महागणपतिसहस्रनामावलिः २

महागणपतिसहस्रनामावलिः २

(रुद्रयामलतन्त्रे देवीरहस्ये महागणपतिसहस्रनामस्तोत्रव्युत्पन्ना) ॐ ह्रीं श्रीं क्लीं गणाध्यक्षाय नमः । ग्लौं गं गणपतये । गुणिने । गुणाद्याय । निर्गुणाय । गोप्त्रे । गजवक्त्राय । विभावसवे । विश्वेश्वराय । विभादीप्ताय । दीपनाय । धीवराय । धनिने । सदाशान्ताय । जगत्ताताय । विश्वक्सेनाय । विभाकराय । विस्रम्भिने । विजयिने । वैद्याय । वारान्निधये । अनुत्तमाय । अणीयते । विभविने । श्रेष्ठाय । ज्येष्ठाय । गाथाप्रियाय । गुरवे । सृष्टिकर्त्रे । जगद्धर्त्रे । विश्वभर्त्रे । जगन्निधये । पतये । पीतविभूषाङ्गाय । रक्ताक्षाय । लोहिताम्बराय । विरूपाक्षाय । विमानस्थाय । विनयाय । सनयाय । सुखिने । सुरूपाय । सात्त्विकाय । सत्याय । शुद्धाय । शङ्करनन्दनाय । नन्दीश्वराय । सदा(जया)नन्दिने । वन्दि(न्दी)स्तुत्याय । विचक्षणाय । दैत्यमर्दिने । मदाक्षीबाय । मदिरारुणलोचनाय । सारात्मने । विश्वसाराय । विश्वचारिणे । विलेपनाय । परंब्रह्मणे । परञ्ज्योतये । साक्षिणे । त्र्यक्षाय । विकत्थनाय । वीरेश्वराय । वीरहर्त्रे । सौभाग्याय । भाग्यवर्धनाय । भृङ्गिरीटिने । भृङ्गमालिने । भृङ्गकूजिताय । भृङ्गनादिताय । विनर्तकाय । विनेत्रे (विनेतापिने) । विनतानन्दनार्चिताय । वैनतेयाय । विनम्राङ्गाय । विश्वनेत्रे । विनायकाय । विराटकाय । विराटाय । विदग्धाय । विधिरात्मभुवे । पुष्पदन्ताय । पुष्पहारिणे । पुष्पमालाविभूषणाय । पुष्पेषुर्मथनाय । पुष्टाय । विकर्त्रे । कर्तरीकराय । अन्त्याय । अन्तकाय । चित्तगणाय । चित्ताय । चिन्तापहारकाय । अचिन्त्याय । अचिन्त्यरूपाय । चन्दनाकुलाय । मुण्डकाय । लिपिताय । लोहिताय । लुप्ताय नमः । १०० ॥ ॐ लोहिताक्षाय नमः । विलोभकाय । लुब्धाशयाय । लोभरताय । लाभदाय । अलङ्घ्यगात्रकाय । सुन्दराय । सुन्दरीपुत्राय । समस्तासुरघातना(का)य । नूपुराढ्याय । विभवदाय । नराय । नारायणाय । रवये । विचारिणे । वान्तदाय । वाग्मिने । वितर्किने । विजयेश्वराय । सुप्ताय । बुद्धाय । सदारूपाय । सुखदाय । सुखसेविताय । विकर्तनाय । वियच्चारिणे । विनटाय । नर्तकाय । नटाय । नाट्याय । नाट्यप्रियाय । नादाय । अनन्ताय । अनन्तगुणात्मकाय । विश्वभुवे । विश्वघातिने । विनतास्याय । विनर्तकाय । करालाय । कामदाय । कान्ताय । कमनीयाय । कलाधराय । कारुण्यरूपाय । कुटिलाय । कुलाचारिणे । कुलेश्वराय । विकरालाय । गणश्रेष्ठाय । संहाराय । हारभूषणाय । रुरवे । रम्यमुखाय । रक्ताय । रेवतीदयिताय । रसाय । महाकालाय । महादंष्ट्राय । महोरगभयापहाय । उन्मत्तरूपाय । कालाग्नये । अग्निसूर्येन्दुलोचनाय । सितास्याय । सितमाल्याय । सितदन्ताय । सितांशुमते । असितात्मने । भैरवेशाय । भाग्यवते । भगवते । भगाय । भर्गात्मजाय । भगावासाय । भगदाय । भगवर्धनाय । शुभङ्कराय । शुचये । शान्ताय । श्रेष्याय । श्रव्याय । शचीपतये । वेदाद्याय । वेदकर्त्रे । वेदवेद्याय । सनातनाय । विद्याप्रदाय । वेदसाराय । वैदिकाय । वेदपारगाय । वेदध्वनिरताय । वीराय । वराय । वेदागमार्थविदे । तत्त्वज्ञाय । सवर्गाय । साधवे । सदे । असन्मयाय । निरामयाय । निराकाराय नमः । २०० ॥ ॐ निर्भयाय नमः । नित्यरूपभृते । निर्वैराय । वैरिविध्वंसिने । मत्तवारणसन्निभाय । शिवङ्कराय । शिवसुताय । शिवाय । सुखविवर्धनाय । श्वैत्याय । श्वेताय । शतमुखाय । मुग्धाय । मोदकभोजनाय । देवदेवाय । दिनकराय । धृतिमते । द्युतिमते । धवाय । शुद्धात्मने । शुद्धमतिमते । शुद्धदीप्तये । शुचिव्रताय । शरण्याय । शौनकाय । शूराय । शरदम्भोजधारकाय । दारकाय । शिखिवाहेष्टाय । शीताय । शङ्करवल्लभाय । शङ्कराय । निर्भवा(या)य । नित्याय । लयकृताय । लास्यतत्पराय । लूताय । लीलारसोल्लासिने । विलासिने । विभ्रमाय । भ्रमाय । भ्रमणाय । शशभृते । सूर्याय । शनये । धरणिनन्दनाय । बुद्धाय । विबुधसेव्याय । बुधराजाय । बलन्धराय । जीवाय । जीवप्रदाय । जैत्राय । स्तुत्याय । नुत्याय । नतिप्रियाय । जनकाय । जिनमार्गज्ञाय । जैनमार्गनिवर्तकाय । गौरीसुताय । गुरुरवाय । गौराङ्गाय । गजपूजिताय । परंपदाय । परंधामाय । परमात्मने । कवये । कुजाय । राहवे । दैत्यशिरश्छेदिने । केतवे । कनककुण्डलाय । ग्रहेन्द्राय । ग्राहिताय । ग्राह्याय । अग्रणये । घुर्घुरनादिताय । पर्जन्याय । पीवराय । पोत्रिने । पीनवक्षाय । परार्जिताय । वनेचराय । वनपतये । वनवासाय । स्मरोपमाय । पुण्याय । पूताय । पवित्राय । परात्मने । पूर्णविग्रहाय । पूर्णेन्दवे । शकलाकाराय । मन्यवे । पूर्णमनोरथाय । युगात्मने । युगभृते । यज्वाय । याज्ञिकाय । यज्ञवत्सलाय नमः । ३०० ॥ ॐ यशस्विने नमः । यजमानेष्टाय । व्रजभृते । वज्रपञ्जराय । मणिभद्राय । मणिमयाय । मान्याय । मीनध्वजाश्रिताय । मीनध्वजाय । मनोहारिणे । योगिनां योगवर्धनाय । द्रष्ट्रे । स्रष्ट्रे । तपस्विने । विग्रहिणे । तापसप्रियाय । तपोमयाय । तपोमूर्तये । तपनाय । तपोधनाय । रुचकाय । मोचकाय । रुष्टाय । तुष्टाय । तोमरधारकाय । दण्डिने । चण्डांशवे । अव्यक्ताय । कमण्डलुधराय । अनघाय । कामिने । कर्मरताय । कालाय । कोलाय । क्रन्दितदिक्तटाय । भ्रामकाय । जातिपूज्याय । जाड्यघ्ने । जडसूदनाय । जालन्धराय । जगद्वासिने । हासकृते । हवनाय । हवये । हविष्मते । हव्यवाहाक्षाय । हाटकाय । हाटकाङ्गदाय । सुमेरवे । हिमवते । होत्रे । हरपुत्राय । हलङ्कषाय । हालाप्रियाय । हृदाशान्ताय । कान्ताहृदयाय । पोषणाय । शोषणाय । क्लेशघ्ने । क्रूराय । कठोराय । कठिनाकृतये । कूवराय । धीमयाय । ध्यात्रे । ध्येयाय । धीमते । दयानिधये । दविष्ठाय । दमनाय । द्युस्थाय । दात्रे । त्रात्रे । सिताय । समाय । निर्गताय । नैगमिने । गम्याय । निर्जेयाय । जटिलाय । अजराय । जनजीवाय । जितारातिने । जगद्व्यापिने । जगन्मयाय । चामीकरनिभाय । अनाद्याय । नलिनायतलोचनाय । रोचनाय । मोचनाय । मन्त्रिणे । मन्त्रकोटिसमाश्रिताय । पञ्चभूतात्मकाय । पञ्चसायकाय । पञ्चवक्त्रकाय । पञ्चमाय । पश्चिमाय । पूर्वाय । पूर्णाय । कीर्णालकाय नमः । ४०० ॥ ॐ कुणये नमः । कठोरहृदयाय । ग्रीवालङ्कृताय । ललिताशयाय । लोलचित्ताय । बृहन्नासाय(सिने) । मासरूपाय(पवते) । पक्षरूपाय(पवते) । ऋतुरूपाय(पवते) । ध्रुवाय । द्रुतगतये । धर्म्याय । धर्मिने । नाकिप्रियाय । अनलाय । अगस्त्याय । ग्रस्तभुवनाय । भुवनैकमलापहाय । सागराय । स्वर्गतये । स्वक्षाय । सानन्दाय । साधुपूजिताय । सतीपतये । समरसाय । सनकाय । सरलाय । सुराय । सुराप्रियाय । वसुपतये । वासवाय । वसुपूजिताय । वित्तदाय । वित्तनाथाय । धनिनां धनदायकाय । राजिने । राजीवनयनाय । स्मृतिदाय । कृत्तिकाम्बराय । आश्विनाय । अश्वमुखाय । शुभ्राय । भरणाय । भरणीप्रियाय । कृत्तिकासनगाय । कोलाय । रोहिणे । रोहणपादुकाय । ऋभुवेष्टाय । अरिमर्दिने । रोहिणीमोहनाय । अमृताय । मृगराजाय । मृगशिराय(रसे) । माधवाय । मधुरध्वनये । आर्द्राननाय । महाबुद्धये । महोरगविभूषणाय । भ्रूक्षेपदत्तविभवाय । भ्रूकरालाय । पुनर्मयाय । पुनर्देवाय । पुनर्जेत्रे । पुनर्जीवाय । पुनर्वसवे । तित्तिरये(राय) । तिमिकेतवे । तिमिचारकघातनाय । तिष्यस्तुलाधराय । जम्भ्यो । विश्लेषाय । (अ)श्लेषाय । एणराजे । मानदाय । माधवाय । माघाय । वाचालाय । मघवोपमाय । मेध्याय । मघाप्रियाय । मेघाय । महामुण्डाय । महाभुजाय । पूर्वफाल्गुनिकाय । स्फीताय । फल्गुरुत्तराय । फाल्गुनाय । फेनिलाय । ब्रह्मदाय । ब्रह्मणे । सप्ततन्तुसमाश्रयाय । घोणाहस्ताय । चतुर्हस्ताय । हस्तिवक्त्राय । हलायुधाय । चित्राम्बराय । अर्चितपदाय । स्वादिताय । स्वातिविग्रहाय नमः । ५०० ॥ ॐ विशाखाय नमः । शिखिसेव्याय । शिखिध्वजसहोदराय । अणवे । रेणवे । कलास्फाराय । अनूरुवे । रेणुसुताय । नराय । अनुराधाप्रियाय । राध्याय । श्रीमते । शुक्ला(क्रा)य । शुचिस्मिताय । ज्येष्ठाय । श्रेष्ठार्चितपदाय । मूलाय । त्रिजगते(ताय) । गुरवे । शुचये । पूर्वाषाढाय । उत्तराषाढाय । ईश्वराय । श्रव्याय । अभिजिताय । अनन्तात्मने । श्रवाय । वेपितदानवाय । श्रावणाय । श्रवणाय । श्रोत्रे । धनिने । धन्याय । धनिष्ठकाय । शातातपाय । शातकुम्भाय । शतञ्ज्योतये । शतम्भिषजे । पूर्वाभाद्रपदाय । उत्तरभाद्रपदाय । भाद्रपादिताय । रेणुकातनयाय । रामाय । रेवतीरमणाय । रमिणे । अश्वियुजे । कार्तिकेयेष्टाय । मार्गशीर्षाय । मृगोत्तमाय । पुष्यशौर्याय । फाल्गुनात्मने । वसन्ताय । चित्रकाय । मधवे । राज्यदाय । अभिजितात्मीयाय । तारेशाय । तारकद्युतये । प्रतीताय । प्रोज्झिताय । प्रीताय । परमाय । पारमाय । हिताय । परघ्ने । पञ्चभुवे । पञ्चवायवे । पूज्याय । परंमहाय । पुराणागमविदे । योग्याय । महिषाय । रासभाय । अग्रगाय । ग्राहाय । मेषाय । वृषाय । मन्दाय । मन्मथाय । मिथुनार्चिताय । कल्कभृते । कटकाय । दीनाय । मर्कटाय । कर्कटाय । घृणिने । कुक्कुटाय । वनजाय । हंसाय । परंहंसाय । श‍ऋगालकाय । सिंहाय । सिंहासनाय । मूषाय । मोह्याय । मूषकवाहनाय । पुत्रदाय । नरकत्रात्रे । कन्याप्रीताय । कुलोद्वहाय नमः । ६०० ॥ ॐ अतुल्यरूपाय नमः । बलदाय । तुलाभृते । तुल्यसाक्षिकाय । अलिचापधराय । धन्विने । कच्छपाय । मकराय । मणये । स्थिराय । प्रभवे । महाकर्मिणे । महाभोगिने । महायशसे । वसुमूर्तिधराय । व्यग्रोऽसुरहारिणे । यमान्तकाय । देवाग्रणये । गणाध्यक्षाय । अम्बुजालाय । महामतये । अङ्गदिने । कुण्डलिने । भक्तिप्रियाय । भक्तविवर्धनाय । गाणपत्यप्रदाय । मायिने । वेदवेदान्तपारगाय । कात्यायनीसुताय । ब्रह्मपूजिताय । विघ्ननाशनाय । संसारभयविध्वंसिने । महोरस्काय । महीधराय । विघ्नान्तकाय । महाग्रीवाय । भृशाय । मोदकमोदिताय । वाराणसीप्रियाय । मानिने । गहनाय । आखुवाहनाय । गुहाश्रयाय । विष्णुपदीतनयाय । स्थानदाय । ध्रुवाय । परर्द्धिस्तुष्टाय । विमलाय । मौलिमते । वल्लभाप्रियाय । चतुर्दशीप्रियाय । मान्याय । व्यवसायाय । मदान्विताय । अचिन्त्याय । सिंहयुगलनिविष्टाय । बालरूपधृते । धीराय । शक्तिमतां श्रेष्ठाय । महाबलसमन्विताय । सर्वात्मने । हितकृते । वैद्याय । महाकुक्षये । महामतये । करणाय । मृत्युहारिणे । पापसङ्घनिवर्तकाय । उद्भिदे । वज्रिणे । महादैत्यसूदनाय । दीनरक्षकाय । भूतचारिणे । प्रेतचारिणे । बुद्धिरूपाय । मनोमयाय । अहङ्कारवपवे । साङ्ख्यपुरुषाय । त्रिगुणात्मकाय । तन्मात्ररूपाय । भूतात्मने । इन्द्रियात्मने । वशीकराय । मलत्रयबहिर्भूताय । अवस्थात्रयवर्जिताय । नीरूपाय । बहुरूपाय । किन्नराय । नागाय । विक्रमाय । एकदन्ताय । महावेगाय । सेनानिने । त्रिदशाधिपाय । विश्वकर्त्रे । विश्वबीजाय । श्रीःसम्पदाय । ह्रीःधृतये । मतये । सर्वशोषकराय नमः । ७०० ॥ ॐ वायवे नमः । सूक्ष्मरूपाय । सुनिश्चलाय । संहर्त्रे । सृष्टिकर्त्रे । स्थितिकर्त्रे । लयाश्रिताय । सामान्यरूपाय । सामास्याय । अथर्वशीर्षाय । यजुर्भुजाय । ऋगीक्षणाय । काव्यकर्त्रे । शिक्षाकारिणे । निरुक्तविदे । शेषरूपधराय । मुख्याय । शब्दब्रह्मस्वरूपभाजे । विचारवते । शङ्खधारिणे । सत्यव्रतपरायणाय । महातपे । घोरतपे । सर्वदाय । भीमविक्रमाय । सर्वसम्पत्कराय । व्यापिने । मेघगम्भीरनादभृते । समृद्धाय । भूतिदाय । भोगिने । वेशिने । शङ्करवत्सलाय । शम्भुभक्तिरताय । मोक्षदात्रे । भवदवानलाय । सत्यस्तपा । ध्येयमूर्तये । कर्ममूर्तये । महते । समष्टिरूपाय । व्यष्टिरूपाय । पञ्चकोशपराङ्मुखाय । तेजोनिधये । जगन्मूर्तये । चराचरवपुर्धराय । प्राणदाय । ज्ञानमूर्तये । नादमूर्तियुताय । अक्षराय । भूताद्याय । तैजसाय । भावाय । निष्कलाय । निर्मलाय । कूटस्थाय । चेतनाय । रुद्राय । क्षेत्रविदे । पुरुषाय । बुधाय । अनाधाराय । अनाकाराय । धात्रे । विश्वतोमुखाय । अप्रतर्क्यवपवे । स्कन्दानुजाय । भानवे । महाप्रभाय । यज्ञहर्त्रे । यज्ञकर्त्रे । यज्ञानां फलदायकाय । यज्ञगोप्त्रे । यज्ञमयाय । दक्षयज्ञविनाशकृते । वक्रतुण्डाय । महाकायाय । कोटिसूर्यसमप्रभाय । एकदंष्ट्राय । कृष्णपिङ्गाय । विकटाय । धूम्रवर्णकाय । टङ्कधारिणे । जम्बुकाय । नायकाय । शूर्पकर्णकाय । सुवर्णगर्भाय । सुमुखाय । श्रीकराय । सर्वसिद्धिदाय । सुवर्णवर्णाय । हेमाङ्गाय । महात्मने । चन्दनाय । छवये । स्वङ्गाय । स्वक्षाय । शतानन्दाय । लोकविग्रहाय । विल्लोकविग्रहाय नमः । ८०० ॥ ॐ इन्द्राय नमः । जिष्णवे । धूमकेतवे । वह्नये । पूज्याय । दवान्तकाय । पूर्णानन्दाय । परानन्दाय । पुराणाय । पुरुषोत्तमाय । कुम्भभृते । कलशिने । कुब्जाय । मीनमांससुतर्पिताय । राशिमयस्थितिरूपाय । तारामयस्थितिरूपाय । ग्रहमयस्तिथिरूपाय । जगद्विभवे । प्रतापिने । प्रतिपत्प्रेयते । द्वितीयाय । अद्वैतनिश्चिताय । त्रिरूपाय । तृतीयाग्नये । त्रयीरूपाय । त्रयीतनवे । चतुर्थीवल्लभाय । देवाय । पारगाय । पञ्चमीरवाय । षड्रसास्वादकाय । अजाताय । षष्ठिने । षष्टिकवत्सराय । सप्तार्णवगतये । साराय । सप्तमीश्वराय । ईहिताय । अष्टमीनन्दनाय । अनार्तो । नवमीभक्तिभाविताय । दशदिक्पतिपूज्याय । दशमिने । द्रुहिणाय । द्रुताय । एकादशात्मने । गणपाय । द्वादशीयुगचर्चिताय । त्रयोदशमनुस्तुत्याय । चतुर्दशसुरप्रियाय । चतुर्दशेन्द्रसंस्तुत्याय । पूर्णिमानन्दविग्रहाय । दर्शादर्शाय । दर्शनाय । वानप्रस्थाय । मुनीश्वराय । मौनिने । मधुरवाङ्मूलाय । मूर्तिमते । मेघवाहनाय । महागजाय । जितक्रोधाय । जितशत्रवे । जयाश्रयाय । रौद्राय । रुद्रप्रियाय । रुक्माय । रुद्रपुत्राय । अघतापनाय । भवप्रियाय । भवानीष्टाय । भारभृते । भूतभावनाय । गान्धर्वकुशलाय । अकुण्ठाय । वैकुण्ठाय । विष्णुसेविताय । वृत्रघ्ने । विघ्नघ्ने । सीराय । समस्तदुरितापहाय । मञ्जुलाय । मार्जनाय । मत्ताय । दुर्गापुत्राय । दुरालसाय । अनन्तचित्सुधाधाराय । वीराय । वीर्यैकसाधकाय । भास्वन्मुकुटमाणिक्याय । कूजत्किङ्किणिजालकाय । शुण्डाधारिणे । तुण्डचलाय । कुण्डलिने । मुण्डमालकाय । पद्माक्षाय । पद्महस्ताय । पद्मनाभसमर्चिताय । उद्गीथाय । नरदन्ताढ्यमालाभूषणभूषिताय नमः । ९०० ॥ ॐ नारदाय नमः । वारणाय । लोलश्रवणाय । शूर्पकश्रवाय । बृहदुल्लासनासाढ्यव्याप्तत्रैलोक्यमण्डलाय । इलामण्डलसम्भ्रान्तकृतानुग्रहजीवकाय । बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटाय । बृहदास्यरवाक्रान्तभीमब्रह्माण्डभाण्डकाय । बृहत्पादसमाक्रान्तसप्तपातालवेपिताय । बृहद्दन्तकृतात्युग्ररणानन्दरसालसाय । बृहद्धस्तधृताशेषायुधनिर्जितदानवाय । स्फुरत्सिन्दूरवदनाय । स्फुरत्तेजोऽग्निलोचनाय । उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादिताय । चलत्तोयप्रवाहाढ्यनदीजलकणाकुलाय । भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहाय । ब्रह्माच्युतमहारुद्रपुराय । सरसुरार्चिताय । अशेषशेषप्रभृतिव्यालजालोपसेविताय । गूर्जत्पञ्चाननारावप्राप्ताकाशधरातलाय । हाहाहूहूकृतात्युग्रसुरविभ्रान्तमानसाय । पञ्चाशद्वर्णबीजाढ्यमन्त्रमन्त्रितविग्रहाय । वेदान्तशास्त्रपीयूषधाराप्लावितभूतलाय । शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलाय । चिन्तामणये । महामल्लाय । भल्लहस्ताय । बलये । कलये । कृतत्रेतायुगोल्लासभासमानजगत्त्रयाय । द्वापराय । परलोकैककर्मध्वान्तसुधाकराय । सुधासिक्तवपुर्व्याप्तब्रह्माण्डादिकटाहकाय । अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलाय । अकाराकारप्रोद्गीततारनादनिनादिताय । इकारेकारमन्त्राढ्यमालाभ्रमणलालसाय । उकारोकारप्रोद्गारिघोरनागोपवीतकाय । ऋवर्णाङ्कितॠकारपद्मद्वयसमुज्ज्वलाय । लृकारयुतलॄकारशङ्खपूर्णदिगन्तराय । एकारैकारगिरिजास्तनपानविचक्षणाय । ओकारौकारविश्वादिकृतसृष्टिक्रमालसाय । अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलाय । कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जराय । खगेशध्वजरत्नाङ्ककिरीटारुणपादकाय । गर्विताशेषगन्धर्वगीततत्परश्रोत्रकाय । घनवाहनवागीशपुरःसरसुरार्चिताय । ङवर्णामृतधाराढ्यशोभमानैकदन्तकाय । चन्द्रकुङ्कुमजम्बाललिप्तसुन्दरविग्रहाय । छत्रचामररत्नाढ्यमुकुटालङ्कृताननाय । जटाबद्धमहानर्घमणिपङ्क्तिविराजिताय । झाङ्कारिमधुपव्रातगाननादनिनादिताय । ञवर्णकृतसंहारदैत्यासृक्पूर्णमुद्गराय । टङ्कारुकफलास्वादवेपिताशेषमूर्धजाय । ठकाराढ्यडकाराङ्कढकारानन्दतोषिताय । णवर्णामृतपीयूषधाराधरसुधाधराय । ताम्रसिन्दूरपुञ्जाढ्यललाटफलकच्छवये । थकारधनपङ्क्त्याढ्यसन्तोषितद्विजव्रजाय । दयामयहृदम्भोजधृतत्रैलोक्यमण्डलाय । धनदादिमहायक्षसंसेवितपदाम्बुजाय । नमिताशेषदेवौघकिरीटमणिरञ्जिताय । परवर्गापवर्गादिमार्गच्छेदनदक्षकाय । फणिचक्रसमाक्रान्तगलमण्डलमण्डिताय । बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरासुराय । भवानीहृदयानन्दवर्धनैकनिशाकराय । मदिराकलशस्फीतकरालैककराम्बुजाय । यज्ञान्तरायसङ्घातघातसज्जीकृतायुधाय । रत्नाकरसुताकान्तकान्तिकीर्तिविवर्धनाय । लम्बोदरमहाभीमवपुर्दीनीकृतासुराय । वरुणादिदिगीशानरचितार्चनचर्चिताय । शङ्करैकप्रियप्रेमनयनानन्दवर्धनाय । षोडशस्वरितालापगीतगानविचक्षणाय । समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपाय । हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकाय । क्षमापूरितहृत्पद्मसंरक्षितचराचराय । ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहाय । अकारादिक्षकारान्तविद्याभूषितविग्रहाय । ॐ श्रीं विनायकाय । ॐ ह्रीं विघ्नाध्यक्षाय । गणाधिपाय । हेरम्बाय । मोदकाहाराय । वक्त्रतुण्डाय । विधिस्मृताय । वेदान्तगीताय । विद्यार्थिने । शुद्धमन्त्राय । षडक्षराय । गणेशाय । वरदाय । देवाय । द्वादशाक्षरमन्त्रिताय । सप्तकोटिमहामन्त्रमन्त्रिताय । अशेषविग्रहाय । गाङ्गेयाय । गणसेव्याय । ॐश्रीद्वैमातुराय । शिवाय । ॐ ह्रीं श्रीं क्लीं ग्लौं गं देवाय । महागणपतये । प्रभवे नमः । १००० ॥ इति रुद्रयामलतन्त्रे देवीरहस्ये महागणपतिसहस्रनामस्तोत्रव्युत्पन्ना महागणपतिसहस्रनामावलिः सम्पूर्णा । Notes: MahāGaṇapatiSahasraNāmāvaliḥ (RudrayāmalaTantre DevīRahasye MahāGaṇapatiSahasranāmaStotraVyutpannā) महागणपतिसहस्रनामावलिः (रुद्रयामलतन्त्रे देवीरहस्ये महागणपतिसहस्रनामस्तोत्रव्युत्पन्ना) has been derived from the MahāGaṇapatiSahasranāmastotram (RudrayāmalaTantre DevīRahasye) महागणपतिसहस्रनामस्तोत्रम् (रुद्रयामलतन्त्रे देवीरहस्ये); and comprises of 1000 names of MahāGaṇapati महागणपति that include His names pertaining to Graha ग्रह, Tithi तिथि, Nakṣatra नक्षत्र, Akśaramāla अक्षरमाला etc.. The same pattern is found to be replicated in the two versions of UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्. MahāGaṇapatiSahasranāmastotram