श्री महागणपति सहस्रनामस्तोत्रं सभाष्यम्
श्रीविघ्नेश्वराय नमः ।
श्री भास्कररायदीक्षित प्रणीत खद्योत भाष्यसङ्ग्रहयुतम् ।
गुरुरेव गतिर्गुरुमेव भजे, गुरूणैव सहास्मि, नमो गुरवे ।
नमो गुरोः परमं, शिशुरस्मि गुरोः मतिरस्ति गुरौ मम, पाहि गुरो ॥
गणेश वः पायात् प्रणमत गणेशं जगदिदं
गणेशेन त्रातं नम इह गणेशाय महते ।
गणेशान्नास्त्यन्यत्त्रिजगति गणेशस्य महिमा
गणेशे मच्चित्तं निवसतु गणेश त्वमव माम् ॥
इह खलु सर्ववेदान्तसंवेद्यं अखण्डं सत् चिद् आनन्दं निरस्तत्रिविधभेदं अवाङ्मनसगोचरं स्वप्रकाशं मुक्तोपसृप्यं परं ब्रह्म । तन्निर्विकल्पेन तद्विषयकसविलासाज्ञाननिवृत्त्या कण्ठचामीकरन्यायेन तदात्मतावाप्तिरूपो मोक्ष इत्यविवादम् । स च निर्विकल्पः शुद्धचित्तानामेव न मलिनाशयानाम् । चित्तशुद्धौ तु श्रौतस्मार्तकर्माणि तत्तद्वर्णाश्रमोचितानि वेदे कर्मकाण्डसमधिगम्यानि बहिरङ्गोपायाः । तस्यैव ब्रह्मणः सगुण-निर्गुणभेदेन द्विविधस्य उपासनानि वेदे रहस्यतरोपनिषत्काण्डसमधिगम्यानि अन्तरङ्गोपायाः । बहिरङ्गानुष्ठान-शीलानामेव त्वन्तरङ्गानुष्ठानेऽधिकारः । सगुणं तु रूपमुपासकानुग्रहार्थं कल्पितमेव इत्युपासकरुचिवैचित्र्येण नानाविधम् । तेषु ``आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम्'' इति स्मृत्युक्तरूपाणि तत्तदवान्तरमूर्तिभेदाश्च तत्तज्जन्मायातसंस्कारानुगुण्ये नोपास्यानीति सर्वेऽपि ईश्वरा एव । अत एव पुराणान्यपि तत्तदुपासकानुजिघृक्षया प्रवृत्तानि तस्य तस्यैव सर्वोत्तमत्वम्, अन्येषां ततोऽपकर्षं च, नहिनिन्दान्यायेन प्रतिपादयन्ति । कल्पभेदेन एकस्मादन्येषामुत्पत्तिः सम्भवतीत्यादिकमाकरेषु स्पष्टम् । तत्र गणपतिविषये हेरम्म्बोपनिषद्गणेशोपनिषदाद्याः श्रुतयः, ऐदम्पर्येण गाणपतन्त्राणि, गणेशोपपुराणं, पुराणान्तरेष्वपि तत्र तत्र सर्वोत्तमत्व-निरूपणभागाश्च, इति शतशः प्रमाणानि तत्तद्विदां स्पष्टानि ॥
तदुपासनं चैकाक्षरषडक्षराष्टाविंशत्यक्षरादि - बहुविधगणपतिमन्त्रजपादिरूपं बहुविधम् । स्वतन्त्रतया सहस्रनामस्तवपाठोऽपि । सहस्रनामस्तवस्यापि पुराणतन्त्रभेदेन बहुविधस्य मध्येऽयमेव बहुभिरुपासकैः परिगृहीत इत्ययमेव व्याक्रियते ॥
गणेशपुराणे तावदुपासनाखण्डे - ``अष्टादशपुराणानि - विस्तराच्छ्रावितानि नः । अन्येषामपि शुश्रूषा वर्तते वह्निसम्भव'' , इति सूतं प्रति ऋषीणां प्रश्ने पुराणमवतार्थं कतिचिद् आख्यानानि निर्वर्ण्य षट्त्रिंशमध्यायमारभ्य गृत्समदोपाख्यानं प्रवर्तितम् । तदीयक्षुतात् त्रिपुरासुरस्योत्पत्तिः, तस्य तपः, तस्मै वरदानं, तस्य त्रैलोक्यजयः, शिवेन सह युद्धं, शिवपराजयः, नारदं प्रति शिवकृतप्रश्नः, नारदवाक्ये - ``युद्धाय गन्तुकामेन नार्चितो गणपस्त्वया । अतः पराभवं प्राप्तोऽस्यग्निनेत्र पिनाकधृक्'' इत्यादि । ततः, ``सोऽतप्यत तपोऽत्युग्रं दश वर्षाणि शङ्करः । ततस्तस्य मुखाम्भोजान्निर्गतोऽभूत्पुमान् परः । पञ्चवक्त्रो दशभुजो भालचन्द्रः शशिप्रभः । मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः । अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वन् दशायुधः'' इत्यादिना गणेशाविर्भावतत्प्रसादवरदानादिकं उक्त्वा, ``ततः स्वनाम्नामवदत् सहस्रं तस्मै गणेशः प्रणताय दिव्यम् । शिवस्य भक्त्या परितुष्टचित्तो जयप्रदं कामकरं जनानाम् ॥ `` इत्यादिना तपः समाप्तिः पञ्चचत्वारिंशेऽध्याये वर्णिता ॥
तत उत्तरेऽध्याये ब्रह्माणं प्रति व्यासकृतप्रश्नः - ``व्यास उवाच ॥ कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् । शिवायैतन्ममाचक्ष्व लोकानुग्रहतत्पर !'' इति । ततः ब्रह्मोवाच । ``देव'' एवं पुरारातिः इत्यादिश्लोकचतुष्टयेन पूर्वोक्तविस्तृतकथायाः सङ्क्षेपेणानुवादः । तदिदं स्तोत्रं गणेशपुराणे षट्चत्वारिंशत्तमाध्यायरूपम् । अत्र पूर्वपीठिका- भागः पञ्चश्लोकात्मकः । मध्ये नामभागः सार्धषट्षषष्ट्युत्तरशत-श्लोकात्मकः । अन्त्यः फलश्रुतिभागः सार्धत्रिचत्वारिंशत् श्लोकात्मकः । संहत्य पञ्चदशोत्तरे द्वे शते श्लोकानामुक्त्वा सप्तचत्वारिंशेऽध्याये पुनर्युद्धं त्रिपुरसंहारादिकं चोक्त्वा त्रिपुराख्यानमुपसंहृतम् ॥
एवं व्यासेन पृष्टमर्थं दीनजनानुजिघृक्षयोपदिदिक्षुर्भगवान् ब्रह्मा ``सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये'' इति मन्त्रजपं विधाय गुरुसम्प्रदायशुद्धिमन्तरेण लब्धस्य फलानावहत्वाद्गुरुपरम्पराज्ञानावश्यकत्वं ध्वनयितुमाख्यायिकां पूर्वं विस्तृत्य वर्णितामपि पुनः सङ्क्षिप्यानुवदति
व्यास उवाच ।
कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् ।
शिवायैतन्ममाचक्ष्व लोकानुग्रहतत्पर ! ॥ १॥
ब्रह्मोवाच -
देव एवं पुरारातिः पुरत्रयजयोद्यमे ।
अर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २॥
मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ ३॥
विघ्नप्रशमनोपायमपृच्छदपराजितः ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ ४॥
सर्वविघ्नैकहरणं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वकं नाम्नां सहस्रमिदमब्रवीत् ॥ ५॥
एवं पूर्वाध्यायैरुक्तरीत्या उक्तं च । ``गुरुक्रममविज्ञायोपास्ते यः स्वेष्टदेवताम् । सोपास्तिर्निष्फला ज्ञेया भस्मन्यर्पितहव्यवत् । तस्माद्यत्नेन विज्ञेया मूलाद्गुरुपरम्परा'' इति । सा यथा - सर्वेषां गाणपतमन्त्राणां आदिगुरुर्गणेश एव । ततो गणक्रीडस्ततो विकट इत्यादिक्रमेण कुलाख्या गुरवो नव । ततः सुरानन्दादयो विद्यागुरवोऽपि नव । ततः सन्तानगुरवो विनायकादयो विंशतिः । एतेषु प्रत्येकं दिव्यौघाः सिद्धौघा मानवौघाश्चेति त्रेधा विभागो गुरुमुखादवसेयः । तत्पश्चात्कपिलादिव्यासपर्यन्ता एकविंशतिः । ततो गणकादि-शङ्कराचार्यान्ता द्विचत्वारिंशत् । सम्भूयैकोत्तरं शतं गुरवो विद्यारण्यश्रीपादैर्विद्यार्णवे प्रतिपादिताः । तेषां विशिष्टनामानि तत्रैव द्रष्टव्यानि'' । प्रायेणास्मिंस्तोत्रे प्राथमिकनामशतद्वयमध्ये तानि सर्वाणि व्यक्तीभवन्तीति रहस्यम् । शङ्करभगवत्पादेभ्योऽर्वाचीना तु स्वनाथपर्यन्ता गुरुपरम्परा स्वस्वदेशिकमुखादेवावगन्तव्या गुरूपसदनक्रममाह - महागणपतिमिति । गुरोः प्रसादफलमाह - सन्तुष्ट इति । उपदेशक्रममाह - सर्वविघ्नेति । अखिलानिष्टबाधकेषु उपायेषु अस्य मुख्यत्वकथनाय - एकेति । चतुर्वर्गसाधनत्व-कथनाय - सर्वकामेति । ईदृशगुरुपरम्परामूलभूतो गणेश एव शिष्यभक्तिमाहात्म्यात् स्वमुखेनैव स्वकीयं महामन्त्रं एनमुपादिक्षत् इत्याह - स्वकमब्रवीदिति । ततश्चान्यैरपि अयं मन्त्रः प्रोक्तगुरुपरम्परागतेष्वन्यतमं गुरुं भक्त्या सन्तोष्य तन्मुखादेव लब्ध्वा जपनीयः, न पुस्तकमात्रेण गृहीत्वा जप्तव्य इति तात्पर्यार्थः । अथोपदेशविषयस्य लौकिकत्वात् व्यूढादिवत्स्वयमेव तत्स्वरूपं विध्यपेक्षितत्वात्प्रदर्शयति गणेश्वर इत्यादिनाऽनन्तानन्तसौख्यद इत्यन्तेन ॥
गणेशो गाणपत्यानां गणदीक्षाप्रभुर्मतः ।
गणेश्वरो गणक्रीडो विकटो विघ्ननायकः ॥
दुर्मुखः सुमुखो बुद्धो विघ्नराजो गणाधिपः ।
एते कुलाख्या गुरवः तत्तेजसि विभावयेत् ॥
सुरानन्दः प्रमोदश्च हेरम्बश्च महोत्कटः ।
शङ्करो लम्बकर्णश्च मेघनादो महाबलः ॥
गणञ्जयो नवैते तद्विद्यानामवतारकाः ।
विनायको विरूपाक्षो बुद्धः शूरो वरप्रदः ॥
एते पञ्चैव दिव्यौघाः, विजयो दुर्जयो जयः ।
कवीश्वरश्च ब्रह्ममण्यो निधीशः सिद्ध संज्ञकाः ॥
गजाधिराजो दुःखारिः सद्योजातः सुखावहः ।
परात्मा सर्वभूतात्मा महानादः शुभाननः ॥
बाल (भाल)चन्द्रो नवैते च मानवौघाः प्रकीर्तिताः ।
ततश्च बालचन्द्रान्तां पूजयेद्गुरु सन्ततिम् ॥
कपिलाद् व्यासपर्यन्तं एकविंशति सङ्ख्यकाः ।
(कपिलोऽत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ॥
भृगुः सनत्सुजातश्च वामदेवश्च नारदः ।
गौतमः शुनकः शक्तिर्मार्कण्डेयश्च कौशिकः ॥
पराशरः शुकचैवाङ्गिराः कण्वस्तथैव च ।
जाबालिश्च भरद्वाजो वेदव्यासस्तथैव च ॥
गणकः सुभगो नित्यो नित्यालम्बश्व शाश्वतः ।
पूर्णानन्दः परानन्दः सुभक्तः पद्मलोचनः ॥
कामपालो बुधश्रेष्ठो गजवक्त्रो गणप्रियः ।
भूतेशो बाललीलश्च कुमारो बोधनो हरः ॥
सत्यलीलः सुलीलश्च विकटो धूम्रवर्णकः ।
नन्दिप्रियो नन्दिहासो देवीपुत्रो धनेश्वरः ॥
विश्वम्भरी विशालाक्षो विघ्नहर्ता विनायकः ।
