महागणपतिसहस्रनामस्तोत्रं २ अथवा वरदगणेशसहस्रनामस्तोत्रम्
(रुद्रयामलतन्त्रे देवीरहस्ये)
श्रीगणेशाय नमः ।
सहस्रनामप्रस्तावः
श्रीभैरव उवाच -
शृणु देवि रहस्यं मे यत्पुरा सूचितं मया ।
तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥
श्रीदेव्युवाच -
भगवन् गणनाथस्य वरदस्य महात्मनः ।
श्रोतुं नामसहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥
श्रीभैरव उवाच -
प्राङ् मे त्रिपुरनाशे तु जाता विघ्नकुलाः शिवे ।
मोहेन मुह्यते चेतस्ते सर्वे बलदर्पिताः ॥ ३॥
तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः ।
विघ्ना दूरात् पलायन्त कालरुद्रादिव प्रजाः ॥ ४॥
तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः ।
तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥
तमद्य तव भक्त्याहं साधकानां हिताय च ।
महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥
(पाठकानां च दातॄणां सुखसम्पत्प्रदायकम् ।
दुःखापहं च श्रोतॄणां मन्त्रनामसहस्रकम्) ॥ ७॥
अस्य श्रीवरदगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः ।
गायत्री छन्दः । श्रीमहागणपतिर्देवता । गं बीजम् । ह्रीं शक्तिः ।
कुरु कुरु कीलकम् ।
धर्मार्थकाममोक्षार्थे सहस्रनामस्तवपाठे विनियोगः -
पूर्ववद्ध्यानम् ।
अथ सहस्रनामस्तोत्रम् ।
ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गं गणपतिर्गुणी ।
गुणाद्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ८॥
विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी ।
सदाशान्तो जगत्तातो विश्वक्सेनो विभाकरः ॥ ९॥
विस्रम्भी विजयी वैद्यो वारान्निधिरनुत्तमः ।
अणीयान् विभवी श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ १०॥
सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः ।
पतिः पीतविभूषाङ्गो रक्ताक्षो लोहिताम्बरः ॥ ११॥
विरूपाक्षो विमानस्थो विनयः सनयः सुखी ।
सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ १२॥
नन्दीश्वरो सदानन्दी वन्दिस्तुत्यो विचक्षणः ।
दैत्यमर्दी मदाक्षीबो मदिरारुणलोचनः ॥ ११॥
सारात्मा विश्वसारश्च विश्वचारी विलेपनः ।
परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १४॥
वीरेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्धनः ।
भृङ्गिरीटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १५॥
विनर्तको विनेतापि विनतानन्दनोऽर्चितः ।
वैनतेयो विनम्राङ्गो विश्वनेता विनायकः ॥ १६॥
विराटको विराटश्च विदग्धो विधिरात्मभूः ।
पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १७॥
पुष्पेषुर्मथनः पुष्टो विकर्ता कर्तरीकरः ।
अन्त्योऽन्तकश्चित्तगणश्चित्तचिन्तापहारकः ॥ १८॥
अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः ।
लिपितो लोहितो लुप्तो (१००) लोहिताक्षो विलोभकः ॥ १९॥
लुब्धाशयो लोभरतो लाभदोऽलङ्घ्यगात्रकः ।
सुन्दरः सुन्दरीपुत्रः समस्तासुरघातनः ॥ २०॥
नूपुराढ्यो विभवदो नरो नारायणो रविः ।
विचारी वान्तदो वाग्मी वितर्की विजयेश्वरः ॥ २१॥
सुप्तो बुद्धः सदारूपः सुखदः सुखसेवितः ।
विकर्तनो वियच्चारी विनटो नर्तको नटः ॥ २२॥
