नारदमुनिकृता लम्बोदरस्तुतिः

नारदमुनिकृता लम्बोदरस्तुतिः

॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते गणनाथाय लम्बोदरधराय च । गजवक्त्राय सर्वेषां नमः पूज्याय ते नमः ॥ २३॥ स्वानन्दपतये तुभ्यं सर्वस्वानन्ददायिने । अनाथाय च सर्वेषां नायकाय नमो नमः ॥ २४॥ नमो विघ्नेश्वरायैव भक्तविघ्नविनाशिने । अभक्तानां महाविघ्नकारकाय नमो नमः ॥ २५॥ उत्पत्तिस्थितिसंहारहीनाय सर्वरूपिणे । अनादये परेशाय महोदर नमोऽस्तु ते ॥ २६॥ मायिनां मोहकायैव मायाविने परात्मने । सर्वसिद्धिप्रदायैव नानाविद्याकलात्मने ॥ २७॥ अपाराननरूपायापारहस्तपदाय च । गुणेशाय गुणानां ते चालकाय नमो नमः ॥ २८॥ आदिमध्यान्तरूपायादिमध्यान्तस्वरूपिणे । अनाकाराय ते चाकारयुक्ताय नमो नमः ॥ २९॥ ज्येष्ठराजाय ज्येष्ठानां पतये सर्वदायिने । आदिपूज्याय चान्ते ते संस्थिताय नमो नमः ॥ ३०॥ नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो । सम्भूतमुदरात्ते वै तेन लम्बोदरो भवान् ॥ ३१॥ तवोदरभवाः सर्वे त्वं न कस्योदरोद्भवः । तेन लम्बोदरोऽसि त्वं लम्बोदर नमोऽस्तु ते ॥ ३२॥ सर्वेषामुदराणां त्वं पारं जानासि विघ्नप । उदरस्य न कस्तेऽपि पारं जानाति ते नमः ॥ ३३॥ एतादृशोऽयमानन्दानामानन्दप्रदायकः । प्रत्यक्षं दृष्टिगो जातोऽस्माकं धन्या वयं ततः ॥ ३४॥ मनोवाणीविहीनो न मनोवाणीमयो न च । लम्बोदरः समायात आश्चर्यं भाति ते नमः ॥ ३५॥ किं स्तुवीमः गणेशानं यत्र वेदादयः प्रभो । शान्तिं प्राप्ता वयं तत्र नः प्रसीद नमो नमः ॥ ३६॥ एवमुक्त्वा सुराः सर्वे ननृतुर्मुनयस्तथा । तानुवाच गणेशानो मेघगम्भीरनिःस्वनः ॥ ३७॥ (फलश्रुतिः) लम्बोदर उवाच । वरं ब्रूत महाभागा देवेन्द्रा मुनयोऽमलाः । तपसा मनसाऽभीष्टं भक्त्या तुष्टो ददाम्यहम् ॥ ३८॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । पठते श‍ृण्वते चेहामुत्र सौख्यप्रदं परम् ॥ ३९॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । नानासिद्धिप्रदं चास्तु मम भक्तिविवर्धनम् ॥ ४०॥ इति नारदमुनिकृता लम्बोदरस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः ५ । ५.५। २३-४०॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 5 . 5.5. 23-40.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Lambodara Stuti Naradamunikrita
% File name             : lambodarastutiHnAradamunikRRitA.itx
% itxtitle              : lambodarastutiH nAradamunikRitA (mudgalapurANAntargatA)
% engtitle              : lambodarastutiH nAradamunikRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 5 | 5.5. 23-40||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org