श्रीगजाननशरणागतिस्तवः
श्रीहरिहरशर्मकृतः
ॐ विनायकं नायकमेकमस्य धातारमादि जगतोऽप्यनादिम् ।
सदाशिवस्यापि शिवं दधानं गजाननं तं शरणं प्रपद्ये ॥ १॥
सत्याद्वयानन्द-घनस्वरूपं वेदान्तवाक्यैरधिगम्यमानम् ।
वाणीश गौरीश रमेश पूज्यं गजाननं तं शरणं प्रपद्ये ॥ २॥
यद्ब्रह्म जिज्ञासितमागमज्ञैः अनेकजन्मार्जित पुण्यपुञ्जैः ।
विवेकवैराग्यशमादियुक्तैः गजाननं तं शरणं प्रपद्ये ॥ ३॥
यतो बभूवेदमचिन्त्यरूपं मायामयं रज्जुभुजङ्गकल्पम् ।
यत्र स्थितं चाप्ययमेति विश्वं गजाननं तं शरणं प्रपद्ये ॥ ४॥
अक्षादिजन्यैरनवाप्यरूपं मानैश्च सर्वान्तरसंस्थितेशम् ।
शास्त्रैकयोनिं भवसिन्धुपोतं गजाननं तं शरणं प्रपद्ये ॥ ५॥
वेदान्तवाक्यान्यखिलानि देवे चिन्मात्ररूपेऽनुगतानि सम्यक् ।
अन्याश्रयाभावतया च यस्मिन् गजाननं तं शरणं प्रपद्ये ॥ ६॥
यं ब्रह्मसूत्रैरखिलैश्च वेदैः तथागमैस्सर्वपुराणवाक्यैः ।
जानन्त्यगस्त्यादि महामुनीन्द्राः गजाननं तं शरणं प्रपद्ये ॥ ७॥
यं ज्येष्ठराजं गणनाथनाथं ब्रह्मादिभिर्ब्रह्मतयानुभूतम् ।
कविं कवीनामुपमानहीनं गजाननं तं शरणं प्रपद्ये ॥ ८॥
उमापुरारातितनूजभूतं षडाननज्येष्ठमचिन्त्यशक्तिम् ।
षडूर्मिषड्भावषडीतिशून्यं गजाननं तं शरणं प्रपद्ये ॥ ९॥
गजासुरात्यर्दितदेवसङ्घान् त्रातुं त्रिलोकाञ्च दयापयोधिः ।
दधार माया गजराजरूपं गजाननं तं शरणं प्रपद्ये ॥ १०॥
धात्रादयो विश्वसृजो यमेव समर्चयित्वा सफला भवेयुः ।
कृत्येषु नो चेद् विफलाश्च मूढाः गजाननं तं शरणं प्रपद्ये ॥ ११॥
गोविन्दमुख्यास्त्रिपुरं न जेतुं शक्ता महेशं शरणं प्रपन्नाः ।
हरोऽप्यहंस्तं यदनुग्रहेण गजाननं तं शरणं प्रपद्ये ॥ १२॥
त्रिलोकमाता त्रिपुरारिपत्नी महागणेशं विधिवत्प्रपूज्य ।
भण्डासुरं दैत्यपतिं जघान गजाननं तं शरणं प्रपद्ये ॥ १३॥
वक्राणि विघ्नानि निहन्ति सेवापरस्य तुण्डेन हि वक्रतुण्डः ।
वदन्ति विघ्नेश्वरमागमज्ञाः गजाननं तं शरणं प्रपद्ये ॥ १४॥
पाशेषुचक्रोत्पलबीजपूरगदारुजाव्रीहि विषाण पद्मैः ।
सवल्लभं रत्नघटेन युक्तं गजाननं तं शरणं प्रपद्ये ॥ १५॥
जन्मान्तरानेक कृतानि यन्मे पापान्यथास्मिन् करणैस्त्रिभिश्च ।
तेषां प्रशान्त्यै भवबन्धमुक्त्यै गजाननं तं शरणं प्रपद्ये ॥ १६॥
त्वमेव माता जनको गुरुश्च भ्राता सखा बन्धुजनो महेश ।
दासस्तवाहं भवदंशकञ्च त्वमेव चाहं परमार्थ दृष्ट्या ॥ १७॥
त्वामेकदन्तं प्रवदन्ति वेदाः अनेकदं दीनजनानुरक्तम् ।
याचे भवन्तं वरमेकमेव सदा रतिं त्वच्चरणारविन्दे ॥ १८॥
धनं कळत्रं वसुधाधिपत्यं कलानिधित्वं कमनीयगात्रम् ।
याचे न चाहं भगवन्ममैव स्वाभाविकस्वात्मसुखं प्रयच्छ ॥ १९॥
पुराणवेदागमसूत्रवाक्यैः अनाप्तमानस्य महा महिम्नः ।
मद्वाग्विशुद्ध्यै स्तवनं कृतं यत् तद्क्षामये त्वां जगदेकनाथ ॥ २०॥
स्तवं गजाननस्येदं कृतं हरिहरेण यत् ।
तुष्यतां तेन सर्वात्मा सच्चिद्रूपो विनायकः ॥ २१॥
(ब्रह्मसूत्र-चतुःसूत्रीमनुसरति)
इति श्रीहरिहरशर्मकृतः श्रीगजाननशरणागतिस्तवः सम्पूर्णः ।
Proofread by Narendran Madathil