नाट्यो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः ।
विश्वभूर्विश्वघाती च विनतास्यो विनर्तकः ॥ २३॥
करालः कामदः कान्तः कमनीयः कलाधरः ।
कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ॥ २४॥
विकरालो गणश्रेष्ठः संहारो हारभूषणः ।
रुरु रम्यमुखो रक्तो रेवतीदयितो रसः ॥ २५॥
महाकालो महादंष्ट्रो महोरगभयापहः ।
उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ॥ २६॥
सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ।
असितात्मा भैरवेशो भाग्यवान् भगवान् भगः ॥ २७॥
भर्गात्मजो भगावासो भगदो भगवर्धनः ।
शुभङ्करः शुचिः शान्तः श्रेष्यः श्रव्यः शचीपतिः ॥ २८॥
वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ।
विद्याप्रदो वेदसारो वैदिको वेदपारगः ॥ २९॥
वेदध्वनिरतो वीरो वरो वेदागमार्थवित् ।
तत्त्वज्ञः सवर्गः साधुः सदयः सद् (२००) असन्मयः ॥ ३०॥
निरामयो निराकारो निर्भयो नित्यरूपभृत् । ।
निर्वैरो वैरिविध्वंसी मत्तवारणसन्निभः ॥ ३१॥
शिवङ्करः शिवसुतः शिवः सुखविवर्धनः ।
श्वैत्यः श्वेतः शतमुखो मुग्धो मोदकभोजनः ॥ ३२॥
देवदेवो दिनकरो धृतिमान् द्युतिमान् धवः ।
शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः ॥ ३३॥
शरण्यः शौनकः शूरः शरदम्भोजधारकः ।
दारकः शिखिवाहेष्टः शीतः शङ्करवल्लभः ॥ ३४॥
शङ्करो निर्भवो नित्यो लयकृल्लास्यतत्परः । निर्भयो
लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ॥ ३५॥
भ्रमणः शशभृत् सूर्यः शनिर्धरणिनन्दनः ।
बुद्धो विबुधसेव्यश्च बुधराजो बलन्धरः ॥ ३६॥
जीवो जीवप्रदो जैत्रः स्तुत्यो नुत्यो नतिप्रियः ।
जनको जिनमार्गज्ञो जैनमार्गनिवर्तकः ॥ ३७॥
गौरीसुतो गुरुरवो गौराङ्गो गजपूजितः ।
परं पदं परं धाम परमात्मा कविः कुजः ॥ ३८॥
राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ।
ग्रहेन्द्रो ग्राहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः ॥ ३९॥
पर्जन्यः पीवरो पोत्री पीनवक्षाः परार्जितः ।
वनेचरो वनपतिर्वनवासः स्मरोपमः ॥ ४०॥
पुण्यं पूतः पवित्रं च परात्मा पूर्णविग्रहः ।
पूर्णेन्दुशकलाकारो मन्युः पूर्णमनोरथः ॥ ४१॥
युगात्मा योगभृत् यज्वा (३००) याज्ञिको यज्ञवत्सलः । योगभृद्
यशस्वी यजमानेष्टो व्रजभृद् वज्रपञ्जरः ॥ ४२॥
मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ।
मीनध्वजो मनोहारी योगिनां योगवर्धनः ॥ ४३॥
द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ।
तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः ॥ ४४॥
रुचको मोचको रुष्टस्तुष्टस्तोमरधारकः ।
दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ४५॥
कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः ।
भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ४६॥
जालन्धरो जगद्वासी हासकृधवनो हविः ।
हविष्मान् हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ४७॥
सुमेरुर्हिमवान् होता हरपुत्रो हलङ्कषः ।
हालाप्रियो हृदाशान्तः कान्ताहृदयपोषणः ॥ ४८॥
शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः ।
कूवरो धीमयो ध्याता ध्येयो धीमान् दयानिधिः ॥ ४९॥