कूष्माण्डेशः कपर्दी च शिवः कालो महीधरः ॥
गौडादि शङ्करान्ताश्च सप्त प्रागीरिताश्च ये ।
(गौडः पावक एव च । पाराशर्यः सत्यनिधी ।
रामचन्द्रस्ततः परम् । गोविन्दः शङ्कराचार्यः ॥)
त्रिषष्टिसम्मिता ह्येते गुरवः सिद्धिदायकाः ।
पूजिताः संस्मृता नित्यं सर्वेप्सितफलप्रदाः ॥
श्रीमायास्मरबीजाद्याः सिद्धान्ताचार्यनमोन्तकाः ।
(श्रीविद्यार्णवेतन्त्रे प्रथमाश्वासे श्लो. २५१-२६४)
अस्य श्री महागणपतिसहस्रनामस्तोत्रमहामन्त्रस्य । गणेशऋषिः ।
अनुष्टुप् छन्दः । श्रीमहागणपतिर्देवता । गं बीजं । तुं गं शक्तिः ।
स्वाहा कीलकं । श्रीमहागणपतिप्रसाद सिद्ध्यर्थे नामपारायणे विनियोगः ॥
अथ करन्यासः ।
गां अङ्गुष्ठाभ्यां नमः ।
गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः ।
गैं अनामिकाभ्यां नमः ।
गौं कनिष्ठिकाभ्यां नमः ।
गः करतलकरपृष्ठाभ्यां नमः ॥
अथाञ्गन्यासः ।
गां हृदयाय नमः ।
गीं शिरसे स्वाहा ।
गूं शिखायै वषट् ।
गैं कवचाय हुं ।
गौं नेत्रत्रयाय वौषट् ।
गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानं -
पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।
मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥
अग्न्यर्कशशिनो भाभिः तिरस्कुर्वन् दशायुधः ।
सर्वविघ्नहरो देवः तं ध्यायामि दिवानिशम् ॥
अथ लमित्यादि पञ्चपूजा ।
लं पृथिव्यात्मने महागणपतये गन्धं समर्पयामि ।
हं आकाशात्मने महागणपतये पुष्पाणि समर्पयामि ।
यं वाय्वात्मने महागणपतये धूपमाघ्रापयामि ।
रं अग्न्यात्मने महागणपतये दीपं दर्शयामि ।
वं अमृतात्मने महागणपतये अमृतोपहारं निवेदयामि ॥
(गणेश्वरो गणक्रीडः इति अङ्गुष्ठाभ्यां नमः ।
कुमारगुरुरीशानः इति तर्जनीभ्यां नमः ।
ब्रह्माण्ड कुम्भश्चिद्व्योमभालः इति मध्यमाभ्यां नमः ।
रक्तो रक्ताम्बरधरः इति अनामिकाभ्यां नमः ।
सर्वसद्गुरु संसेव्यः इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः स्वभक्तानां इति करतलकरपृष्ठाभ्यां नमः ।
छन्दश्छन्दो वपुः इति हृदयाय नमः ।
निष्कलो निर्मलो नित्य इति शिरसे स्वाहा ।
सृष्टिस्थितिलय क्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानन्दः इति कवचाय हुम् ।
अष्टाङ्गयोगः फलभूः इति नेत्रत्रयाय वौषट् ।
अनन्तशक्ति सहितः इति अस्त्राय फट् ।
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिणेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् ।
अमरवर सुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि । इति केचित् )
अथ सहरनामस्तोत्रं प्रारम्भः ।
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदंष्ट्रो(न्तो)वक्रतुण्डो गजवक्त्रो महोदरः ॥ ६॥
ॐ वियदादिप्रपञ्चस्य समूहो गण उच्यते ।
तदात्मकस्तदीशश्च तेन देवो गणेश्वरः(१) ॥ १॥
साक्षाच्छिष्यो गणेशस्य गणक्रीडाभिधो गुरुः ।
तच्छिष्यो विकटस्तस्य शिष्यो वै विघ्ननाय(श)कः ॥ २॥
इत्यादयोऽप्यभेदेन गणेशा एव देशिकाः ।
मन्त्रारम्भे गुरुस्मृत्यावश्यकत्वेन कीर्तिताः ॥ ३॥
वियदादिगणस्यान्तः प्रविश्य क्रीडनेन वा ।
गणक्रीड इति प्रोक्तस्तत्सृष्ट्वेत्यादिविश्रुतेः(२) ॥ ४॥
गणनं गुणसङ्ख्यानामथशब्दात्तु मङ्गलम् ।
कृते तयोर्बहुव्रीहौ गणनाथ इति स्मृतः(३) ॥ ५॥
आदित्यविश्ववस्वाद्या रुद्रान्ता गणदेवताः ।
(Footnotes)
(१) गणेशाद्याश्च चत्वारोमूर्तयो (१।१)ब्रह्मणस्पतेः ।
अव्यक्ताद्यास्तत्वगणाः ब्रह्माद्या देवतागणाः ।
अनादयो ब्रह्मगणाः स्मृता एव त्रिधा गणाः ।
गणात्मकस्तदीशश्च तेन देवो गणेश्वरः (१।२) ॥ (ब्रह्म)
(१।१) गणेशः गालवः मुद्गलः सुधाकरः इति ।)
(१।२) जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे गणेशाय नाम तुभ्यं नमो नमः ॥ (मुद्गले ।)
ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।
तयोर्योगे परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ (ब्रह्मवैवर्ते)
(२) त्रिविधेषु गणेष्वन्तः प्रविश्य क्रीडनेन च ।
गणक्रीड इति प्रोक्तः तत्सृष्ट्वेत्यादितः श्रुतेः ॥
गुण निर्गुणरूपेण चतुर्ष्वपि जगत्सु च ।
क्रीडकस्तु स्वस्वरूपी गणक्रीड इति स्मृतः ॥ (ब्रह्म)
(३) सर्वाकारा महामाया प्रकृतिर्गुणरूपिणी ।
तस्याः सत्तादायकोऽयं निर्गुणो गणनाथकः ।
चिन्मायासंयोगरूपी सगुणो गणनाथकः ॥ (ब्रह्मा)
तदाधिपत्यशालित्वान्मम देवो गणाधिपः(१) ॥ ६॥
एका मुख्या केवला वा दंष्ट्रा यस्य गणेशितुः ।
भूम्युद्धारे जगन्नाशे वैकदंष्ट्रः स कीर्त्यते(२) ॥ ७॥
(३)शुण्डादण्डस्य वक्रत्वाद् वक्रतुण्ड इतीर्यते ।
श्रियं तनोति रम्याणां विकारोऽपीति लोकवाक् ॥ ८॥
गजस्येव मुखं यस्य गजवक्त्रः स उच्यते (४) ।
अनन्तकोटिब्रह्माण्डपूर्णकुक्षिर्महोदरः ॥ ९॥
लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ ७॥
(Footnotes)
(१) जगज्जीवेश्वराणां च समूहो गण उच्यते ।
तदाधिपत्यशालित्वात् देवदेवो गणाधिपः ॥
सम्प्रज्ञातासम्प्रज्ञातसमाधीनां समूहकः ।
गण इत्येव कथितः तदीशः स्वमहिम्निगः ॥
पूर्ण योगात्मको देवो गणेश इति कथ्यते ।
चतुर्विधानां जगतामधिपोऽयं गणाधिपः । (ब्रह्मा)
(२) एकशब्दात्मिका माया दन्तः सत्ताधरो मतः ।
तयोरभेदसंयोगे चैकदन्त इति स्मृतः ।
एकशब्दः प्रधानार्थी दन्तश्च बलवाचकः ।
बलं प्रधानं सर्वस्मात् एकदन्तं नमाम्यहम् ॥ (ब्रह्मैव )
(३) वक्रतुण्डादयश्चाष्ट हावताराः परात्मनः ।
(३।१) वक्रतुण्डः, एकदन्तः, महोदरः, गजाननः, लम्बोदरः
विकटः विघ्नराज, धूम्रवर्णः इति । (मुद्गल)
कला माया इति प्रोक्ताः स्वानन्देशस्य ब्रह्मणः ॥
असम्प्रज्ञातसमाधि स्थितिरूपाः पुरातनाः ।
वक्रा विघ्ना इति प्रोक्ताः विघ्नाः सत्तात्मकाः स्मृताः ॥
तुण्डेन हन्ति तान्देव वक्रतुण्डो मतो बुधैः ।
(४) गजात्मकं परं ब्रह्म निर्गुणं यस्य वक्त्रकम् ।
मुखचिह्नाज्ज्ञायते यः स एव गजवक्त्रकः ॥
ब्रह्माण्डालम्बनं यस्य कुक्षिर्लम्बोदरस्तु सः ।
वायोर्बीजं धूम्रवर्णं तद्रूपत्वादसावपि(१) ॥ १०॥
कट वर्षावरणयोरिति धातोरनावृतेः ।
विभुत्वाद विकटः प्रोक्तः स यस्य विगतः कटः ॥ ११॥
विघ्नान्नयति भक्तौघात् विघ्नानामधिपोऽथ वा ।
यद्वा विहन्ति नयति प्राणिनो विघ्ननायकः(२) ॥ १२॥
आरम्भाः शोभना येन यस्य शोभनमाननम् ।
स एव सुमुखस्तस्मै सुमुखाय नमो नमः ॥ १३॥
दुःस्पर्शं वा सुदुर्दर्शमग्नेः सूर्यस्य वा मुखम् ।
तद्रूपत्वादभक्तेषु तथात्वाच्चैष दुर्मुखः(३) ॥ १४॥
नित्यबुद्धस्वरूपत्वात् अविद्यावृत्तिनाशनः ।
यद्वा जिनावतारत्वाद् बुद्ध इत्यभिधीयते(४) ॥ १५॥
विघ्नैर्विराजते तेषां राजा विघ्नस्तु विघ्नकः ।
भक्ताधीनश्च राजा च विघ्नराजस्ततो मतः(५) ॥ १६॥
``अन प्राणन'' इत्यस्माद्धातोर्णिचि ततो ल्युटि ।
गजाननयतीत्यर्थे साधुरेष गजाननः(६) ॥ १७॥
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ८॥
(Footnotes)
(१) धूम्रायन्ते यत्रवर्णा धूम्रवर्णः स ईरितः ।
(२) विद्यान्नयत्यभक्तौघान् विघ्नानामधिपोऽथवा ।
(३) दुःस्पर्शं बा सुदुर्दर्शं सूर्याग्निविद्युतामिव
तद्वन्मुखमभक्ताय दुर्मुखाय नमो नमः ।
(४) बुद्ध्यारूढो बुद्ध इति चित्तवृत्ति प्रचालकः ।
(५) विघ्नः कालात्मकस्तस्य विराजो नियामकः ॥
(६) गजा सत्वमयी माया तस्याः सत्ताप्रदानतः ।
अन्नात्प्राणदो देवो गजानन महेश्वरः ॥
गकारः सर्वगं ब्रह्म गजानन इति स्मृतम् ।
गजस्य वक्त्रसंयुक्तः शिवपुत्रो गजाननः ॥
दुष्टानां भयकारित्वाद् भीम इत्युच्यते बुधैः ।
इष्टलाभात्सुखं यत्तु स प्रमोद इति स्मृतः ॥ १८॥
ततः प्राक् सुखमामोद इष्टार्थप्राप्तिनिश्चयात् ।
(१)इष्टार्थभोगजनितं सुखमानन्द उच्यते ॥ १९॥
स सुरोत्थः सुरस्थो (रार्थो)वा सुरानन्दस्तदात्मना ।
अत एवान्यविषयमोषादात्मैकभानतः ॥ २०॥
मदेनावरणोत्क्रान्त्या मदोत्कट इति स्मृतः ।
हः शङ्करे रविः शब्दे शैवतन्त्रप्रवर्तनात् ॥ २१॥
उद्दामशौर्यवत्त्वाद्वा हेरम्ब इति कथ्यते(२) ।
शं सुखं तद्वरं श्रेष्ठं यस्मिन्नस्ति स शम्बरः ॥ २२॥
शम्बं वा कुलिशं राति यद्वा सलिलविग्रहः ।
शम्भुस्तु शं भवत्यस्माच्छिवाभेदेन वोदितः ॥ २३॥
यत्र क्वापि कृतं भक्तैराह्वानस्तवनादिकम् ।
नातिदूर इवाकर्ण्य लम्बकर्ण इति स्मृतः ॥ २४॥
महान्बलासुरो येन बलित्वाद्वा महाबलः ।
(महाबला जिता येन बलित्वाद्वा महाबलः)
