श्रीमहागणपति मन्त्रविग्रहकवचम्
ॐ अस्य श्रीमहागणपतिमन्त्रविग्रहकवचस्य ।
श्रीशिव ऋषिः । देवीगायत्री छन्दः । श्री महागणपतिर्देवता ।
ॐ श्रीँ ह्रीँ क्लीँ ग्लौँ गँ बीजानि ।
गणपतये वरवरदेति शक्तिः ।
सर्वजनं मे वशमानय स्वाहा कीलकम् ।
श्री महागणपतिप्रसादसिद्ध्यते जपे विनियोगः ।
ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः - हृदयाय नमः ।
ग्लौँ गँ गणपतये तर्जनीभ्यां नमः - शिरसे स्वाहा ।
वरवरद मध्यमाभ्यां नमः - शिखायै वषट् ।
सर्वजनं मे अनामिकाभ्यां नमः - कवचाय हुँ ।
वशमानय कनिष्ठिकाभ्यां नमः - नेत्रत्रयाय वौषट् ।
स्वाहा करतल करपृष्ठाभ्यां नमः - अस्त्राय फट् ।
ध्यानम् -
बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
पायाद्वल्लभया सपद्मकरयाश्लिष्टोज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ।
(इति ध्यात्वा । लँ इत्यादि मानसोपचारैः सम्पूजयेत्)
ॐ ओङ्कारो मे शिरः पातु श्रीँकारः पातु भालकम् ।
ह्रीँ बीजं मे ललातेऽव्यात् क्लीँ बीजं भ्रूयुगं मम ॥ १॥
ग्लौँ बीजं नेत्रयोः पातु गँ बीजं पातु नासिकाम् ।
गँ बीजं मुखपद्मेऽव्याद् महासिद्धिफलप्रदम् ॥ २॥
णकारो दन्तयोः पातु पकारो लम्बिकां मम ।
तकारः पातु मे ताल्वोर्येकार ओष्ठयोर्मम ॥ ३॥
वकारः कण्ठदेशेऽव्याद् रकारश्चोपकण्ठके ।
द्वितीयस्तु वकारो मे हृदयं पातु सर्वदा ॥ ४॥
रकारस्तु द्वितीयो वै उभौ पार्श्वौ सदा मम ।
दकार उदरे पातु सकारो नाभिमण्डले ॥ ५॥
र्वकारः पातु मे लिङ्गं जकारः पातु गुह्यके ।
नकारः पातु मे जङ्घे मेकारो जानुनोर्द्वयोः ॥ ६॥
वकारः पातु मे गुल्फौ शकारः पादयोर्द्वयोः ।
माकारस्तु सदा पातु दक्षपादाङ्गुलीषु च ॥ ७॥
नकारस्तु सदा पातु वामपादाङ्गुलीषु च ।
यकारो मे सदा पातु दक्षपादतले तथा ॥ ८॥
स्वाकारो ब्रह्मरूपाख्यो वामपादतले तथा ।
हाकारः सर्वदा पातु सर्वाङ्गे गणपः प्रभुः ॥ ९॥
पूर्वे मां पातु श्रीरुद्रः श्रीँ ह्रीँ क्लीँ फट् कलाधरः ।
आग्नेय्यां मे सदा पातु ह्रीँ श्रीँ क्लीँ लोकमोहनः ॥ १०॥
दक्षिणे श्रीयमः पातु क्रीँ ह्रँ ऐँ ह्रीँ ह्स्रौँ नमः ।
नैरृत्ये निरृतिः पातु आँ ह्रीँ क्रोँ क्रोँ नमो नमः ॥ ११॥
पश्चिमे वरुणः पातु श्रीँ ह्रीँ क्लीँ फट् ह्स्रौँ नमः ।
वायुर्मे पातु वायव्ये ह्रूँ ह्रीँ श्रीँ ह्स्फ्रेँ नमो नमः ॥ १२॥
उत्तरे धनदः पातु श्रीँ ह्रीँ श्रीँ ह्रीँ धनेश्वरः ।
ईशान्ये पातु मां देवो ह्रौँ ह्रीँ जूँ सः सदाशिवः ॥ १३॥
प्रपन्नपारिजाताय स्वाहा मां पातु ईश्वरः ।
ऊर्ध्वं मे सर्वदा पातु गँ ग्लौँ क्लीँ ह्स्रौँ नमो नमः ॥ १४॥
अनन्ताय नमः स्वाहा अधस्ताद्दिशि रक्षतु ।
पूर्वे मां गणपः पातु दक्षिणे क्षेत्रपालकः ॥ १५॥
पश्चिमे पातु मां दुर्गा ऐँ ह्रीँ क्लीँ चण्डिका शिवा ।
उत्तरे वटुकः पातु ह्रीँ वँ वँ वटुकः शिवः ॥ १६॥
स्वाहा सर्वार्थसिद्धेश्च दायको विश्वनायकः ।
पुनः पूर्वे च मां पातु श्रीमानसितभैरवः ॥ १७॥
आग्नेय्यां पातु नो ह्रीँ ह्रीँ हृँ क्रोँ क्रोँ रुरुभैरवः ।
दक्षिणे पातु मां क्रौँ क्रोँ ह्रैँ ह्रैँ मे चण्डभैरवः ॥ १८॥
नैरृत्ये पातु मां ह्रीँ हूँ ह्रौँ ह्रौँ ह्रीँ ह्स्रैँ नमो नमः ।
स्वाहा मे सर्वभूतात्मा पातु मां क्रोधभैरवः ॥ १९॥
पश्चिमे ईश्वरः पातु क्रीँ क्लीँ उन्मत्तभैरवः ।
वायव्ये पातु मां ह्रीँ क्लीँ कपाली कमलेक्षणः ॥ २०॥
उत्तरे पातु मां देवो ह्रीँ ह्रीँ भीषणभैरवः ।
ईशान्ये पातु मां देवः क्लीँ ह्रीँ संहारभैरवः ॥ २१॥
ऊर्ध्वं मे पातु देवेशः श्रीसम्मोहनभैरवः ।
अधस्ताद् वटुकः पातु सर्वतः कालभैरवः ॥ २२॥
इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् ।
गोपनीयं प्रयत्नेन यदीच्छेदात्मनः सुखम् ॥ २३॥
कवचस्य च दिव्यस्य सहस्रावर्तनान्नरः ।
देवतादर्शनं सद्यो लभते न विचारणा ॥ २४॥
इति श्रीमहागणपति मन्त्रविग्रहकवचं सम्पूर्णम् ।
Encoded and proofread by Krishna Vallapareddy krishna321 at hotmail.com