दविष्ठो दमनो द्युस्थो दाता त्राता सितः समः ।
निर्गतो नैगमी गम्यो निर्जेयो जटिलोऽजरः ॥ ५०॥
जनजीवो जितारातिर्जगद्व्यापी जगन्मयः ।
चामीकरनिभोऽनाद्यो नलिनायतलोचनः ॥ ५१॥
रोचनो मोचनो मन्त्री मन्त्रकोटिसमाश्रितः ।
पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ५२॥
पञ्चमः पश्चिमः पूर्वः ( ४००) पूर्णः कीर्णालकः कुणिः ।
कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ५३॥
लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् ।
ध्रुवो द्रुतगतिर्धर्म्यो धर्मी नाकिप्रियोऽनलः ॥ ५४॥
अगस्त्यो ग्रस्तभुवनो भुवनैकमलापहः ।
सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ५५॥
सतीपतिः समरसः सनकः सरलः सुरः ।
सुराप्रियो वसुपतिर्वासवो वसुपूजितः ॥ ५६॥
वित्तदो वित्तनाथश्च धनिनां धनदायकः ।
राजी राजीवनयनः स्मृतिदः कृत्तिकाम्बरः ॥ ५७॥
आश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः ।
कृत्तिकासनगः कोलो रोही रोहणपादुकः ॥ ५८॥
ऋभुवेष्टोऽरिमर्दी च रोहिणीमोहनोऽमृतम् ।
मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ५९॥
आर्द्राननो महाबुद्धिर्महोरगविभूषणः ।
भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६०॥
पुनर्देवः पुनर्जेता पुनर्जीवः पुनर्वसुः ।
तित्तिरिस्तिमिकेतुश्च तिमिचारकघातनः ॥ ६१॥
तिष्यस्तुलाधरो जम्भ्यो विश्लेषोऽश्लेष एणराट् ।
मानदो माधवो माघो वाचालो मघवोपमः ॥ ६२॥
मेध्यो मघाप्रियो मेघो महामुण्डो महाभुजः ।
पूर्वफाल्गुनिकः स्फीतः फल्गुरुत्तरफाल्गुनः ॥ ६३॥
फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः ।
घोणाहस्तश्चतुर्हस्तो हस्तिवक्त्रो हलायुधः ॥ ६४॥
चित्राम्बरो(५००)ऽर्चितपदः स्वादितः स्वातिविग्रहः ।
विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ६५॥
अणुरेणुः कलास्फारोऽनूरू रेणुसुतो नरः ।
अनुराधाप्रियो राध्यः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ६६॥
ज्येष्ठः श्रेष्ठार्चितपदो मूलं त्रिजगतो गुरुः ।
शुचिः पूर्वस्तथाषाढश्चोत्तराषाढ ईश्वरः ॥ ६७॥
श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः ।
श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ६८॥
शातातपः शातकुम्भः शतञ्ज्योतिः शतम्भिषक् ।
पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ६९॥
रेणुकातनयो रामो रेवतीरमणो रमी ।
अश्वियुक् कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ ७०॥
पुष्यशौर्यः फाल्गुनात्मा वसन्तश्चित्रको मधुः ।
राज्यदोऽभिजिदात्मीयस्तारेशस्तारकद्युतिः ॥ ७१॥
प्रतीतः प्रोज्झितः प्रीतः परमः पारमो हितः ।
परहा पञ्चभूः पञ्चवायुः पूज्यः परं महः ॥ ७२॥
पुराणागमविद् योग्यो महिषो रासभोऽग्रगः ।
ग्राहो मेषो वृषो मन्दो मन्मथो मिथुनार्चितः ॥ ७३॥
कल्कभृत् कटको दीनो मर्कटः कर्कटो घृणी ।
कुक्कुटो वनजो हंसः परहंसः शृगालकः ॥ ७४॥
सिंहः सिंहासनो मूषो मोह्यो मूषकवाहनः (६००) ।
पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ७५॥
अतुल्यरूपो बलदस्तुलाभृत् तुल्यसाक्षिकः ।
अलिचापधरो धन्वी कच्छपो मकरो मणिः ॥ ७६॥
स्थिरः प्रभुर्महाकर्मी महाभोगी महायशाः ।