नन्न्दनोऽलम्पटोऽभीरुर्मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो धीरशूरो वरप्रदः ॥ ९॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ १०॥
नदिः समृद्धिवाचीति तद्धेतौ ल्युटि नन्दनः ॥ २५॥
अलम्पट समृद्धत्वादलङ्कारः पटोऽस्य वा ।
अभीरुर्भयशून्यत्वात् अङ्गनारहितोऽथ वा ॥ २६॥
मेघनादः प्रसिद्धार्थो मेघान् नादयतीति वा ।
एकैकं यत्नतः शत्रुञ्जयति प्राकृतो जनः ॥ २७॥
(Footnotes)
(१) इष्टार्थ भोगजनित आनन्दस्तु प्रमोदकः ।
तदात्मकः प्रमोदः स्यात् इष्टार्थलाभ सम्भवः ।
आमोदस्तन्मयो देवः आमोद इति कथ्यते । (ब्रह्मा)
(२) हे जीवस्तु परो रम्बो द्विभेदपरिवर्जितः ।
सर्वसाक्षी परं ब्रह्म हेरम्बोद्दामशौर्यवान् ।
अनायासादयं व्यूहान् जयतीति गणञ्जयः(१) ॥
विः पक्षिरूपो जीवौघः तन्नेतृत्वाद्विनायकः(२) ॥ २८॥
विरूपाक्षो विसदृशैर्नेत्रैरग्निरवीन्दुभिः ।
धीरशूरो धैर्यशौर्य-सामानाधि-करण्यतः ॥ २९॥
वरान् स्वपादसेविभ्यो ददातीति वरप्रदः(३) ।
गणाः गुल्मादयः सेनाभेदास्तेषु य उत्तमः ॥ ३०॥
स्थूलास्तानपि पातीति महागणपतिर्मतः ।
(४)बुद्धिप्रियः संशयघ्नो बुद्धिः स्यान्निश्चयात्मिका ॥ ३१॥
(५)क्षिप्रप्रसादनः क्षिप्रं भक्तैर्ध्यातः प्रसीदति ।
रुद्रप्रिय इति प्रोक्तो रुद्रैकादशिनीप्रियः ॥ ३२॥
(६)गणाध्यक्षस्तु षट्त्रिंशत्तत्त्वसन्दोहपालकः ।
उमापुत्रस्तु पुंल्लोकात्पार्वत्या अपि तारकः ॥ ३३॥
महोदरोऽप्यसावल्पनैवेद्यैनैव तृप्यति ।
अशनं न धनं दुःखहरणाद्वाऽघनाशनः(७) ॥ ३४॥
(Footnotes)
(१) गणासुरस्य जेतायं गणञ्जय इति स्मृतः ।
(२) विगतो नायको यस्य विनायक इति श्रुतः । (ब्रह्मा)
(३) धीर धैर्यवान् शूरः शौर्यवांश्च वरान्स्वकान् ।
इष्टान् सर्वान्ददातीति पातीति च वरप्रदः । (ब्रह्मा)
(४) वियदादिप्रपञ्चस्य समूहो गण उच्यते ।
तस्य पाता गणपतिः शम्भुपुत्रो गणेश्वरः ।
व्याकृताव्याकृतमयचतुर्णां जगतामपि ।
महागणाः समूहाश्च महागणपतिः पतिः । (ब्रह्मा)
(५) पञ्चचित्तवृत्तिमयी बुद्धिर्मायामयी परा ।
तस्याः पतिर्गणेशानो बुद्धिप्रिय इति स्मृतः । (ब्रह्मा)
(६) रुद्रस्य प्रियदत्वाच्च रुद्रप्रिय इति स्मृतः ।
(७) अघस्य पापसंज्ञस्य हरणादघनाशनः ॥ (ब्रह्मा)।
कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ११॥
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।
कटको राजपुत्रः शालकः सम्मितोऽमितः ॥ १२॥
सनत्कुमाररूपोऽपि विद्यामुपदिशन् गुरुः ।
स्कन्दपूर्वभवत्वाद्वा कुमारगुरुरीरितः(१) ॥ ३५॥
ईशानपुत्र इत्युक्तः शितिकण्ठात्मजत्वतः ।
उन्दुरुं वाहनीकृत्य ख्यातो मूषकवाहनः(२) ॥ ३६॥
सिद्धिप्रियः प्रिया अस्येत्यणिमाद्यष्टसिद्धयः(३) ।
अणिमाद्यष्टसिद्धीनां पाता सिद्धिपतिस्ततः ॥ ३७॥
गोरक्षादिमहासिद्धरूपत्वात् सिद्ध उच्यते ।
भक्ते सिद्धीर्विशेषेण जयन्ं सिद्धिविनायकः(४) ॥ ३८॥
भावप्रधाननिर्देशादवित्वं पशुतां हरन् ।
विघ्नैर्विरहितत्वाद्वाऽप्यविघ्न इति कथ्यते ॥ ३९॥
रोरूयमाणस्तुम्बेन वैणिकैरिति तुम्बुरुः ।
इमे गायन्ति वीणायां एतमेवेति हि श्रुतिः ॥ ४०॥
मयूरमूषकौ यद्वत्तथा सिंहोऽपि वाहनम् ।
गौर्या वा सिंहवाहाया अभेदात्सिंहवाहनः ॥ ४१॥
मोहिनीशः शिवस्तस्मादभिन्नो मोहिनीप्रियः(५) ।
कटमावृतिरज्ञानं नीहारेणेति हि श्रुतेः ॥ ४२॥
कटयत्यावृणोतीति ज्ञानदानात्कटङ्कटः ।
वरेण्याख्यस्य पृथिवीनेतुः पुत्रवदाचरन् ॥ ४३॥
चन्द्रो वा पुत्रवद्यस्य राजपुत्रः स उच्यते(६) ।
शः परोक्षेऽलकः केशे यस्यैकांशोऽप्यचाक्षुषः ॥ ४४॥
सोऽतीन्द्रियः शालतेऽसौ राजतेवेति शालकः ।
अङ्गुष्ठमात्र इत्यादि श्रुत्या व्याप्तोऽपि सम्मितः ॥ ४५॥
मशकेनापि नागेन सम इत्यपि च श्रुतेः ।
(Footnotes)
(१) सनत्कुमारमुख्यानां विद्यामुपदिशन् गुरुः । (ब्रह्मा)
(२) स्तेयं ब्रह्म यस्य वाहः तेन मूषकवाहनः । (ब्रह्मा)
(३) बुद्धेर्हर्षमोहदात्री सिद्धिर्मायामयी परा ।
प्रिया यस्य तु सा सिद्धिः अणिमाद्यष्टसिद्धयः । (ब्रह्मा)
(४) भक्तान् सिद्धया विशेषेण नयन् सिद्धिविनायकः । (ब्रह्मा)
(५) मोहिनी पञ्चमी कन्या भुवनेशीसमुद्भवा ।
गणेशस्य प्रिया सा तु तेनायं मोहिनीप्रियः ।
(६) महाराज्ञीसुतश्चास्मि कुरुराज सुतोऽपि वा ।
परिमाणं त्वणु स्थूलं ह्रस्वं दीर्घं चतुर्विधम् ॥ ४६॥
तन्नास्तीत्यमितोऽस्थूलमनण्वित्यादितः श्रुतेः ।
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्वहो जयः ।
भूपतिर्भुवनेशानो भूतानाम्पतिरव्ययः ॥ १३॥
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्घृणिः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः ॥ १४॥
कूष्मांण्डसामसम्भूतिः कूष्माण्डैर्जुहुयादिति ॥ ४७॥
विधौ प्रसिद्धा मन्त्राश्च सामानि अस्य विभूतयः ।
अजय्यो बलिभिर्दैत्यैर्मनसापीति दुर्जयः ॥ ४८॥
धुरं वहत्यनायासाज्जगतामिति धुर्वहः ।
जयो जयस्वरूपत्वाद्भारताद्यात्मकत्वतः ॥ ४९॥
भूपतिर्भुवनपतिर्भूतानाम्पतिरित्यमी ।
भ्रातरोऽस्तदात्मत्वाद्भूपत्यादिः प्रकीर्तितः(१) ॥ ५०॥
अव्ययो नाशराहित्याद् विश्वकर्ता जगत्कृतेः ।
विश्वस्य मुखमारम्भो यस्माद्विश्वं मुखेऽस्य वा ॥ ५१॥
विश्वस्य मुखवतृप्तिहेतुर्विश्वमुखस्ततः ।
सर्वप्रपञ्चरूपत्वाद् विश्वरूप इति स्मृतिः ॥ ५२॥
अथवा विश्वरूपोऽसौ त्वाष्ट्रो देवपुरोहितः ।
वियदादिजगज्जातं नितरां यत्र धीयते ॥ ५३॥
महापद्मादिनवकरूपत्वाद्वा निधिः स्मृतः ।
घृणिरादित्यरूपत्वाद् घृणिः सूर्य इति श्रुतेः ॥ ५४॥
काव्यत्वात् काव्यकर्तृत्वात् कविरेष तथा कविम् ।
कवीनामुपमश्रुत्या कवीनामृषभोऽप्ययम्(२) ॥ ५५॥
ब्रह्मण्यो ब्राह्मणे वेदे साधुस्तपसि धातरि(३) ।
वाग्वै ब्रह्म पतिस्तस्या इत्येष ब्रह्मणस्पतिः ॥ ५६॥
(Footnotes)
(१) भूपती राजपुत्रत्वाद्भुवनस्य पतिर्विभुः ।
भूतानामीश्वरोऽयं तु जगद्ब्रह्मस्वरूपवान् ॥
(२) कविस्तु काव्यरूपत्वात्साक्षी कूटस्थसंज्ञकः ।
चिन्मायायोगरूपत्वात्कवीनामृषभो मतः ॥
(३) ब्रह्मण्यो मुनिजत्वाच्च ब्रह्मणो ब्रह्मणस्पतिः ।
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तस्थः सूर्यमण्डलमध्यगः ॥ १५॥
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमाङ्क्केलिकुतुकी मुक्तिदः कुलपालनः ॥ १६॥
ज्येष्ठराज इति ख्यातो ज्येष्ठाख्ये साम्नि राजनात् ।
एष नाम्ना निधिपतिर्निधीनां परिपालनात् (१) ॥ ५७॥
निधीनां त्वा निधिपतिं हवामह इति श्रुतेः ।
निधिप्रिया ये पतयो राजराजादयो नृपाः ॥ ५८॥
तैरप्युपास्य इत्येष निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तःस्थो दहराकाशमध्यगः ॥ ५९॥
चिन्मय ब्रह्मपूर्देहस्तदन्तर्हृदये स्थितेः ।
ध्येयत्वादन्तरादित्ये सूर्यमण्डलमध्यगः ॥ ६०॥
शुण्डादण्डाभिघातेन रिक्तमब्धिं चकार यः ।
कराहतिध्वस्तसिन्धुसलिलः स ततो मतः ॥ ६१॥
वीरभद्रो दक्षमखे पूष्णो दन्तानपातयत् ।
तद्रूपत्वादसौ देवः कथ्यते पूषदन्तभित्(२) ॥ ६२॥
गौर्युत्सङ्गे कृताक्रीडो न बाल्यात्किन्तु कौतुकात् ।
अत एवोमाङ्ककेलिकुतुकी विबुधैः स्मृतः ॥ ६३॥
निगडान्मोचनान्मोक्षदानाद्वा मुक्तिदो मतः (३) ।
वंशस्य कौलतन्त्रस्याप्यवनात् कुलपालनः (४) ॥ ६४॥
(Footnotes)
(१) जलनिधिः समुद्रः स्याद्धननिधिस्तु यक्षपः ।
प्रजापतिनिधिर्ब्रह्मा सूर्यस्तेजोनिधिः स्मृतः ॥
एतादृशनिधीनां तु पतिर्निधिपतिप्रियः ॥
(२) विनायकः सूर्ययुद्धे पूष्णो दन्तानपातयत् ।
तेन देवो मण्डलस्थः कथ्यते पूषदन्तभित् ॥
(३)मोक्षद्वारं मण्डलं तु तत्रस्थो मुक्तिदो मतः ।
निगडाद्भवबन्धाद्वा मोचनान्मुक्तिदो भवान् ॥
(४) वंशस्य दक्षराजस्य पालनात्कुलपालनः ।
किरिटी कुण्डली हारी बनमाली मनोमयः
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १७॥
सद्योजातस्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्रहृत् प्रसहनो गुणी नादप्रतिष्ठितः ॥ १८॥
किरीटी मौलिभूषावानथवाऽर्जुनरूपधृक् ।
कुण्डली कर्णभूषावान् अथवा शेषरूपधृक् ॥ ६५॥
हारी मुक्तादिमालाधृगथवाऽत्यन्तसुन्दरः ।
वनमाली दधात्येष मालामापादलम्बिनीम् ॥ ६६॥
मनोमयः स्वसङ्कल्प-कल्पितैककलेवरः ।
यदाभिमुख्यराहित्यान्नष्टा सम्पत्सुरद्विषाम् ॥ ६७॥
यत्पादाघातमात्रेण पृथ्वी नम्रा बभूव सः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ ६८॥
मुञ्जाख्यहैमतृणजां मौञ्जीं तात्कालिकीं दधत् ।
