श्री महागणपति सहस्रनामस्तोत्रं सभाष्यम्

श्री महागणपति सहस्रनामस्तोत्रं सभाष्यम्

श्रीविघ्नेश्वराय नमः । श्री भास्कररायदीक्षित प्रणीत खद्योत भाष्यसङ्ग्रहयुतम् । गुरुरेव गतिर्गुरुमेव भजे, गुरूणैव सहास्मि, नमो गुरवे । नमो गुरोः परमं, शिशुरस्मि गुरोः मतिरस्ति गुरौ मम, पाहि गुरो ॥ गणेश वः पायात् प्रणमत गणेशं जगदिदं गणेशेन त्रातं नम इह गणेशाय महते । गणेशान्नास्त्यन्यत्त्रिजगति गणेशस्य महिमा गणेशे मच्चित्तं निवसतु गणेश त्वमव माम् ॥ इह खलु सर्ववेदान्तसंवेद्यं अखण्डं सत् चिद् आनन्दं निरस्तत्रिविधभेदं अवाङ्मनसगोचरं स्वप्रकाशं मुक्तोपसृप्यं परं ब्रह्म । तन्निर्विकल्पेन तद्विषयकसविलासाज्ञाननिवृत्त्या कण्ठचामीकरन्यायेन तदात्मतावाप्तिरूपो मोक्ष इत्यविवादम् । स च निर्विकल्पः शुद्धचित्तानामेव न मलिनाशयानाम् । चित्तशुद्धौ तु श्रौतस्मार्तकर्माणि तत्तद्वर्णाश्रमोचितानि वेदे कर्मकाण्डसमधिगम्यानि बहिरङ्गोपायाः । तस्यैव ब्रह्मणः सगुण-निर्गुणभेदेन द्विविधस्य उपासनानि वेदे रहस्यतरोपनिषत्काण्डसमधिगम्यानि अन्तरङ्गोपायाः । बहिरङ्गानुष्ठान-शीलानामेव त्वन्तरङ्गानुष्ठानेऽधिकारः । सगुणं तु रूपमुपासकानुग्रहार्थं कल्पितमेव इत्युपासकरुचिवैचित्र्येण नानाविधम् । तेषु ``आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम्'' इति स्मृत्युक्तरूपाणि तत्तदवान्तरमूर्तिभेदाश्च तत्तज्जन्मायातसंस्कारानुगुण्ये नोपास्यानीति सर्वेऽपि ईश्वरा एव । अत एव पुराणान्यपि तत्तदुपासकानुजिघृक्षया प्रवृत्तानि तस्य तस्यैव सर्वोत्तमत्वम्, अन्येषां ततोऽपकर्षं च, नहिनिन्दान्यायेन प्रतिपादयन्ति । कल्पभेदेन एकस्मादन्येषामुत्पत्तिः सम्भवतीत्यादिकमाकरेषु स्पष्टम् । तत्र गणपतिविषये हेरम्म्बोपनिषद्गणेशोपनिषदाद्याः श्रुतयः, ऐदम्पर्येण गाणपतन्त्राणि, गणेशोपपुराणं, पुराणान्तरेष्वपि तत्र तत्र सर्वोत्तमत्व-निरूपणभागाश्च, इति शतशः प्रमाणानि तत्तद्विदां स्पष्टानि ॥ तदुपासनं चैकाक्षरषडक्षराष्टाविंशत्यक्षरादि - बहुविधगणपतिमन्त्रजपादिरूपं बहुविधम् । स्वतन्त्रतया सहस्रनामस्तवपाठोऽपि । सहस्रनामस्तवस्यापि पुराणतन्त्रभेदेन बहुविधस्य मध्येऽयमेव बहुभिरुपासकैः परिगृहीत इत्ययमेव व्याक्रियते ॥ गणेशपुराणे तावदुपासनाखण्डे - ``अष्टादशपुराणानि - विस्तराच्छ्रावितानि नः । अन्येषामपि शुश्रूषा वर्तते वह्निसम्भव'' , इति सूतं प्रति ऋषीणां प्रश्ने पुराणमवतार्थं कतिचिद् आख्यानानि निर्वर्ण्य षट्त्रिंशमध्यायमारभ्य गृत्समदोपाख्यानं प्रवर्तितम् । तदीयक्षुतात् त्रिपुरासुरस्योत्पत्तिः, तस्य तपः, तस्मै वरदानं, तस्य त्रैलोक्यजयः, शिवेन सह युद्धं, शिवपराजयः, नारदं प्रति शिवकृतप्रश्नः, नारदवाक्ये - ``युद्धाय गन्तुकामेन नार्चितो गणपस्त्वया । अतः पराभवं प्राप्तोऽस्यग्निनेत्र पिनाकधृक्'' इत्यादि । ततः, ``सोऽतप्यत तपोऽत्युग्रं दश वर्षाणि शङ्करः । ततस्तस्य मुखाम्भोजान्निर्गतोऽभूत्पुमान् परः । पञ्चवक्त्रो दशभुजो भालचन्द्रः शशिप्रभः । मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः । अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वन् दशायुधः'' इत्यादिना गणेशाविर्भावतत्प्रसादवरदानादिकं उक्त्वा, ``ततः स्वनाम्नामवदत् सहस्रं तस्मै गणेशः प्रणताय दिव्यम् । शिवस्य भक्त्या परितुष्टचित्तो जयप्रदं कामकरं जनानाम् ॥ `` इत्यादिना तपः समाप्तिः पञ्चचत्वारिंशेऽध्याये वर्णिता ॥ तत उत्तरेऽध्याये ब्रह्माणं प्रति व्यासकृतप्रश्नः - ``व्यास उवाच ॥ कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् । शिवायैतन्ममाचक्ष्व लोकानुग्रहतत्पर !'' इति । ततः ब्रह्मोवाच । ``देव'' एवं पुरारातिः इत्यादिश्लोकचतुष्टयेन पूर्वोक्तविस्तृतकथायाः सङ्क्षेपेणानुवादः । तदिदं स्तोत्रं गणेशपुराणे षट्चत्वारिंशत्तमाध्यायरूपम् । अत्र पूर्वपीठिका- भागः पञ्चश्लोकात्मकः । मध्ये नामभागः सार्धषट्षषष्ट्युत्तरशत-श्लोकात्मकः । अन्त्यः फलश्रुतिभागः सार्धत्रिचत्वारिंशत् श्लोकात्मकः । संहत्य पञ्चदशोत्तरे द्वे शते श्लोकानामुक्त्वा सप्तचत्वारिंशेऽध्याये पुनर्युद्धं त्रिपुरसंहारादिकं चोक्त्वा त्रिपुराख्यानमुपसंहृतम् ॥ एवं व्यासेन पृष्टमर्थं दीनजनानुजिघृक्षयोपदिदिक्षुर्भगवान् ब्रह्मा ``सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये'' इति मन्त्रजपं विधाय गुरुसम्प्रदायशुद्धिमन्तरेण लब्धस्य फलानावहत्वाद्गुरुपरम्पराज्ञानावश्यकत्वं ध्वनयितुमाख्यायिकां पूर्वं विस्तृत्य वर्णितामपि पुनः सङ्क्षिप्यानुवदति व्यास उवाच । कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् । शिवायैतन्ममाचक्ष्व लोकानुग्रहतत्पर ! ॥ १॥ ब्रह्मोवाच - देव एवं पुरारातिः पुरत्रयजयोद्यमे । अर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २॥ मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् । महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ ३॥ विघ्नप्रशमनोपायमपृच्छदपराजितः । सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ ४॥ सर्वविघ्नैकहरणं सर्वकामफलप्रदम् । ततस्तस्मै स्वकं नाम्नां सहस्रमिदमब्रवीत् ॥ ५॥ एवं पूर्वाध्यायैरुक्तरीत्या उक्तं च । ``गुरुक्रममविज्ञायोपास्ते यः स्वेष्टदेवताम् । सोपास्तिर्निष्फला ज्ञेया भस्मन्यर्पितहव्यवत् । तस्माद्यत्नेन विज्ञेया मूलाद्गुरुपरम्परा'' इति । सा यथा - सर्वेषां गाणपतमन्त्राणां आदिगुरुर्गणेश एव । ततो गणक्रीडस्ततो विकट इत्यादिक्रमेण कुलाख्या गुरवो नव । ततः सुरानन्दादयो विद्यागुरवोऽपि नव । ततः सन्तानगुरवो विनायकादयो विंशतिः । एतेषु प्रत्येकं दिव्यौघाः सिद्धौघा मानवौघाश्चेति त्रेधा विभागो गुरुमुखादवसेयः । तत्पश्चात्कपिलादिव्यासपर्यन्ता एकविंशतिः । ततो गणकादि-शङ्कराचार्यान्ता द्विचत्वारिंशत् । सम्भूयैकोत्तरं शतं गुरवो विद्यारण्यश्रीपादैर्विद्यार्णवे प्रतिपादिताः । तेषां विशिष्टनामानि तत्रैव द्रष्टव्यानि'' । प्रायेणास्मिंस्तोत्रे प्राथमिकनामशतद्वयमध्ये तानि सर्वाणि व्यक्तीभवन्तीति रहस्यम् । शङ्करभगवत्पादेभ्योऽर्वाचीना तु स्वनाथपर्यन्ता गुरुपरम्परा स्वस्वदेशिकमुखादेवावगन्तव्या गुरूपसदनक्रममाह - महागणपतिमिति । गुरोः प्रसादफलमाह - सन्तुष्ट इति । उपदेशक्रममाह - सर्वविघ्नेति । अखिलानिष्टबाधकेषु उपायेषु अस्य मुख्यत्वकथनाय - एकेति । चतुर्वर्गसाधनत्व-कथनाय - सर्वकामेति । ईदृशगुरुपरम्परामूलभूतो गणेश एव शिष्यभक्तिमाहात्म्यात् स्वमुखेनैव स्वकीयं महामन्त्रं एनमुपादिक्षत् इत्याह - स्वकमब्रवीदिति । ततश्चान्यैरपि अयं मन्त्रः प्रोक्तगुरुपरम्परागतेष्वन्यतमं गुरुं भक्त्या सन्तोष्य तन्मुखादेव लब्ध्वा जपनीयः, न पुस्तकमात्रेण गृहीत्वा जप्तव्य इति तात्पर्यार्थः । अथोपदेशविषयस्य लौकिकत्वात् व्यूढादिवत्स्वयमेव तत्स्वरूपं विध्यपेक्षितत्वात्प्रदर्शयति गणेश्वर इत्यादिनाऽनन्तानन्तसौख्यद इत्यन्तेन ॥ गणेशो गाणपत्यानां गणदीक्षाप्रभुर्मतः । गणेश्वरो गणक्रीडो विकटो विघ्ननायकः ॥ दुर्मुखः सुमुखो बुद्धो विघ्नराजो गणाधिपः । एते कुलाख्या गुरवः तत्तेजसि विभावयेत् ॥ सुरानन्दः प्रमोदश्च हेरम्बश्च महोत्कटः । शङ्करो लम्बकर्णश्च मेघनादो महाबलः ॥ गणञ्जयो नवैते तद्विद्यानामवतारकाः । विनायको विरूपाक्षो बुद्धः शूरो वरप्रदः ॥ एते पञ्चैव दिव्यौघाः, विजयो दुर्जयो जयः । कवीश्वरश्च ब्रह्ममण्यो निधीशः सिद्ध संज्ञकाः ॥ गजाधिराजो दुःखारिः सद्योजातः सुखावहः । परात्मा सर्वभूतात्मा महानादः शुभाननः ॥ बाल (भाल)चन्द्रो नवैते च मानवौघाः प्रकीर्तिताः । ततश्च बालचन्द्रान्तां पूजयेद्गुरु सन्ततिम् ॥ कपिलाद् व्यासपर्यन्तं एकविंशति सङ्ख्यकाः । (कपिलोऽत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ॥ भृगुः सनत्सुजातश्च वामदेवश्च नारदः । गौतमः शुनकः शक्तिर्मार्कण्डेयश्च कौशिकः ॥ पराशरः शुकचैवाङ्गिराः कण्वस्तथैव च । जाबालिश्च भरद्वाजो वेदव्यासस्तथैव च ॥ गणकः सुभगो नित्यो नित्यालम्बश्व शाश्वतः । पूर्णानन्दः परानन्दः सुभक्तः पद्मलोचनः ॥ कामपालो बुधश्रेष्ठो गजवक्त्रो गणप्रियः । भूतेशो बाललीलश्च कुमारो बोधनो हरः ॥ सत्यलीलः सुलीलश्च विकटो धूम्रवर्णकः । नन्दिप्रियो नन्दिहासो देवीपुत्रो धनेश्वरः ॥ विश्वम्भरी विशालाक्षो विघ्नहर्ता विनायकः । कूष्माण्डेशः कपर्दी च शिवः कालो महीधरः ॥ गौडादि शङ्करान्ताश्च सप्त प्रागीरिताश्च ये । (गौडः पावक एव च । पाराशर्यः सत्यनिधी । रामचन्द्रस्ततः परम् । गोविन्दः शङ्कराचार्यः ॥) त्रिषष्टिसम्मिता ह्येते गुरवः सिद्धिदायकाः । पूजिताः संस्मृता नित्यं सर्वेप्सितफलप्रदाः ॥ श्रीमायास्मरबीजाद्याः सिद्धान्ताचार्यनमोन्तकाः । (श्रीविद्यार्णवेतन्त्रे प्रथमाश्वासे श्लो. २५१-२६४) अस्य श्री महागणपतिसहस्रनामस्तोत्रमहामन्त्रस्य । गणेशऋषिः । अनुष्टुप् छन्दः । श्रीमहागणपतिर्देवता । गं बीजं । तुं गं शक्तिः । स्वाहा कीलकं । श्रीमहागणपतिप्रसाद सिद्ध्यर्थे नामपारायणे विनियोगः ॥ अथ करन्यासः । गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः । गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः । गौं कनिष्ठिकाभ्यां नमः । गः करतलकरपृष्ठाभ्यां नमः ॥ अथाञ्गन्यासः । गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् । गैं कवचाय हुं । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानं - पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः । मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥ अग्न्यर्कशशिनो भाभिः तिरस्कुर्वन् दशायुधः । सर्वविघ्नहरो देवः तं ध्यायामि दिवानिशम् ॥ अथ लमित्यादि पञ्चपूजा । लं पृथिव्यात्मने महागणपतये गन्धं समर्पयामि । हं आकाशात्मने महागणपतये पुष्पाणि समर्पयामि । यं वाय्वात्मने महागणपतये धूपमाघ्रापयामि । रं अग्न्यात्मने महागणपतये दीपं दर्शयामि । वं अमृतात्मने महागणपतये अमृतोपहारं निवेदयामि ॥ (गणेश्वरो गणक्रीडः इति अङ्गुष्ठाभ्यां नमः । कुमारगुरुरीशानः इति तर्जनीभ्यां नमः । ब्रह्माण्ड कुम्भश्चिद्व्योमभालः इति मध्यमाभ्यां नमः । रक्तो रक्ताम्बरधरः इति अनामिकाभ्यां नमः । सर्वसद्गुरु संसेव्यः इति कनिष्ठिकाभ्यां नमः । लुप्तविघ्नः स्वभक्तानां इति करतलकरपृष्ठाभ्यां नमः । छन्दश्छन्दो वपुः इति हृदयाय नमः । निष्कलो निर्मलो नित्य इति शिरसे स्वाहा । सृष्टिस्थितिलय क्रीड इति शिखायै वषट् । ज्ञानं विज्ञानमानन्दः इति कवचाय हुम् । अष्टाङ्गयोगः फलभूः इति नेत्रत्रयाय वौषट् । अनन्तशक्ति सहितः इति अस्त्राय फट् । गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिणेत्रं बृहदुदरमशेषं भूतिराजं पुराणम् । अमरवर सुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि । इति केचित् ) अथ सहरनामस्तोत्रं प्रारम्भः । ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । एकदंष्ट्रो(न्तो)वक्रतुण्डो गजवक्त्रो महोदरः ॥ ६॥ ॐ वियदादिप्रपञ्चस्य समूहो गण उच्यते । तदात्मकस्तदीशश्च तेन देवो गणेश्वरः(१) ॥ १॥ साक्षाच्छिष्यो गणेशस्य गणक्रीडाभिधो गुरुः । तच्छिष्यो विकटस्तस्य शिष्यो वै विघ्ननाय(श)कः ॥ २॥ इत्यादयोऽप्यभेदेन गणेशा एव देशिकाः । मन्त्रारम्भे गुरुस्मृत्यावश्यकत्वेन कीर्तिताः ॥ ३॥ वियदादिगणस्यान्तः प्रविश्य क्रीडनेन वा । गणक्रीड इति प्रोक्तस्तत्सृष्ट्वेत्यादिविश्रुतेः(२) ॥ ४॥ गणनं गुणसङ्ख्यानामथशब्दात्तु मङ्गलम् । कृते तयोर्बहुव्रीहौ गणनाथ इति स्मृतः(३) ॥ ५॥ आदित्यविश्ववस्वाद्या रुद्रान्ता गणदेवताः । (Footnotes) (१) गणेशाद्याश्च चत्वारोमूर्तयो (१।१)ब्रह्मणस्पतेः । अव्यक्ताद्यास्तत्वगणाः ब्रह्माद्या देवतागणाः । अनादयो ब्रह्मगणाः स्मृता एव त्रिधा गणाः । गणात्मकस्तदीशश्च तेन देवो गणेश्वरः (१।२) ॥ (ब्रह्म) (१।१) गणेशः गालवः मुद्गलः सुधाकरः इति ।) (१।२) जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः । तयोर्योगे गणेशाय नाम तुभ्यं नमो नमः ॥ (मुद्गले ।) ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः । तयोर्योगे परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ (ब्रह्मवैवर्ते) (२) त्रिविधेषु गणेष्वन्तः प्रविश्य क्रीडनेन च । गणक्रीड इति प्रोक्तः तत्सृष्ट्वेत्यादितः श्रुतेः ॥ गुण निर्गुणरूपेण चतुर्ष्वपि जगत्सु च । क्रीडकस्तु स्वस्वरूपी गणक्रीड इति स्मृतः ॥ (ब्रह्म) (३) सर्वाकारा महामाया प्रकृतिर्गुणरूपिणी । तस्याः सत्तादायकोऽयं निर्गुणो गणनाथकः । चिन्मायासंयोगरूपी सगुणो गणनाथकः ॥ (ब्रह्मा) तदाधिपत्यशालित्वान्मम देवो गणाधिपः(१) ॥ ६॥ एका मुख्या केवला वा दंष्ट्रा यस्य गणेशितुः । भूम्युद्धारे जगन्नाशे वैकदंष्ट्रः स कीर्त्यते(२) ॥ ७॥ (३)शुण्डादण्डस्य वक्रत्वाद् वक्रतुण्ड इतीर्यते । श्रियं तनोति रम्याणां विकारोऽपीति लोकवाक् ॥ ८॥ गजस्येव मुखं यस्य गजवक्त्रः स उच्यते (४) । अनन्तकोटिब्रह्माण्डपूर्णकुक्षिर्महोदरः ॥ ९॥ लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः । सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ ७॥ (Footnotes) (१) जगज्जीवेश्वराणां च समूहो गण उच्यते । तदाधिपत्यशालित्वात् देवदेवो गणाधिपः ॥ सम्प्रज्ञातासम्प्रज्ञातसमाधीनां समूहकः । गण इत्येव कथितः तदीशः स्वमहिम्निगः ॥ पूर्ण योगात्मको देवो गणेश इति कथ्यते । चतुर्विधानां जगतामधिपोऽयं गणाधिपः । (ब्रह्मा) (२) एकशब्दात्मिका माया दन्तः सत्ताधरो मतः । तयोरभेदसंयोगे चैकदन्त इति स्मृतः । एकशब्दः प्रधानार्थी दन्तश्च बलवाचकः । बलं प्रधानं सर्वस्मात् एकदन्तं नमाम्यहम् ॥ (ब्रह्मैव ) (३) वक्रतुण्डादयश्चाष्ट हावताराः परात्मनः । (३।१) वक्रतुण्डः, एकदन्तः, महोदरः, गजाननः, लम्बोदरः विकटः विघ्नराज, धूम्रवर्णः इति । (मुद्गल) कला माया इति प्रोक्ताः स्वानन्देशस्य ब्रह्मणः ॥ असम्प्रज्ञातसमाधि स्थितिरूपाः पुरातनाः । वक्रा विघ्ना इति प्रोक्ताः विघ्नाः सत्तात्मकाः स्मृताः ॥ तुण्डेन हन्ति तान्देव वक्रतुण्डो मतो बुधैः । (४) गजात्मकं परं ब्रह्म निर्गुणं यस्य वक्त्रकम् । मुखचिह्नाज्ज्ञायते यः स एव गजवक्त्रकः ॥ ब्रह्माण्डालम्बनं यस्य कुक्षिर्लम्बोदरस्तु सः । वायोर्बीजं धूम्रवर्णं तद्रूपत्वादसावपि(१) ॥ १०॥ कट वर्षावरणयोरिति धातोरनावृतेः । विभुत्वाद विकटः प्रोक्तः स यस्य विगतः कटः ॥ ११॥ विघ्नान्नयति भक्तौघात् विघ्नानामधिपोऽथ वा । यद्वा विहन्ति नयति प्राणिनो विघ्ननायकः(२) ॥ १२॥ आरम्भाः शोभना येन यस्य शोभनमाननम् । स एव सुमुखस्तस्मै सुमुखाय नमो नमः ॥ १३॥ दुःस्पर्शं वा सुदुर्दर्शमग्नेः सूर्यस्य वा मुखम् । तद्रूपत्वादभक्तेषु तथात्वाच्चैष दुर्मुखः(३) ॥ १४॥ नित्यबुद्धस्वरूपत्वात् अविद्यावृत्तिनाशनः । यद्वा जिनावतारत्वाद् बुद्ध इत्यभिधीयते(४) ॥ १५॥ विघ्नैर्विराजते तेषां राजा विघ्नस्तु विघ्नकः । भक्ताधीनश्च राजा च विघ्नराजस्ततो मतः(५) ॥ १६॥ ``अन प्राणन'' इत्यस्माद्धातोर्णिचि ततो ल्युटि । गजाननयतीत्यर्थे साधुरेष गजाननः(६) ॥ १७॥ भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः । हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ८॥ (Footnotes) (१) धूम्रायन्ते यत्रवर्णा धूम्रवर्णः स ईरितः । (२) विद्यान्नयत्यभक्तौघान् विघ्नानामधिपोऽथवा । (३) दुःस्पर्शं बा सुदुर्दर्शं सूर्याग्निविद्युतामिव तद्वन्मुखमभक्ताय दुर्मुखाय नमो नमः । (४) बुद्ध्यारूढो बुद्ध इति चित्तवृत्ति प्रचालकः । (५) विघ्नः कालात्मकस्तस्य विराजो नियामकः ॥ (६) गजा सत्वमयी माया तस्याः सत्ताप्रदानतः । अन्नात्प्राणदो देवो गजानन महेश्वरः ॥ गकारः सर्वगं ब्रह्म गजानन इति स्मृतम् । गजस्य वक्त्रसंयुक्तः शिवपुत्रो गजाननः ॥ दुष्टानां भयकारित्वाद् भीम इत्युच्यते बुधैः । इष्टलाभात्सुखं यत्तु स प्रमोद इति स्मृतः ॥ १८॥ ततः प्राक् सुखमामोद इष्टार्थप्राप्तिनिश्चयात् । (१)इष्टार्थभोगजनितं सुखमानन्द उच्यते ॥ १९॥ स सुरोत्थः सुरस्थो (रार्थो)वा सुरानन्दस्तदात्मना । अत एवान्यविषयमोषादात्मैकभानतः ॥ २०॥ मदेनावरणोत्क्रान्त्या मदोत्कट इति स्मृतः । हः शङ्करे रविः शब्दे शैवतन्त्रप्रवर्तनात् ॥ २१॥ उद्दामशौर्यवत्त्वाद्वा हेरम्ब इति कथ्यते(२) । शं सुखं तद्वरं श्रेष्ठं यस्मिन्नस्ति स शम्बरः ॥ २२॥ शम्बं वा कुलिशं राति यद्वा सलिलविग्रहः । शम्भुस्तु शं भवत्यस्माच्छिवाभेदेन वोदितः ॥ २३॥ यत्र क्वापि कृतं भक्तैराह्वानस्तवनादिकम् । नातिदूर इवाकर्ण्य लम्बकर्ण इति स्मृतः ॥ २४॥ महान्बलासुरो येन बलित्वाद्वा महाबलः । (महाबला जिता येन बलित्वाद्वा महाबलः) नन्न्दनोऽलम्पटोऽभीरुर्मेघनादो गणञ्जयः । विनायको विरूपाक्षो धीरशूरो वरप्रदः ॥ ९॥ महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ १०॥ नदिः समृद्धिवाचीति तद्धेतौ ल्युटि नन्दनः ॥ २५॥ अलम्पट समृद्धत्वादलङ्कारः पटोऽस्य वा । अभीरुर्भयशून्यत्वात् अङ्गनारहितोऽथ वा ॥ २६॥ मेघनादः प्रसिद्धार्थो मेघान् नादयतीति वा । एकैकं यत्नतः शत्रुञ्जयति प्राकृतो जनः ॥ २७॥ (Footnotes) (१) इष्टार्थ भोगजनित आनन्दस्तु प्रमोदकः । तदात्मकः प्रमोदः स्यात् इष्टार्थलाभ सम्भवः । आमोदस्तन्मयो देवः आमोद इति कथ्यते । (ब्रह्मा) (२) हे जीवस्तु परो रम्बो द्विभेदपरिवर्जितः । सर्वसाक्षी परं ब्रह्म हेरम्बोद्दामशौर्यवान् । अनायासादयं व्यूहान् जयतीति गणञ्जयः(१) ॥ विः पक्षिरूपो जीवौघः तन्नेतृत्वाद्विनायकः(२) ॥ २८॥ विरूपाक्षो विसदृशैर्नेत्रैरग्निरवीन्दुभिः । धीरशूरो धैर्यशौर्य-सामानाधि-करण्यतः ॥ २९॥ वरान् स्वपादसेविभ्यो ददातीति वरप्रदः(३) । गणाः गुल्मादयः सेनाभेदास्तेषु य उत्तमः ॥ ३०॥ स्थूलास्तानपि पातीति महागणपतिर्मतः । (४)बुद्धिप्रियः संशयघ्नो बुद्धिः स्यान्निश्चयात्मिका ॥ ३१॥ (५)क्षिप्रप्रसादनः क्षिप्रं भक्तैर्ध्यातः प्रसीदति । रुद्रप्रिय इति प्रोक्तो रुद्रैकादशिनीप्रियः ॥ ३२॥ (६)गणाध्यक्षस्तु षट्त्रिंशत्तत्त्वसन्दोहपालकः । उमापुत्रस्तु पुंल्लोकात्पार्वत्या अपि तारकः ॥ ३३॥ महोदरोऽप्यसावल्पनैवेद्यैनैव तृप्यति । अशनं न धनं दुःखहरणाद्वाऽघनाशनः(७) ॥ ३४॥ (Footnotes) (१) गणासुरस्य जेतायं गणञ्जय इति स्मृतः । (२) विगतो नायको यस्य विनायक इति श्रुतः । (ब्रह्मा) (३) धीर धैर्यवान् शूरः शौर्यवांश्च वरान्स्वकान् । इष्टान् सर्वान्ददातीति पातीति च वरप्रदः । (ब्रह्मा) (४) वियदादिप्रपञ्चस्य समूहो गण उच्यते । तस्य पाता गणपतिः शम्भुपुत्रो गणेश्वरः । व्याकृताव्याकृतमयचतुर्णां जगतामपि । महागणाः समूहाश्च महागणपतिः पतिः । (ब्रह्मा) (५) पञ्चचित्तवृत्तिमयी बुद्धिर्मायामयी परा । तस्याः पतिर्गणेशानो बुद्धिप्रिय इति स्मृतः । (ब्रह्मा) (६) रुद्रस्य प्रियदत्वाच्च रुद्रप्रिय इति स्मृतः । (७) अघस्य पापसंज्ञस्य हरणादघनाशनः ॥ (ब्रह्मा)। कुमारगुरुरीशानपुत्रो मूषकवाहनः । सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ११॥ अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः । कटको राजपुत्रः शालकः सम्मितोऽमितः ॥ १२॥ सनत्कुमाररूपोऽपि विद्यामुपदिशन् गुरुः । स्कन्दपूर्वभवत्वाद्वा कुमारगुरुरीरितः(१) ॥ ३५॥ ईशानपुत्र इत्युक्तः शितिकण्ठात्मजत्वतः । उन्दुरुं वाहनीकृत्य ख्यातो मूषकवाहनः(२) ॥ ३६॥ सिद्धिप्रियः प्रिया अस्येत्यणिमाद्यष्टसिद्धयः(३) । अणिमाद्यष्टसिद्धीनां पाता सिद्धिपतिस्ततः ॥ ३७॥ गोरक्षादिमहासिद्धरूपत्वात् सिद्ध उच्यते । भक्ते सिद्धीर्विशेषेण जयन्ं सिद्धिविनायकः(४) ॥ ३८॥ भावप्रधाननिर्देशादवित्वं पशुतां हरन् । विघ्नैर्विरहितत्वाद्वाऽप्यविघ्न इति कथ्यते ॥ ३९॥ रोरूयमाणस्तुम्बेन वैणिकैरिति तुम्बुरुः । इमे गायन्ति वीणायां एतमेवेति हि श्रुतिः ॥ ४०॥ मयूरमूषकौ यद्वत्तथा सिंहोऽपि वाहनम् । गौर्या वा सिंहवाहाया अभेदात्सिंहवाहनः ॥ ४१॥ मोहिनीशः शिवस्तस्मादभिन्नो मोहिनीप्रियः(५) । कटमावृतिरज्ञानं नीहारेणेति हि श्रुतेः ॥ ४२॥ कटयत्यावृणोतीति ज्ञानदानात्कटङ्कटः । वरेण्याख्यस्य पृथिवीनेतुः पुत्रवदाचरन् ॥ ४३॥ चन्द्रो वा पुत्रवद्यस्य राजपुत्रः स उच्यते(६) । शः परोक्षेऽलकः केशे यस्यैकांशोऽप्यचाक्षुषः ॥ ४४॥ सोऽतीन्द्रियः शालतेऽसौ राजतेवेति शालकः । अङ्गुष्ठमात्र इत्यादि श्रुत्या व्याप्तोऽपि सम्मितः ॥ ४५॥ मशकेनापि नागेन सम इत्यपि च श्रुतेः । (Footnotes) (१) सनत्कुमारमुख्यानां विद्यामुपदिशन् गुरुः । (ब्रह्मा) (२) स्तेयं ब्रह्म यस्य वाहः तेन मूषकवाहनः । (ब्रह्मा) (३) बुद्धेर्हर्षमोहदात्री सिद्धिर्मायामयी परा । प्रिया यस्य तु सा सिद्धिः अणिमाद्यष्टसिद्धयः । (ब्रह्मा) (४) भक्तान् सिद्धया विशेषेण नयन् सिद्धिविनायकः । (ब्रह्मा) (५) मोहिनी पञ्चमी कन्या भुवनेशीसमुद्भवा । गणेशस्य प्रिया सा तु तेनायं मोहिनीप्रियः । (६) महाराज्ञीसुतश्चास्मि कुरुराज सुतोऽपि वा । परिमाणं त्वणु स्थूलं ह्रस्वं दीर्घं चतुर्विधम् ॥ ४६॥ तन्नास्तीत्यमितोऽस्थूलमनण्वित्यादितः श्रुतेः । कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्वहो जयः । भूपतिर्भुवनेशानो भूतानाम्पतिरव्ययः ॥ १३॥ विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्घृणिः । कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः ॥ १४॥ कूष्मांण्डसामसम्भूतिः कूष्माण्डैर्जुहुयादिति ॥ ४७॥ विधौ प्रसिद्धा मन्त्राश्च सामानि अस्य विभूतयः । अजय्यो बलिभिर्दैत्यैर्मनसापीति दुर्जयः ॥ ४८॥ धुरं वहत्यनायासाज्जगतामिति धुर्वहः । जयो जयस्वरूपत्वाद्भारताद्यात्मकत्वतः ॥ ४९॥ भूपतिर्भुवनपतिर्भूतानाम्पतिरित्यमी । भ्रातरोऽस्तदात्मत्वाद्भूपत्यादिः प्रकीर्तितः(१) ॥ ५०॥ अव्ययो नाशराहित्याद् विश्वकर्ता जगत्कृतेः । विश्वस्य मुखमारम्भो यस्माद्विश्वं मुखेऽस्य वा ॥ ५१॥ विश्वस्य मुखवतृप्तिहेतुर्विश्वमुखस्ततः । सर्वप्रपञ्चरूपत्वाद् विश्वरूप इति स्मृतिः ॥ ५२॥ अथवा विश्वरूपोऽसौ त्वाष्ट्रो देवपुरोहितः । वियदादिजगज्जातं नितरां यत्र धीयते ॥ ५३॥ महापद्मादिनवकरूपत्वाद्वा निधिः स्मृतः । घृणिरादित्यरूपत्वाद् घृणिः सूर्य इति श्रुतेः ॥ ५४॥ काव्यत्वात् काव्यकर्तृत्वात् कविरेष तथा कविम् । कवीनामुपमश्रुत्या कवीनामृषभोऽप्ययम्(२) ॥ ५५॥ ब्रह्मण्यो ब्राह्मणे वेदे साधुस्तपसि धातरि(३) । वाग्वै ब्रह्म पतिस्तस्या इत्येष ब्रह्मणस्पतिः ॥ ५६॥ (Footnotes) (१) भूपती राजपुत्रत्वाद्भुवनस्य पतिर्विभुः । भूतानामीश्वरोऽयं तु जगद्ब्रह्मस्वरूपवान् ॥ (२) कविस्तु काव्यरूपत्वात्साक्षी कूटस्थसंज्ञकः । चिन्मायायोगरूपत्वात्कवीनामृषभो मतः ॥ (३) ब्रह्मण्यो मुनिजत्वाच्च ब्रह्मणो ब्रह्मणस्पतिः । ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः । हिरण्मयपुरान्तस्थः सूर्यमण्डलमध्यगः ॥ १५॥ कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् । उमाङ्क्केलिकुतुकी मुक्तिदः कुलपालनः ॥ १६॥ ज्येष्ठराज इति ख्यातो ज्येष्ठाख्ये साम्नि राजनात् । एष नाम्ना निधिपतिर्निधीनां परिपालनात् (१) ॥ ५७॥ निधीनां त्वा निधिपतिं हवामह इति श्रुतेः । निधिप्रिया ये पतयो राजराजादयो नृपाः ॥ ५८॥ तैरप्युपास्य इत्येष निधिप्रियपतिप्रियः । हिरण्मयपुरान्तःस्थो दहराकाशमध्यगः ॥ ५९॥ चिन्मय ब्रह्मपूर्देहस्तदन्तर्हृदये स्थितेः । ध्येयत्वादन्तरादित्ये सूर्यमण्डलमध्यगः ॥ ६०॥ शुण्डादण्डाभिघातेन रिक्तमब्धिं चकार यः । कराहतिध्वस्तसिन्धुसलिलः स ततो मतः ॥ ६१॥ वीरभद्रो दक्षमखे पूष्णो दन्तानपातयत् । तद्रूपत्वादसौ देवः कथ्यते पूषदन्तभित्(२) ॥ ६२॥ गौर्युत्सङ्गे कृताक्रीडो न बाल्यात्किन्तु कौतुकात् । अत एवोमाङ्ककेलिकुतुकी विबुधैः स्मृतः ॥ ६३॥ निगडान्मोचनान्मोक्षदानाद्वा मुक्तिदो मतः (३) । वंशस्य कौलतन्त्रस्याप्यवनात् कुलपालनः (४) ॥ ६४॥ (Footnotes) (१) जलनिधिः समुद्रः स्याद्धननिधिस्तु यक्षपः । प्रजापतिनिधिर्ब्रह्मा सूर्यस्तेजोनिधिः स्मृतः ॥ एतादृशनिधीनां तु पतिर्निधिपतिप्रियः ॥ (२) विनायकः सूर्ययुद्धे पूष्णो दन्तानपातयत् । तेन देवो मण्डलस्थः कथ्यते पूषदन्तभित् ॥ (३)मोक्षद्वारं मण्डलं तु तत्रस्थो मुक्तिदो मतः । निगडाद्भवबन्धाद्वा मोचनान्मुक्तिदो भवान् ॥ (४) वंशस्य दक्षराजस्य पालनात्कुलपालनः । किरिटी कुण्डली हारी बनमाली मनोमयः वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १७॥ सद्योजातस्वर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्रहृत् प्रसहनो गुणी नादप्रतिष्ठितः ॥ १८॥ किरीटी मौलिभूषावानथवाऽर्जुनरूपधृक् । कुण्डली कर्णभूषावान् अथवा शेषरूपधृक् ॥ ६५॥ हारी मुक्तादिमालाधृगथवाऽत्यन्तसुन्दरः । वनमाली दधात्येष मालामापादलम्बिनीम् ॥ ६६॥ मनोमयः स्वसङ्कल्प-कल्पितैककलेवरः । यदाभिमुख्यराहित्यान्नष्टा सम्पत्सुरद्विषाम् ॥ ६७॥ यत्पादाघातमात्रेण पृथ्वी नम्रा बभूव सः । वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ ६८॥ मुञ्जाख्यहैमतृणजां मौञ्जीं तात्कालिकीं दधत् । सद्योजात-स्वर्णमुञ्जमेखलीति निगद्यते ॥ ६९॥ मूर्तिस्फोटनभूकम्पमहोल्का पतनादिभिः । संसूचितान्यरिष्टानि हन्त्यतो दुर्निमित्तहृत् ॥ ७०॥ दुःस्वप्नमपि सुस्वप्नं कुर्वन् दुःस्वप्नहृन्मतः । भक्तापराधान् क्षमते तेन प्रसहनः स्मृतः ॥ ७१॥ विशोकविजिघत्सत्वप्रमुख्यैः स्यात् गुणैर्गुणी(१) । अस्ति प्रणव बिन्द्वन्तेऽर्धचन्द्राद्यक्षराष्टकम् ॥ ७२॥ तत्र नादस्तृतीयस्तद्वाच्यो नाद-प्रतिष्ठितः । सुरूपः (१००)सर्वनेत्राधिवासो वीरासनाश्रयः । पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः ॥ १९॥ चित्राङ्कश्यामदशनो भालचन्द्रश्चतुर्भुजः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ २०॥ (Footnote) (१) सर्वज्ञत्वस्वतन्त्रत्व प्रमुखैर्युग्गुणैर्गुणी । सुरूपो भूरिलावण्याद्यद्वा तत्त्वनिरूपणात् (१) ॥ ७३॥ सर्वनेत्रेषु वसति ``य एषोऽक्षिणि पूरुषः । एष आत्मे᳚ति वचनात् सर्वनेत्राधिवासकः ॥ ७४॥ वामजानूपरिगतदक्षपादोपवेशनम् । वीरासनं तथा स्थानादेष वीरासनाश्रयः ॥ ७५॥ निपीतं गगनं येन यस्य पीतोऽथ वा पटः । स तु पीताम्बरः खण्डरदो दन्तार्धधारणात् ॥ ७६॥ अर्धचन्द्रं दधन्मूध्ना खण्डेन्दुकृतशेखरः । श्यामैकप्रचुरैश्वित्रैरङ्किते रदने सति ॥ ७७॥ चित्राङ्कश्यामदशन इत्येवं स्तूयसे बुधैः । भालचन्द्र इति ख्यातो भाले चन्द्रस्य धारणात् ॥ ७८॥ अष्टमीचन्द्रसदृशं ललाटं यस्य सोऽथवा । चत्वारो बाहवो यस्य विग्रहे स चतुर्भुजः ॥ ७९॥ योगाचार्यावतारा ये लैङ्गेऽष्टाविंशतिः स्मृताः । लकुलीशादयस्तत्तद्रूपो योगाधिपो मतः(२) ॥ ८०॥ प्रणवेनाभिधेयत्वात् तारकस्थ इति स्मृतः । पूर्षु सर्वासु शेतेऽसौ साक्षित्वेनेति पूरुषः ॥ ८१॥ यस्य कर्णौ गजस्येव तेनासौ गजकर्णकः । गणाधिराजो विजयस्थिरो गजपतिध्वजी । देवदेवः स्मरप्राणदीपको वायुकीलकः ॥ २१॥ विपश्चिद्वरदो नादोन्नादभिन्नबलाहकः । वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ २२॥ (Footnotes) (१) सुरूपादिनामभिश्र ध्येयो नेत्रसुसंस्थितः ॥ (२) आद्ये श्वेतः कलौ रुद्रः सुतारो मदनस्तथा । सुहोत्रः कङ्कणश्चैव लोका(गा)क्षिर्मुनिसत्तमाः ॥ जैगीषव्यो महातेजा भगवान्दधिवाहनः । ऋषभश्च मुनिर्धामानुग्रश्रात्रिः सुबालकः ॥ (२।१)गौतमश्चाध भगवान्सर्वदेवनमस्कृतः । वेदशीर्षश्च गोकर्णो गुहावासी शिखण्डभृत् ॥ जटामाल्यदृहासश्च दारुको लाङ्गली तथा । महा कायमुनिःशूली दण्डी मुण्डीश्वरः स्वयम् ॥ सहिष्णुः सोमशर्मा च ल(न)कुलीशो जगद्गुरुः । वैवस्तेऽन्तरे सम्यक्प्रोक्ता हि परमात्मनः । योगाचार्यावतारा ये सर्वावर्तेषु सुब्रताः ॥ (लैंङ्गे ) अधीयन्ते यत्र काव्ये गणा मयरसादयः ॥ ८२॥ गणाधिराजस्तेनासौ राजते प्रतिपाद्यते । भक्तानां विजयस्थैर्य शालित्वाद् विजयस्थिरः ॥ ८३॥ गजेन्द्राढ्यो ध्वजोऽस्येति मतो गजपतिध्वजी । देवदेवो वासवादि-दैवतैरप्युपास्यते (१) ॥ ८४॥ रुद्रेण दग्धदेहेऽपि प्राणानुज्जीवयन्नयम् । मन्मथस्य स्मरप्राणदीपकत्वेन कीर्त्यते ॥ ८५॥ नवद्वारि तनौ प्राणान् स्तम्भयन् वायुकीलकः । राज्ञे विपश्चिदाख्याय चतुवर्गं वरं ददत् ॥ ८६॥ अग्र्यात्मना त्वं वासिष्ठो(ष्ठे)विपश्चिद्वरदः स्मृतः । अल्पनादैर्महानादैरपि येन विदारिताः ॥ ८७॥ मेघाः स कथ्यते नादोन्नादभिन्नबलाहकः । वराहदंष्ट्राशोभाजिदेकदन्तविराजितः ॥ ८८॥ इतीभास्यपुराणोक्तेर्वराहरदनो मतः । कालमृत्युं प्रमादं वा हरन् मृत्युञ्जयो मतः ॥ ८९॥ प्रमादं वा मृत्युमहं ब्रवीति तु भारतात् । वस्ते शार्दूलचर्मेति स्मृतो व्याघ्राजिनाम्बरः ॥ ९०॥ इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः ॥ शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ २३॥ शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ॥ उमाङ्गमलजो गौरीर्तेजोभूः स्वर्धुनीभवः ॥ २४॥ (Footnote) (१)नामान्येतानि नेत्रस्थ ध्यानदेवपराणि च । जगत्सिंसृक्षाधारित्वात् इच्छाशक्तिधरो मतः । देवत्राताऽखिलान्देवान्त्रायते दैत्यजाद्भयात् ॥ ९१॥ अत एव हरन् देवरिपून् दैत्यविमर्दनः । शम्भुवक्त्रोद्भवो योऽयमवतीर्णः शिवाननात् ॥ ९२॥ पितुः क्रोधं हरन्बाललीलाभिः शम्भुकोपहा । अज्ञवत् कतिचित् क्रीडाः कुर्वाणः शम्भुहास्यभूः ॥ ९३॥ शम्भुतेजा इति प्रोक्तः शिवतेजोऽस्ति यस्य सः । महिषादिहतौ भग्नोत्साहाया वर्धयन् बलम् ॥ ९४॥ दाक्षायण्याः शिवाशोकहारीति परिगीयते । हर्षं गौर्यास्तपस्यन्त्याः कुर्वन् गौरीसुखावहः ॥ ९५॥ निजाङ्गोद्वर्तनोत्थेन मलेन प्रतिमामुमा । चक्रे तदन्तः प्रविशन् उमाङ्गमलजो मतः ॥ ९६॥ चण्डिकाभूयमात्मानं विष्णुब्रह्मादितेजसाम् । आधारत्वादसौ गौरीतेजोभूरिति कथ्यते(१) ॥ ९७॥ स्कन्दो गङ्गोद्भवस्तस्मादभेदात् स्वर्धुनीभवः । स्वर्धुन्या उद्भवो यस्मादिति वा स्वर्धुनीभवः ॥ ९८॥ यज्ञकायो महानादो गिरिवर्मा शुभाननः । सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रु तिः ॥ २५॥ ब्रह्माण्डकुम्भश्चिद्व्योमभालः सत्यशिरोरुहः । जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २६॥ यज्ञकायोऽश्वमेधादिमखजातस्वरूपवान् । उच्चैस्तरां वषट्कारोस्स्तु श्रौषड्येयजामहे ॥ ९९॥ आश्रावयेत्यादिरूपो महानाद इति स्मृतः । गिरिवर्ष्माद्रयो यस्य विराजो देहतां गताः ॥ १००॥ मङ्गलानामनं प्राणं जनयन् स शुभाननः । सर्वात्माऽप्येष सर्वं खल्विदं ब्रह्मेति तु श्रुतेः ॥ १०१॥ देहभूता यस्य सर्वदेवात्माऽखिलदेवताः । ब्रह्मैव यस्य मूर्धा स ब्रह्ममूर्धेति कथ्यते ॥ १०२॥ कर्णभूता दिशो यस्य कथितः स कुकुप्श्रुतिः । ब्रह्माण्डखर्परयुगं न्युब्जं सद्यस्य कुम्भति ॥ १०३॥ विश्वात्मनः स ब्रह्माण्डकुम्भ इत्यभिधीयते । (१)गौरीतेजोभवो ढुण्ढिः दुरासदनिषूदनः । ब्रह्माण्डखर्परान्तर्यल्लग्नं खं तच्चिदम्बरम् ॥ १०४॥ तदस्य ब्रह्मरन्ध्र चिद्व्योमभालः स उच्यते । सत्यलोको यस्य कैश्यमसौ सत्यशिरोरुहः(१) ॥ १०५॥ उन्मेषाज्जायते यस्य निमेषाल्लीयते जगत् । जगज्जन्मलयोन्मेषनिमेष इति स स्मृतः ॥ १०६॥ ऊर्ध्वदक्षिणवामानि नेत्राणि जगदात्मनः । वह्निसूर्येन्दवो यस्य क्रमात्सोऽस्यर्कसोमदृक् ॥ १०७॥ गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः । ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २७॥ कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः । नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ॥ २८॥ एकः स्थूलो बहिर्दन्तो गिरीन्द्रः कनकाचलः । विराड्रूपजुषो यस्य गिरीन्द्रैकरदो हि सः ॥ १०८॥ पापपुण्ये यदोष्ठौ स धर्माधर्मोष्ठ उच्यते । धर्मोत्तरोष्ठो दुरिताधरोष्ठ इति च स्मृतेः ॥ १०९॥ यद्बृंहितं सामवेदः स प्रोक्तः सामबृंहितः । सूर्यादयो ग्रहा यस्य कृत्तिकाद्याश्व तारकाः ॥ ११०॥ मुखान्तःस्थाः सूक्ष्मदतो ग्रहर्क्षदशनो हि सः । पुराणन्यायमीमांसाथर्व-ऋग्यजुषादिका ॥ १११॥ वाक्तती रसना यस्य स वाणीजिह्व उच्यते(२) । नासा यस्य शुनासीरः सोऽयं वासवनासिकः ॥ ११२॥ कुलाचलांसो विन्ध्याद्या यस्य स्कन्धतया मताः । कन्धरोर्ध्वं मांसपिण्डावुन्नतौ घण्टिके मते ॥ ११३॥ ते रवीन्दू यस्य सोमार्कघण्ट कथितो हि सः । (गजघण्टायुगुलं शब्दायमानमिति केचित् ) यस्य ग्रीवा रुद्र एव स वै रुद्रशिरोधरः ॥ ११४॥ गङ्गाशोणादयो नद्यो नदा यस्य भुजाः स तु । नदीनदभुजः सिन्धुनदीनदति वा भुजः ॥ ११५॥ सर्पाङ्गुलीकः शेषाद्या अङ्गुल्यो यस्य पन्नगाः । ध्रुवाद्या यन्नखास्ताराः स स्मृतस्तारकानखः ॥ ११६॥ (Footnotes) (१) सत्यं यस्य शिरः कैश्यो ह्यसौ सत्यशिरोरुहः । (२) वाग्रूपा रसना यस्य स वाणीजिह्व उच्यते । भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कटः । व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २९॥ कुक्षिस्थयक्षगन्धर्वरक्षः किन्नरमानुषः । पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ ३०॥ भ्रूमध्यसंस्थितकरो भ्रुवोर्घ्राणस्य सन्धिगम् । यत्तत्वं श्रुतिषूक्तं तच्छुण्डादण्डात्म यस्य सः ॥ ११७॥ प्रपञ्चभानापह्नुत्या ब्रह्मविद्यैव वै मदः । तेनोद्भिन्नौ कटौ यस्य ब्रह्मविद्यामदोत्कटः ॥ ११८॥ यस्य व्योमबिलं नाभिर्व्योमनाभिरसौ मतः । ऋचः सामानि यजूंषि सा हि श्रीरमृता सताम् ॥ ११९॥ त्रय्यर्थ एव यच्चित्तं स श्रीहृदय उच्यते । सुमेरुरेव यत्पृष्ठं मेरुपृष्ठः स उच्यते ॥ १२०॥ जठरान्तर्जलस्थानेऽर्णवा इत्यर्णवोदरः । अन्त्राद्यवयवाः कुक्षौ यस्य यक्षादयः स तु ॥ १२१॥ कुक्षिस्थयक्षगन्धर्वरक्षः किन्नरमानुषः । पृथिव्येव कटिस्थानं यस्य पृथ्वीकटिस्तु सः ॥ १२२॥ सृष्टिलिङ्गस्तु यच्छेफस्स्थाने मैथुनजाः प्रजाः । शैलोरुः पर्वता एव यस्योरुस्थानतां गताः ॥ १२३॥ दस्रौ यस्याश्विनौ जानू स मतों दस्रजानुकः । पातालजङ्घो मुनिपात् कालाङ्गुष्ठस्त्रयीतनुः । ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ ३१॥ हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः । सद्भक्तध्याननिगडः पूजावारीनिवारितः ॥ ३२॥ पातालजङ्घो यज्जङ्घात्मकं पातालसप्तकम् ॥ १२४॥ मुनिपात् मुनिभिः पादलग्नै पादात्मतां गतैः । कालाङ्गुष्ठो महामृत्युर्यत्पादाङ्गुलितां गतः ॥ १२५॥ अनुक्तावयवा यस्य श्रुतयः स त्रयीतनुः । शिंशुमाराभिधं ज्योतिश्चक्रं पुच्छं हि यस्य सः ॥ १२६॥ ज्योतिर्मण्डललाङ्गूलो ब्रह्मात्रोक्तं गजाकृति । भक्तानां हृदयान्येवास्यालानं गजबन्धनम् ॥ १२७॥ तत्रापगतचाञ्चल्यो हृदयालाननिश्चलः । हृदन्तर्दहराकाशं यस्य क्रीडासरः स तु ॥ १२८॥ हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः । सर्वगोऽपि परिच्छिन्नो भक्तैर्ध्यानेन यः स तु ॥ १२९॥ सद्भक्तध्याननिगडः श‍ृङ्खला ह्यवरोधिका । पूजैव कथिता वारी गजबन्धनश‍ृङ्खला ॥ १३०॥ सन्निरुद्धस्तया देवः पूजावारीनिवारितः । प्रतापी कश्यपसुतो गणपो विष्टपी बली । यशस्वी धार्मिकः स्वोजाः प्रथमः प्रथमेश्वरः ॥ ३३॥ चिन्तामणिद्वीपपतिः कल्पद्रुमवनालयः । रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ ३४॥ तीव्राशिरोधृतपदो ज्वालिनीमौलिलालितः । नन्दानन्दितपीठश्रीर्भोगदाभूषितासनः ॥ ३५॥ सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः । तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३६॥ सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः । लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः ॥ ३७॥ प्रतापी तापकत्वेन पराक्रमयुतोऽथवा ॥ १३१॥ कश्यपस्य मुनेः कुक्षाववतीर्ण इति स्मृतः । कथा पुराणे गाणेशे स कश्यपसुतो मतः ॥ १३२॥ गणपोऽध्वर्युहोत्रादीन् पातीति चतुरो गणान् । विष्टपी भुवनाधारो बलसामान्यवान् बली ॥ १३३॥ यशस्वी पुण्यकीर्त्याढ्यो धार्मिको धर्मवर्धकः । अष्टमो धातुरोजः स्यात् स्वोजास्तद्यस्य शोभनम् ॥ १३४॥ पूज्यः सर्वकार्यादौ पूज्यत्वात्सर्वदेहिनाम् । प्रथमा ब्रह्मविष्ण्वीशास्तदीशः प्रथमेश्वरः ॥ १३५॥ चिन्तामणिद्वीपपूर्वं रत्नसिंहासनावधि। । यस्योपभोग्यं स प्रोक्तः चतुर्भिरिह नामभिः ॥ १३६॥ तीव्रा च ज्वालिनी नन्दा भोगदा कामदायिनी । उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी ॥ १३७॥ पत्राष्टके कर्णिकायां सन्त्येताः पीठशक्तयः । नवैताः पद्मसहिताः कथिता दशनामभिः ॥ १३८॥ द्विद्विस्वरककिञ्जल्कपराप्रासादकर्णिकम् ॥ १३९॥ कादिवर्गाष्टकदलं मातृकापद्ममुच्यते ॥ १४०॥ तत्रस्थो लिपिपद्मा सनाधार इति कथ्यते । कर्णिकोपर्युपर्यर्केन्द्वग्न्याख्यं तेजसां त्रयम् ॥ १४१॥ आस्तीर्णं तत्र निवसन् वह्निधामत्रयाश्रयः । उन्नत पदो गूढगुल्फः संवृत(त्त)पार्ष्णिकः । पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३८॥ निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः । पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३९॥ भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः । ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ४०॥ स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ४१॥ सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः । सर्पकक्षोदराबन्धः सर्पराजोत्तरीयकः ॥ ४२॥ पादाग्रे उन्नते यस्य चोन्नतप्रपदो मतः ॥ १४२॥ कूर्मपृष्ठसमाकारभाव औन्नत्यमीरितम् । पादमूलगतावस्थिग्रन्थी आच्छादितौ यदि ॥ १४३॥ नोन्नतत्वेन दृश्येते गूढगुल्फस्तदोच्यते । गुल्फाधोभागयोर्मांसपूर्त्या संवृत(त्त)पार्ष्णिकः ॥ १४४॥ पिण्डके मांसले यस्य पीनजङ्घः स कथ्यते । जङ्घोरुसन्धियुग्मं चेदस्पष्टं श्लिष्टजानुकः ॥ १४५॥ स्थूलोरुरूरुयुगलं मांसलं यस्य स स्मृतः । आनम्रो न कटिर्यस्य स प्रोक्तः प्रोन्नमत्कटिः ॥ १४६॥ गाम्भीर्यतो निम्ननाभिः स्थूलकुक्षिः पिचण्डिलः । व्यूढोरस्कः पीनवक्षा आजानुत्वाद्बृहद्भुजः ॥ १४७॥ पीनस्कन्धो मांसलांसः कम्बुकण्ठोऽब्जकन्धरः । वलित्रितयसंयुक्तः कण्ठो यस्य स कीर्तितः ॥ १४८॥ लम्बमानाधरोष्ठत्वाल्लम्बोष्ठः स्याद्गजाननः । शुण्डादण्डो लम्बमानो यस्यासौ(धो)लम्बनासिकः ॥ १४९॥ भग्नवामरदो यस्य च्छिन्नाग्रो वामदन्तकः । दन्तोऽस्य दक्षिणस्तुङ्गसव्यदन्तो यदुन्नतः ॥ १५०॥ कपोलपरभागस्य महत्त्वेन महाहनुः । गजस्य यादृशं वक्त्रं तद्योग्यपरिमाणकम् ॥ १५१॥ न लोचनमनेनासौ ह्रस्वनेत्रत्रयः स्मृतः । यस्य शूर्पाकृती कर्णौ शूर्पकर्णः स उच्यते ॥ १५२॥ घनत्वादतिकाठिन्यान्मूर्ध्नो निबिडमस्तकंः । स्तबकाकांरकुम्भाग्रो गुच्छोपमशिरोञ्चलः ॥ १५३॥ रत्नोत्कीर्ण किरीटाढ्यो रत्नमौलिरुदीरितः । कुम्भयोरङ्कुशास्पर्शात्स्वातन्त्र्याद्वा निरङ्कुशः ॥ १५४॥ सर्पहारकटीसूत्रयज्ञसूत्राणि यस्य सः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् । सर्पकोटीरकटकः सर्पौ यन्मौलिकङ्कणे ॥ १५५॥ सर्पात्मकण्ठदोर्भूषः सर्पग्रैवेयकाङ्गदः । कक्षा च कटिबन्धाख्या कुक्ष्याबन्धश्च पन्नगौ ॥ १५६॥ यस्यासाते सर्पकक्षोदराबन्धः स कीर्तितः । सोत्तरीयो वासुकिना सर्पराजोत्तरीयकः ॥ १५७॥ रक्तो रक्ताम्बरधरी रक्तमाल्यविभूषणः । रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ४३॥ श्वेतः श्वेताम्बरधरः श्वेतमाल्यविभूषणः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ४४॥ सर्वावयवसम्पूर्णसर्वलक्षणलक्षितः । सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४५॥ रक्तः कान्त्या वस्त्रमाल्यभूषादृक्करतालुनाम् । ओष्ठाग्रस्य च शोणत्वान्नामभिः पञ्चभिः स्तुतः ॥ १५८॥ विद्याकामादिभिर्यध्येयं रूपं बोधयितुं पुनः । प्रवृत्तं श्वेत इत्यादि स्पष्टार्थं नामपञ्चकम् ॥ १५९॥ सर्वागेषु समुद्रोक्तलक्षणैः पूरणादयम् । सर्वावयवसम्पूर्णसर्वलक्षणलक्षितः ॥ १६०॥ सर्वाभरणशोभाढ्योऽलङ्कारालङ्कृतत्वतः । लावण्याख्याङ्गकान्त्याढ्यः सर्वशोभासमन्वितः ॥ १६१॥ सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् । सर्वदैककरः शार्र्ङ्गी बीजापूरी गदाधरः ॥ ४६॥ इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् । पाशी धृतोत्पलः शालिमञ्जरीभृत् स्वदन्तभृत् ॥ ४७॥ कल्पवल्लीधरो विश्वाभयदैककरो वशी । अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४८॥ पूर्णपात्री कम्बुधरो विधृतालिसमुद्गकः । मातुलिङ्गधरश्चूतकलिकाभृत् कुठारवान् ॥ ४९॥ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । सर्वमङ्गलमाङ्गल्यः शुभानां च शुभावहः । सर्वस्य जगतोऽव्यक्तं परमाण्वादि कारणम् ॥ १६२॥ तेषामपि च हेतुत्वात् सर्वकारणकारणम् । सर्वदैककरः सर्वं धत्ते मुख्यः करोऽस्य यत् ॥ १६३॥ श‍ृङ्गोद्भवं धनुः शार्ङ्गं तद्वान् शार्ङ्ग्यथ नामभिः । दशभिर्दशहस्तस्यायुधान्यत्र गणेशितुः ॥ १६४॥ मातुलिनंङ्गं गदामिक्षुधनुः शूलं सुदर्शनम् । पद्म(शङ्ख)पाशोत्पलव्रीहिकणिशानि रदार्धकम् ॥ १६५॥ अथ मन्त्रान्तराङ्गानि ध्याननामायुधान्यपि । साकल्येन विनिर्देष्टुं नामान्यत्र त्रयोदश ॥ १६६॥ कल्पवल्लीधरः कल्पलतां धत्ते कराम्बुजे । विश्वस्माद(स्याप्य)भयं धत्ते यस्य मुख्यः करः स तु ॥ १६७॥ महागणपतिर्विश्वाभयदैककरः स्मृतः । वशेऽस्य विश्वं सर्वस्य वशीति श्रुतितो वशी ॥ १६८॥ अकारादिक्षकारान्तमातृकात्मकमालिका । उक्ताक्षमाला तद्धारी त्वक्षमालाधरो मतः ॥ १६९॥ तर्जन्यङ्गुष्ठसंयोगो ज्ञानमुद्रा हृदि स्थितः । तादृशैककरो ज्ञानमुद्रावानिति कथ्यते ॥ १७०॥ मुदं गिरन्ति यन्मन्त्रसाधनान्युरुबुध्नकम् । मुसलं वायुधं यस्य स देवो मुद्गरायुधः ॥ १७१॥ पूर्णपात्रं याज्ञिकेषु प्रसिद्धं तद्युतो मखः । यद्वा सुधाघटयुतः पूर्णपात्रीति कीर्त्यते ॥ १७२॥ शङ्खस्य धारणाद्धस्ते देवः कम्बुधरः स्मृतः । मद्यसम्पुटकं धत्ते भृङ्गाणां सम्पुटायते ॥ १७३॥ यो मदस्तं कटे धत्ते विधृतालिसमुद्रकः । बीजापूरफलं चाम्रमञ्जरीं च करे दधत् ॥ १७४॥ मातुलिङ्गधरश्चूतकलिकाभृच्च कथ्यते । योगिज्ञानं केवलाख्यं कुठारं तस्य साक्ष्यसौ ॥ १७५॥ ज्ञानार्थकात्तु शत्रन्ताद्धातोः सिद्धः कुठारवान् । शुण्डाग्रस्थ स्वर्णकुम्भपूर्णरत्नप्रदानतः ॥ १७६॥ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ५०॥ महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः । रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ५१॥ महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ! आमोदमोदजननः सप्रमोदप्रमोदनः ॥ ५२॥ समेधितसमृद्धिश्रीः ऋद्धिसिद्धिप्रवर्तकः । दत्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ५३॥ मदनावत्याश्रिताङ्घ्रिः कृत्तदौर्मुख्य दुर्मुखः । विघ्नसम्पल्लवोघ्नः सेवोन्निद्रमदद्रवः ॥ ५४॥ विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः । तीव्राप्रसन्ननयनो ज्वालिनीपालनैकदृक् ॥ ५५॥ मोहिनीमोहनो (३००)भोगदायिनीकान्तिमण्डितः । कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५६॥ वसुधारामदोन्नद्धमहाशङ्खनिधिप्रभुः । नमद्वसुमतीमौलिमहापद्मनिधिप्रभुः ॥ ५७॥ भारतीसुन्दरीनाथो ब्रह्मविष्णु-शिवात्मकः ॥ १७७॥ लक्ष्मीवाचकमीकारं प्रश्लिष्यार्थोऽयमूह्यताम् । विनायका ग्रहाः केचित्तैः सह क्रीडनं प्रियम् ॥ १७८॥ पक्षिराजेन वाऽस्येति (शिखिना)विनायकरतिप्रियः । महालक्ष्मीसिद्धलक्ष्म्यावस्य द्वे वल्लभे इति ॥ १७९॥ महालक्ष्मी-प्रियतमः सिद्धलक्ष्मीमनोरमः । अथ नामचतुष्केन देवस्यावरणात्मिकाः ॥ १८०॥ प्राच्यामवाच्यां चोदीच्यां प्रतीच्यां च स्थिताः क्रमात् । रमादामोदरौ गौरीशङ्करौ भूमिसूकरौ ॥ १८९॥ रतिमाराविति द्वन्द्वदेवताः कीर्तिताः स्फुटाः । ततः षण्मिथुनीभूत्वा षडस्स्रावरणे स्थिताः ॥ १८२॥ छन्दोवशादक्रमेण प्रोक्ता द्वादशनामभिः । ऋद्ध्यामोदौ समृद्धिप्रमोदौ च मिथुने उभे ॥ १८३॥ सुमुखः कान्तिरित्येकं दुर्मुखो मदनावती । विघ्नो मदद्रवेत्येकं विघ्नकृद्द्राविणीति च ॥ १८४॥ आमोदं मोदयत्येष प्रमोदस्य प्रमोदनः । सहितश्च समृद्ध्या श्रीरनेनैवाभिवर्धिता ॥ १८५॥ ऋद्धिदेव्यां स्थिताः सिद्धिः प्रवर्तयति चाप्यसौ । सुमुखः स्वेषु सौमुख्यं यत्प्रसादात्प्रयच्छति ॥ १८६॥ यद्वशादाश्रयः कान्तेर्देव्या अङ्कुरितोऽभवत् । धृतवान् मदनावत्या दौर्मुख्यं दुर्मुखे स्थितम् ॥ १८७॥ कृत्तं छिन्नमनेनैव सम्यग्विघ्नस्य पल्लवः । विस्तारस्तस्य चोपघ्न आश्रयो यस्य सेवने ॥ १८८॥ उन्निद्रानलसैवास्ते देवी नाम्ना मदद्रवा । भक्त्या विघ्नकृतोऽधीने यस्य तच्चरणाम्बुजे ॥ १८९॥ द्राविणीसंज्ञया शक्त्या सत्कृतोऽयं गणाधिपः । अथ नामानि षट् प्राह षड्भिस्तीव्रादिशक्तिभिः ॥ १९०॥ तीव्रायां यस्य नयने प्रसादपिशुनेक्षणे । ज्वालिन्या रक्षणे मुख्या यद्दृष्टिर्मोहिनीमपि ॥ १९१॥ यो मोहयति तस्मै श्रीगणाधिपतये नमः । त्वं भोगदायिनीशक्तेः कान्त्या मण्डितपादुकः ॥ ९९२॥ कामिन्याः शोभने (सुन्दरे)वक्त्रे या शोभा तत्स्वरूपकः । वसुन्धराभिधा देवी जाता त्वत्तः प्रतिष्ठिता ॥ १९३॥ अथ द्वे नामनी प्राह मिथुनद्वयबोधिके । महाशङ्खमहापद्माभिधे द्वे निधिदैवते ॥ १९४॥ वसुधारा वसुमतीत्येते द्वे तत्तदङ्गने । सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः । ईशानमूर्धा देवेन्द्रशिखा पवननन्दनः ॥ ५८॥ अग्रप्रत्यग्रनयनो दिव्यास्त्राणां प्रयोगवित् । ऐरावतादिसर्वाशावारणावरणप्रियः ॥ ५९॥ वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः । जयाजयपरीवारो विजयाविजयावहः ॥ ६०॥ अजितार्चितपादाब्जो नित्यानित्यावतंसितः । विलासिनीकृतोल्लासः शौण्डीसौन्दर्यमण्डितः ॥ ६१॥ अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः । इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः ॥ ६२॥ सुभगासंश्रितपदो ललितालालिताश्रयः । कामिनीकामनः काममालिनीकेलिलालितः ॥ ६३॥ सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः । गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ६४॥ नलिनीकामुको वामरामो ज्येष्ठामनोरमः । रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६५॥ गणेशादि-स्वनाथान्तैः सम्यगाराधितो यतः ॥ १९५॥ सर्वसद्गुरुसंसेव्य इति तेन निगद्यसे । गार्हपत्यादयः पञ्च शोचिष्केशास्तदीयहृत् ॥ १९६॥ आश्रयो यस्य तद्ध्येयः शोचिष्केश-हृदाश्रयः । ईशानस्यापि मूर्धा त्वं देवेन्द्रस्यापि वै शिखा ॥ १९७॥ शक्रशङ्करयोर्मान्य इति नामद्वयाशयः । जीवनान्नान्य आनन्दस्तत्प्राण-पवनात्मकः ॥ १९८॥ प्राणस्यापि च यः प्राणः स स्यात्पवननन्दनः । अग्रे सूक्ष्मं चोत्तमं वा प्रत्यग्रं जीर्णतोज्झितम् ॥ १९९॥ तादृग्लोचनवानग्रप्रत्यग्रनयनो मतः । अस्त्रविद्याप्रवक्तृत्वाद्दिव्यास्त्राणां प्रयोगवित् ॥ २००॥ क्रीडयैवावृणोत्येष युगपद्दिग्गजानपि । ऐरावतादिसर्वाशावारणावरणप्रियः ॥ २०१॥ वज्रादीनि यदस्त्राणि तैरिन्द्रादिभिरावृतः । वज्राद्यस्त्रपरीवार आयुधावरणोऽपि वा ॥ २०२॥ गणाश्चण्डादयो यद्वा ये प्रचण्ड़ा गणेष्वपि । तेषां बलप्रदातृत्वाद्गणचण्डसमाश्रयः ॥ २०३॥ अथाष्टनामभिः प्राह प्राणशक्त्याद्यभिन्नताम् । जया च विजया पश्चादजया चापराजिता ॥ २०४॥ नित्या विलासिनी शौण्डी ततोऽनन्ताथ मङ्गला । प्राणशक्त्यादिदेवीनामेताः स्युः पीठशक्तयः ॥ २०५॥ जया`चाप्यजयेत्येतत्समाहारो जयाजयम् । ते एवास्य परीवारो द्वितीयं नाम तु स्फुटम् ॥ २०६॥ तृतीयनाम्न्यजितापदेनोक्ताऽपराजिता । सप्तमे ना म्न्य नन्ताया अनन्तसुखदायकः ॥ २०७॥ शोभना मङ्गला यस्मिंस्तत्तु पीठं सुमङ्गलम् । तादृक् सुमङ्गलं यस्मात् सुमङ्गलसुमङ्गलः ॥ २०८॥ या ब्रह्मण्युद्गता वृत्तिः स्वर्गादावीक्षणात्मिका । ज्ञानेच्छाकृतिरूपा सेत्यस्माभिः श्रुतियुक्तिभिः ॥ २०९॥ वामकेश्वरतन्त्रस्य व्याख्यायां प्रतिपादितम् । तादृग्वृत्तियुतं ब्रह्मनाम्न्यैकेनेह कथ्यते ॥ २१०॥ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः । सैव वृत्तिर्भिद्यमाना तत्तद्धर्मैकयोगतः ॥ २११॥ सुभगादिकरौद्घ्नन्तनामभागित्यपीरितम् । तत्र या सुभगादेवी तया सेव्याङ्घ्रिरप्यसौ ॥ २१२॥ गणेशसुन्दरीमन्त्राल्ललिताललिताश्रयः । कामिनी या कामकला कामेशी काममालिनी ॥ २१३॥ सरस्वत्याश्रयादीनि त्रीणि स्पष्टार्थकान्यथ । गणक्रीडादिगुरुभिर्ग्रन्थादौ प्रतिपादितैः ॥ २१४॥ गोपितत्वात्पदस्यास्य गुरुगुप्तपदो मतः । वाचा सिद्ध्यति यत्भक्त्या स वाचासिद्ध इष्यते ॥ २१५॥ वागीश्वरी तु नकुली नलिनी तु सुरापगा । तयोः पतिः कामुकोऽथ वामा ज्येष्ठा च रौद्रिका ॥ २१६॥ ब्रह्मविष्णुहरा व शक्तिरूपधरा यदि । वामैव यस्य रामा स ज्येष्ठा यस्य मनोरमा ॥ २१७॥ रौद्रीमुद्रितपादाब्जस्तदाञ्जलिधृताङ्घ्रिकः । हुङ्कार एव चरमो वक्रतुण्डषडक्षरे ॥ २१८॥ बीजं सर्वपुमर्थानां हुम्बीजस्तेन गीयसे । तत्रत्य एव तुङ्कारोऽष्टाविंशत्यर्णगं च गम् ॥ २१९॥ शक्तीस्ताः सकलौन्नत्यशक्त्याऽवन् तुङ्गशक्तिकः । विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः । अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६६॥ उच्छिष्टगण उच्छिष्टगणेशो गणनायकः । सार्वकालिकसंसिद्धिर्नित्यशैवो दिगम्बरः ॥ ६७॥ हिरण्यगर्भो विश्वादिस्तदुत्पादनपालने ॥ २२०॥ यस्मात् स्यातां स विश्वादिजननत्राण उच्यते । जननत्राणवच्छक्तो होमे कवलने प्रियः ॥ २२१॥ स्वाहेति मन्त्रशक्तिर्या स स्वाहाशक्तिरीरितः । मन्त्रे मृत्युञ्जये सौरे स इत्यर्णः सकीलकः ॥ २२२॥ वाचको यस्य मन्त्राङ्गसाहित्याद्वा सकीलकः । सुरासुधेक्षुसिन्धुस्थो यस्तत्पानरतश्च सः ॥ २२३॥ अमृताब्धिकृतावासो मदघूर्णितलोचनः । उच्छिष्टगण उत्कृष्टा गणाः शिष्टाश्च यस्य सः ॥ २२४॥ उच्छिष्टं नाम रूपं चेत्याद्यृचः सप्तविंशतिः । आथर्वणा यं वदन्ति स गणेशो न चापरः ॥ २२५॥ मोदकं भक्षयन्देवो ध्येयो मन्त्रो नवाक्षरैः । साधकेनेति वोच्छिष्टगणेश इति कथ्यसे ॥ २२६॥ गणनं गुणसङ्ख्यानमयते गणनायकः । सार्वकालिकसंसिद्धिः शाश्वत्यो यस्य सिद्धयः ॥ २२७॥ नित्यशैवः कदाप्यस्य शिवभावनया यतः । दिशमम्बरयत्यावृणोतीति स दिगम्बरः ॥ २२८॥ अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ॥ अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरम् ॥ ६८॥ अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः । अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः ॥ ६९॥ अनपगतशुभावहविधिरनपायो नाशविरहाद्वा । अगणितचक्षुर्नाशविरहितज्ञानोऽप्यनन्तदृष्टिरिति ॥ २२९॥ ज्ञानेन्द्रियवाङ्मनसागम्यत्वादप्रमेय इति । विजरो विमृत्युरित्याम्नानादजरामरो गदितः ॥ २३०॥ आविद्यकधर्मततिभिरकलुषितत्वादनाविलोऽपि भवान् । अप्रतिरथ इति गदितो नास्ति यतस्ते प्रतिद्वन्द्वी ॥ २३१॥ च्युतिराहित्यादच्युतनामा नारायणादभेदाद्वा । पीयूषं मोक्षो (ऐक्षवं)का त्वमेव भगवंस्ततोऽस्यमृतं ॥ २३२॥ अक्षरमश्नोतेर्व्याप्त्यर्थादथवा क्षयाभावात् । वेदाननुमततर्कागम्यत्वादप्रतर्क्यस्त्वम् ॥ २३३॥ न क्षतिरपि न च वसतिर्जेतुमशक्योऽक्षयोऽजय्यः । जगदाधारस्य तवाधारो नास्तीत्यनाधारः ॥ २३४॥ आमयमालिन्याभ्यामगृहीतत्वादनामयोऽस्यमलः सिद्धिर्भवत्यर्थवती न मोघ् भक्तस्य तेन त्वममोघसिद्धिः । द्वैतप्रपञ्चोपशमाच्चतुर्थ- मद्वैतमित्युच्यस ईशरूपः ॥ २३५॥ अघोरमूर्तिः शिव इत्यघोरो नमज्जनानामभयङ्करो वा । असङ्ख्यवक्त्रोऽस्यमितानि यस्मात् सञ्जीवनान्यप्रमिताननस्त्वम् ॥ २३६॥ अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः । आधारपीठ आधार आधाराधेयवर्जितः ॥ ७०॥ आखुकेतन आशापूरक आखुमहारथः । इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ७१॥ भक्तोषार्थमाकाराः सगुणाः सन्ति यद्यपि । तथापि त्वमनाकारः परमार्थदृशा विभो ॥ २३७॥ भूवारितेजोमरुतां बलानि संस्तम्भनक्लेदनदाहशोषाः । त्वयि क्षमास्तेन भवन्ति तेन त्वमब्धिभूम्यग्निबलघ्न उक्तः ॥ २३८॥ सच्चित्सुखैकमयता तु तव स्वरूप- लक्ष्म प्रपञ्चकलना तु तटस्थलक्ष्म । न व्यज्यते तदुभयं हि बहिर्मुखानां अव्यक्तलक्षण इति प्रथितोऽसि तेन ॥ २३९॥ आङ् व्यापनं वक्ति धरैव धारं शिवावधि क्ष्मावधितत्त्वपङ्क्तेः । षट्त्रिंशतः पीठ इवासनं त्व- माधारपीठोऽसि ततो नमस्ते ॥ २४०॥ अकारो वासुदेवः स्यादाकारस्तु पितामहः । तावुभौ यो धारयति स आधारो गणाधिपः ॥ २४१॥ सर्वाधारस्याधारान्तरविरहादतात्त्विकत्वाच्च । एषामाधेयानामाधाराधेयवर्जितोऽसि ततः ॥ २४२॥ आखुवाहं ध्वजीकुर्वन् दिशस्तृष्णां च पूरयन् । आखुकेतन आशापूरक आखुमहारथः ॥ २४३॥ इक्षुशब्दादिमं नामयुगलं प्रकटार्थकम् । इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः । इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ७२॥ इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः । इध्मप्रिय इडाभाग इराधामेन्दिराप्रियः ॥ ७३॥ इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः । ईशानमौलिरिशान ईशानसुत ईतिहा ॥ ७४॥ इक्षुचापातिरेकश्रीर्मदनाधिककान्तिमान् ॥ २४४॥ चापदेवतया मूर्तिमत्या पञ्चशरेण वा । नित्यं यः सेव्यते सोऽयमिक्षुचापनिषेवितः ॥ २४५॥ एतस्यैवारक्तरूपं भास्वराभास्वरासिते । शुक्लं च भास्वरं ध्येयं कामनाभेदतो जनैः ॥ २४६॥ युगभेदेन भेदस्तत्पुराणेऽपि निरूपितः । इति ध्वनयितुं नामचतुष्कं प्रकटार्थकम् ॥ २४७॥ श्रौतस्मार्ताग्निरूपत्वाद्भवानिध्मप्रियो मतः । इडा मही हविश्शेषो गौश्च भागस्तवैव यत् ॥ २४८॥ ऋत्विग्याज्यादिरूपत्वादिडाभाग इतीर्यसे । इरेति पृथ्वी तद्धामा तदन्तर्यमयन् स्थितः ॥ २४९॥ यः पृथिव्यां तिष्ठतीति बृहदारण्यकश्रुतेः । लक्ष्मीपूज्योऽथवा विष्णुरूपत्वादिन्दिराप्रियः ॥ २५०॥ इक्ष्वाकुः कटुतुम्बी तत्तुल्यप्रत्यूहनाशनात् । इक्ष्वाकुविघ्नविध्वंसी राज्ञो वा विघ्ननाशनात् ॥ २५१॥ इतिकर्तव्यताशब्दः क्रत्वङ्गस्तोमवाचकः । तामपेक्ष्य ददत्कामानितिकर्तव्यतेप्सितः ॥ २५२॥ नरभूतसुरेशाद्या ईशाना बहवोऽमिताः । तेषामेषोऽधिको मौलिरमितैश्वर्ययोगतः ॥ २५३॥ अनयन् जीवयन्नीशानीशान इति कीर्त्यसे । ईशानेन सुतः सोमरूपस्तस्य सुतोऽथवा ॥ २५४॥ अतिवृष्टिमनावृष्टिं मूषकान् शलभान् शुकान् । स्वचक्रं परचक्रं च विनिघ्नन्नीतिहा मतः ॥ २५५॥ ईषणात्रय कल्पान्त ईहामात्रविवर्जितः । उपेन्द्र (४००)उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ ७५॥ उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणीः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७६॥ ऋग्यजुःसामसम्भूतिः ऋद्धिसिद्धिप्रवर्तकः । ऋजुचित्तैकसुलभ ऋणत्रयविमोचकः ॥ ७७॥ लोकपुत्रधनेच्छानां तिसृणां प्रलयात्मकः । ईषणात्रयकल्पान्तो ``नृणां वैराग्यदायकः ॥ २५६॥ निश्रेष्टचित्स्वरूपत्वादीहामात्रविवर्जितः । वामनेन सहाभेदादुपेन्द्र इति कीर्तितः ॥ २५७॥ बिभ्रत्युडूनि या द्यौः सा यस्य विश्वात्मनः शिरः । स त्वमेवोडुभृन्मौलिर्द्यां मूर्धानमिति श्रुतेः ॥ २५८॥ यद्वा चन्द्रावतंसत्वादुडुभृन्मौलिरुच्यसे । उण्डेरकाः पूपभेदा वर्तुलाकृतयोऽल्पकाः ॥ २५९॥ उपहारास्तवेष्टा इत्युण्डेरकबलिप्रियः । उत्कृष्टानामजादीनां प्राणनादुन्नताननः ॥ २६०॥ तुङ्गा नाम नदी काचित् वराहवपुषस्तव । दंष्ट्राया उद्गता तस्माद्भवानुत्तुङ्ग ईरितः ॥ २६१॥ उदारो दातृमहतोस्त्रिदशो देव उच्यते । महादेवादपि श्रेष्ठ उदारत्रिदशाग्रणीः ॥ २६२॥ ऊर्जस्वानपि तेजोवानत एव मदोदकम् । उष्णं स्रवति गण्डाभ्यां तेनोष्मलमदो भवान् ॥ २६३॥ ऊहो वितर्कस्तत्त्वस्यापोह-स्तात्त्विकबाधनम् । ताभ्यां दुरासदोऽप्राप्य ऊहापोहदुरासदः ॥ २६४॥ ऋग्यजुः सामसम्भूतिर्यस्य निःश्वसितं त्रयी । राज्याणिमादिदातृत्वादृद्धिसिद्धिप्रवर्तकः ॥ २६५॥ दृश्यते त्वग्र्यया बुद्ध्येत्युक्तेर्यद्विमलं मनः । तद्भाह्य ऋजुचित्तैक सुलभस्तेन गीयसे ॥ २६६॥ पुत्रीयन्ति यियक्षन्ति वेदानिच्छन्ति ये द्विजाः । तत्कामनापूरकत्वादृणत्रयविमोच कः ॥ २६७॥ लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् । लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७८॥ एकारपीठमध्यस्थ एकपादकृतासनः । एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७९॥ ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः । ऐरम्मदसमोन्मेष ऐरावतनिभाननः ॥ ८०॥ ॐकारवाच्य ॐकार ओजस्वानोषधीपतिः । औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वनः ॥ ८१॥ अङ्कुशः सुरनागानामङ्कुशः सुरविद्विषाम् । अःसमस्तविसर्गान्तपदेषु परिकीर्तितः ॥ ८२॥ लुप्त शब्दादिकं नामत्रितयं प्रकटार्थकं(१) । दंशलूतादयो रोगा आन्तरा बहिरामयाः ॥ २६८॥ स्फोटाद्यास्तान्निहन्तीति लूताविस्फोटनाशनः । एकारपीठमध्यस्थत्रिकोणान्तस्स्थविन्दुगः ॥ २६९॥ काश्यामेकपदा तिष्ठन्नेकपादकृतासनः । एजिताखिलदैत्यश्रीः कम्पितासुरसम्पदा ॥ २७०॥ स्वाश्रिता वर्धिता येनेत्येधिताखिल-संश्रयः । ऐश्वर्यनिधिरैश्वर्यं भक्तेषु निदधाति यः ॥ २७१॥ ईश्वरेषु यदैश्वर्यं सम्पत्तिः सा त्वमेव हि । एषाऽस्य परमा सम्पदिति बोधयति श्रुतिः ॥ २७२॥ दत्से सुतादीन्स्वर्गं चेत्यैहिकामुष्मिकप्रदः(२) । विद्युत्तुल्यस्तवोन्मेषः क्षणाद्भासि न भासि च ॥ २७३॥ ऐरम्मदसमोन्मेषः स्वार्थे ज्ञेयोऽणिरम्मदात् । (Footnotes) (१) भक्तविघ्ननाशकत्वाद् भवान्विघ्नपतिः प्रभुः । लुप्तविघ्नः स्वभक्तानामित्येवं परिगीयसे । दैत्यसामर्थ्यहननात् लुप्तशक्तिः सुरद्विषाम् । तवोपासनहीनानां हरसि त्वं श्रियं विभुः । लुप्तीर्विमुखानां इत्येवं गीयसे क्रमात् ॥ (ब्रह्मा) (२) इह पुत्रादिसम्पत्तीः स्वर्गवासं परत्र च । प्रयच्छसि भवान् ख्यातः ऐहिकामुष्मिकप्रदः ॥ (ब्रह्मा)४०॥ ऐरावतसमास्यत्वादैरावतनिभाननः ॥ २७४॥ क्लेशादि रहितमीश्वरमुक्त्वा तस्य वाचकः प्रणवः । इति योगशास्त्रसूत्रे कथनादोङ्कारवाच्यस्त्वम् ॥ २७५॥ ॐ इति शब्दोऽपि त्वं भेदाभावेन वाच्यवाचकयोः(१) । अत एव त्वयि वाच्योङ्कारोऽपि प्रत्ययो युक्तः(२)॥ २७६॥ ओजोऽष्टमधातुरिति प्रोक्तं यद्वेदभाष्यकृता । शौर्योत्कर्षनिदानं तेजस्तद्वांस्त्वमोजस्वान्(३) ॥ २७७॥ ओषधीपतिरौदार्यनिधिरित्याह्वयौ स्फुटौ(४) । औद्धत्यमुद्धतत्वं यत् स्वभक्तानुजिघृक्षया ॥ २७८॥ स्वोत्कर्षद्योतनं तत्र श्रेष्ठ औद्धत्यधुर्यकः । बृंहितं यस्य सर्वोच्चं स स्यादौन्नत्यनिस्वनः ॥ २७९॥ अङ्कुशः सुरनागानां त्रैलोक्यस्य नियामकः । ऊर्ध्वं सुरा अधो नागा मर्त्यलोकोपलक्षणम् ॥ २८०॥ द्विषः सुराणां च विदां सुष्ठु सम्यग् रविद्विषाम् । निग्राहकत्वानिर्दिष्टोऽस्यङ्कुशः सुरविद्विषाम् ॥ २८९॥ अकाराद्येकपञ्चाशद्विसर्गन्तार्णबोधितः । अःसमस्तविसर्गान्तपदेषु परिकीर्तितः ॥ २८२॥ कमण्डलुधरः कल्पः कपर्दी कलभाननः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ८३॥ कदम्बगोलकाकारः कूष्माण्डगणनायकः । कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ८४॥ (Footnotes) (१) ओङ्कारवाच्य ओङ्कारमन्त्रेण प्रतिपादितः । (ब्रह्म) (२) ओङ्कारमयदेहत्वादोङ्कार इति कथ्यसे । (ब्रह्मा) (३) शौर्योत्कर्षसुतेजोवान् ओजस्वानिति वर्ण्यसे । (४) ओषधीनां पतिश्चन्द्रः तदात्मा चौषधीपतिः । (ब्रह्मा) भक्ताभीष्टमुदारेण दीयते येन ब्रह्मणा । औदार्यनिधिरित्येवं स भवान्कथ्यते प्रभुः । (ब्रह्मा) कमण्डलुधरः शुण्डाश‍ृंङ्गे(दण्डे)णामृतकुम्भधृकू(१) । कल्पः प्रलयकालात्मा समर्थः कल्पतेऽपि वा ॥ २८३॥ वरादधारी मल्ला(ह्ला)रिस्त्वं कपर्यथवा जटी(२) । कलो नादो भा तु दीप्तिरननं प्राणनं मतम् ॥ २८४॥ नादकान्त्युज्जीवकत्वात्कथ्यसे कलभाननः । कर्मसाक्षी त्वदृष्टानामपि द्रष्टासि कर्मणाम् ॥ २८५॥ कर्मठप्रेरणादन्तः कर्मकर्ता भवानपि । स्वर्गापवर्गदातृत्वात् कर्माकर्मफलप्रदः ॥ २८६॥ सर्वनाडचुद्गमस्थानं कदम्बकुसुमाकृतिः । परितः संवृता ताभिर्हृदि काप्यस्ति देवता ॥ २८७॥ कदम्बगोलकाकार इति तद्रूप उच्यसे । दुष्टग्रहाणां नेता त्वं कूष्माण्डगणनायकः ॥ २८८॥ कारुण्यदेहः करुणामूर्तित्वात्कपिलो मुनिः । कर्ण(वर्णि)तो वाऽसि कथकः सम्प्रदायान्प्रवर्तयन् ॥ २८९॥ रत्नप्रोतस्वर्णकाञ्चीधारणात्कटि-सूत्रभृत् ॥ खर्वः खड्गप्रियः खङ्गखान्तान्तस्थः खनिर्मलः । खल्वाटश‍ृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८५॥ गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः । गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८६॥ गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः । गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ॥ ८७॥ खर्वो वामनरूपत्वात्खड्गो गण्डकसंज्ञकः ॥ २९०॥ मृगो-ऽसिर्वा प्रियो यस्य स तु खड्गप्रियो मतः । खड्गशब्दे खात्परो डस्तदन्ते गाक्षरे तव ॥ २९१॥ (Footnotes) (१)रत्नयुक्तहेमकुम्भधारणेनाथवा स्मृतः । (२)कपर्दाख्यजटाधारी कपर्दी पार्वतीपतिः । कपर्दिना पूजितोऽयं कपर्दी तु तदात्मवान् । बीजे तिष्ठस्यतः खड्गान्तान्तस्थ इतीर्यसे(१) । आकाशवत्सर्वगोऽपि निर्लेपोऽतः खनिर्मलः ॥ २९२॥ वृक्षा एव गिरेः केशाः खल्वाटस्तैर्विवर्जितः । खल्वाटश‍ृङ्ग-निलयस्तच्छृङ्गेऽपि वसन् मतः ॥ २९३॥ खट्वाङ्गीति भवान् ख्यातः खट्वाङ्गाख्यायुधं दधत् । अमूर्तो व्योमवद्धर्तुं अशक्यः स्वदुरासदः ॥ २९४॥ अनन्तकल्याणगुणो गुणाढ्यो गन्तुं न शक्यो गहनोऽसि गस्थः । बीजे निजे तिष्ठसि गद्यपद्य- सुधार्णवः काव्यरसाकरत्वात् ॥ २९५॥ गदितुं योग्यं गद्यं न निषिद्धं साम ते प्रियं गानम् । तेनासि गद्यगानप्रियोऽथ गर्जोस्सि मेघनादात्मा ॥ २९६॥ नादात् गीतादयः शब्दा नादार्थादमरादयः । जातास्तद्द्वयरूपत्वाद्गीतगीर्वाणपूर्वजः ॥ २९७॥ गुहाप्रविष्टावात्मानौ गुह्यौ तौ मनसा चरन् । अन्तर्मुखस्तत्र तुष्टो गुह्याचाररतो मतः ॥ २९८॥ गुह्य एकान्तवेद्यत्वाद्धितकारी गुहाय वा । रहस्यतन्त्रवेद्यत्वाद्गुह्यागमनिरूपितः ॥ २९९॥ गुहायां हृदयाकाशे शेते यः स गुहाशयः । अव्याकृतं नभो गूढमगाधं च गुहाब्धिवत् ॥ ३००॥ अधितिष्ठसि तत्तेन गुहाब्धिस्थ इतीर्यसे । गुरुगम्यो गुरुप्रोक्तयोगोपायेन लभ्यसे ॥ ३०१॥ शिवसूत्रे गुरुरुपाय इत्येवं त्वं हि वर्णितः । वेदा अध्यापिता येन ब्रह्मणे स गुरोर्गुरुः ॥ ३०२॥ घण्टाघर्घरिकामाली घटकुम्भो घटोदरः । चण्डश्चण्डेश्वरसुहृच्चण्डीशचण्डविक्रमः ॥ ८८॥ चराचरपतिश्चिन्तामणिचर्वणलालसः । छन्दश्छन्दोवपुश्छन्दोदुर्लक्ष्यश्छन्दविग्रहः ॥ ८९॥ जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः । जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः ॥ ९०॥ (Footnote) (१) खड्गपोत इव तव बीजोऽस्ति च गकारकः । तत्र तिष्ठसि तेन त्वं खड्गखान्तान्तस्थ ईरितः ॥ घण्टेव मञ्जुनादा घर्घरिकाः किङ्किणीभेदाः । तद्धारी घण्टाघर्घरिकामालीति बाललीला ते ॥ ३०३॥ कुम्भौ न्युब्जघटाकारौ घटकुम्भस्ततो मतः । घटोदरो बृहत्कुक्षिश्चण्डो भूरिपराक्रमः ॥ ३०४॥ चण्डेश्वरः सुहृद्यस्य शैवखण्डेश्वरः सखा । चण्डीशश्चण्डिकानाथश्चण्डा अत्यन्तकोपनाः ॥ ३०५॥ तानाक्रम्य वशे कुर्वन्नाख्यातश्चण्डविक्रमः । चराचरपतिः स्थास्नुचरिष्णुजगदीश्वरः ॥ ३०६॥ चिन्तामणिकाम दुघाकल्पद्रुमगर्वचर्वणतः । चिन्तामणिचर्वणलालस इति कथितोऽस्यचिन्त्यदानेन ॥ ३०७॥ गायत्र्याद्यात्मना छन्दो भवान् वेदमयात्मना । छन्दोवपुस्तथा छन्दोदुर्लक्ष्यो वेददुर्ग्रहः(१) ॥ ३०८॥ स्वाभिप्रायानुसारीणि भक्तेः परवशानि वा । अवतारशरीराणि यस्य स च्छन्दविग्रहः ॥ ३०९॥ जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः । विश्वस्य कारणं द्रष्टा नाथोऽधिष्ठानमेव च(२) ॥ ३१०॥ जपो जपपरो जप्यः कर्मकर्तृक्रियात्मकः(३) । कीर्त्यमानं यस्य नाम जिह्वासिंहासनस्थिम् ॥ ३११॥ ददाति पुरुषार्थान् स जिह्वासिंहासनप्रभुः । झलज्झल्लोल्लसद्दानझङ्कारिभ्रमराकुलः । टङ्कारस्फारसंरावष्टङ्कारिमणिनूपुरः ॥ ९१॥ ठद्वयीपल्लवान्तःस्थसर्वमन्त्रैकसिद्धिदः । (Footnotes) (१) छन्दोवपुस्तथा छन्दोदुर्लक्ष्यो वेदपूरुषैः । अप्राप्यश्चाप्यगम्यश्च नेति नेतीति शेषतः ॥ (२) जगद्योनिर्विश्वमूलं कारणं कारणेश्वरः । जगत्साक्षी विश्वद्रष्टा चिन्मायायोगरूपवान् ॥ जगदीशो गुणेशानरूपी त्रिविधनायकः । जगन्मयो व्योमरूपजगदधिष्ठानरूपकः ॥ (३) जपो मन्त्रस्वरूपी त्वं मन्त्रविघ्नेशसंज्ञितः । मन्त्रकर्ता जपपरो जप्यो मन्त्रक्रियात्मकः ॥ डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ॥ ९२॥ ढक्कानिनादमुदितो ढौको (५००)ढुण्ढिविनायकः । तत्त्वानां परमं तत्त्वं तत्त्वम्पदनिरूपितः ॥ ९३॥ झलज्झल्लोल्लसद्दानझङ्कारिभ्रमराकुलः ॥ ३१२॥ नदन्ति गण्डयोर्भृङ्गाः स्फुरन्मदपिपांसवः । कांस्यटङ्कारवत्स्फारो यस्य मञ्जुतरो रवः ॥ ३१३॥ टङ्कारस्फारसंराव इति लोके स गीयते । नदद्रत्नाङ्घ्रिकटकष्टङ्कारिमणिनूपुरः ॥ ३१४॥ उद्वयीपल्लवान्तःस्थसर्वमन्त्रकसिद्धिदः । स्वाहान्ताखिलमन्त्रोत्थ मुख्यसिद्धिप्रदो यतः ॥ ३१५॥ डिण्डिर्नामैकदेशेन डिण्डिमौ न्युब्जदुन्दुभी । तावेव कुम्भौ यन्मुण्डे डिण्डिमुण्डः स उच्यते ॥ ३१६॥ डाकिन्यो नाम योगिन्यः काश्वित्सप्तगणादिमाः । षोढान्यासादिषु स्पष्टा डाकिनीशस्तदीश्वरः ॥ ३१७॥ डामरस्तु महांस्तन्त्रविशेषो वा तदात्मकः । दुन्दुभौ पटहध्वानेऽप्यानन्दी डिण्डिमप्रियः ॥ ३१८॥ ढक्कानिनादमुदितो ढक्कावाद्यप्रियो भवान् । गत्यर्थात् ढौकतेर्ढौकः सर्वगो वासि सर्ववित् ॥ ३१९॥ काशीखण्डे ढुण्ढिधातुः प्रथितोऽन्वेषणार्थकः । विशिष्टो नायकोऽन्वेष्य इति ढुण्ढिविनायकः ॥ ३२०॥ तत्त्वानां परमं तत्त्वं पञ्चविंशतितः परम् । त्रयं सृष्ट्यादि स्वप्नादि वाच्यं धर्मं त्वमा सदा ॥ ३२९॥ त्यक्त्वा धर्मिणि भक्त्यैव तत्त्वम्पदनिरूपितः(१) । (Footnote) (१) जीवेशसाक्षिरूपत्वात् तत्त्वम्पदनिरूपितः ॥ तारकान्तरसंस्थानस्तारकस्तारकान्तकः । स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ॥ ९४॥ दक्षयज्ञप्रमथनो दाता दानवमोहनः । दयावान् दिव्यविभवो दण्डभृद्दण्डनायकः ॥ ९५॥ दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः ॥ ९६॥ धनधान्यपतिर्धन्यो धनदो धरणीधरः । ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ॥ ९७॥ तारकान्तरसंस्थानस्तारकाऽक्ष्णः कनीनिका ॥ ३२२॥ तस्यां चिन्त्यो य एषोऽन्तरक्षिणीत्यादिकश्रुतेः । तारको भवपाथोधेस्त्वमेव प्रणवो यथा(ऽथवा) ॥ ३२३॥ तारकासुरहन्त्रात्मा कथितस्तारकान्तकः । स्थाणुः कल्पान्तवाताग्निसलिलैरप्यकम्पितः ॥ ३२४॥ स्थाणोः शिवस्य पुत्रत्वात्स्थाणुप्रिय इतीर्यसे । स्थाता युद्धेऽपि कल्पेऽपि निष्कम्पो गगनादिवत् ॥ ३२५॥ चराचरात्मकत्वेन स्थावरं जङ्गमं जगत् । दक्षयज्ञप्रमथनो भवानेव शिवात्मना ॥ ३२६॥ दाता देयः शोधनार्थाद्भवान् पतितपावनः(१) । दानवांस्तत्त्वविमुखान् कुर्वन् दानवमोहनः ॥ ३२७॥ दयावान् परदुःखानि प्रहापयितुमिच्छसि । प्राप्त्यर्थाद्दीव्यतेर्दिव्यविभवः प्रापकः श्रियाम् ॥ ३२८॥ दण्डभृत् कथितो दण्डनीतेरपरिलोपतः । यमेन्द्रादिषु ये दण्डास्तन्ने ता दण्डनायकः ॥ ३२९॥ यच्छिरः कम्पमात्रेण मेघपङ्क्तिः प्रभिद्यते । दन्तप्रभिन्नाभ्रमाल इति स त्वं निगद्यसे ॥ ३३०॥ वारयन् दारयन् दैत्यान् दैत्यवारणदारणः । यस्य दंष्ट्रैकदेशेऽपि लग्ना रिपुगजच्छटाः ॥ ३३१॥ दंष्ट्रालग्नद्विपघट इति नाम्ना स गीयते । देवानां कार्यसिद्ध्यर्थं येन मर्त्यद्विपाकृतिः ॥ ३३२॥ स्वीकृता स स्मृतो नाम्ना देवार्थनृगजाकृतिः । धनधान्यप्रदत्वेन धनधान्यपतिर्भवान् ॥ ३३३॥ धन्यस्त्वं धनलब्धृत्वात् पुण्यवान्वापि गीयसे । धनदो धनदानेन कुबेरात्मतयापि वा ॥ ३३४॥ शेषेणादिवराहेणाप्यभिन्नो धरणीधरः(२) । (Footnotes) (१) इष्टार्थदानाद्भक्तानां दाता त्वं गणनायकः । (२) योगभूमिधारणाद्वा शेषात्मा धरणीधरः ॥ मनसैवानुद्रष्टव्यो ध्यानैकप्रकटो भवान् ॥ ३३५॥ त्वमेव त्रिपुटी ध्येयो ध्यानं ध्यानपरायणः ॥ नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः । निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९८॥ परं व्योम परं धाम परमात्मा परं पदम् । परात्परः पशुपतिः पशुपाशविमोचकः ॥ ९९॥ पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः । पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः ॥ १००॥ नन्द्य आनन्दनीयोऽसि नन्दिकेश्वरवल्लभः ॥ ३३६॥ नन्दिप्रियोऽसि नादोऽसि योऽन्तर्दशविधध्वनिः । गम्यो नादानुसन्धानान्नादमध्यप्रतिष्ठितः ॥ ३३७॥ निष्कलोऽवयवैर्हीनो निर्मलो दूषणोज्झितः । नित्यो नाशोज्झितो नित्यानित्यः खोर्व्यादिरूपधृक् ॥ ३३८॥ अविद्यैव महारोगस्तदस्पृष्टो निरामयः । अव्याकृतं यदाकाशं परं व्योम तदात्मकः ॥ ३३९॥ ज्योतिषामपि यज्ज्योतिस्तत्परं धाम कथ्यते । परमः सर्वजीवेभ्यः परमात्मेति गद्यते ॥ ३४०॥ कैलासादिपदेभ्योऽपि परमत्वात्परं पदम् । ब्रह्मविष्णुमहेशानाद्युत्तमत्वात् परात्परः ॥ ३४९॥ ब्रह्मादिकीटकान्तानां पाता पशुपतिर्मतः । द्विपञ्चाशद्विधाः पाशाः साङ्ख्यतन्त्रादिषु स्फुटाः ॥ ३४२॥ ब्रह्मादीन्मोचयंस्तेभ्यः पशुपाशविमोचकः । पूर्णानन्दः क्रियाकर्तृकर्मभेदोज्झितं सुखम् ॥ ३४३॥ भूपादिब्रह्मपर्यन्तानन्दान् शतगुणोत्तरान् । सर्वानप्यधरीकुर्वन् परानन्दो महासुखम् ॥ ३४४॥ क्षरेभ्यः सर्वभूतेभ्यः कूटस्थादक्षरादपि । उत्तमत्वादनादित्वात् पुराणपुरुषोत्तमः ॥ ३४५॥ पद्मप्रसन्ननयनो विकसत्कमलेक्षणः । नमतां तत्त्वबोधेन प्रणताज्ञानमोचनः ॥ ३४६॥ प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः । फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः ॥ १०१॥ बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ १०२॥ बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ १०३॥ प्रमाणप्रत्ययातीतो नित्यज्ञानैकविग्रहः । प्रमाकरणजानां हि प्रमितीनामनित्यता ॥ ३४७॥ नमतां नाशयन् पीडां प्रणतार्तिनिवारणः । फलहस्तः स्वभक्तानामविलम्बात्फलं ददत् ॥ ३४८॥ वासुकेरपि शेषस्य स्वामी फणिपतिर्मतः । फेत्कार इति तन्नाम्ना तन्त्रं तत्र निरूप्यसे ॥ ३४९॥ खण्डा(गुडा)ह्वयेक्षुविकृतौ प्रीतिमान् फाणितप्रियः । बाणासुरेण पूज्यत्वाद्बाललीलासु कौतुकात् ॥ ३५०॥ बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली । ब्रह्म त्वमेव वेदान्तवेद्यतत्त्वात्मकत्वतः ॥ ३५१॥ ब्रह्मार्चितपदो वेदैः श्लाघनीयं हि ते पदम् । ब्रह्मचारी भवान् येनाकृतदारपरिग्रहः ॥ ३५२॥ वाचस्पतिस्वरूपेण देवार्च्यत्त्वाद्भृहस्पतिः(१) । बृहतो ब्रह्मविष्ण्वादीनतिशेषे बृहत्तमः ॥ ३५३॥ वेदैकतत्परो धातुः श्रेष्ठो ब्रह्मपरो मतः(२) । ब्रह्मण्य इति विख्यातो ब्राह्मणान् मानयन् स्वयम् ॥ ३५४॥ प्रिया ब्रह्मविदो यस्य स मतो ब्रह्मवित्प्रियः । चीत्कारो गजशब्दः स मेघाशन्यादितो महान् ॥ ३५५॥ तवास्तीति बृहन्नादाग्र्यचीत्कार इति स्मृतः । कटिसूत्रे किङ्किणीव ब्रह्माण्डान्येव गुम्फयन् ॥ ३५६॥ तादृग्दधद्विश्वरूपं ब्रह्माण्डावलि-मेखलः । (Footnotes) (१) बुद्धिस्तु बृहती माया तत्पतित्वाबृहस्पतिः ॥ (२) धातुर्वेदैकपरस्य श्रेष्ठो ब्रह्मपरो मतः । भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः । भगवान्ं भक्तिसुलभो भूतिदो भूतिभूषणः ॥ १०४॥ भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः । मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः ॥ १०५॥ मेखलावान् मन्दगतिर्मतिमत्कमलेक्षणः । महाबलों महावीर्यो महाप्राणो महामनाः ॥ १०६॥ भ्रुवोरिङ्गितमात्रेण भक्तेभ्यः सम्पदो ददत् ॥ ३५७॥ भूक्षेपदत्तलक्ष्मीको भर्गो गायत्र्युदीरितः । भद्रा मन्द्रा मृगाश्चेति सन्ति द्विरदजातयः ॥ ३५८॥ तेषूत्तमा भद्रजातिर्भद्रस्त्वं तादृशाननः । द्वितीयाद्वै भयं यत्तदपघ्नंस्त्वं भयापहः ॥ ३५९॥ उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्सि विद्यामविद्यां चेत्युच्यसे भगवानिति ॥ ३६०॥ भक्त्यैव लब्धुं यः शक्यः स भक्तिसुलभो महान्(भवान्) । सिद्धीर्दत्से भस्म धत्से भूतिदो भूतिभूषणः ॥ ३६१॥ भव्यो भावुकरूपत्वाद्भाविविश्वात्मकत्वतः । भूतानां भूजलादीनां पिशाचानां च देहिनाम् ॥ ३६२॥ अतीतानामधिष्ठानमतो भूतालयो भवान् । भोगदाता दुःखसुखसाक्षात्कारप्रदत्वतः ॥ ३६३॥ अविमुक्ते भ्रुवोर्मध्ये ध्येयो भ्रूमध्यगोचरः । मन्त्राः सामर्ग्यजूरूपा षडर्णैकाक्षरादयः ॥ ३६४॥ रहोविचाररूपाश्च राज्यभारोपयोगिनः । तद्रूपस्तदभिमानिदेवता तस्य कारकः ॥ ३६५॥ तेन मन्त्रो मन्त्रपतिर्मन्त्रीत्यपि च गीयसे । मदः समाधिसम्भूतध्येयान्यविषयाग्रहः ॥ ३६६॥ रमसे तद्युते चित्ते मदमत्त मनोरमः । मेखलावान् रशनया मौञ्ज्या वा विलसत्कटिः ॥ ३६७॥ येषां कापि गतिर्नास्ति मन्दानां ज्ञानकर्मणोः । अभावेन गतिस्तेषामपि मन्दगतिस्ततः ॥ ३६८॥ यस्माज्ज्ञानयुता सम्पत्तादृग् यस्य निरीक्षणम् । दृशैव दत्तधीश्रीको मतिमत्कमलेक्षणः ॥ ३६९॥ बलवीर्यप्राणमनःसमष्ट्येयेकतनुर्भवान् । महाबलो महावीर्यो महाप्राणो महामनाः ॥ ३७०॥ यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः । यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ १०७॥ रसो (६००)रसप्रियो रस्यो रञ्जको रावणार्चितः । रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १०८॥ लक्ष्यं लक्ष्यप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः । लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ १०९॥ यज्ञ इत्यादिकं नामाष्टकं तु प्रकटार्थकं (१) । रसः परम आनन्दो रसो वै स इति श्रुतेः ॥ ३७९॥ शान्तादौ मधुरादौ वा रसे प्रीत्या रसप्रियः । रस्यते चर्व्यते प्राज्ञैर्भूयो भूयोऽनुभूयते ॥ ३७२॥ स रस्यस्तन्मनोवृत्तिरञ्जनेनासि रञ्जकः । रावणैः शब्दनैर्वेदशास्त्रगीतादिपाठिभिः ॥ ३७३॥ दशास्येनापि सिद्ध्यर्थं पूजितो रावणार्चितः । रक्षांसि भस्मसात्कुर्वन् रक्षोरक्षाकरः स्मृतः ॥ ३७४॥ रत्नगर्भा मही तद्वान् रत्नगर्भस्तदाश्रयः । राज्यं तज्जन्मसौख्यं च ददद्राज्यसुखप्रदः ॥ ३७५॥ तारेण धनुषा चित्तशरेण ब्रह्म वेधयेत् । इति श्रुत्या शरव्यस्त्वं तल्लक्ष्यमसि योगिनाम् ॥ ३७६॥ (Footnote) (१) ब्राह्मणस्पत्ययज्ञात्मा यज्ञो यज्ञस्वरूपवान् । यज्ञतोष्यो यज्ञपतिर्यज्ञभोक्ता च तत्र भुक् । यज्ञे प्रीत्या फलदो मतो यज्ञफलप्रदः । यशस्करो यशोवृद्धिकर्ता लोकत्रयेषु च । ज्ञानयोगेन गम्यस्त्वं योगगम्यस्तु शान्तिदः । त्वमेव युग(यज्ञ)कर्ता स्यात्तेन त्वं याज्ञिकः स्मृतः । याजकेषु प्रीतियुक्तो मतस्त्वं याजकप्रियः । लक्ष्याणि चित्तस्थैर्यार्थं लक्षसङ्ख्यान्यदीदृशन् । ऋषयस्तानि निर्विघ्नं ददल्लक्ष्यप्रदो भवान् ॥ ३७७॥ लक्ष्यो लक्षणया गम्यो महावाक्यगतैः पदैः । लयस्थः कल्पकालेऽपि तिष्ठंश्चित्तलयेऽपि वा ॥ ३७८॥ लड्डुका वर्तुलाकाराः प्रियालतिलखाखसैः । रचिताः शर्करापक्वास्तत्प्रियो लड्डुकप्रियः ॥ ३७९॥ लानप्रियो गजावासशालायां प्रीतिसंयुतः । विलासार्हं परं धाम यस्य लास्यपरो हि सः ॥ ३८०॥ ये लाभकारिणो लोकाः शीघ्रं भक्तवरप्रदाः । तेषु श्रेष्ठतया ख्यातो लाभकृल्लोकविश्रुतः ॥ ३८१॥ वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः । विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ ११०॥ वामदेव विश्वनेता वज्रिवज्रनिवारणः । विश्वबन्धनविष्कम्भाधारो विश्वेश्वरप्रभुः ॥ १११॥ शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः । शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः ॥ ११२॥ वरेण्याख्यो गणपतेरद्वैतभजने रतः । कश्चिद्राजा तदद्वैताद्वरेण्योऽस्युत्तमोऽपि वा ॥ ३८२॥ यद्भवन्तमुद्दिश्य समिद्धेऽग्नौ हुतं हविः । तेनैव तृप्यसीत्यर्थात्त्वं वह्निवदनो मतः ॥ ३८३॥ वन्यो नम्योऽस्युपनिषद्गम्यो वेदान्तगोचरः । विकर्ता त्वं हि षड्भावविकाराणां प्रवर्तकः ॥ ३८४॥ यत्र क्वचन भक्तेन पत्रं पुष्पं फलं जलम् । दत्तं तत्रैव तत्पश्यन् धारयन् भक्षयन्नपि ॥ ३८५॥ कीर्त्यसे विश्वतश्चक्षुर्विधाता विश्वतोमुखः । वामदेवो वल्गुतरं दीव्यसि द्योतसे यतः ॥ ३८६॥ विश्वनेतासि जगतो विष्णोर्वा नायको यतः । इन्द्रवज्रस्तम्भनेन वज्रिवज्रनिवारणः ॥ ३८७॥ विश्वनिर्माणपर्याप्तो देशो विष्कम्भ उच्यते । विश्वबन्धनविष्कम्भाधारस्तस्यापि धारणात् ॥ ३८८॥ ब्रह्माण्डानां तदीशानां चेशो विश्वेश्वरप्रभुः । शब्दब्रह्म परां वाचमतीतो नादरूपधृक् ॥ ३८९॥ शमप्राप्यः शान्तिदान्तिजितचित्तेन लभ्यसे । शैवान् शाक्तान् गणांश्चेष्टे शम्भुशक्तिगणेश्वरः ॥ ३९०॥ शास्ता केरलदेशीया देवताऽस्ति तदात्मकः । तस्याः शिखाया मध्ये यः परमात्मा व्यवस्थितः ॥ ३९१॥ श्रुतिसिद्धोऽस्ति तद्रूपः शिखाग्रनिलयो भवान् । त्राता शरण्यः प्रालेयाचलात्मा शिखरीश्वरः ॥ ३९२॥ षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः । संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ ११३॥ सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदनः । सिन्दूरितमहाकुम्भः सदसद्व्यक्तिदायकः ॥ ११४॥ साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः । स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ ११५॥ जातीचम्पककुन्दादीन्येकैकर्तुभवान्यपि । षडृतुकुसुमस्रग्वी सर्वदा युगपद्दधत् ॥ ३९३॥ मूलाधारे गणेशोऽस्ति चक्रषट्कं तदूर्ध्वतः । षण्णामाधारभूतोऽसि षडाधार इति स्मृतः ॥ ३९४॥ ङेवर्मयुग्वक्रतुण्डमन्त्ररूपः षडक्षरः । संसारवैद्य इत्युक्तो भवरोगविनाशकः ॥ ३९५॥ सर्वज्ञः सकलज्ञाता सुगतात्मा विनायकः । सर्वेषामपि रोगाणां दिव्यं पीयूषमौषधम् ॥ ३९६॥ तस्यापि नाशयन् दोषान् सर्वभेषजभेषजम् । लीलया सर्वजगतां निर्मिति-स्थिति-संहृतीः ॥ ३९७॥ सृष्टि-स्थिति-लयक्रीडः कथ्यसे रचयन् क्षणात् । दानवैरर्चितश्चेत्त्वं सुरकुञ्जरभेदनः ॥ ३९८॥ सिन्दूरितमहाकुम्भः सिन्दूरारुणमस्तकः । सद्ब्रह्मैव न सद्विश्वं तयोर्व्यक्तिः प्रकाशनम् ॥ ३९९॥ स्वभक्तेभ्यो ददासीति सदसद्व्यक्तिदायकः । साक्षी पश्यसि साक्षात्त्वं विश्वं चित्तानपेक्षया ॥ ४००॥ समुद्रमथने देवैर्मन्थनारम्भणेऽर्चितः । समुद्रमथनः प्रोक्तः स्वसंवेद्यः परात्परः ॥ ४०१॥ परज्योतिः स्वरूपत्वात् स्वयंशक्तः स्वदक्षिणः ॥ ४०२॥ स्वतन्त्रः स्वयमेवासि नानातन्त्रात्मना यतः । अमोघकल्पनात् सत्यसङ्कल्प इति गीयसे ॥ ४०३॥ सामप्रीतेः सदानन्दात् सामगानरतः सुखी । हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् । हव्यो हुतप्रियो हर्षो हृलेखामन्त्रमध्यगः ॥ ११६॥ क्षेत्राधिपः क्षमाभर्ता क्षमापरपरायणः । क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ ११७॥ हंसो यतिविशेषात्मा यद्वा भास्करमूर्तिकः(१) ॥ ४०४॥ एतत्पञ्चाक्षरस्यान्ते लिखेछब्दाद्द्विठो मनुः । तत्प्रतीकमुपादाय तस्येशो देवतोदिता ॥ ४०५॥ सोऽयं हस्तिपिशाचीशो नवार्णमनुदेवता । यागः प्रक्षेपयुघोमस्तद्रूपो हवनं भवान् ॥ ४०६॥ देवताः पितरश्चेति द्विरूपो हव्यकव्यभुक् । हन्यो हविः स्वरूपत्वाद्धविर्ब्रह्मेति हि स्मृतेः ॥ ४०७॥ हुतं द्रव्यं प्रियं यस्या देवतायाः (हुतप्रियः )स वै भवान् । हविर्भक्षणजो मोदो हर्षः सोऽपि त्वदात्मकः ॥ ४०८॥ हृल्लेखार्थस्तन्त्रराजे वर्णितो व्याकुलाक्षरैः । व्योम्ना प्रकाशमानस्त्वं ग्रसमानस्त्वमग्निना ॥ ४०९॥ तयोर्विमर्श ईकारो बिन्दुना तन्निफालनम् । इति ह्रीङ्कारवाच्योऽसि हृल्लेखामन्त्रमध्यगः ॥ ४१०॥ प्रयागादेः शरीरादेर्वेशः क्षेत्राधिपो मतः(२) । क्षमाभर्ता क्षितिं क्षान्तिमपि वा यो बिभर्ति सः ॥ ४११॥ (Footnotes) (१) हंसो यति विशेषो वा गणको भानुमूर्तिमान् । (२) काशीमयूरपुर्याय क्षेत्रेशा बहुविश्रुताः । अधिपश्चापि तेषां त्वं देव क्षेत्राधिपो मतः ॥ क्षान्तिशीलमुनिप्राप्यः क्षमापरपरायणः । शीघ्रं सिद्धिं ददातीति क्षिप्रक्षेमकरो भवान् ॥ ४१२॥ क्षेमं सांसारिकं सौख्यमानन्दः पारमार्थिकः । उभयात्मा त्वमेवेति क्षेमानन्द इतीर्यसे ॥ ४१३॥ कल्पवृक्ष इव क्षोण्यामिष्टान्सर्वान्प्रयच्छसि । धर्मादिदुःखभोगान्तान् अतः क्षोणीसुरद्रुमः ॥ ४१४॥ धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः । विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ ११८॥ आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः । सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ ११९॥ मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ १२०॥ पराभिचारशमनो दुःखभञ्जनकारकः । कल्पद्रुमत्वं विविनक्त्येकविंशतिनामभिः । धर्मप्रदोऽर्थदः कामदातेत्युक्तस्त्रिवर्गदः ॥ ४१५॥ स्त्रीणां जीवत्पतित्वादि ददत्सौभाग्यवर्धनः । विद्याप्रदो विभवदो ज्ञानसम्पत्तिदायकः ॥ ४१६॥ भोगजीवन्मुक्तिदानाद्भुक्तिमुक्तिफलप्रदः । आढ्यैः सह दरिद्राणां मूर्खाणां पण्डितैः सह । साम्यं प्रदर्शयन् सभ्येष्वाभिरूप्यकरो मतः ॥ ४१७॥ समरे कान्दिशीकानां अपि वीरश्रियं ददत् । नाम स्मृतवतां वीरश्रीप्रदः कीर्त्यसे बुधैः ॥ ४१८॥ वीरश्रिया जयफलं ददानो विजयप्रदः । सर्वं भक्तवशे कुर्वन् सर्ववश्यकरो भवान् ॥ ४१९॥ बीजदोषान् स्रावपातौ नाशयन् गर्भदोषहा । पुत्रः सूनुश्व दुहिता तत्पौत्रान् दुहितुः सुतान् ॥ ४२०॥ नप्तॄण्प्रणप्तॄण् दौहित्रान् ददानः पुत्रपौत्रदः । धीर्धारणावती मेधा मेधादस्तत्प्रदायकः ॥ ४२१॥ लोके या सद्गुणख्यातिस्तत्प्रदानेन कीर्तिदः । शोकहारी ज्ञानदानात्तरति शोकमात्मवित् ॥ ४२२॥ दुर्भगत्वापहारेण स्त्रीणां दौर्भाग्यनाशनः । वाचं स्तभ्नासि दुष्टानां प्रतिकूलं प्रजल्पताम् ॥ ४२३॥ प्रतिवादिमुखस्तम्भः कथ्यसे स्मृतिमात्रतः । सेवकेषु क्रोधजुषां राज्ञां चित्तानि शोधयन् ॥ ४२४॥ स्नेहशालीनि कुर्वाणो रुष्टचित्तप्रसादनः । पराभिचारशमनो मारणाख्यस्य कर्मणः ॥ ४२५॥ स्वशत्रुभिः प्रणीतस्य निष्फलीकरणान्मतः । भञ्जयन् सर्वदुःखानि दुःखभञ्जनकारकः ॥ ४२६॥ लवस्त्रुटिः कला काष्ठा निमेषस्तत्परः क्षणः ॥ १२१॥ घटी मुहूर्तं प्रहरो दिवा नक्तं (७००)अहर्निशम् । पक्षी मासोऽयनं वर्षं युगं कल्पो महालयः ॥ १२२॥ राशिस्तारा तिथिर्योगो बारः करणमंशकम् । लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ १२३॥ राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः । कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं च यत् ॥ १२४॥ अथ कालस्वरूपत्वमुक्तं विंशतिनामभिः । पद्मपत्रसहस्रस्य सूक्ष्मसूच्याभिवेधने ॥ ४२७॥ दले दले लवः कालः सहस्रेण लवैस्त्रुटिः ॥ ४२८॥ त्रुटेः शतं तत्परस्तैर्निमेषस्त्रिंशता भवेत् । अष्टादशनिमेषैः स्यात्काष्ठा तत्रिंशता कला ॥ ४२९॥ तत्त्रिंशता क्षणस्ते षड्घटी ताभ्यां मुहूर्तकम् । प्रहरस्तच्चतुष्कं तच्चतुष्कं नक्तकं दिवा ॥ ४३०॥ अहर्निशं त्वहोरात्रं प्रहरैरष्टभिर्भवेत् । ते पञ्चदश पक्षस्तौ मासः षडयनं तु ते ॥ ४३१॥ ताभ्यां तु मानुषं वर्षं तैः षष्ट्या त्रिशतीयुजा । दिव्यं द्वादशसाहस्रैर्दिव्यवर्षैश्चतुर्युगम् ॥ ४३२॥ चतुर्युगसहस्रेण कल्पो दैनन्दिनो लयः । द्वासप्ततिसहस्रैस्तैः स्यान्महाप्रलयो विधेः ॥ ४३३॥ राशिर्द्वादश मेषाद्याः कृत्तिकाद्याश्च तारकाः । त्वमेव च तिथिश्वान्द्री कला पञ्चदशत्मिका ॥ ४३४॥ विष्कम्भप्रथमा योगास्त्वद्रूपाः सप्तविंशतिः । योगा अमृतसिद्धाद्या आनन्दाद्यास्त्वमेव च ॥ ४३५॥ रव्यादिसप्तवारात्मा बवादिकरणात्मकः । चत्वारि प्रतिनक्षत्रमंशकानि त्वमेव हि ॥ ४३६॥ राशीनामुदयो लग्नं होरा लग्नार्धसम्मिता । कालचक्रं शैशुमारं मेरुः सौवर्णपर्वतः ॥ ४३७॥ सप्तर्षयः कश्यपाद्या औत्तानचरणिर्ध्रुवः । राह्वादयो ग्रहा अष्टौ त्वद्रूपा एव नेतरे ॥ ४३८॥ कलनात् काल इत्युक्तो जगत्संहरणक्रिया । सृष्टिः स्थितिश्च जगदुत्पादनप्राणनक्रिये ॥ ४३९॥ यत्स्थावरादि विश्वं तत्त्वमित्येकाभिधानकम् । भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् । ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ १२५॥ त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः । साध्या विद्याधरा भूता मनुष्याः पशवः खगाः ॥ १२६॥ समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः । साङ्ख्यं पातञ्जलं योगः पुराणानि श्रुतिः स्मृतिः ॥ १२७॥ वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः । आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ १२८॥ वैखानसं भागवतं सात्वतं पाञ्चरात्रकम् । शैवं पाशुपतं कालामुखं भैरवशासनम् ॥ १२९॥ शाक्तं वैनायकं सौरं जैनमार्हतसंहिता । सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ १३०॥ भूरापोऽग्निर्मरुद्व्योम पञ्चभूतात्मको भवान् ॥ ४४०॥ अहङ्कृतिरहङ्कारः प्रकृतिर्मूलकारणम् । पुमांश्च पञ्चविंशस्त्वं प्रकृत्याद्यैरसंहतः ॥ ४४१॥ मञ्चस्थब्रह्मविष्णवीशरुद्राः पादाः सदाशिवः । फलकस्तत्र कामेशः शिवस्तस्याङ्कगामिनी ॥ ४४२॥ शक्तिः कामेश्वरीत्येते सप्तापि भवदात्मकाः । त्रिदशादिकशैलान्ता अर्थास्त्वं तिथिभिर्मिताः(१) ॥ ४४३॥ भवान् भूतमतीतं च भव्यं क्षेमं च भावि च । भवोद्भवः शिवोत्पन्नः संसारप्रभवोऽथवा ॥ ४४४॥ अथ साङ्ख्यादयो विद्यास्त्वद्रूपाः सप्तविंशतिः । साङ्ख्यं कपिलमुन्युक्तं शास्त्रं पातञ्जलं पुनः ॥ ४४५॥ सामसूत्रनिदानाख्यं योगः फणिपतीरितः । ब्राह्मादीनि पुराणानि श्रुतयो बह्वृचादयः ॥ ४४६॥ मन्वाद्याः श्रुतयो वेदाङ्गानि कल्पादिकानि षट् । सदाचारः सदाचारसङ्ग्रहात्माऽधुना ततः ॥ ४४७॥ मीमांसा षोडशाध्यायी सङ्कर्षसहिता सती । त्रिचतुर्लक्षणे भक्तिब्रह्ममीमांसके अपि ॥ ४४८॥ कणादगौतममुनिप्रणीतो न्यायविस्तरः । ऋग्यजुःसामवेदानामुपवेदा अपि क्रमात् ॥ ४४९॥ आयुर्वेदधनुर्वेदगान्धर्वास्तन्मयो भवान् । काव्यनाटकशब्दाभ्यां श्रव्यं दृश्यं च गृह्यते ॥ ४५०॥ श्रव्यमष्टविधं दृश्यं अष्टाविंशतिधा च यत् । सङ्कीर्णं यच्च बहुधा तत्तत्सर्वात्मको भवान् ॥ ४५१॥ विष्णोर्वैखानसादीनि शैवानि तु महेशितुः । पृथक् चत्वारि चत्वारि तन्त्राण्येतत्त्वदात्मकम् ॥ ४५२॥ शाक्तादित्रितयं शक्तेर्गणेशस्य विवस्वतः । तन्त्रे द्वे नास्तिकोन्नीते अपि जैनार्हते तथा ॥ ४५३॥ (१)ब्रह्माद्याः पञ्च भूतानामीश्वराः सन्नियामकः । पञ्चानां जननी शक्तिः प्रकृतिः परदेवता ॥ शिवस्तु पुरुषो ज्ञेयस्तद्रूपी त्वं गणेश्वर । वियदादिकशैलान्तजीवरूपी त्वमेव च ॥ कार्याणां कारणस्यान्तरवस्थानं सदात्मता । अकारणेनावस्थानं तदभावेऽसदात्मता ॥ ४५४॥ सर्वं कार्यात्मना व्यक्तमव्यक्तं कारणात्मना । सचेतनं प्राणिमात्रं व्योमादिकमचेतनम् ॥ ४५५॥ बन्धो (८००)मोक्षः सुखं भोगोऽयोगः सत्यमणुर्महान् । स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड्वौषड्वषण्णमः ॥ १३१॥ ज्ञानं विज्ञानमानन्दो बोधः संविच्छमो यमः । एक एकाक्षराधार एकाक्षरपरायणः ॥ १३२॥ बन्ध आत्मन्यनात्मत्वभ्रमो नात्मनि चात्मता । एतत्सर्वं भवानेव भगवन् परिकीर्तितः ॥ ४५६॥ मोक्षस्त्वविद्याविध्वंसस्ततो यदवशिष्यते । तत्सुखं प्रत्यगानन्दो भोगः सोऽनुभवात्मकः ॥ ४५७॥ अयोगः सङ्गरहितः तद्धि सत्यमबाधितम् । स एवाणुर्मनः षष्ठेन्द्रियगोचरतावशात् ॥ ४५८॥ ततोऽधिकस्य सौख्यस्याभावादेव स वै महान् । तदेव सम्यगस्तीति स्वस्ति नास्ति ततः परम् ॥ ४५९॥ अन्यस्य दूरीकरणात्तदेव ब्रह्म हुं मतम् । दूरोत्सारणमात्रं न किन्तु (विघ्न)नाशोऽपि तेन फटू ॥ ४६०॥ स्वधेति पितृदैवत्यं स्वाहेत्यग्न्यादिदैवतम् । श्रौषडित्यादयस्तत्तच्छब्दयुक्कर्मलक्षकाः ॥ ४६१॥ सर्वेषां कर्मणामिष्टसिद्ध्यर्थत्वान्महाफले । सुखे लब्धे तु तत्रैव तत्सर्वं पर्यवस्यति ॥ ४६२॥ तेन कर्मापि सकलं भवेदेकात्मकं सुखम् । मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं तद्द्वयं भवान् ॥ ४६३॥ त्वमेव प्रत्यगानन्दः प्रत्यबोधस्त्वमेव हि । योगिभिः सेव्यते संविद्बाह्यवृत्तिनिरासिका ॥ ४६४॥ तदेकप्रवणत्वाय सौषधी भवदात्मिका । सर्वस्य शमनात्सर्वोपरमात्त्वं शमो यमः(१) ॥ ४६५॥ एक एवाद्वितीयस्त्वं भेदत्रैविध्यशून्यतः । (१)सर्वस्य दुष्टभावस्य शमनाच्च शमो यमः । गम्बीजान्तः स्थितेरेकाक्षराधार इति स्मृतः ॥ ४६६॥ एकाग्रधीरेकवीर एकानेकस्वरूपधृक् । द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ १३३॥ द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः । त्रिधामा त्रिकरस्त्रेतात्रिवर्गफलदायकः ॥ १३४॥ ओमित्येकाक्षरस्थत्वादेकाक्षरपरायणः । एकाग्रधीः स्वात्ममात्रप्रवणापि मतिर्भवान् ॥ ४६७॥ अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः । पराक्रमपरोऽस्येकवीरस्त्वत्तो न चापरः(१) ॥ ४६८॥ प्रतिभूतमवस्थानादेकानेकस्वरूपधृक् । एकधा बहुधा चैव दृश्यसे जलचन्द्रवत् ॥ ४६९॥ द्वे ब्रह्मणी इति श्रुत्या द्विरूपोऽस्यपरं परम् । त्वमेव द्विभुजो द्व्यक्षो द्विरदः प्रकटार्थकः ॥ ४७०॥ सप्तद्वीपाधिपत्यस्य प्रदानाद्वीपरक्षकः । द्वैमातुरोऽस्युमागङ्गे मातरौ तव विश्रुते ॥ ४७१॥ तवैव मूर्तिरम्याख्या तेन द्विवदनो भवान्(२) । शीतोष्णादीन्यतिक्रान्तो द्वन्द्वातीत इति श्रुतः ॥ ४७२॥ रजस्तमश्चातिलिङ्घ्य वर्तमानो द्वयातिगः । त्रिधामा सूर्यचन्द्राग्नितेजस्त्रितयमूर्तिमान्(३) ॥ ४७३॥ त्रयाणामपि लोकानां (देवानां)करणान्त्रिकरो भवान् । नर्याद्यग्नित्रयाकाङ्क्षधर्मकामार्थकर्मणां(४) ॥ ४७४॥ फलप्रद इति त्रेधा त्रिवर्गफलदायकः । (Footnotes) (१) लयादि ब्रह्मकल्पान्तमयस्य कालरूपिणः । जेता देवेष्वेकवीरः त्वत्तो नास्ति सुरेष्वपि ॥ (२) नरगजवक्त्रयुक्तो भवान्द्रिवदनो मतः । (३) त्रिधामा सच्चिदानन्दब्रह्मत्रितयसंज्ञकः । (४) समष्टि व्यष्ट्यभेदात्मा त्रेता त्वं गजवक्त्रक । धर्मार्थकालफलदः त्रिवर्गफलदायकः ॥ त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः । चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः ॥ १३५॥ चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः । चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ १३६॥ चतुर्थीपूजनप्रीतश्चतुर्थी तिथिसम्भवः । पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्यकृत् ॥ १३७॥ गुणत्रयवती मूलप्रकृतिस्त्रिगुणा मता ॥ ४७५॥ तस्या हृदि त्वमेवेति त्रिगुणात्मेति गीयसे । त्रयाणामपि लोकानां त्रिलोकादिश्च कारणम् ॥ ४७६॥ रमालज्जानङ्गयोगस्त्रिशक्तिः कथ्यते मनुः । प्रभावोत्साहमन्त्रा वा त्रिशक्तीशस्तदीश्वरः(१) ॥ ४७७॥ त्रिलोचनश्चतुर्बाहुश्चतुर्दन्त इति स्फुटम्(२) । आत्मान्तरात्मा ज्ञानात्मा परमात्मेति भेदतः ॥ ४७८॥ आत्मोपनिषदि प्रोतश्चतुरात्मा त्वमेव हि । चतुर्विधा मुखे वेदा यस्य स त्वं चतुर्मुखः ॥ ४७९॥ भेदो दण्डः साम दानमित्युपायचतुष्टयम् । चतुर्विधोपायमयस्तज्जन्यफलसाधकः ॥ ४८०॥ ब्राह्मणब्रह्मचर्यादिवर्णाश्रमविभागशः । विहितैः कर्मभिः प्राप्यश्चतुर्वर्णाश्रमाश्रयः ॥ ४८१॥ गुहायां वर्तयंस्तिस्रः पश्यन्तीं मध्यमां पराम् । वैखरीं परितो बाह्यवर्तनेन प्रवर्तयन् ॥ ४८२॥ (Footnotes) (१) भ्रामर्याधारकामेश्यो नैजास्त्रिशक्तयो मताः । तासामीशस्त्रिशक्तीशः स्वानन्दभुवनेश्वरः ॥ (२) त्रिधा स्थितं ब्रह्म यस्य लोचनानि मुखाम्बुजे । त्रिलोचनस्ततः प्रोक्तो निर्गुणं यच्चतुर्विधम् । तदेव दन्तास्त्वक्त्रे चतुर्दन्तस्ततो भवान् । सदसत्सम सहजसंज्ञिकं तु चतुर्विधम् । स्वानन्दं यस्य देवस्य ख्यातस्तेन चतुर्भुजः ॥ चतुर्विधवचोवृत्तिपरिवृत्ति प्रवर्तकः । चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः । इति नामद्वयं स्पष्टं स्याद्गणेशपुराणतः(१) ॥ ४८३॥ नादबिन्दुमकारोकाराकाराः प्रणवस्थिताः ॥ ४८४॥ त्वच्छरीरमतः पञ्चाक्षरात्मा परिकीर्त्यसे । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ४८५॥ यस्यैते विग्रहाः पञ्च स पञ्चात्मेति गीयसे(२) । विस्तीर्णं वदनं यस्य ब्रह्माण्डकवलक्षमम् ॥ ४८६॥ पचेर्विस्तारवाचित्वात्स पञ्चास्य इति स्मृतः । सृष्टिः स्थितिश्च संहारस्तिरोधानमनुग्रहः ॥ ४८७॥ ब्रह्मादिरूपैरेतानि कुर्वाणः पञ्चकृत्यकृत् । पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः । पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः ॥ १३८॥ पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः । पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः ॥ १३९॥ पञ्चाधारोऽसि भूतानां पञ्चानामपि धारकः ॥ ४८८॥ सर्वदा सूर्यकोटिप्रभः सन् कृतत्रेतयोश्चन्द्रवर्णोऽर्जुनद्रुच्छविः । द्वापरे शक्रगोपोपमोऽभूत्कलौ धूम्रवर्णोऽभवत्पञ्चवर्णो भवान्(३) ॥ ४८९॥ जपन् पञ्चाक्षरं शैवं पञ्चाक्षरपरायणः । आमध्यमाग्रादङ्गुष्ठात्प्रमाणं ताल उच्यते ॥ ४९०॥ (Footnotes) (१) चतुर्थ्यां पूजनेनैव प्रीतो विधिपुरस्सरम् । चतुर्थीपूजनप्रीत इति त्वं परिगीयसे । चतुर्थ्यां यस्तु सञ्जातः चतुर्थीतिथिसम्भवः ॥ (२) ब्रह्मा विष्णुश्च रुद्रश्च परा शक्तिश्च भास्करः । यस्यैते विग्रहाः पञ्च स पञ्चात्मेति गीयसे । सूर्यकोटिप्रभस्त्वं तु सर्वदा गणनायकः । हेमवर्ण कृतयुगे त्रेतायां धवलच्छविः ॥ द्वापरे रक्तवर्णस्त्वं कलौ तु धूमवर्णकः ॥ (ब्रह्मा) तालपञ्चकदेहाढ्यः पञ्चतालोऽसि वामनः । पञ्चहस्तमितः प्रांशुरपि पञ्चकरो भवान् ॥ ४९१॥ तारवाग्भवलज्जाभाः प्रसादपरया सह । प्रणवाः पञ्च तैर्वाच्यः पञ्चप्रणवभावितः(१) ॥ ४९२॥ सद्योजातवामदेवाघोरतत्पुरुषेश्वरैः । (२)पञ्चब्रह्ममयस्फूर्तिरभिन्नस्फुरणात्मकः ॥ ४९३॥ पञ्चावृतिस्तवप्रोक्तैरङ्गाद्यावरणैर्वृतः । छन्नो वा पञ्चभिः कोशैः पञ्चावरणवारितः(३) ॥ ४९४॥ लड्डुकमण्डकपूरीफेणीवटकाभिधानि भक्ष्याणि । यस्य प्रियाणि पञ्चापि पञ्चभक्ष्यप्रियः स भवान् ॥ ४९५॥ बाणेश्वर्यभिधाम्बायाः कामेश्वरशिवस्य च । प्रत्येकं पञ्च बीजानि सिद्धान्येव तु तद्विदाम् ॥ ४९६॥ तदात्मकतया पञ्चबाणः पञ्चशिवात्मकः(४) । षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः । षडध्वध्वान्तविध्वंसी षडङ्गुलमहाहृदः ॥ १४०॥ षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः । षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ १४१॥ षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः । सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ १४२॥ (Footnotes) (१) अकारोकारमकारनादबिन्दुमयाः पराः । प्रणवाः पञ्च तैरर्च्यः पञ्चप्रणवभावितः ॥ (ब्रह्मा) (२) सदसत्समसहजयोगसंज्ञिकैर्व रैः । पश्चब्रह्ममयस्फूर्तिः अभिन्नस्फुरणात्मकः ॥ (ब्रह्मा) (३) पञ्चावृतिदेवसेव्यः पञ्चावरणवारितः । (ब्रह्मा) (४) पञ्चबाणो मन्मथस्तु पञ्चबाणस्तदात्मकः । परः शिवभुवनेशरुद्रेश्वरसदाशिवाः । सहजसाङ्ख्यपरमशिवरुद्राभिधो हाथ । शिवः पञ्चविधः प्रोक्तः आत्मा पञ्चशिवात्मकः । (ब्रह्मा) सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः । सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः ॥ १४३॥ षट्कोणपीठः कोणाः षट् पूजास्थानानि यस्य सः ॥ ४९७॥ षट्चक्रधामा त्वं मूलाधिष्ठानमणिपूरकाः । अनाहतविशुद्ध्याज्ञा वासस्थानानि यस्य सः ॥ ४९८॥ मूलाज्ञामणिपूरेषु द्वौ द्वौ ग्रन्थी भिनत्ति यः । वह्निकुण्डलिनी सैव भवान् षड्ग्रन्थिभेदकः ॥ ४९९॥ पदभुवनवर्णतत्त्वकलामन्त्राख्याः षडध्वानः । तच्छोधनकर्तृत्वेन षडन्ध्वध्वान्तविध्वंसी ॥ ५००॥ महाहृदो नाभिरूपों गाम्भीर्येण षडङ्गुलः । पिचण्डिलत्वाद्यस्यैष षडङ्गुलमहाहृदः ॥ ५०१॥ षट्सङ्ख्याकानि शास्त्राणि मुखे यस्य स षण्मुखः । स भवान् षण्मुखभ्राता सेनानीर्यस्य तेऽनुजः ॥ ५०२॥ षडङ्गयुवतिच्छन्नः षट्शक्तिपरिवारितः । षड्वैरिवर्गविध्वंसी कामक्रोधौ च मत्सरम् ॥ ५०३॥ लोभमोहमदान् हंसि षडिमान्वैरिशब्दितान् । अशनायां पिपासां च शोकं मोहं जरां मृतिम् ॥ ५०४॥ षडूर्मिशब्दितान्निघ्नन् षडूर्मिभयभञ्जनः । षड्दर्शनोदितैस्तर्कैर्युक्तिभिर्यो न गृह्यते ॥ ५०५॥ वागतीतः स षट्तर्कदूर इत्यभिधीयते(१) । षट्कर्मनिरतः सक्तः षट्सु यागादिकर्मसु ॥ ५०६॥ मधुरादिरसानामप्याधारः षड्रसाश्रयः । अतलाद्या अधोऽधःस्थाः सप्त लोका यदङ्घ्रिगाः ॥ ५०७॥ सप्त जम्भ्वाद यो द्वीपा यस्य सक्थि भुवर्मुखाः । ऊर्ध्वगाः सप्त गोलोकावधयो यस्य मूर्ध्नि सः ॥ ५०८॥ सप्तपातालचरणः सप्तद्वीपोरुमण्डलः । सप्तस्वर्लोकमुकुट इति नामत्रयेरितः ॥ ५०९॥ सप्ताभिर्जटाभिः सहितः सप्त इत्युच्यते शिवः । (Footnote) (१) मन्त्रतर्कों यन्त्रतर्कः तन्त्रतर्कः प्रयोगकः । अणुतर्को न्यायतर्कः तर्का एव तु षड्विधाः ॥ शुक्रश्च विश्वकर्मा च विष्णुश्च मय दानवः । कणादो गौतमश्चैव दर्शनानां प्रवर्तकाः ॥ मणिमल्लमृधे तस्मै भवान् प्रादाद्धयोत्तमं (जयं परं )॥ ५१०॥ सूर्याय वा वरं तेन सप्तसप्तिवरप्रदः । स्वाम्यमात्यादिसप्ताङ्गयुक्तराज्यात् सुखं ददत् ॥ ५११॥ सप्ताङ्गराज्यसुखदः सप्तभिः कश्यपादिभिः । गणदेवैश्च सेव्यत्वात् सप्तर्षिगणमण्डितः ॥ ५१२॥ सप्तच्छन्दोनिधिः सप्तहोता सप्तस्वराश्रयः । सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ १४४॥ सप्तच्छन्दोमोदमदः सप्तच्छन्दोमखप्रभुः । अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ १४५॥ अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः । अष्टशक्तिसमृद्धश्रीः (९००)अष्टैश्वर्यप्रदायकः ॥ १४६॥ सप्तछन्दोनिधिः पथ्यच्छन्दः सप्तकसंश्रयः । होत्रादयोऽच्छावा(यः स्ताव)कान्ताः होतारः सप्त सौमिकाः ॥ ५१३॥ महाहविर्मुनिर्वापि सप्तहोता तदात्मकः । षड्जादिस्वरवान्नाद इति सप्तस्वराश्रयः ॥ ५१४॥ सप्ताब्धिकेलिकासारो यस्य क्रीडासरोऽर्णवः । ब्राह्म्यादिमातृसेव्यत्वात् सप्तमातृनिषेवितः ॥ ५१५॥ पथ्यादि सप्तच्छन्दांसि तेषां मोदेन यो मदः । तेनैव घूर्णनात् सप्तच्छन्दोमोदमदः स्मृतः ॥ ५१६॥ पथ्या (उक्था)द्यक्रतुपूज्यत्वात् सप्तच्छन्दोमखप्रभुः । अष्टमूर्तिः शिवस्तेन यन्मूर्तिर्हृदि चिन्त्यते ॥ ५१७॥ सोऽष्टमूर्तिध्येयमूर्तिध्येयो वा पृथगष्टभिः । प्रकृत्यहङ्कृतिमहत्पञ्चतन्मात्रसंज्ञिताः ॥ ५१८॥ प्रकृतीर्यो जनयति सोऽष्टप्रकृतिकारणम् । अष्टाङ्गयोगफलभूः समाध्यन्तैर्यमादिभिः ॥ ५१९॥ अङ्गैर्युक्तस्य हृद्वृत्तिरोधस्य फलदायकः । पङ्कजेऽष्टदले तिष्ठन् अष्टपत्राम्बुजासनः ॥ ५२०॥ अष्टशक्तिसमृद्धश्रीर्दलाष्टकनिवासिना । तीव्रादिशक्त्यष्टकेन परितः सेवितो भवान् ॥ ५२१॥ दाताऽणिमादिसिद्धीनामष्टैश्वर्यप्रदायकः । अष्टपीठोपपीठश्रीरष्टमातृसमावृतः । अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥ १४७॥ अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः । नवनागासनाध्यासी नवनिध्यनुशासिता ॥ १४८॥ नवद्वारपुराधारो नवाधारनिकेतनः । नवनारायणस्तुत्यो नवदुर्गानिषेवितः ॥ १४९॥ नवनाथमहानाथो नवनागविभूषणः । नवरत्नविचित्राङ्गो नवशक्तिशिरोधृतः ॥ १५०॥ अष्टपीठोपपीठश्रीर्महापीठोपपीठयोः ॥ ५२२॥ पुराणे स्फुटयोर्भूरिसङ्ख्ययोः सम्पदात्मकः । अष्टमी तु महालक्ष्मीर्ब्राह्म्याद्याः सप्त मातरः ॥ ५२३॥ आवृतौ यस्य तिष्ठन्ति सोऽष्टमातृसमावृतः । अष्टभैरवसेव्योऽष्टौ भैरवा वटुकादयः ॥ ५२४॥ तैः सेव्यो वसवोऽष्टौ तु प्रभासान्ता धरादयः । तैर्वन्दितो भवानष्टवसुवन्द्यः प्रकीर्तितः ॥ ५२५॥ भूतानि पुष्पवन्तौ स्व एतद्रूपोऽष्टमूर्तिभृत्(१) । अष्टाचक्रा नवद्वारा देवानां पूरिति श्रुतेः ॥ ५२६॥ यन्त्रे तिष्ठन्नष्टचक्रस्फुरन्मूर्तिरिति स्मृतः । लाजेक्षुसक्तुचिपिटाः कदल्यो(कलमा)मोदकास्तिलाः ॥ ५२७॥ नारिकेला घृताक्ता इत्यष्टद्रव्यहविःप्रियः । नवनागासनाध्यासी नागैः कर्कोटकादिभिः ॥ ५२८॥ पत्रेष्वष्टसु मध्ये च यस्यासनमधिष्ठितम् । शासच्छङ्खमुकुन्दादीन् नवनिध्यनुशासिता ॥ ५२९॥ नवद्वारपुराधारो जीवरूपेण देहभृत् । कुलाकुलसहस्रारे मूलाद्याज्ञान्तिमानि षट् ॥ ५३०॥ लम्बिकेति नवस्वास्से नवाधारनिकेतनः । धर्माद्यनन्तबदरीरूपशङ्करसुन्दरैः ॥ ५३१॥ लक्ष्म्या साध्येनोपपदैर्युक्ता नारायणा नव । (१) बिन्द्वादिसहजान्तःस्थ ब्रह्मरूपोऽष्टमूर्तिभृत् । नवनारायणस्तुत्यस्तैः स्तुत्यः स भवानिति ॥ ५३२॥ दुर्गाया नवकूष्माण्डचन्द्रघण्टादयोऽभिधाः । प्रसिद्धास्ताभिरीड्यत्वान्नवदुर्गानिषेवितः ॥ ५३३॥ ज्ञानप्रकाशसत्यानन्द विमर्शस्वभावसुभगानाम् । नवनाथमहानाथो नाथत्वात्प्रतिभपूर्णयोश्च भवान् ॥ ५३४॥ कर्कोटकादिमण्ड्यत्वान्नवनागविभूषणः । नवरत्नविचित्राङ्गो वज्रमुक्तादिभूषितः ॥ ५३५॥ तीव्राद्या नव ते पीठे नवशक्तिशिरोधृतः । दशात्मको दशभुजो दशदिक्पतिवन्दितः । दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ १५१॥ दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः । एकादशादिभी रुद्रैः स्तुत एकादशाक्षरः ॥ १५२॥ द्वादशद्दण्डदोर्दण्डो द्वादशान्तनिकेतनः । त्रयोदशाभिधा भिन्नविश्वेदेवाधिदैवतम् ॥ १५३॥ दिशो दश तदात्मा यो व्यापकः स दशात्मकः(१) ॥ ५३६॥ महागणपतेर्मूर्त्या भवान् दशभुजोऽभवत् । इन्द्रादयोऽष्टौ दिक्पाला ऊर्ध्वाधोदिगधीश्वरौ ॥ ५३७॥ क्रमाद्ब्रह्माऽनन्त इति दशदिक्पतिवन्दितः । दशाध्यायश्चतुर्वेद षडङ्ग्यध्ययनान्मतः(२) ॥ ५३८॥ दशप्राणः पञ्च पञ्च प्राणनागादिरूपवान् । वागाद्यात्मत्वगाद्यात्मदशेन्द्रियनियामकः ॥ ५३९॥ उक्तो हस्तिपिशाचीतिमन्त्रश्चेत्प्रणवादिमः । दशाक्षरमहामन्त्रस्त्वद्दैवत्यस्त्वमेव सः ॥ ५४०॥ (Footnotes) (१) बिन्द्वाद्ययोगपर्यन्ताः आत्मनः स्थितिरूपकाः । दश तदात्मा भगवान्गणेशानो दशात्मकः ॥ (२) विनायकरहस्ये तु योगानन्दाभिधं वरम् । दशाध्याययुतं तत्र दशाध्यायस्तदात्मकः ॥ दशदिग्व्यापिदेहत्वाद्दशाशाव्यापिविग्रहः । रुद्रा एकादशारभ्य सहस्राणि सहस्रशः ॥ ५४१॥ एकादशादिभी रुद्रैः स्तुतस्तैः सकलैर्नुतः । तारशक्ती विघ्नशक्ती वशमानय ठद्वयम् ॥ ५४२॥ एकादशाक्षरो मन्त्रस्त्वद्दैवत्यस्त्वमेव सः । द्वादशोद्दण्डदोर्दण्डो गाढैर्द्वादशभिर्भुजैः ॥ ५४३॥ द्वादशान्तं ललाटोर्ध्वं ब्रह्मरन्ध्रावसानकम् । प्रकटो योगिनां तद्गो द्वादशान्तनिकेतनः ॥ ५४४॥ पुरूरवप्रभृतिभिः पूज्यस्त्वं विश्वदैवतैः । त्रयोदशाभिधाभिन्नविश्वेदेवाधिदैवतम् ॥ ५४५॥ चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः । चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः ॥ १५४॥ सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः । षोडशाधारनिलयः षोडशस्वरमातृकः ॥ १५५॥ षोडशान्तपदावासः षोडशेन्दुकलात्मकः । कला सप्तदशी सप्तदशः सप्तदशाक्षरः ॥ १५६॥ चतुर्दशानामिन्द्राणां मनूनां वरदोऽधिपः । चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ॥ ५४६॥ चतुर्दशादिविद्याढ्यो वेदाद्याः सोपवेदकाः । चतुर्दशाष्टादश च प्रसिद्धास्तासु पण्डितः ॥ ५४७॥ आपातालादा च सत्याच्चतुर्दशजगत्प्रभुः । यत्पञ्चदशभिः स्तौमैराज्य(द्य)स्तोत्रचतुष्टयम् ॥ ५४८॥ सामयुक्तं तदात्मत्वात् सामपञ्चदशो भवान् । स्वच्छो राकेन्दुवत्पञ्चदशीशीतांशुनिर्मलः ॥ ५४९॥ षोडशाधारनिलयोऽस्यन्तश्च क्रेषु संस्थितः । षडाधारनवाधारषोडशाधारलक्षणम् ॥ ५५०॥ वेद्यं गुरुमुखादेवेत्यागमे शिवशासनम् । स्वरान्मिमीते मानेन षोडशस्वरमातृकः ॥ ५५१॥ षोडशान्तपदावासो ब्रह्मरन्ध्राब्जकर्णिकाम् । आरभ्योर्ध्वं षोडशान्तमुन्मन्याः परतः स्थितः ॥ ५५२॥ अमृता मानिनी(मानदे)त्यादिषोडशेन्दुकलात्मकः । कला सप्तदशी नाम प्रसिद्धा त्रिपुरागमे ॥ ५५३॥ त्रयोदशाक्षरी तुर्यविद्याख्या त्वं तदात्मकः । यत्तु सप्तदशस्तोमं पृष्ठस्तोत्रचतुष्टयम् ॥ ५५४॥ सामयुक्तं तदात्मत्वाद्भवान् सप्तदशो मतः । वौषडाश्रावययजास्तु श्रौषड्येयजामहे ॥ ५५५॥ इति त्वं आप्नुषे यज्ञानिति सप्तदशाक्षरः । अष्टादशद्वीपपतिरष्टादशपुराणकृत् । अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ॥ १५७॥ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः । एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ १५८॥ चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः । सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ १५९॥ अष्टादशद्वीपपतिः सप्तैकादशसङ्ख्ययोः ॥ ५५६॥ द्वीपोपद्वीपयोर्जम्बुसिंहलाद्योरधीश्वरः । मात्स्यकौर्मब्राह्मपाद्माद्यष्टादशपुराण कृत्(१) ॥ ५५७॥ अष्टादशौषधीसृष्टिर्धान्यसृष्टिविचक्षणः । मुख्यधान्योपधान्यानि तेषु द्वादश षट् क्रमात् ॥ ५५८॥ विधयोऽपूर्वनियम परिसङ्ख्याः पृथक् पृथक् । प्रयोगविनियोगोत्पत्त्याख्याभिर्नव ते द्विधा ॥ ५५९॥ गुणप्रधानभेदादित्यष्टादशविधिः स्मृतः । नागरद्राविडाङ्ध्राद्याः स्वतन्त्रा पियो भुवि ॥ ५६०॥ अष्टादश तदंशोत्था अवान्तरभिदा अपि । देशभेदेन बहवस्तज्ज्ञाने त्वं विचक्षणः ॥ ५६१॥ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः । एकविंशः पुमानात्मेत्यामनन्त्यैतरेयिणः ॥ ५६२॥ (Footnote) (१) अष्टादशप्रभेदाढ्यपुराणोपपुराणयोः । कर्ता गणेश पूर्वाणां अष्टादश पुराणकृत् ॥ सहशुण्डाञ्चलेनैकविंशत्यङ्गुलिपल्लवः । दश हस्त्या अङ्गुलयः पद्या अङ्गुलयो दश ॥ ५६३॥ तत्त्वानि जिनसङ्ख्यानि तदूर्ध्वः पुरुषो भवान् । चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ॥ ५६४॥ नक्षत्राणां च योगानां ईशः कर्ता क्रमाद्भवान् । सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ ५६५॥ द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाहृदः । षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलातनुः ॥ १६०॥ नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः । पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः ॥ १६१॥ पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः । द्विपञ्चाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः ॥ १६२॥ चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः । चतुःषष्टिमहासिद्धयोगिनीवृन्दवन्दितः ॥ १६३॥ द्वात्रिंशद्भैरवाधीशश्चत्वारो भैरवाष्टकाः । असिताङ्गादयो ये ये तेषां तेषामधीश्वरः ॥ ५६६॥ पुष्कराद्या देवखाताः सन्ति पुण्या महाह्रदाः । तदात्मकत्वेन भवांश्चतुस्त्रिंशन्महाह्रदः ॥ ५६७॥ षट्त्रिंशत्तत्त्वसम्भूतिः शैवतन्त्रोक्तया दिशा । शिवादिक्षितिपर्यन्तषट्त्रिंशत्तत्त्वकारणम् ॥ ५६८॥ वह्नेः सूर्यस्य चन्द्रस्य दश द्वादश षोडश । कलाः सन्ति तदात्मत्वादष्टत्रिंशत्कलातनुः ॥ ५६९॥ मरुद्वर्गनतश्चासौ निष्प्रत्यूहगतिश्च सः । नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ ५७०॥ पञ्चाशदक्षरश्रेणीत्युच्यते मातृकात्मना । श्रीकण्ठादिशिवात्मत्वात् पञ्चाशद्रुद्रविग्रहः ॥ ५७१॥ केशवाद्याच कीर्त्याद्या विष्णवस्तस्य शक्तयः । पञ्चाशद्विष्णु शक्तीशस्तदीशत्वेन कथ्यसे ॥ ५७२॥ एकपञ्चाशतोऽर्णानामालयो लय एव वा । नाद एव तदात्मत्वात्पञ्चाशन्मातृकालयः ॥ ५७३॥ लैङ्गवर्णितपाशानाम विद्यापञ्चपर्वणाम् । अष्टाष्टदिग्वसुधृतिभिन्नानां देहदायिनाम् ॥ ५७४॥ त्वद्रूपत्वाद्द्विपञ्चाशद्वपुःश्रेणीति गीयसे । त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ॥ ५७५॥ कला अपि चतुःषष्टिः प्रसिद्धास्तत्समाश्रयः । तन्निर्णेता तत्खनिस्त्वं त्रिष्ट्यक्षरसंश्रयः ॥ ५७६॥ चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः(१) । अक्षोभ्यादिचतुःषष्टिमिथुनैर्वन्दितो भवान् ॥ ५७७॥ चतुःषष्टिमहासिद्धयोगिनीबृन्दवन्दितः । अष्टषष्टिमहातीर्थक्षेत्र भैरवभावनः । चतुर्णवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ॥ १६४॥ शतानन्दः शतधृतिः शतपत्रायतेक्षणः । शतानीकः शतमखः शतधारवरायुधः ॥ १६५॥ सहस्रपत्रनिलयः सहस्रफणभूषणः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १६६॥ तन्त्र्यष्टषष्टिः श्रीकाशीखण्डपाद्मयोः ॥ ५७८॥ शैवतीर्थान्यष्टषष्टिः श्रीकाशीखण्डपाद्मयोः ॥ उक्तानि तेषु क्षेत्रेषु भावयन् भैरवं शिवम् । अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः ॥ ५७९॥ अष्टत्रिंशत्कला मन्त्राः पञ्चाशन्मातृकाः कलाः । हंसः शुचिप्रतद्विष्णुर्विष्णुर्योनि त्रियम्बकम् ॥ ५८०॥ तद्विष्णोर्मूलविद्येति चतुर्णवतिसंज्ञकाः । द्रव्यशुद्ध्यै कल्पसूत्रे जामदग्न्येन वर्णिताः ॥ ५८१॥ चतुर्णवतिमन्त्रात्मा तावन्मन्त्रात्मको भवान् । तन्त्रराजे षण्णवतिः प्रोक्ताः श्रीचक्रदेवताः ॥ ५८२॥ (Footnote) (१) केषां मते तु चतुष्षष्टिर्वर्णास्त्वं तु तदाश्रयः । चतुष्षष्ट्यर्णनिर्णेता तावन्मन्त्र निरूपितः ॥ विद्यागणेशयोर्योगाज्जायन्तेऽधिकदेवताः । तासामीशः समस्तानां षण्णवत्यधिक प्रभुः(१) ॥ ५८३॥ शतानन्दः शतगुणा आनन्दा मानुषादयः । ब्रह्मानन्दादिमा ये ये ते सर्वेऽपि त्वदात्मकाः ॥ ५८४॥ ब्रह्माण्डानामनन्तानां धर्ता शतधृतिर्भवान् । पद्मपत्रायताक्षस्त्वं शतपत्रायतेक्षणः ॥ ५८५॥ शतानीको भूरिसैन्यः शक्रः शतमखो भवान् । अथवा बहुसङ्ख्यानि पूजनादीनि यस्य सः ॥ ५८६॥ शतं धारा अरास्तीक्ष्णा यदायुधवरस्य सः । वज्रोत्कृष्टायुधो वाऽपि शतधारवरायुधः ॥ ५८७॥ सहस्रपत्रनिलयो ब्रह्मरन्ध्रस्थपद्मगः । फणासहस्रवद्भूष्यः सहस्रफणभूषणः ॥ ५८८॥ सहस्रशीर्षा पुरुष इत्येकं नाम ते स्फुटम् । (सहस्रशीर्षा पुरुषो विराट्पुरुषरूपवान् ।) अनन्तनेत्रचरणः सहस्राक्षः सहस्रपात् ॥ ५८९॥ सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः । दशसाहस्रफणभृत्फणिराजकृतासनः ॥ १६७॥ अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रितः । लक्षाधीशप्रियाधारो लक्षाधारमनोमयः ॥ १६८॥ चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः । चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ॥ १६९॥ कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः । शिवाभवाध्युष्टकोटिविनायकधुंरधरः ॥ १७०॥ सहस्रनामसंस्तुत्यः स्तुत्यर्होऽसङ्ख्यनामभिः । यमाविशन्ति नामानि सर्वाणीति किल श्रुतेः ॥ ५९०॥ इन्द्रस्य दर्पहरणात् सहस्राक्षबलापहः । (Footnote) (१) अष्टाचत्वारिंशदेवाः स्वानन्दे ब्रह्मणस्पतेः । विघ्नसिद्धिबुद्धियोगात् जायन्तेऽधिकदेवताः ॥ तासामीशः समस्तानां षण्णवत्यधिकप्रभुः । दशसाहस्रफणभृत्फणिराजकृतासनः(१) ॥ ५९१॥ इच्छया सृष्टिनिर्मातुः किमसाध्यं तव प्रभो । सर्वविद्याकलाराशिरक्षणैकप्रयोजनाः ॥ ५९२॥ विष्णुना हिमवत्पृष्ठे स्थापिता गृहमेधिनः । पुराणे वैष्णवे प्रोक्तास्तैः स्तुत्योऽसि नियन्त्रितः(२) ॥ ५९३॥ अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रितः । लक्षाधीशप्रियाधारो लक्षाधीशा धनेश्वराः ॥ ५९४॥ तेषां प्रियः सन्नाधारो धनवृद्ध्यर्थमाश्रितः । लक्षाणि चित्तस्थैर्यांर्थं प्रसिद्धानि तदाश्रितम् ॥ ५९५॥ मनो यस्य तदात्मा त्वं लक्षाधारमनोमयः । चतुर्लक्षजपप्रीतः पुरश्चर्यादिसाधनैः ॥ ५९६॥ पुराणाष्टादशग्रन्थसङ्ख्या लक्षचतुष्टयम् । तैः प्रकाशितरूपस्त्वं चतुर्लक्षप्रकाशितः ॥ ५९७॥ सर्वजीवात्मतेयत्तानवच्छेदश्च रोचिषः । कलङ्कतापासम्पर्कः कथ्यते नामभिस्त्रिभिः ॥ ५९८॥ चतुरशीतिलक्षाणां जीवानां देहसंस्थितः । कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ ५९९॥ ग्रहा विनायकाभिख्याः सार्धकोटित्रयात्मकाः । भवस्य च शिवायाश्च प्रत्येकं सन्ति तत्पतिः ॥ ६००॥ शिवाभवाध्युष्टकोटिविनायकधुरन्धरः । सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः । त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ॥ १७१॥ अनन्तनामानन्तश्रीरनन्तानन्तसौख्यदः । विश्वरूपस्य तेऽङ्गानि सर्वमन्त्राधिदेवताः ॥ ६०१॥ अतः सञ्जप्तमन्त्रैस्तैर्द्यातसेऽवयवैरपि । सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ ६०२॥ ईदृशान्नाधिकस्त्वत्तः कोऽपि देवस्ततो भवान् । त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ॥ ६०३॥ (Footnotes) (१) आसनं यस्य शेषस्तु तेनैवं कथ्यसे भवान् । (२) वेदादिविद्याद्रष्टारो गोत्र वृद्धिकरा अपि । अष्टाशीतिसहस्रौघास्तैः कृतस्तोत्रतोषितः ॥ अनन्तनामा सर्वेऽपि शब्दास्त्वन्नामतां गताः । यावत्प्रतिष्ठितं ब्रह्म तावती वागिति श्रुतेः ॥ ६०४॥ अनन्तश्रीरसङ्ख्यास्ते विद्यासम्पत्तिकीर्तयः । प्रातिस्विकमनन्तानामानन्त्ये गणना तु या ॥ ६०५॥ तावन्तं दददानन्दमनन्तानन्तसौख्यदः । अनन्तानन्ददानं तु स्वाद्वैते पर्यवस्यति ॥ ६०६॥ (उत्तराङ्गन्यासः गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् । गैं कवचाय हुं । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्विमोकः ॥ पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः । मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥ अग्न्यर्कशशिनो भाभिः तिरस्कुर्वन् दशायुधः । सर्वविघ्नहरो देवः तं ध्यायामि दिवानिशम् ॥ लं पृथिव्यात्मने महागणपतये गन्धं समर्पयामि । हं आकाशात्मने महागणपतये पुष्पाणि समर्पयामि । यं वाय्वात्मने महागणपतये धूपमाघ्रापयामि । रं अग्न्यात्मने महागणपतये दीपं दर्शयामि । वं अमृतात्मने महागणपतये अमृतोपहारं निवेदयामि । गुह्यातिगुह्यगोप्ता त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेश त्यत्प्रसादान्मयि स्थिरा ॥) इति वैनायकं नाम्नां सहस्रमिदमीरितम् ॥ १७२॥ इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः । करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ॥ १७३॥ आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः । मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता ॥ १७४॥ सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता । जगत्संयमनं विश्वसंवादो वादपाटवम् ॥ १७५॥ सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् । औन्नत्यं च कुलं शीलं प्रतापो वीर्यमार्यता ॥ १७६॥ ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वातिशायिता । धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत् ॥ १७७॥ वश्यं चतुर्विधं नृणां जपादस्य प्रजायते । राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ॥ १७८॥ जप्यते यस्य वश्यार्थं स दासस्तस्य जायते । धर्मार्थकाममोक्षाणामनायासेन साधनम् ॥ १७९॥ शाकिनीडाकिनीरक्षोयक्षोरगभयापहम् । साम्राज्यसुखदं चैब समस्तरिपुमर्दनम् ॥ १८०॥ समस्तकलहध्वंसि दग्धबीजप्ररोहणम् । दुःस्वप्रणाशनं क्रुद्धस्वामिचित्तप्रसादनम् ॥ १८९॥ षट्कर्माष्टमहासिद्धित्रिकालज्ञानसाधनम् । परकृत्याप्रशमनं परचक्रविमर्दनम् ॥ १८२॥ सङ्ग्रामरङ्गे सर्वेषामिदमेकं जयावहम् । सर्ववन्ध्यात्वदोषघ्नं गर्भरक्षैककारणम् ॥ १८३॥ पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् । देशे तत्र न दुर्भिक्षभीतयो दुरितानि च ॥ १८४॥ न तत्गृहं जहाति श्रीर्यत्रायं पठ्यते स्तवः । क्षयकुष्ठप्रमेहार्शोभगन्दरविषूचिकाः ॥ १८५॥ गुल्मं प्लीहानमश्मानं अतिसारं महोदरम् । कासं श्वासमुदावर्तं शूलशोफादिसम्भवम् ॥ १८६॥ शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् । वातपित्तकफद्वन्द्व त्रिदोषजनितज्वरम् ॥ १८७॥ आगन्तुं विषमं शीतमुष्णं चैकाहिकादिकम् । इत्याद्युक्तमनुक्तं वा रोगं दोषादिसम्भवम् ॥ १८८॥ सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः । सकृत्पाठेन संसिद्धः स्त्रीशूद्रपतितैरपि ॥ १८९॥ सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये । महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ॥ १९०॥ इच्छितान्सकलान् भोगानुपभुज्येह पार्थिवान् । मनोरथफलैर्दिव्यैर्व्यामयानैर्मनोरमैः ॥ १९१॥ चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु । कामरूपः कामगतिः कामतो विचरन्निह ॥ १९२॥ भुक्त्वा यथेप्सितान् भोगानभीष्टान् सह बन्धुभिः । गणेशानुचारो भूत्वा महागणपतेः प्रियः ॥ १९३॥ नन्दीश्वरादिसानन्दी नन्दितः सकलैर्गणैः । शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ॥ १९४॥ शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः । जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ॥ १९५॥ निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः । योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थितः ॥ १९६॥ निरन्तरोदितानन्दे परमानन्दसंविदि । विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते ॥ १९७॥ लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः । यो नामभिर्हुनेदेतैरर्चयेत्पूजयेन्नरः ॥ १९८॥ राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् । मन्त्राः सिद्ध्यन्ति सर्वेऽपि सुलभास्तस्य सिद्धयः ॥ १९९॥ मूलमन्त्रादपि स्तोत्रमिदं प्रियतरं मम । नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ॥ २००॥ दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् । अष्टद्रव्यैर्विशेषेण जुहुयाद्भक्तिसंयुतः ॥ २०१॥ तस्येप्सितानि सर्वाणि सिद्ध्यन्त्यत्र न संशयः । इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम् ॥ २०२॥ व्याकृतं चर्चितं ध्यातं विमृष्टमभिनन्दितम् । इहामुत्र च सर्वेषां विश्वैश्वर्यप्रदायकम् ॥ २०३॥ स्वच्छन्दचारिणाप्येष येनायं धार्यते स्तवः । स रक्ष्यते शिवोद्भूतैर्गणैरध्युष्टकोटिभिः ॥ २०४॥ पुस्तके लिखितं यत्र गृहे स्तोत्रं पूपूजयेत् । तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ २०५॥ दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशैषैरखिलैर्मखैश्च । न तत्फलं विन्दति यत्गणेशसहस्रनाम्रां स्मरणेन सद्यः ॥ २०६॥ एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः । सस्यादैश्वर्यधुर्यः प्रभवति च सतां कीर्तिमुच्चैस्तनोति प्रत्यूहं हन्ति विश्वं बशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ २०७॥ अकिञ्चनोऽपि मत्प्राप्तिचिन्तको नियताशनः । जपेत्तु चतुरो मासान् गणेशार्चनतत्परः ॥ २०८॥ दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि । लभते महती लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ २०९॥ आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तदानाः कीर्तिर्नित्यवदाता भणितिरभिनवा कान्तिरव्याधिभव्या । पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं नित्यं यः स्तोत्रमेतत्पठति गणपतेस्तस्य हस्ते समस्तम् ॥ २१०॥ लघुसहस्रनामस्तोत्रम् । गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ॥ २११॥ अमोघसिद्धिरमि(मृ)तो मन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः शिवः ॥ २१२॥ काश्यपो नन्दनो वाचासिद्धो दुण्डिविनायकः । मौदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ २१३॥ यः स्तौति मद्गतमना मदाराधनतत्परः । स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥ २१४॥ नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपमङ्गलात्मने । नमो नमो विपुलपदैकसिद्धये नमो नमः करिकलभाननाय ते ॥ २१५॥ अस्य स्तोत्रस्य जप ऐहिककामस्यामुष्मिककामस्य निष्कामस्य चेति त्रिविधः । तत्र प्रथममाह आयुरित्यादिभिः । प्रज्ञा ग्राहिणी बुद्धिः, मेधा धारणावती बुद्धिः, क्षमा परापकारप्रतीकारक्रियाभावः क्षान्तिः परकृतापकारप्रयुक्त क्रोधस्याप्यभावः, ज्ञानं मोक्षजनकचरमवृत्तिः, विज्ञानं शास्त्रशिल्पविषयकं शास्त्रं १७२-१७६॥ दग्धस्य रोगाग्निप्लुष्टस्य बीजस्य रेतसः प्ररोहणं प्रजोत्पादनसामर्थ्यप्रदम् ॥ षट्कर्माणि-मोहनमाकर्षणं स्तम्भनं विद्वेषणमुच्चाटनं मारणं चेति भेदात् । शान्तिवश्ययोस्तन्त्रेषु षट्कर्ममध्ये परिगणनेऽपि प्रकृते तयोः पार्थक्येन निर्देशान्मोहनाकर्षणे मेलिते । परकृत्या शत्रुभिः स्वमारणोद्देशेन निर्मिता राक्षसी ॥ १७७ -१८२॥ नन्दीश्वरादिसानन्दी नन्दिकेश्वरादिसमानानन्दशाली, शिवाभ्यां गौरीहराभ्यां पुत्रनिर्विशेषं पुत्रतुल्यं यथा तथा ॥ शिवभक्तः ईश्वरभक्तः । जीव शिवश्चेति चिद्विभागान्तर्गतोऽत्र शिवो विवक्षितः, न तु कैलासवासित्वादि- गुणविशेषविशिष्टो गाणपत इति यावत् जातिस्मरः पूर्वजन्मस्मरणवान् ॥ १८३-१९४॥ लीनः जीवोपाधिलयात् । नभस्ये भाद्रपदे, नामभिः पूजायां चतुर्थीनमोन्तैः तर्पणे द्वितीया, तर्पयाम्यन्तैः होमे चतुर्थीस्वाहान्तैरित्यर्थः । प्रजप्तं उपांशुच्चरितं पठितं उचैर्व्यक्तमुच्चरितम्, व्याकृतं व्याख्यातं, चर्चितं ऊहापोहविषयीकृतं, ध्यातं मनसा विचारितं, विमृष्टं शोधितं, लेखकदोषनिरासेनेति यावत् अभिनन्दितमनुमतम् । शिवोद्भूतैः शिवेन शिवया च जनितैः अध्यष्टकोटिभिः प्रत्येकं सार्धकोटित्रयसङ्ख्याकैः । आर्तेभ्यो दानं यासां ता आर्तदानाः, नित्यावदाताः चिरस्थायित्वे सति शुद्धा अभिनवाः परैरकल्पिताः । एतेष्वष्टादशनामानि पूर्वं व्याख्यातान्येव; तत्र गणपतिरिति गणेश्वर गणाधिपादिनामसमानार्थकं, अमित इत्यत्रामृत इति वा पाठः, उभयथापि व्याख्यातमेव ॥ १९५-२११॥ सुमङ्गलसुमङ्गल इति नाम्ना सुमङ्गलनाम चरितार्थम्, वरप्रद इत्यनेन बरदनाम, चिन्तामणिः शिवो बीजमिति नामत्रयं त्विहापूर्वं तत्र क्षेत्रविशेषाधिष्ठातृगणपतेश्चिन्तामणिरिति संज्ञा चिन्तितार्थप्रदत्वात्स्वर्गस्थचिन्तामणिवत्, तद्दैवत्यमन्त्रविशेषस्याप्येषा संज्ञा तद्रूपत्वाद्देवोऽपि चिन्तामणिः । शिवस्य तु वश कान्तौ शिवः स्मृत्या इति जगदुत्पादनेच्छाशक्तिमत्त्वादयो बहवोऽर्थाः । बीजं-सर्वजगत्कारणं, काश्यपः कश्यपपुत्रः इयं च कथा गणेशपुराणे उत्तरखण्डे प्रसिद्धा, धरणीधर आशापूरक इत्यादिनाममूलभूताः कथा अपि तत्रैवानुसन्धेयाः, ग्रन्थान्ते मङ्गलमाचरति नमो नम इति । विपुलपदं परं धाम तस्य मुख्या सिद्धिर्यस्मात्सः, (२१२-२१५) इति श्रीगणेशोपपुराणे उपासनाखण्डे महागणपति प्रोक्तं सहस्रनामस्तोत्रं नाम षट्चत्वारिंशोऽध्यायः । इति श्रीमहागणपतिसहस्रनामस्तोत्रं सभाष्यं सम्पूर्णम् । ॥ श्रीगणेशार्पणमस्तु ॥ ॥ श्रीरस्तु ॥ Proofread by Narendran Madathil
% Text title            : Shri Mahaganapati Sahasranama Stotram Sabhashyam
% File name             : mahAgaNapatisahasranAmastotraMsabhAShyam.itx
% itxtitle              : mahAgaNapatisahasranAmastotraM sabhAShyam (bhAskararAyadIkShita praNItam)
% engtitle              : mahAgaNapatisahasranAmastotraM sabhAShyam
% Category              : ganesha, sahasranAma, stotra, vyAkhyA
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : bhAskararAyadIkShita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Description/comments  : From Vighneshvara-stuti-manjari 2. See corresponding stotram
% Indexextra            : (Scans 1, 2, stotram)
% Latest update         : August 16, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org