वसुमूर्तिधरो व्यग्रोऽसुरहारी यमान्तकः ॥ ७७॥
देवाग्रणीर्गणाध्यक्षो ह्यम्बुजालो महामतिः ।
अङ्गदी कुण्डली भक्तिप्रियो भक्तविवर्धनः ॥ ७८॥
गाणपत्यप्रदो मायी वेदवेदान्तपारगः ।
कात्यायनीसुतो ब्रह्मपूजितो विघ्ननाशनः ॥ ७९॥
संसारभयविध्वंसी महोरस्को महीधरः ।
विघ्नान्तको महाग्रीवो भृशं मोदकमोदितः ॥ ८०॥
वाराणसीप्रियो मानी गहन आखुवाहनः ।
गुहाश्रयो विष्णुपदीतनयः स्थानदो ध्रुवः ॥ ८१॥
परर्द्धिस्तुष्टो विमलो मौलिमान् वल्लभाप्रियः ।
चतुर्दशीप्रियो मान्यो व्यवसायो मदान्वितः ॥ ८२॥
अचिन्त्यः सिंहयुगलनिविष्टो बालरूपधृत् ।
धीरः शक्तिमतां श्रेष्ठो महाबलसमन्वितः ॥ ८३॥
सर्वात्मा हितकृद्वैद्यो महाकुक्षिर्महामतिः ।
करणं मृत्युहारी च पापसङ्घनिवर्तकः ॥ ८४॥
उद्भिद्वज्री महादैत्यसूदनो दीनरक्षकः ।
भूतचारी प्रेतचारी बुद्धिरूपो मनोमयः ॥ ८५॥
अहङ्कारवपुः साङ्ख्यपुरुषस्त्रिगुणात्मकः ।
तन्मात्ररूपो भूतात्मा इन्द्रियात्मा वशीकरः ॥ ८६॥
मलत्रयबहिर्भूतो ह्यवस्थात्रयवर्जितः ।
नीरूपो बहुरूपश्च किन्नरो नागविक्रमः ॥ ८७॥
एकदन्तो महावेगः सेनानी त्रिदशाधिपः ।
विश्वकर्ता विश्वबीजं (७००) श्रीः सम्पदह्रीर्धृतिर्मतिः ॥ ८८॥
सर्वशोषकरो वायुः सूक्ष्मरूपः सुनिश्चलः ।
संहर्ता सृष्टिकर्ता च स्थितिकर्ता लयाश्रितः ॥ ८९॥
सामान्यरूपः सामास्योऽथर्वशीर्षा यजुर्भुजः ।
ऋगीक्षणः काव्यकर्ता शिक्षाकारी निरुक्तवित् ॥ ९०॥
शेषरूपधरो मुख्यः शब्दब्रह्मस्वरूपभाक् ।
विचारवाञ्शङ्खधारी सत्यव्रतपरायणः ॥ ९१॥
महातपा घोरतपाः सर्वदो भीमविक्रमः ।
सर्वसम्पत्करो व्यापी मेघगम्भीरनादभृत् ॥ ९२॥
समृद्धो भूतिदो भोगी वेशी शङ्करवत्सलः ।
शम्भुभक्तिरतो मोक्षदाता भवदवानलः ॥ ९३॥
सत्यस्तपा ध्येयमूर्तिः कर्ममूर्तिर्महांस्तथा ।
समष्टिव्यष्टिरूपश्च पञ्चकोशपराङ्मुखः ॥ ९४॥
तेजोनिधिर्जगन्मूर्तिश्चराचरवपुर्धरः ।
प्राणदो ज्ञानमूर्तिश्च नादमूर्तियुतोऽक्षरः ॥ ९५॥
भूताद्यस्तैजसो भावो निष्कलश्चैव निर्मलः ।
कूटस्थश्चेतनो रुद्रः क्षेत्रवित् पुरुषो बुधः ॥ ९६॥
अनाधारोऽप्यनाकारो धाता च विश्वतोमुखः ।
अप्रतर्क्यवपुः स्कन्दानुजो भानुर्महाप्रभः ॥ ९७॥
यज्ञहर्ता यज्ञकर्ता यज्ञानां फलदायकः ।
यज्ञगोप्ता यज्ञमयो दक्षयज्ञविनाशकृत् ॥ ९८॥
वक्रतुण्डो महाकायः कोटिसूर्यसमप्रभः ।
एकदंष्ट्रः कृष्णपिङ्गो विकटो धूम्रवर्णकः ॥ ९९॥
टङ्कधारी जम्बुकश्च नायकः शूर्पकर्णकः ।
सुवर्णगर्भः सुमुखः श्रीकरः सर्वसिद्धिदः ॥ १००॥
सुवर्णवर्णो हेमाङ्गो महात्मा चन्दनच्छविः ।
स्वङ्गः स्वक्षः (८००) शतानन्दो लोकविल्लोकविग्रहः ॥ १०१॥
इन्द्रो जिष्णुर्धूमकेतुर्वह्निः पूज्यो दवान्तकः ।
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ १०२॥
कुम्भभृत् कलशी कुब्जो मीनमांससुतर्पितः ।
राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ १०३॥
प्रतापी प्रतिपत्प्रेयान् द्वितीयोऽद्वैतनिश्चितः ।
त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ १०४॥
चतुर्थीवल्लभो देवो पारगः पञ्चमीरवः ।
षड्रसास्वादकोऽजातः षष्ठी षष्टिकवत्सरः ॥ १०५॥
सप्तार्णवगतिः सारः सप्तमीश्वर ईहितः ।
अष्टमीनन्दनोऽनार्तो नवमीभक्तिभावितः ॥ १०६॥
दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः ।
एकादशात्मा गणपो द्वादशीयुगचर्चितः ॥ १०७॥
त्रयोदशमनुस्तुत्यश्चतुर्दशसुरप्रियः ।
चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ १०८॥
दर्शादर्शो दर्शनश्च वानप्रस्थो मुनीश्वरः ।
मौनी मधुरवाङ्मूलं मूर्तिमान् मेघवाहनः ॥ १०९॥
महागजो जितक्रोधो जितशत्रुर्जयाश्रयः ।
रौद्रो रुद्रप्रियो रुक्मो रुद्रपुत्रोऽघतापनः ॥ ११०॥
भवप्रियो भवानीष्टो भारभृद्भूतभावनः ।
गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्णुसेवितः ॥ १११॥
वृत्रहा विघ्नहा सीरः समस्तदुरितापहः ।
मञ्जुलो मार्जनो मत्तो दुर्गापुत्रो दुरालसः ॥ ११२॥
अनन्तचित्सुधाधारो वीरो वीर्यैकसाधकः ।
भास्वन्मुकुटमाणिक्यः कूजत्किङ्किणिजालकः ॥ ११३॥
शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः ।
पद्माक्षः पद्महस्तश्च (९००) पद्मनाभसमर्चितः ॥ ११४॥
उद्गीथो नरदन्ताढ्यमालाभूषणभूषितः ।
नारदो वारणो लोलश्रवणः शूर्पकश्रवाः ॥ ११५॥
बृहदुल्लासनासाढ्यव्याप्तत्रैलोक्यमण्डलः ।
इलामण्डलसम्भ्रान्तकृतानुग्रहजीवकः ॥ ११६॥
बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः ।
बृहदास्यरवाक्रान्तभीमब्रह्माण्डभाण्डकः ॥ ११७॥
बृहत्पादसमाक्रान्तसप्तपातालवेपितः ।
बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ ११८॥
बृहद्धस्तधृताशेषायुधनिर्जितदानवः ।
स्फुरत्सिन्दूरवदनः स्फुरत्तेजोऽग्निलोचनः ॥ ११९॥
उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादितः ।
चलत्तोयप्रवाहाढ्यनदीजलकणाकुलः ॥ १२०॥
भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः ।
ब्रह्माच्युतमहारुद्रपुरःसरसुरार्चितः ॥ १२१॥
अशेषशेषप्रभृतिव्यालजालोपसेवितः ।
गूर्जत्पञ्चाननारावप्राप्ताकाशधरातलः ॥ १२२॥
हाहाहूहूकृतात्युग्रसुरविभ्रान्तमानसः ।
पञ्चाशद्वर्णबीजाढ्यमन्त्रमन्त्रितविग्रहः ॥ १२३॥
वेदान्तशास्त्रपीयूषधाराप्लावितभूतलः ।
शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ १२४॥
चिन्तामणिर्महामल्लो भल्लहस्तो बलिः कलिः ।
कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ १२५॥
द्वापरः परलोकैककर्मध्वान्तसुधाकरः ।
सुधासिक्तवपुर्व्याप्तब्रह्माण्डादिकटाहकः ॥ १२६॥
अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः ।
अकाराकारप्रोद्गीततारनादनिनादितः ॥ १२७॥
इकारेकारमन्त्राढ्यमालाभ्रमणलालसः ।
उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ १२८॥
ऋवर्णाङ्कितॠकारपद्मद्वयसमुज्ज्वलः ।
लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ १२९॥
एकारैकारगिरिजास्तनपानविचक्षणः ।
ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ १३०॥
अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः ।
कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जरः ॥ १३१॥
खगेशध्वजरत्नाङ्ककिरीटारुणपादकः ।
गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ १३२॥
घनवाहनवागीशपुरःसरसुरार्चितः ।
ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ १३३॥
चन्द्रकुङ्कुमजम्बाललिप्तसुन्दरविग्रहः ।