सद्योजात-स्वर्णमुञ्जमेखलीति निगद्यते ॥ ६९॥
मूर्तिस्फोटनभूकम्पमहोल्का पतनादिभिः ।
संसूचितान्यरिष्टानि हन्त्यतो दुर्निमित्तहृत् ॥ ७०॥
दुःस्वप्नमपि सुस्वप्नं कुर्वन् दुःस्वप्नहृन्मतः ।
भक्तापराधान् क्षमते तेन प्रसहनः स्मृतः ॥ ७१॥
विशोकविजिघत्सत्वप्रमुख्यैः स्यात् गुणैर्गुणी(१) ।
अस्ति प्रणव बिन्द्वन्तेऽर्धचन्द्राद्यक्षराष्टकम् ॥ ७२॥
तत्र नादस्तृतीयस्तद्वाच्यो नाद-प्रतिष्ठितः ।
सुरूपः (१००)सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः ॥ १९॥
चित्राङ्कश्यामदशनो भालचन्द्रश्चतुर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ २०॥
(Footnote)
(१) सर्वज्ञत्वस्वतन्त्रत्व प्रमुखैर्युग्गुणैर्गुणी ।
सुरूपो भूरिलावण्याद्यद्वा तत्त्वनिरूपणात् (१) ॥ ७३॥
सर्वनेत्रेषु वसति ``य एषोऽक्षिणि पूरुषः ।
एष आत्मे᳚ति वचनात् सर्वनेत्राधिवासकः ॥ ७४॥
वामजानूपरिगतदक्षपादोपवेशनम् ।
वीरासनं तथा स्थानादेष वीरासनाश्रयः ॥ ७५॥
निपीतं गगनं येन यस्य पीतोऽथ वा पटः ।
स तु पीताम्बरः खण्डरदो दन्तार्धधारणात् ॥ ७६॥
अर्धचन्द्रं दधन्मूध्ना खण्डेन्दुकृतशेखरः ।
श्यामैकप्रचुरैश्वित्रैरङ्किते रदने सति ॥ ७७॥
चित्राङ्कश्यामदशन इत्येवं स्तूयसे बुधैः ।
भालचन्द्र इति ख्यातो भाले चन्द्रस्य धारणात् ॥ ७८॥
अष्टमीचन्द्रसदृशं ललाटं यस्य सोऽथवा ।
चत्वारो बाहवो यस्य विग्रहे स चतुर्भुजः ॥ ७९॥
योगाचार्यावतारा ये लैङ्गेऽष्टाविंशतिः स्मृताः ।
लकुलीशादयस्तत्तद्रूपो योगाधिपो मतः(२) ॥ ८०॥
प्रणवेनाभिधेयत्वात् तारकस्थ इति स्मृतः ।
पूर्षु सर्वासु शेतेऽसौ साक्षित्वेनेति पूरुषः ॥ ८१॥
यस्य कर्णौ गजस्येव तेनासौ गजकर्णकः ।
गणाधिराजो विजयस्थिरो गजपतिध्वजी ।
देवदेवः स्मरप्राणदीपको वायुकीलकः ॥ २१॥
विपश्चिद्वरदो नादोन्नादभिन्नबलाहकः ।
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ २२॥
(Footnotes)
(१) सुरूपादिनामभिश्र ध्येयो नेत्रसुसंस्थितः ॥
(२) आद्ये श्वेतः कलौ रुद्रः सुतारो मदनस्तथा ।
सुहोत्रः कङ्कणश्चैव लोका(गा)क्षिर्मुनिसत्तमाः ॥
जैगीषव्यो महातेजा भगवान्दधिवाहनः ।
ऋषभश्च मुनिर्धामानुग्रश्रात्रिः सुबालकः ॥
(२।१)गौतमश्चाध भगवान्सर्वदेवनमस्कृतः ।
वेदशीर्षश्च गोकर्णो गुहावासी शिखण्डभृत् ॥
जटामाल्यदृहासश्च दारुको लाङ्गली तथा ।
महा कायमुनिःशूली दण्डी मुण्डीश्वरः स्वयम् ॥
सहिष्णुः सोमशर्मा च ल(न)कुलीशो जगद्गुरुः ।
वैवस्तेऽन्तरे सम्यक्प्रोक्ता हि परमात्मनः ।
योगाचार्यावतारा ये सर्वावर्तेषु सुब्रताः ॥ (लैंङ्गे )
अधीयन्ते यत्र काव्ये गणा मयरसादयः ॥ ८२॥
गणाधिराजस्तेनासौ राजते प्रतिपाद्यते ।
भक्तानां विजयस्थैर्य शालित्वाद् विजयस्थिरः ॥ ८३॥
गजेन्द्राढ्यो ध्वजोऽस्येति मतो गजपतिध्वजी ।
देवदेवो वासवादि-दैवतैरप्युपास्यते (१) ॥ ८४॥
रुद्रेण दग्धदेहेऽपि प्राणानुज्जीवयन्नयम् ।
मन्मथस्य स्मरप्राणदीपकत्वेन कीर्त्यते ॥ ८५॥
नवद्वारि तनौ प्राणान् स्तम्भयन् वायुकीलकः ।
राज्ञे विपश्चिदाख्याय चतुवर्गं वरं ददत् ॥ ८६॥
अग्र्यात्मना त्वं वासिष्ठो(ष्ठे)विपश्चिद्वरदः स्मृतः ।
अल्पनादैर्महानादैरपि येन विदारिताः ॥ ८७॥
मेघाः स कथ्यते नादोन्नादभिन्नबलाहकः ।
वराहदंष्ट्राशोभाजिदेकदन्तविराजितः ॥ ८८॥
इतीभास्यपुराणोक्तेर्वराहरदनो मतः ।
कालमृत्युं प्रमादं वा हरन् मृत्युञ्जयो मतः ॥ ८९॥
प्रमादं वा मृत्युमहं ब्रवीति तु भारतात् ।
वस्ते शार्दूलचर्मेति स्मृतो व्याघ्राजिनाम्बरः ॥ ९०॥
इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः ॥
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ २३॥
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ॥
उमाङ्गमलजो गौरीर्तेजोभूः स्वर्धुनीभवः ॥ २४॥
(Footnote)
(१)नामान्येतानि नेत्रस्थ ध्यानदेवपराणि च ।
जगत्सिंसृक्षाधारित्वात् इच्छाशक्तिधरो मतः ।
देवत्राताऽखिलान्देवान्त्रायते दैत्यजाद्भयात् ॥ ९१॥
अत एव हरन् देवरिपून् दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवो योऽयमवतीर्णः शिवाननात् ॥ ९२॥
पितुः क्रोधं हरन्बाललीलाभिः शम्भुकोपहा ।
अज्ञवत् कतिचित् क्रीडाः कुर्वाणः शम्भुहास्यभूः ॥ ९३॥
शम्भुतेजा इति प्रोक्तः शिवतेजोऽस्ति यस्य सः ।
महिषादिहतौ भग्नोत्साहाया वर्धयन् बलम् ॥ ९४॥
दाक्षायण्याः शिवाशोकहारीति परिगीयते ।
हर्षं गौर्यास्तपस्यन्त्याः कुर्वन् गौरीसुखावहः ॥ ९५॥
निजाङ्गोद्वर्तनोत्थेन मलेन प्रतिमामुमा ।
चक्रे तदन्तः प्रविशन् उमाङ्गमलजो मतः ॥ ९६॥
चण्डिकाभूयमात्मानं विष्णुब्रह्मादितेजसाम् ।
आधारत्वादसौ गौरीतेजोभूरिति कथ्यते(१) ॥ ९७॥
स्कन्दो गङ्गोद्भवस्तस्मादभेदात् स्वर्धुनीभवः ।
स्वर्धुन्या उद्भवो यस्मादिति वा स्वर्धुनीभवः ॥ ९८॥
यज्ञकायो महानादो गिरिवर्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रु तिः ॥ २५॥
ब्रह्माण्डकुम्भश्चिद्व्योमभालः सत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २६॥
यज्ञकायोऽश्वमेधादिमखजातस्वरूपवान् ।
उच्चैस्तरां वषट्कारोस्स्तु श्रौषड्येयजामहे ॥ ९९॥
आश्रावयेत्यादिरूपो महानाद इति स्मृतः ।
गिरिवर्ष्माद्रयो यस्य विराजो देहतां गताः ॥ १००॥
मङ्गलानामनं प्राणं जनयन् स शुभाननः ।
सर्वात्माऽप्येष सर्वं खल्विदं ब्रह्मेति तु श्रुतेः ॥ १०१॥
देहभूता यस्य सर्वदेवात्माऽखिलदेवताः ।
ब्रह्मैव यस्य मूर्धा स ब्रह्ममूर्धेति कथ्यते ॥ १०२॥
कर्णभूता दिशो यस्य कथितः स कुकुप्श्रुतिः ।
ब्रह्माण्डखर्परयुगं न्युब्जं सद्यस्य कुम्भति ॥ १०३॥
विश्वात्मनः स ब्रह्माण्डकुम्भ इत्यभिधीयते ।
(१)गौरीतेजोभवो ढुण्ढिः दुरासदनिषूदनः ।
ब्रह्माण्डखर्परान्तर्यल्लग्नं खं तच्चिदम्बरम् ॥ १०४॥
तदस्य ब्रह्मरन्ध्र चिद्व्योमभालः स उच्यते ।
सत्यलोको यस्य कैश्यमसौ सत्यशिरोरुहः(१) ॥ १०५॥
उन्मेषाज्जायते यस्य निमेषाल्लीयते जगत् ।
जगज्जन्मलयोन्मेषनिमेष इति स स्मृतः ॥ १०६॥
ऊर्ध्वदक्षिणवामानि नेत्राणि जगदात्मनः ।
वह्निसूर्येन्दवो यस्य क्रमात्सोऽस्यर्कसोमदृक् ॥ १०७॥
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २७॥
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ।
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ॥ २८॥
एकः स्थूलो बहिर्दन्तो गिरीन्द्रः कनकाचलः ।
विराड्रूपजुषो यस्य गिरीन्द्रैकरदो हि सः ॥ १०८॥
पापपुण्ये यदोष्ठौ स धर्माधर्मोष्ठ उच्यते ।
धर्मोत्तरोष्ठो दुरिताधरोष्ठ इति च स्मृतेः ॥ १०९॥
यद्बृंहितं सामवेदः स प्रोक्तः सामबृंहितः ।
सूर्यादयो ग्रहा यस्य कृत्तिकाद्याश्व तारकाः ॥ ११०॥
मुखान्तःस्थाः सूक्ष्मदतो ग्रहर्क्षदशनो हि सः ।
पुराणन्यायमीमांसाथर्व-ऋग्यजुषादिका ॥ १११॥
वाक्तती रसना यस्य स वाणीजिह्व उच्यते(२) ।
नासा यस्य शुनासीरः सोऽयं वासवनासिकः ॥ ११२॥
कुलाचलांसो विन्ध्याद्या यस्य स्कन्धतया मताः ।
कन्धरोर्ध्वं मांसपिण्डावुन्नतौ घण्टिके मते ॥ ११३॥
ते रवीन्दू यस्य सोमार्कघण्ट कथितो हि सः ।
(गजघण्टायुगुलं शब्दायमानमिति केचित् )
यस्य ग्रीवा रुद्र एव स वै रुद्रशिरोधरः ॥ ११४॥
गङ्गाशोणादयो नद्यो नदा यस्य भुजाः स तु ।
नदीनदभुजः सिन्धुनदीनदति वा भुजः ॥ ११५॥
सर्पाङ्गुलीकः शेषाद्या अङ्गुल्यो यस्य पन्नगाः ।
ध्रुवाद्या यन्नखास्ताराः स स्मृतस्तारकानखः ॥ ११६॥
(Footnotes)
(१) सत्यं यस्य शिरः कैश्यो ह्यसौ सत्यशिरोरुहः ।
(२) वाग्रूपा रसना यस्य स वाणीजिह्व उच्यते ।
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कटः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २९॥
कुक्षिस्थयक्षगन्धर्वरक्षः किन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ ३०॥
भ्रूमध्यसंस्थितकरो भ्रुवोर्घ्राणस्य सन्धिगम् ।
यत्तत्वं श्रुतिषूक्तं तच्छुण्डादण्डात्म यस्य सः ॥ ११७॥
प्रपञ्चभानापह्नुत्या ब्रह्मविद्यैव वै मदः ।
तेनोद्भिन्नौ कटौ यस्य ब्रह्मविद्यामदोत्कटः ॥ ११८॥
यस्य व्योमबिलं नाभिर्व्योमनाभिरसौ मतः ।
ऋचः सामानि यजूंषि सा हि श्रीरमृता सताम् ॥ ११९॥
त्रय्यर्थ एव यच्चित्तं स श्रीहृदय उच्यते ।
सुमेरुरेव यत्पृष्ठं मेरुपृष्ठः स उच्यते ॥ १२०॥
जठरान्तर्जलस्थानेऽर्णवा इत्यर्णवोदरः ।
अन्त्राद्यवयवाः कुक्षौ यस्य यक्षादयः स तु ॥ १२१॥