महागणपतिसहस्रनामस्तोत्रम् is a longer version compared to either version of the UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्; and is found in RudrayāmaloktaDeviRahasyam रुद्रयालमोक्तदेवीरहस्यम्. It is also called VaradaGaṇeśaSahasranāmaStotram वरदगणेशसहस्रनामस्तोत्रम् per the viniyogaḥ विनियोगः and can be accessed from the respective link given below. UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम् (both versions) seem to be an adaptation from the MahāGaṇapatiSahasranāmastotram (RudrayāmalaTantre DevīRahasye) महागणपतिसहस्रनामस्तोत्रम् (रुद्रयामलतन्त्रे देवीरहस्ये). One of these is found in MantraMahārṇavaḥ मन्त्रमहार्णवः and the other is found as the 4th part of the UcchiṣṭaGaṇapatiPañcāṅgam उच्छिष्टगणपतिपञ्चाङ्गम् a.k.a. the UcchiṣṭaGaṇapatiPañcaratnam उच्छिष्टगणपतिपञ्चरत्नम्. Both of these Stotrams are addressed to MahāGaṇapati महागणपति with difference of main name indicated only in the Devyuvāca देव्युवाच and viniyogaḥ विनियोगः Core Content of the MahāGaṇapatiSahasranāmastotram महागणपतिसहस्रनामस्तोत्रम् and the two versions of UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्; both attributed to be from the Rudrayāmalam रुद्रयामलम्, is quite similar wrt many names but the number of shlokas differ amongst the two with either version of the UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम् having substantially fewer number of names (<750) than the expected 1000. Encoded and proofread by Ruma Dewan
% Text title            : Mahaganapati Sahasranamavali 2 Varada Ganesha Sahasra Namavali
% File name             : mahAgaNapatisahasranAmAvaliH.itx
% itxtitle              : mahAgaNapatisahasranAmAvaliH 2 varadagaNeshasahasranAmAvaliH (rudrayAmalAntargatA OM hrIM shrIM klIM gaNAdhyakShAya, glauM gaM gaNapataye, guNine)
% engtitle              : mahAgaNapatisahasranAmAvaliH 2
% Category              : sahasranAmAvalI, ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description-comments  : Rudrayamala shrIdevIrahasya.  See corresponding stotram
% Indexextra            : (Scan, stotram)
% Latest update         : October 10, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org