छत्रचामररत्नाढ्यमुकुटालङ्कृताननः ॥ १३४॥
जटाबद्धमहानर्घमणिपङ्क्तिविराजितः ।
झाङ्कारिमधुपव्रातगाननादनिनादितः ॥ १३५॥
ञवर्णकृतसंहारदैत्यासृक्पूर्णमुद्गरः ।
टङ्कारुकफलास्वादवेपिताशेषमूर्धजः ॥ १३६॥
ठकाराढ्यडकाराङ्कढकारानन्दतोषितः ।
णवर्णामृतपीयूषधाराधरसुधाधरः ॥ १३७॥
ताम्रसिन्दूरपुञ्जाढ्यललाटफलकच्छविः ।
थकारधनपङ्क्त्याढ्यसन्तोषितद्विजव्रजः ॥ १३८॥
दयामयहृदम्भोजधृतत्रैलोक्यमण्डलः ।
धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १३९॥
नमिताशेषदेवौघकिरीटमणिरञ्जितः ।
परवर्गापवर्गादिमार्गच्छेदनदक्षकः ॥ १४०॥
फणिचक्रसमाक्रान्तगलमण्डलमण्डितः ।
बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरासुरः ॥ १४१॥
भवानीहृदयानन्दवर्धनैकनिशाकरः ।
मदिराकलशस्फीतकरालैककराम्बुजः ॥ १४२॥
यज्ञान्तरायसङ्घातघातसज्जीकृतायुधः ।
रत्नाकरसुताकान्तकान्तिकीर्तिविवर्धनः ॥ १४३॥
लम्बोदरमहाभीमवपुर्दीनीकृतासुरः ।
वरुणादिदिगीशानरचितार्चनचर्चितः ॥ १४४॥
शङ्करैकप्रियप्रेमनयनानन्दवर्धनः ।
षोडशस्वरितालापगीतगानविचक्षणः ॥ १४५॥
समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः ।
हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ १४६॥
क्षमापूरितहृत्पद्मसंरक्षितचराचरः ।
ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहः ॥ १४७॥
अकारादिक्षकारान्तविद्याभूषितविग्रहः ।
ॐ श्रीं विनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः ॥ १४८॥
हेरम्बो मोदकाहारो वक्त्रतुण्डो विधिस्मृतः ।
वेदान्तगीतो विद्यार्थी शुद्धमन्त्रः षडक्षरः ॥ १४९॥
गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः ।
सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ १५०॥
गाङ्गेयो गणसेव्यश्च ॐ श्रीं द्वैमातुरः शिवः ।
ॐ ह्रीं श्रीं क्लीं ग्लौं गं देवो महागणपतिः प्रभुः (१०००) ॥ १५१॥
सहस्रनाममाहात्म्यम् -
इदं नाम्नां सहस्रं ते महागणपतेः स्मृतम् ।
गुह्यं गोप्यतमं गुप्तं सर्वतन्त्रेषु गोपितम् ॥ १५२॥
सर्वमन्त्रनिधिं दिव्यं सर्वविघ्नविनाशनम् ।
ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ १५३॥
सर्वविद्यामयं ब्रह्मसाधनं साधकप्रियम् ।
गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ १५४॥
यथेष्टफलदं लोके मनोरथप्रपूरणम् ।
अष्टसिद्धिमयं साध्यं साधकानां जयप्रदम् ॥ १५५॥
विनार्चनं विना होमं विना न्यासं विना जपम् ।
अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ १५६॥
चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे ।
लिखेद्भूर्जे रवौ देवि पुण्यं नाम्नां सहस्रकम् ॥ १५७॥
धारयेत्तु चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे ।
योषिद्वामकरे बद्ध्वा पुरुषो दक्षिणे भुजे ॥ १५८॥
स्तम्भयेदपि ब्रह्माणं मोहयेदपि शङ्करम् ।
वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ १५९॥
उच्चाटयेच्च गीर्वाणान् शमयेच्च धनञ्जयम् ।
वन्ध्या पुत्रांल्लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ १६०॥
त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे ।
नग्नः शक्तियुतो देवि भुक्त्वा भोगान् यथेप्सितान् ॥ १६१॥