कुक्षिस्थयक्षगन्धर्वरक्षः किन्नरमानुषः ।
पृथिव्येव कटिस्थानं यस्य पृथ्वीकटिस्तु सः ॥ १२२॥
सृष्टिलिङ्गस्तु यच्छेफस्स्थाने मैथुनजाः प्रजाः ।
शैलोरुः पर्वता एव यस्योरुस्थानतां गताः ॥ १२३॥
दस्रौ यस्याश्विनौ जानू स मतों दस्रजानुकः ।
पातालजङ्घो मुनिपात् कालाङ्गुष्ठस्त्रयीतनुः ।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ ३१॥
हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारीनिवारितः ॥ ३२॥
पातालजङ्घो यज्जङ्घात्मकं पातालसप्तकम् ॥ १२४॥
मुनिपात् मुनिभिः पादलग्नै पादात्मतां गतैः ।
कालाङ्गुष्ठो महामृत्युर्यत्पादाङ्गुलितां गतः ॥ १२५॥
अनुक्तावयवा यस्य श्रुतयः स त्रयीतनुः ।
शिंशुमाराभिधं ज्योतिश्चक्रं पुच्छं हि यस्य सः ॥ १२६॥
ज्योतिर्मण्डललाङ्गूलो ब्रह्मात्रोक्तं गजाकृति ।
भक्तानां हृदयान्येवास्यालानं गजबन्धनम् ॥ १२७॥
तत्रापगतचाञ्चल्यो हृदयालाननिश्चलः ।
हृदन्तर्दहराकाशं यस्य क्रीडासरः स तु ॥ १२८॥
हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः ।
सर्वगोऽपि परिच्छिन्नो भक्तैर्ध्यानेन यः स तु ॥ १२९॥
सद्भक्तध्याननिगडः शृङ्खला ह्यवरोधिका ।
पूजैव कथिता वारी गजबन्धनशृङ्खला ॥ १३०॥
सन्निरुद्धस्तया देवः पूजावारीनिवारितः ।
प्रतापी कश्यपसुतो गणपो विष्टपी बली ।
यशस्वी धार्मिकः स्वोजाः प्रथमः प्रथमेश्वरः ॥ ३३॥
चिन्तामणिद्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ ३४॥
तीव्राशिरोधृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीर्भोगदाभूषितासनः ॥ ३५॥
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३६॥
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः ।
लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः ॥ ३७॥
प्रतापी तापकत्वेन पराक्रमयुतोऽथवा ॥ १३१॥
कश्यपस्य मुनेः कुक्षाववतीर्ण इति स्मृतः ।
कथा पुराणे गाणेशे स कश्यपसुतो मतः ॥ १३२॥
गणपोऽध्वर्युहोत्रादीन् पातीति चतुरो गणान् ।
विष्टपी भुवनाधारो बलसामान्यवान् बली ॥ १३३॥
यशस्वी पुण्यकीर्त्याढ्यो धार्मिको धर्मवर्धकः ।
अष्टमो धातुरोजः स्यात् स्वोजास्तद्यस्य शोभनम् ॥ १३४॥
पूज्यः सर्वकार्यादौ पूज्यत्वात्सर्वदेहिनाम् ।
प्रथमा ब्रह्मविष्ण्वीशास्तदीशः प्रथमेश्वरः ॥ १३५॥
चिन्तामणिद्वीपपूर्वं रत्नसिंहासनावधि। ।
यस्योपभोग्यं स प्रोक्तः चतुर्भिरिह नामभिः ॥ १३६॥
तीव्रा च ज्वालिनी नन्दा भोगदा कामदायिनी ।
उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी ॥ १३७॥
पत्राष्टके कर्णिकायां सन्त्येताः पीठशक्तयः ।
नवैताः पद्मसहिताः कथिता दशनामभिः ॥ १३८॥
द्विद्विस्वरककिञ्जल्कपराप्रासादकर्णिकम् ॥ १३९॥
कादिवर्गाष्टकदलं मातृकापद्ममुच्यते ॥ १४०॥
तत्रस्थो लिपिपद्मा सनाधार इति कथ्यते ।
कर्णिकोपर्युपर्यर्केन्द्वग्न्याख्यं तेजसां त्रयम् ॥ १४१॥
आस्तीर्णं तत्र निवसन् वह्निधामत्रयाश्रयः ।
उन्नत पदो गूढगुल्फः संवृत(त्त)पार्ष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३८॥
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३९॥
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ४०॥
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ४१॥
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्षोदराबन्धः सर्पराजोत्तरीयकः ॥ ४२॥
पादाग्रे उन्नते यस्य चोन्नतप्रपदो मतः ॥ १४२॥
कूर्मपृष्ठसमाकारभाव औन्नत्यमीरितम् ।
पादमूलगतावस्थिग्रन्थी आच्छादितौ यदि ॥ १४३॥
नोन्नतत्वेन दृश्येते गूढगुल्फस्तदोच्यते ।
गुल्फाधोभागयोर्मांसपूर्त्या संवृत(त्त)पार्ष्णिकः ॥ १४४॥
पिण्डके मांसले यस्य पीनजङ्घः स कथ्यते ।
जङ्घोरुसन्धियुग्मं चेदस्पष्टं श्लिष्टजानुकः ॥ १४५॥
स्थूलोरुरूरुयुगलं मांसलं यस्य स स्मृतः ।
आनम्रो न कटिर्यस्य स प्रोक्तः प्रोन्नमत्कटिः ॥ १४६॥
गाम्भीर्यतो निम्ननाभिः स्थूलकुक्षिः पिचण्डिलः ।
व्यूढोरस्कः पीनवक्षा आजानुत्वाद्बृहद्भुजः ॥ १४७॥
पीनस्कन्धो मांसलांसः कम्बुकण्ठोऽब्जकन्धरः ।
वलित्रितयसंयुक्तः कण्ठो यस्य स कीर्तितः ॥ १४८॥
लम्बमानाधरोष्ठत्वाल्लम्बोष्ठः स्याद्गजाननः ।
शुण्डादण्डो लम्बमानो यस्यासौ(धो)लम्बनासिकः ॥ १४९॥
भग्नवामरदो यस्य च्छिन्नाग्रो वामदन्तकः ।
दन्तोऽस्य दक्षिणस्तुङ्गसव्यदन्तो यदुन्नतः ॥ १५०॥
कपोलपरभागस्य महत्त्वेन महाहनुः ।
गजस्य यादृशं वक्त्रं तद्योग्यपरिमाणकम् ॥ १५१॥
न लोचनमनेनासौ ह्रस्वनेत्रत्रयः स्मृतः ।
यस्य शूर्पाकृती कर्णौ शूर्पकर्णः स उच्यते ॥ १५२॥
घनत्वादतिकाठिन्यान्मूर्ध्नो निबिडमस्तकंः ।
स्तबकाकांरकुम्भाग्रो गुच्छोपमशिरोञ्चलः ॥ १५३॥
रत्नोत्कीर्ण किरीटाढ्यो रत्नमौलिरुदीरितः ।
कुम्भयोरङ्कुशास्पर्शात्स्वातन्त्र्याद्वा निरङ्कुशः ॥ १५४॥
सर्पहारकटीसूत्रयज्ञसूत्राणि यस्य सः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ।
सर्पकोटीरकटकः सर्पौ यन्मौलिकङ्कणे ॥ १५५॥
सर्पात्मकण्ठदोर्भूषः सर्पग्रैवेयकाङ्गदः ।
कक्षा च कटिबन्धाख्या कुक्ष्याबन्धश्च पन्नगौ ॥ १५६॥
यस्यासाते सर्पकक्षोदराबन्धः स कीर्तितः ।
सोत्तरीयो वासुकिना सर्पराजोत्तरीयकः ॥ १५७॥
रक्तो रक्ताम्बरधरी रक्तमाल्यविभूषणः ।
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ४३॥
श्वेतः श्वेताम्बरधरः श्वेतमाल्यविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ४४॥
सर्वावयवसम्पूर्णसर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४५॥
रक्तः कान्त्या वस्त्रमाल्यभूषादृक्करतालुनाम् ।
ओष्ठाग्रस्य च शोणत्वान्नामभिः पञ्चभिः स्तुतः ॥ १५८॥
विद्याकामादिभिर्यध्येयं रूपं बोधयितुं पुनः ।
प्रवृत्तं श्वेत इत्यादि स्पष्टार्थं नामपञ्चकम् ॥ १५९॥
सर्वागेषु समुद्रोक्तलक्षणैः पूरणादयम् ।
सर्वावयवसम्पूर्णसर्वलक्षणलक्षितः ॥ १६०॥
सर्वाभरणशोभाढ्योऽलङ्कारालङ्कृतत्वतः ।
लावण्याख्याङ्गकान्त्याढ्यः सर्वशोभासमन्वितः ॥ १६१॥
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदैककरः शार्र्ङ्गी बीजापूरी गदाधरः ॥ ४६॥
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालिमञ्जरीभृत् स्वदन्तभृत् ॥ ४७॥
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४८॥
पूर्णपात्री कम्बुधरो विधृतालिसमुद्गकः ।
मातुलिङ्गधरश्चूतकलिकाभृत् कुठारवान् ॥ ४९॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
सर्वमङ्गलमाङ्गल्यः शुभानां च शुभावहः ।
सर्वस्य जगतोऽव्यक्तं परमाण्वादि कारणम् ॥ १६२॥
तेषामपि च हेतुत्वात् सर्वकारणकारणम् ।
सर्वदैककरः सर्वं धत्ते मुख्यः करोऽस्य यत् ॥ १६३॥
शृङ्गोद्भवं धनुः शार्ङ्गं तद्वान् शार्ङ्ग्यथ नामभिः ।
दशभिर्दशहस्तस्यायुधान्यत्र गणेशितुः ॥ १६४॥
मातुलिनंङ्गं गदामिक्षुधनुः शूलं सुदर्शनम् ।
पद्म(शङ्ख)पाशोत्पलव्रीहिकणिशानि रदार्धकम् ॥ १६५॥
अथ मन्त्रान्तराङ्गानि ध्याननामायुधान्यपि ।
साकल्येन विनिर्देष्टुं नामान्यत्र त्रयोदश ॥ १६६॥
कल्पवल्लीधरः कल्पलतां धत्ते कराम्बुजे ।
विश्वस्माद(स्याप्य)भयं धत्ते यस्य मुख्यः करः स तु ॥ १६७॥
महागणपतिर्विश्वाभयदैककरः स्मृतः ।
वशेऽस्य विश्वं सर्वस्य वशीति श्रुतितो वशी ॥ १६८॥
अकारादिक्षकारान्तमातृकात्मकमालिका ।
उक्ताक्षमाला तद्धारी त्वक्षमालाधरो मतः ॥ १६९॥
तर्जन्यङ्गुष्ठसंयोगो ज्ञानमुद्रा हृदि स्थितः ।
तादृशैककरो ज्ञानमुद्रावानिति कथ्यते ॥ १७०॥
मुदं गिरन्ति यन्मन्त्रसाधनान्युरुबुध्नकम् ।
मुसलं वायुधं यस्य स देवो मुद्गरायुधः ॥ १७१॥
पूर्णपात्रं याज्ञिकेषु प्रसिद्धं तद्युतो मखः ।
यद्वा सुधाघटयुतः पूर्णपात्रीति कीर्त्यते ॥ १७२॥
शङ्खस्य धारणाद्धस्ते देवः कम्बुधरः स्मृतः ।
मद्यसम्पुटकं धत्ते भृङ्गाणां सम्पुटायते ॥ १७३॥
यो मदस्तं कटे धत्ते विधृतालिसमुद्रकः ।
बीजापूरफलं चाम्रमञ्जरीं च करे दधत् ॥ १७४॥
मातुलिङ्गधरश्चूतकलिकाभृच्च कथ्यते ।
योगिज्ञानं केवलाख्यं कुठारं तस्य साक्ष्यसौ ॥ १७५॥
ज्ञानार्थकात्तु शत्रन्ताद्धातोः सिद्धः कुठारवान् ।
शुण्डाग्रस्थ स्वर्णकुम्भपूर्णरत्नप्रदानतः ॥ १७६॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ५०॥
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ५१॥
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः !
आमोदमोदजननः सप्रमोदप्रमोदनः ॥ ५२॥
समेधितसमृद्धिश्रीः ऋद्धिसिद्धिप्रवर्तकः ।
दत्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ५३॥
मदनावत्याश्रिताङ्घ्रिः कृत्तदौर्मुख्य दुर्मुखः ।
विघ्नसम्पल्लवोघ्नः सेवोन्निद्रमदद्रवः ॥ ५४॥
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालनैकदृक् ॥ ५५॥
मोहिनीमोहनो (३००)भोगदायिनीकान्तिमण्डितः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५६॥
वसुधारामदोन्नद्धमहाशङ्खनिधिप्रभुः ।
नमद्वसुमतीमौलिमहापद्मनिधिप्रभुः ॥ ५७॥
भारतीसुन्दरीनाथो ब्रह्मविष्णु-शिवात्मकः ॥ १७७॥
लक्ष्मीवाचकमीकारं प्रश्लिष्यार्थोऽयमूह्यताम् ।
विनायका ग्रहाः केचित्तैः सह क्रीडनं प्रियम् ॥ १७८॥
पक्षिराजेन वाऽस्येति (शिखिना)विनायकरतिप्रियः ।
महालक्ष्मीसिद्धलक्ष्म्यावस्य द्वे वल्लभे इति ॥ १७९॥
महालक्ष्मी-प्रियतमः सिद्धलक्ष्मीमनोरमः ।
अथ नामचतुष्केन देवस्यावरणात्मिकाः ॥ १८०॥
प्राच्यामवाच्यां चोदीच्यां प्रतीच्यां च स्थिताः क्रमात् ।
रमादामोदरौ गौरीशङ्करौ भूमिसूकरौ ॥ १८९॥
रतिमाराविति द्वन्द्वदेवताः कीर्तिताः स्फुटाः ।
ततः षण्मिथुनीभूत्वा षडस्स्रावरणे स्थिताः ॥ १८२॥
छन्दोवशादक्रमेण प्रोक्ता द्वादशनामभिः ।
ऋद्ध्यामोदौ समृद्धिप्रमोदौ च मिथुने उभे ॥ १८३॥
सुमुखः कान्तिरित्येकं दुर्मुखो मदनावती ।
विघ्नो मदद्रवेत्येकं विघ्नकृद्द्राविणीति च ॥ १८४॥
आमोदं मोदयत्येष प्रमोदस्य प्रमोदनः ।
सहितश्च समृद्ध्या श्रीरनेनैवाभिवर्धिता ॥ १८५॥
ऋद्धिदेव्यां स्थिताः सिद्धिः प्रवर्तयति चाप्यसौ ।
सुमुखः स्वेषु सौमुख्यं यत्प्रसादात्प्रयच्छति ॥ १८६॥
यद्वशादाश्रयः कान्तेर्देव्या अङ्कुरितोऽभवत् ।
धृतवान् मदनावत्या दौर्मुख्यं दुर्मुखे स्थितम् ॥ १८७॥
कृत्तं छिन्नमनेनैव सम्यग्विघ्नस्य पल्लवः ।
विस्तारस्तस्य चोपघ्न आश्रयो यस्य सेवने ॥ १८८॥
उन्निद्रानलसैवास्ते देवी नाम्ना मदद्रवा ।
भक्त्या विघ्नकृतोऽधीने यस्य तच्चरणाम्बुजे ॥ १८९॥
द्राविणीसंज्ञया शक्त्या सत्कृतोऽयं गणाधिपः ।
अथ नामानि षट् प्राह षड्भिस्तीव्रादिशक्तिभिः ॥ १९०॥
तीव्रायां यस्य नयने प्रसादपिशुनेक्षणे ।
ज्वालिन्या रक्षणे मुख्या यद्दृष्टिर्मोहिनीमपि ॥ १९१॥
यो मोहयति तस्मै श्रीगणाधिपतये नमः ।
त्वं भोगदायिनीशक्तेः कान्त्या मण्डितपादुकः ॥ ९९२॥
कामिन्याः शोभने (सुन्दरे)वक्त्रे या शोभा तत्स्वरूपकः ।
वसुन्धराभिधा देवी जाता त्वत्तः प्रतिष्ठिता ॥ १९३॥
अथ द्वे नामनी प्राह मिथुनद्वयबोधिके ।
महाशङ्खमहापद्माभिधे द्वे निधिदैवते ॥ १९४॥
वसुधारा वसुमतीत्येते द्वे तत्तदङ्गने ।
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखा पवननन्दनः ॥ ५८॥
अग्रप्रत्यग्रनयनो दिव्यास्त्राणां प्रयोगवित् ।
ऐरावतादिसर्वाशावारणावरणप्रियः ॥ ५९॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरीवारो विजयाविजयावहः ॥ ६०॥
अजितार्चितपादाब्जो नित्यानित्यावतंसितः ।
विलासिनीकृतोल्लासः शौण्डीसौन्दर्यमण्डितः ॥ ६१॥
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः ॥ ६२॥
सुभगासंश्रितपदो ललितालालिताश्रयः ।
कामिनीकामनः काममालिनीकेलिलालितः ॥ ६३॥
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ६४॥
नलिनीकामुको वामरामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६५॥
गणेशादि-स्वनाथान्तैः सम्यगाराधितो यतः ॥ १९५॥
सर्वसद्गुरुसंसेव्य इति तेन निगद्यसे ।
गार्हपत्यादयः पञ्च शोचिष्केशास्तदीयहृत् ॥ १९६॥
आश्रयो यस्य तद्ध्येयः शोचिष्केश-हृदाश्रयः ।
ईशानस्यापि मूर्धा त्वं देवेन्द्रस्यापि वै शिखा ॥ १९७॥
शक्रशङ्करयोर्मान्य इति नामद्वयाशयः ।
जीवनान्नान्य आनन्दस्तत्प्राण-पवनात्मकः ॥ १९८॥
प्राणस्यापि च यः प्राणः स स्यात्पवननन्दनः ।
अग्रे सूक्ष्मं चोत्तमं वा प्रत्यग्रं जीर्णतोज्झितम् ॥ १९९॥
तादृग्लोचनवानग्रप्रत्यग्रनयनो मतः ।
अस्त्रविद्याप्रवक्तृत्वाद्दिव्यास्त्राणां प्रयोगवित् ॥ २००॥
क्रीडयैवावृणोत्येष युगपद्दिग्गजानपि ।
ऐरावतादिसर्वाशावारणावरणप्रियः ॥ २०१॥
वज्रादीनि यदस्त्राणि तैरिन्द्रादिभिरावृतः ।
वज्राद्यस्त्रपरीवार आयुधावरणोऽपि वा ॥ २०२॥
गणाश्चण्डादयो यद्वा ये प्रचण्ड़ा गणेष्वपि ।
तेषां बलप्रदातृत्वाद्गणचण्डसमाश्रयः ॥ २०३॥
अथाष्टनामभिः प्राह प्राणशक्त्याद्यभिन्नताम् ।
जया च विजया पश्चादजया चापराजिता ॥ २०४॥
नित्या विलासिनी शौण्डी ततोऽनन्ताथ मङ्गला ।
प्राणशक्त्यादिदेवीनामेताः स्युः पीठशक्तयः ॥ २०५॥
जया`चाप्यजयेत्येतत्समाहारो जयाजयम् ।
ते एवास्य परीवारो द्वितीयं नाम तु स्फुटम् ॥ २०६॥
तृतीयनाम्न्यजितापदेनोक्ताऽपराजिता ।
सप्तमे ना म्न्य नन्ताया अनन्तसुखदायकः ॥ २०७॥
शोभना मङ्गला यस्मिंस्तत्तु पीठं सुमङ्गलम् ।
तादृक् सुमङ्गलं यस्मात् सुमङ्गलसुमङ्गलः ॥ २०८॥
या ब्रह्मण्युद्गता वृत्तिः स्वर्गादावीक्षणात्मिका ।
ज्ञानेच्छाकृतिरूपा सेत्यस्माभिः श्रुतियुक्तिभिः ॥ २०९॥
वामकेश्वरतन्त्रस्य व्याख्यायां प्रतिपादितम् ।
तादृग्वृत्तियुतं ब्रह्मनाम्न्यैकेनेह कथ्यते ॥ २१०॥
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः ।
सैव वृत्तिर्भिद्यमाना तत्तद्धर्मैकयोगतः ॥ २११॥
सुभगादिकरौद्घ्नन्तनामभागित्यपीरितम् ।
तत्र या सुभगादेवी तया सेव्याङ्घ्रिरप्यसौ ॥ २१२॥
गणेशसुन्दरीमन्त्राल्ललिताललिताश्रयः ।
कामिनी या कामकला कामेशी काममालिनी ॥ २१३॥
सरस्वत्याश्रयादीनि त्रीणि स्पष्टार्थकान्यथ ।
गणक्रीडादिगुरुभिर्ग्रन्थादौ प्रतिपादितैः ॥ २१४॥
गोपितत्वात्पदस्यास्य गुरुगुप्तपदो मतः ।
वाचा सिद्ध्यति यत्भक्त्या स वाचासिद्ध इष्यते ॥ २१५॥
वागीश्वरी तु नकुली नलिनी तु सुरापगा ।
तयोः पतिः कामुकोऽथ वामा ज्येष्ठा च रौद्रिका ॥ २१६॥
ब्रह्मविष्णुहरा व शक्तिरूपधरा यदि ।
वामैव यस्य रामा स ज्येष्ठा यस्य मनोरमा ॥ २१७॥
रौद्रीमुद्रितपादाब्जस्तदाञ्जलिधृताङ्घ्रिकः ।
हुङ्कार एव चरमो वक्रतुण्डषडक्षरे ॥ २१८॥
बीजं सर्वपुमर्थानां हुम्बीजस्तेन गीयसे ।
तत्रत्य एव तुङ्कारोऽष्टाविंशत्यर्णगं च गम् ॥ २१९॥
शक्तीस्ताः सकलौन्नत्यशक्त्याऽवन् तुङ्गशक्तिकः ।
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६६॥
उच्छिष्टगण उच्छिष्टगणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यशैवो दिगम्बरः ॥ ६७॥
हिरण्यगर्भो विश्वादिस्तदुत्पादनपालने ॥ २२०॥
यस्मात् स्यातां स विश्वादिजननत्राण उच्यते ।
जननत्राणवच्छक्तो होमे कवलने प्रियः ॥ २२१॥
स्वाहेति मन्त्रशक्तिर्या स स्वाहाशक्तिरीरितः ।
मन्त्रे मृत्युञ्जये सौरे स इत्यर्णः सकीलकः ॥ २२२॥
वाचको यस्य मन्त्राङ्गसाहित्याद्वा सकीलकः ।
सुरासुधेक्षुसिन्धुस्थो यस्तत्पानरतश्च सः ॥ २२३॥
अमृताब्धिकृतावासो मदघूर्णितलोचनः ।
उच्छिष्टगण उत्कृष्टा गणाः शिष्टाश्च यस्य सः ॥ २२४॥
उच्छिष्टं नाम रूपं चेत्याद्यृचः सप्तविंशतिः ।
आथर्वणा यं वदन्ति स गणेशो न चापरः ॥ २२५॥
मोदकं भक्षयन्देवो ध्येयो मन्त्रो नवाक्षरैः ।
साधकेनेति वोच्छिष्टगणेश इति कथ्यसे ॥ २२६॥
गणनं गुणसङ्ख्यानमयते गणनायकः ।
सार्वकालिकसंसिद्धिः शाश्वत्यो यस्य सिद्धयः ॥ २२७॥
नित्यशैवः कदाप्यस्य शिवभावनया यतः ।
दिशमम्बरयत्यावृणोतीति स दिगम्बरः ॥ २२८॥
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ॥
अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरम् ॥ ६८॥
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः ।
अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः ॥ ६९॥
अनपगतशुभावहविधिरनपायो नाशविरहाद्वा ।
अगणितचक्षुर्नाशविरहितज्ञानोऽप्यनन्तदृष्टिरिति ॥ २२९॥
