रदातुं कस्यास्ति शक्तिः । स्वहस्तेनैव प्रदद्यात् महाहस्ती दक्षिणेन ॥ २८॥ बाल्यादौ स्वप्नादिकेऽस्माभिर्यत्कृतं वाचा तन्वा तेजसा चापि दुष्कृतं पापानां शत्रो दयाब्धे गजानन मानस्तस्मादेनसो देवरीरिषः ॥ २९॥ अहो गणाधीश सुरासुरेश्वरं सिद्ध्या च बुद्ध्योभयतश्च सेवितम् । सच्चित्सुखं त्वां सततं भजामहे कविं कवीनामुपमश्रवस्तमम् ॥ ३०॥ विधिविष्णू महेशः इतरे सर्वकार्ये । इभवक्त्रं नमन्ति नकिरेवा यथा त्वम् ॥ ३१॥ अहो हेरम्ब जगत्ससर्ज अरक्षद्यो ह्यथ सञ्जहार । अहं त्वामेव पूजयामि तमु ज्येष्ठं नमसा हविर्भिः ॥ ३२॥ अहो गणेश दूर्वादि भक्त्या यत्ते समर्पितम् । नित्यतृप्तोऽपि देवेश जुषस्व प्रसु मामव ॥ ३३॥ न साम्यं ते भविष्यति जगत्यां अये जिह्वे नमोऽस्तु ते यदि त्वम् । गजास्यं सिद्धिबुद्धिनायकं वै सुशेवं ब्रह्मणस्पतिं गृणीषे ॥ ३४॥ तथा कुरुष्व सिद्धिबुद्धिनाथ गजाननाय शम्भुबालकाय । सदा स्वभक्तपालकाय तुभ्यं यथा भवे मीळजुषे अनागाः ॥ ३५॥ भो हेरम्ब प्रीतियुतो गृहाण दूर्वां मोदकं सुशमीन्सुलाजान् । दीनेभ्यः सुदीनदयायुतस्त्वं अस्मभ्यं च सौभगमा यजस्व ॥ ३६॥ संसारसिन्धुतरणे न स्वल्पमपि नो भयम् । गणेश ते महानौकां भूरि नाम मनामहे ॥ ३७॥ अहो दन्त्यास्य श्रुतिर्न समर्था न वक्तुं देवगणाश्च समर्थाः । समर्थ्यैका शिवशक्तिरुमा ते प्र ते माता महिमानमुवाच ॥ ३८॥ अहो हेरम्ब त्वदीया वयं हि सुतैर्मित्रैः सम्भजाम । त्वदीयां पूजां मुदा सर्वदैव सुरत्नासो देववीतिं गमेम ॥ ३९॥ हे हेरम्ब वयं सर्वदैव त्वत्पूजां कलयामः स्तुतिं च । तस्मात्त्वं करुणाब्धे गणेश स्वावेशो अनमीवो भवा नः ॥ ४०॥ मत्तान् जनान् परिसन्त्यज्य देव भो सिद्धिबुद्धिपते दीनपाल । दुःखादिभिः सततं पीडिता यत्त्वेमहे प्रतितन्नो जुषस्व ॥ ४१॥ हे देवदेव मदीयं सुतादिकं धेन्वादिकं पशुजातं दयानिधे । अज्ञं त्वदीयसमर्चापराङ्मुखं शं नो भव द्विपदे शं चतुष्पदे ॥ ४२॥ शिवपुत्रं त्वां भक्त्या देव कलयामो नित्यं हेरम्ब । धनिनः साङ्ख्यज्ञानाढ्याश्च अजरासस्ते सख्ये स्याम ॥ ४३॥ खलान् प्रमत्तांस्तव भक्तिहीनान् हिताहितज्ञानविहीनचित्तान् । अहो गणाधीश दयासमुद्र पितेव पुत्रान्प्रति नो जुषस्व ॥ ४४॥ अहो गणाधीश पूजां त्वदीयां सदा करिष्यामि भक्त्या ततस्त्वम् । समागच्छ शीघ्रमारुह्य चाखुं इषं रयिं पप्रथद्वाजमस्मे ॥ ४५॥ चिन्तामणिं भालचन्द्रं महोदरं पुत्रस्येश्वरं भक्तपालकम् । भक्त्या सुचित्तेन तं भजाम्यहं प्रातर्भगं पूषणं ब्रह्मणस्पतिम् ॥ ४६॥ हे गिरिजासुत पूजां स्तोत्रं ध्यानमपीह कृत्वा ते देव । दानदयाव्रत यागाद्यन्ते तेन वयं भगवन्तः स्याम ॥ ४७॥ कुतो विलम्बं कुरुषे यदि त्वं दीनवत्सलः । आगच्छ सिद्धिबुद्धिभ्यां यदि स्तोमं मम श्रवत् ॥ ४८॥ हे हेरम्बाहं तव बालकोऽस्मि मद्वाण्यो याः सन्ति हि बालवाण्यः । आनन्दाढ्यं शम्भुसुतं सदा ताः वर्धन्तु त्वा सुष्टुतयो गिरो मे ॥ ४९॥ काव्योक्तदोषसहितं विनिन्द्यं स्तोत्रं त्विदं गणपते मयोक्तम् । हे देवदेव करुणासमुद्र सूक्तस्य बोधि तनयं च जिन्व ॥ ५०॥ अनेन प्रीयतां देवो भगवान् गिरिजासुतः । गजाननोऽयं पूर्वेषामस्माकं कुलदैवतम् ॥ ५१॥ खण्डराजेन रचिता गणेशलहरी शुभा । गणेशतुष्टिदा नित्यं वसतात् हृदये सताम् ॥ ५२॥ सम्पूज्य त्रिदशवरं गजाननं यो विघ्नेशस्तुतिलहरीं सदा पठेद्वै । क्षीराब्धौ करिमुखपादपद्मे आकल्पं स हि निवसेद्गजाननः ॥ ५३॥ नाम्ना गुणैश्चापि शिवैव माता तातः शेवस्त्र्यम्बकयज्वनामा । मल्लारिदेवः कुलदैवतं मे श्रीकौशिकस्यास्ति कुले च जन्म ॥ ५४॥ इति खण्डराजकृता गणेशवेदपादस्तुतिलहरी सम्पूर्णा । Proofread by Narendran Madathil
% Text title            : Ganesha Vedapadastutilahari
% File name             : gaNeshavedapAdastutilaharI.itx
% itxtitle              : gaNeshavedapAdastutilaharI (khaNDarAjakRitA)
% engtitle              : gaNeshavedapAdastutilaharI
% Category              : ganesha, stuti, laharI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Khandaraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Description/comments  : From Vighneshvara-stuti-manjari 4
% Indexextra            : (Scans 1, 2)
% Latest update         : October 10, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org