प्रत्यक्षं वरदं पश्येद्गणेशं साधकोत्तमः ।
य एनं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १६२॥
तस्य वित्तादिविभवो दारायुस्सम्पदः सदा ।
रणे राजभये द्यूते पठेन्नाम्नां सहस्रकम् ॥ १६३॥
सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ।
इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ॥ १६४॥
महागणपतेर्गुह्यं गोपनीयं स्वयोनिवत् ।
॥ इति श्रीरुद्रयामलतन्त्रे श्रीदेवीरहस्ये
महागणपतिसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Notes:
MahāGaṇapatiSahasranāmastotram (RudrayāmalaTantre DevīRahasye) महागणपतिसहस्रनामस्तोत्रम् (रुद्रयामलतन्त्रे देवीरहस्ये) comprises of 1000 names of MahāGaṇapati महागणपति that include His names pertaining to Graha ग्रह, Tithi तिथि, Nakṣatra नक्षत्र, Akśaramāla अक्षरमाला etc.; and the same is found replicated in the two versions of UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्.
Core Content of the MahāGaṇapatiSahasranāmastotram महागणपतिसहस्रनामस्तोत्रम् and the two versions of UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्; both attributed to be from the Rudrayāmalam रुद्रयामलम्, is quite similar wrt many names but the number of shlokas differ amongst the two with either version of the UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम् having substantially fewer number of names (<750) than the expected 1000. Both of these Stotrams are addressed to MahāGaṇapati महागणपति with difference of main name indicated only in the Devyuvāca देव्युवाच and viniyogaḥ विनियोगः.
MahāGaṇapatiSahasranāmastotram (RudrayāmalaTantre DevīRahasye) महागणपतिसहस्रनामस्तोत्रम् (रुद्रयामलतन्त्रे देवीरहस्ये) is a longer version compared to either version of the UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम्; and is found in RudrayāmaloktaDeviRahasyam रुद्रयालमोक्तदेवीरहस्यम्. It is also called VaradaGaṇeśaSahasranāmaStotram वरदगणेशसहस्रनामस्तोत्रम् per the viniyogaḥ विनियोगः.
UcchiṣṭaGaṇapatiSahasranāmastotram उच्छिष्टगणपतिसहस्रनामस्तोत्रम् (both versions) seem to be an adaptation from the said MahāGaṇapatiSahasranāmastotram महागणपतिसहस्रनामस्तोत्रम्. One of these is found in MantraMahārṇavaḥ मन्त्रमहार्णवः and the other is found as the 4th part of the UcchiṣṭaGaṇapatiPañcāṅgam उच्छिष्टगणपतिपञ्चाङ्गम् a.k.a. the UcchiṣṭaGaṇapatiPañcaratnam उच्छिष्टगणपतिपञ्चरत्नम्; and can be accessed from the respective links given below.
MahāGaṇapatiSahasraNāmāvaliḥ (RudrayāmalaTantre DevīRahasye MahāGaṇapatiSahasranāmaStotraVyutpannā) महागणपतिसहस्रनामावलिः (रुद्रयामलतन्त्रे देवीरहस्ये महागणपतिसहस्रनामस्तोत्रव्युत्पन्ना) can be accessed from the respective link given below.
Proofread by DPD, NA, PSA Easwaran, Ruma Dewan