ज्ञानेन्द्रियवाङ्मनसागम्यत्वादप्रमेय इति ।
विजरो विमृत्युरित्याम्नानादजरामरो गदितः ॥ २३०॥
आविद्यकधर्मततिभिरकलुषितत्वादनाविलोऽपि भवान् ।
अप्रतिरथ इति गदितो नास्ति यतस्ते प्रतिद्वन्द्वी ॥ २३१॥
च्युतिराहित्यादच्युतनामा नारायणादभेदाद्वा ।
पीयूषं मोक्षो (ऐक्षवं)का त्वमेव भगवंस्ततोऽस्यमृतं ॥ २३२॥
अक्षरमश्नोतेर्व्याप्त्यर्थादथवा क्षयाभावात् ।
वेदाननुमततर्कागम्यत्वादप्रतर्क्यस्त्वम् ॥ २३३॥
न क्षतिरपि न च वसतिर्जेतुमशक्योऽक्षयोऽजय्यः ।
जगदाधारस्य तवाधारो नास्तीत्यनाधारः ॥ २३४॥
आमयमालिन्याभ्यामगृहीतत्वादनामयोऽस्यमलः
सिद्धिर्भवत्यर्थवती न मोघ्
भक्तस्य तेन त्वममोघसिद्धिः ।
द्वैतप्रपञ्चोपशमाच्चतुर्थ-
मद्वैतमित्युच्यस ईशरूपः ॥ २३५॥
अघोरमूर्तिः शिव इत्यघोरो
नमज्जनानामभयङ्करो वा ।
असङ्ख्यवक्त्रोऽस्यमितानि यस्मात्
सञ्जीवनान्यप्रमिताननस्त्वम् ॥ २३६॥
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठ आधार आधाराधेयवर्जितः ॥ ७०॥
आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ७१॥
भक्तोषार्थमाकाराः सगुणाः सन्ति यद्यपि ।
तथापि त्वमनाकारः परमार्थदृशा विभो ॥ २३७॥
भूवारितेजोमरुतां बलानि
संस्तम्भनक्लेदनदाहशोषाः ।
त्वयि क्षमास्तेन भवन्ति तेन
त्वमब्धिभूम्यग्निबलघ्न उक्तः ॥ २३८॥
सच्चित्सुखैकमयता तु तव स्वरूप-
लक्ष्म प्रपञ्चकलना तु तटस्थलक्ष्म ।
न व्यज्यते तदुभयं हि बहिर्मुखानां
अव्यक्तलक्षण इति प्रथितोऽसि तेन ॥ २३९॥
आङ् व्यापनं वक्ति धरैव धारं
शिवावधि क्ष्मावधितत्त्वपङ्क्तेः ।
षट्त्रिंशतः पीठ इवासनं त्व-
माधारपीठोऽसि ततो नमस्ते ॥ २४०॥
अकारो वासुदेवः स्यादाकारस्तु पितामहः ।
तावुभौ यो धारयति स आधारो गणाधिपः ॥ २४१॥
सर्वाधारस्याधारान्तरविरहादतात्त्विकत्वाच्च ।
एषामाधेयानामाधाराधेयवर्जितोऽसि ततः ॥ २४२॥
आखुवाहं ध्वजीकुर्वन् दिशस्तृष्णां च पूरयन् ।
आखुकेतन आशापूरक आखुमहारथः ॥ २४३॥
इक्षुशब्दादिमं नामयुगलं प्रकटार्थकम् ।
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ७२॥
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ।
इध्मप्रिय इडाभाग इराधामेन्दिराप्रियः ॥ ७३॥
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरिशान ईशानसुत ईतिहा ॥ ७४॥
इक्षुचापातिरेकश्रीर्मदनाधिककान्तिमान् ॥ २४४॥
चापदेवतया मूर्तिमत्या पञ्चशरेण वा ।
नित्यं यः सेव्यते सोऽयमिक्षुचापनिषेवितः ॥ २४५॥
एतस्यैवारक्तरूपं भास्वराभास्वरासिते ।
शुक्लं च भास्वरं ध्येयं कामनाभेदतो जनैः ॥ २४६॥
युगभेदेन भेदस्तत्पुराणेऽपि निरूपितः ।
इति ध्वनयितुं नामचतुष्कं प्रकटार्थकम् ॥ २४७॥
श्रौतस्मार्ताग्निरूपत्वाद्भवानिध्मप्रियो मतः ।
इडा मही हविश्शेषो गौश्च भागस्तवैव यत् ॥ २४८॥
ऋत्विग्याज्यादिरूपत्वादिडाभाग इतीर्यसे ।
इरेति पृथ्वी तद्धामा तदन्तर्यमयन् स्थितः ॥ २४९॥
यः पृथिव्यां तिष्ठतीति बृहदारण्यकश्रुतेः ।
लक्ष्मीपूज्योऽथवा विष्णुरूपत्वादिन्दिराप्रियः ॥ २५०॥
इक्ष्वाकुः कटुतुम्बी तत्तुल्यप्रत्यूहनाशनात् ।
इक्ष्वाकुविघ्नविध्वंसी राज्ञो वा विघ्ननाशनात् ॥ २५१॥
इतिकर्तव्यताशब्दः क्रत्वङ्गस्तोमवाचकः ।
तामपेक्ष्य ददत्कामानितिकर्तव्यतेप्सितः ॥ २५२॥
नरभूतसुरेशाद्या ईशाना बहवोऽमिताः ।
तेषामेषोऽधिको मौलिरमितैश्वर्ययोगतः ॥ २५३॥
अनयन् जीवयन्नीशानीशान इति कीर्त्यसे ।
ईशानेन सुतः सोमरूपस्तस्य सुतोऽथवा ॥ २५४॥
अतिवृष्टिमनावृष्टिं मूषकान् शलभान् शुकान् ।
स्वचक्रं परचक्रं च विनिघ्नन्नीतिहा मतः ॥ २५५॥
ईषणात्रय कल्पान्त ईहामात्रविवर्जितः ।
उपेन्द्र (४००)उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ ७५॥
उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७६॥
ऋग्यजुःसामसम्भूतिः ऋद्धिसिद्धिप्रवर्तकः ।
ऋजुचित्तैकसुलभ ऋणत्रयविमोचकः ॥ ७७॥
लोकपुत्रधनेच्छानां तिसृणां प्रलयात्मकः ।
ईषणात्रयकल्पान्तो ``नृणां वैराग्यदायकः ॥ २५६॥
निश्रेष्टचित्स्वरूपत्वादीहामात्रविवर्जितः ।
वामनेन सहाभेदादुपेन्द्र इति कीर्तितः ॥ २५७॥
बिभ्रत्युडूनि या द्यौः सा यस्य विश्वात्मनः शिरः ।
स त्वमेवोडुभृन्मौलिर्द्यां मूर्धानमिति श्रुतेः ॥ २५८॥
यद्वा चन्द्रावतंसत्वादुडुभृन्मौलिरुच्यसे ।
उण्डेरकाः पूपभेदा वर्तुलाकृतयोऽल्पकाः ॥ २५९॥
उपहारास्तवेष्टा इत्युण्डेरकबलिप्रियः ।
उत्कृष्टानामजादीनां प्राणनादुन्नताननः ॥ २६०॥
तुङ्गा नाम नदी काचित् वराहवपुषस्तव ।
दंष्ट्राया उद्गता तस्माद्भवानुत्तुङ्ग ईरितः ॥ २६१॥
उदारो दातृमहतोस्त्रिदशो देव उच्यते ।
महादेवादपि श्रेष्ठ उदारत्रिदशाग्रणीः ॥ २६२॥
ऊर्जस्वानपि तेजोवानत एव मदोदकम् ।
उष्णं स्रवति गण्डाभ्यां तेनोष्मलमदो भवान् ॥ २६३॥
ऊहो वितर्कस्तत्त्वस्यापोह-स्तात्त्विकबाधनम् ।
ताभ्यां दुरासदोऽप्राप्य ऊहापोहदुरासदः ॥ २६४॥
ऋग्यजुः सामसम्भूतिर्यस्य निःश्वसितं त्रयी ।
राज्याणिमादिदातृत्वादृद्धिसिद्धिप्रवर्तकः ॥ २६५॥
दृश्यते त्वग्र्यया बुद्ध्येत्युक्तेर्यद्विमलं मनः ।
तद्भाह्य ऋजुचित्तैक सुलभस्तेन गीयसे ॥ २६६॥
पुत्रीयन्ति यियक्षन्ति वेदानिच्छन्ति ये द्विजाः ।
तत्कामनापूरकत्वादृणत्रयविमोच कः ॥ २६७॥
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७८॥
एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७९॥
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरम्मदसमोन्मेष ऐरावतनिभाननः ॥ ८०॥
ॐकारवाच्य ॐकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वनः ॥ ८१॥
अङ्कुशः सुरनागानामङ्कुशः सुरविद्विषाम् ।
अःसमस्तविसर्गान्तपदेषु परिकीर्तितः ॥ ८२॥
लुप्त शब्दादिकं नामत्रितयं प्रकटार्थकं(१) ।
दंशलूतादयो रोगा आन्तरा बहिरामयाः ॥ २६८॥
स्फोटाद्यास्तान्निहन्तीति लूताविस्फोटनाशनः ।
एकारपीठमध्यस्थत्रिकोणान्तस्स्थविन्दुगः ॥ २६९॥
काश्यामेकपदा तिष्ठन्नेकपादकृतासनः ।
एजिताखिलदैत्यश्रीः कम्पितासुरसम्पदा ॥ २७०॥
स्वाश्रिता वर्धिता येनेत्येधिताखिल-संश्रयः ।
ऐश्वर्यनिधिरैश्वर्यं भक्तेषु निदधाति यः ॥ २७१॥
ईश्वरेषु यदैश्वर्यं सम्पत्तिः सा त्वमेव हि ।
एषाऽस्य परमा सम्पदिति बोधयति श्रुतिः ॥ २७२॥
दत्से सुतादीन्स्वर्गं चेत्यैहिकामुष्मिकप्रदः(२) ।
विद्युत्तुल्यस्तवोन्मेषः क्षणाद्भासि न भासि च ॥ २७३॥
ऐरम्मदसमोन्मेषः स्वार्थे ज्ञेयोऽणिरम्मदात् ।
(Footnotes)
(१) भक्तविघ्ननाशकत्वाद् भवान्विघ्नपतिः प्रभुः ।
लुप्तविघ्नः स्वभक्तानामित्येवं परिगीयसे ।
दैत्यसामर्थ्यहननात् लुप्तशक्तिः सुरद्विषाम् ।
तवोपासनहीनानां हरसि त्वं श्रियं विभुः ।
लुप्तीर्विमुखानां इत्येवं गीयसे क्रमात् ॥ (ब्रह्मा)
(२) इह पुत्रादिसम्पत्तीः स्वर्गवासं परत्र च ।
प्रयच्छसि भवान् ख्यातः ऐहिकामुष्मिकप्रदः ॥ (ब्रह्मा)४०॥
ऐरावतसमास्यत्वादैरावतनिभाननः ॥ २७४॥
क्लेशादि रहितमीश्वरमुक्त्वा तस्य वाचकः प्रणवः ।
इति योगशास्त्रसूत्रे कथनादोङ्कारवाच्यस्त्वम् ॥ २७५॥
ॐ इति शब्दोऽपि त्वं भेदाभावेन वाच्यवाचकयोः(१) ।
अत एव त्वयि वाच्योङ्कारोऽपि प्रत्ययो युक्तः(२)॥ २७६॥
ओजोऽष्टमधातुरिति प्रोक्तं यद्वेदभाष्यकृता ।
शौर्योत्कर्षनिदानं तेजस्तद्वांस्त्वमोजस्वान्(३) ॥ २७७॥
ओषधीपतिरौदार्यनिधिरित्याह्वयौ स्फुटौ(४) ।
औद्धत्यमुद्धतत्वं यत् स्वभक्तानुजिघृक्षया ॥ २७८॥
स्वोत्कर्षद्योतनं तत्र श्रेष्ठ औद्धत्यधुर्यकः ।
बृंहितं यस्य सर्वोच्चं स स्यादौन्नत्यनिस्वनः ॥ २७९॥
अङ्कुशः सुरनागानां त्रैलोक्यस्य नियामकः ।
ऊर्ध्वं सुरा अधो नागा मर्त्यलोकोपलक्षणम् ॥ २८०॥
द्विषः सुराणां च विदां सुष्ठु सम्यग् रविद्विषाम् ।
निग्राहकत्वानिर्दिष्टोऽस्यङ्कुशः सुरविद्विषाम् ॥ २८९॥
अकाराद्येकपञ्चाशद्विसर्गन्तार्णबोधितः ।
अःसमस्तविसर्गान्तपदेषु परिकीर्तितः ॥ २८२॥
कमण्डलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ८३॥
कदम्बगोलकाकारः कूष्माण्डगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ८४॥
(Footnotes)
(१) ओङ्कारवाच्य ओङ्कारमन्त्रेण प्रतिपादितः । (ब्रह्म)
(२) ओङ्कारमयदेहत्वादोङ्कार इति कथ्यसे । (ब्रह्मा)
(३) शौर्योत्कर्षसुतेजोवान् ओजस्वानिति वर्ण्यसे ।
(४) ओषधीनां पतिश्चन्द्रः तदात्मा चौषधीपतिः । (ब्रह्मा)
भक्ताभीष्टमुदारेण दीयते येन ब्रह्मणा ।
औदार्यनिधिरित्येवं स भवान्कथ्यते प्रभुः । (ब्रह्मा)
कमण्डलुधरः शुण्डाशृंङ्गे(दण्डे)णामृतकुम्भधृकू(१) ।
कल्पः प्रलयकालात्मा समर्थः कल्पतेऽपि वा ॥ २८३॥
वरादधारी मल्ला(ह्ला)रिस्त्वं कपर्यथवा जटी(२) ।
कलो नादो भा तु दीप्तिरननं प्राणनं मतम् ॥ २८४॥
नादकान्त्युज्जीवकत्वात्कथ्यसे कलभाननः ।
कर्मसाक्षी त्वदृष्टानामपि द्रष्टासि कर्मणाम् ॥ २८५॥
कर्मठप्रेरणादन्तः कर्मकर्ता भवानपि ।
स्वर्गापवर्गदातृत्वात् कर्माकर्मफलप्रदः ॥ २८६॥
सर्वनाडचुद्गमस्थानं कदम्बकुसुमाकृतिः ।
परितः संवृता ताभिर्हृदि काप्यस्ति देवता ॥ २८७॥
कदम्बगोलकाकार इति तद्रूप उच्यसे ।
दुष्टग्रहाणां नेता त्वं कूष्माण्डगणनायकः ॥ २८८॥
कारुण्यदेहः करुणामूर्तित्वात्कपिलो मुनिः ।
कर्ण(वर्णि)तो वाऽसि कथकः सम्प्रदायान्प्रवर्तयन् ॥ २८९॥
रत्नप्रोतस्वर्णकाञ्चीधारणात्कटि-सूत्रभृत् ॥
खर्वः खड्गप्रियः खङ्गखान्तान्तस्थः खनिर्मलः ।
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८५॥
गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८६॥
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ॥ ८७॥
खर्वो वामनरूपत्वात्खड्गो गण्डकसंज्ञकः ॥ २९०॥
मृगो-ऽसिर्वा प्रियो यस्य स तु खड्गप्रियो मतः ।
खड्गशब्दे खात्परो डस्तदन्ते गाक्षरे तव ॥ २९१॥
(Footnotes)
(१)रत्नयुक्तहेमकुम्भधारणेनाथवा स्मृतः ।
(२)कपर्दाख्यजटाधारी कपर्दी पार्वतीपतिः ।
कपर्दिना पूजितोऽयं कपर्दी तु तदात्मवान् ।
बीजे तिष्ठस्यतः खड्गान्तान्तस्थ इतीर्यसे(१) ।
आकाशवत्सर्वगोऽपि निर्लेपोऽतः खनिर्मलः ॥ २९२॥
वृक्षा एव गिरेः केशाः खल्वाटस्तैर्विवर्जितः ।
खल्वाटशृङ्ग-निलयस्तच्छृङ्गेऽपि वसन् मतः ॥ २९३॥
खट्वाङ्गीति भवान् ख्यातः खट्वाङ्गाख्यायुधं दधत् ।
अमूर्तो व्योमवद्धर्तुं अशक्यः स्वदुरासदः ॥ २९४॥
अनन्तकल्याणगुणो गुणाढ्यो
गन्तुं न शक्यो गहनोऽसि गस्थः ।
बीजे निजे तिष्ठसि गद्यपद्य-
सुधार्णवः काव्यरसाकरत्वात् ॥ २९५॥
गदितुं योग्यं गद्यं न निषिद्धं साम ते प्रियं गानम् ।
तेनासि गद्यगानप्रियोऽथ गर्जोस्सि मेघनादात्मा ॥ २९६॥
नादात् गीतादयः शब्दा नादार्थादमरादयः ।
जातास्तद्द्वयरूपत्वाद्गीतगीर्वाणपूर्वजः ॥ २९७॥
गुहाप्रविष्टावात्मानौ गुह्यौ तौ मनसा चरन् ।
अन्तर्मुखस्तत्र तुष्टो गुह्याचाररतो मतः ॥ २९८॥
गुह्य एकान्तवेद्यत्वाद्धितकारी गुहाय वा ।
रहस्यतन्त्रवेद्यत्वाद्गुह्यागमनिरूपितः ॥ २९९॥
गुहायां हृदयाकाशे शेते यः स गुहाशयः ।
अव्याकृतं नभो गूढमगाधं च गुहाब्धिवत् ॥ ३००॥
अधितिष्ठसि तत्तेन गुहाब्धिस्थ इतीर्यसे ।
गुरुगम्यो गुरुप्रोक्तयोगोपायेन लभ्यसे ॥ ३०१॥
शिवसूत्रे गुरुरुपाय इत्येवं त्वं हि वर्णितः ।
वेदा अध्यापिता येन ब्रह्मणे स गुरोर्गुरुः ॥ ३०२॥
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।
चण्डश्चण्डेश्वरसुहृच्चण्डीशचण्डविक्रमः ॥ ८८॥
चराचरपतिश्चिन्तामणिचर्वणलालसः ।
छन्दश्छन्दोवपुश्छन्दोदुर्लक्ष्यश्छन्दविग्रहः ॥ ८९॥
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।
जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः ॥ ९०॥
(Footnote)
(१) खड्गपोत इव तव बीजोऽस्ति च गकारकः ।
तत्र तिष्ठसि तेन त्वं खड्गखान्तान्तस्थ ईरितः ॥
घण्टेव मञ्जुनादा घर्घरिकाः किङ्किणीभेदाः ।
तद्धारी घण्टाघर्घरिकामालीति बाललीला ते ॥ ३०३॥
कुम्भौ न्युब्जघटाकारौ घटकुम्भस्ततो मतः ।
घटोदरो बृहत्कुक्षिश्चण्डो भूरिपराक्रमः ॥ ३०४॥
चण्डेश्वरः सुहृद्यस्य शैवखण्डेश्वरः सखा ।
चण्डीशश्चण्डिकानाथश्चण्डा अत्यन्तकोपनाः ॥ ३०५॥
तानाक्रम्य वशे कुर्वन्नाख्यातश्चण्डविक्रमः ।
चराचरपतिः स्थास्नुचरिष्णुजगदीश्वरः ॥ ३०६॥
चिन्तामणिकाम दुघाकल्पद्रुमगर्वचर्वणतः ।
चिन्तामणिचर्वणलालस इति कथितोऽस्यचिन्त्यदानेन ॥ ३०७॥
गायत्र्याद्यात्मना छन्दो भवान् वेदमयात्मना ।
छन्दोवपुस्तथा छन्दोदुर्लक्ष्यो वेददुर्ग्रहः(१) ॥ ३०८॥
स्वाभिप्रायानुसारीणि भक्तेः परवशानि वा ।
अवतारशरीराणि यस्य स च्छन्दविग्रहः ॥ ३०९॥
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।
विश्वस्य कारणं द्रष्टा नाथोऽधिष्ठानमेव च(२) ॥ ३१०॥
जपो जपपरो जप्यः कर्मकर्तृक्रियात्मकः(३) ।
कीर्त्यमानं यस्य नाम जिह्वासिंहासनस्थिम् ॥ ३११॥
ददाति पुरुषार्थान् स जिह्वासिंहासनप्रभुः ।
झलज्झल्लोल्लसद्दानझङ्कारिभ्रमराकुलः ।
टङ्कारस्फारसंरावष्टङ्कारिमणिनूपुरः ॥ ९१॥
ठद्वयीपल्लवान्तःस्थसर्वमन्त्रैकसिद्धिदः ।
(Footnotes)
(१) छन्दोवपुस्तथा छन्दोदुर्लक्ष्यो वेदपूरुषैः ।
अप्राप्यश्चाप्यगम्यश्च नेति नेतीति शेषतः ॥
(२) जगद्योनिर्विश्वमूलं कारणं कारणेश्वरः ।
जगत्साक्षी विश्वद्रष्टा चिन्मायायोगरूपवान् ॥
जगदीशो गुणेशानरूपी त्रिविधनायकः ।
जगन्मयो व्योमरूपजगदधिष्ठानरूपकः ॥
(३) जपो मन्त्रस्वरूपी त्वं मन्त्रविघ्नेशसंज्ञितः ।
मन्त्रकर्ता जपपरो जप्यो मन्त्रक्रियात्मकः ॥
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ॥ ९२॥
ढक्कानिनादमुदितो ढौको (५००)ढुण्ढिविनायकः ।
तत्त्वानां परमं तत्त्वं तत्त्वम्पदनिरूपितः ॥ ९३॥
झलज्झल्लोल्लसद्दानझङ्कारिभ्रमराकुलः ॥ ३१२॥
नदन्ति गण्डयोर्भृङ्गाः स्फुरन्मदपिपांसवः ।
कांस्यटङ्कारवत्स्फारो यस्य मञ्जुतरो रवः ॥ ३१३॥
टङ्कारस्फारसंराव इति लोके स गीयते ।
नदद्रत्नाङ्घ्रिकटकष्टङ्कारिमणिनूपुरः ॥ ३१४॥
उद्वयीपल्लवान्तःस्थसर्वमन्त्रकसिद्धिदः ।
स्वाहान्ताखिलमन्त्रोत्थ मुख्यसिद्धिप्रदो यतः ॥ ३१५॥
डिण्डिर्नामैकदेशेन डिण्डिमौ न्युब्जदुन्दुभी ।
तावेव कुम्भौ यन्मुण्डे डिण्डिमुण्डः स उच्यते ॥ ३१६॥
डाकिन्यो नाम योगिन्यः काश्वित्सप्तगणादिमाः ।
षोढान्यासादिषु स्पष्टा डाकिनीशस्तदीश्वरः ॥ ३१७॥
डामरस्तु महांस्तन्त्रविशेषो वा तदात्मकः ।
दुन्दुभौ पटहध्वानेऽप्यानन्दी डिण्डिमप्रियः ॥ ३१८॥
ढक्कानिनादमुदितो ढक्कावाद्यप्रियो भवान् ।
गत्यर्थात् ढौकतेर्ढौकः सर्वगो वासि सर्ववित् ॥ ३१९॥
काशीखण्डे ढुण्ढिधातुः प्रथितोऽन्वेषणार्थकः ।
विशिष्टो नायकोऽन्वेष्य इति ढुण्ढिविनायकः ॥ ३२०॥
तत्त्वानां परमं तत्त्वं पञ्चविंशतितः परम् ।
त्रयं सृष्ट्यादि स्वप्नादि वाच्यं धर्मं त्वमा सदा ॥ ३२९॥
त्यक्त्वा धर्मिणि भक्त्यैव तत्त्वम्पदनिरूपितः(१) ।
(Footnote)
(१) जीवेशसाक्षिरूपत्वात् तत्त्वम्पदनिरूपितः ॥
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ।
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ॥ ९४॥
दक्षयज्ञप्रमथनो दाता दानवमोहनः ।
दयावान् दिव्यविभवो दण्डभृद्दण्डनायकः ॥ ९५॥
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥
दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः ॥ ९६॥
धनधान्यपतिर्धन्यो धनदो धरणीधरः ।
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ॥ ९७॥
तारकान्तरसंस्थानस्तारकाऽक्ष्णः कनीनिका ॥ ३२२॥
तस्यां चिन्त्यो य एषोऽन्तरक्षिणीत्यादिकश्रुतेः ।
तारको भवपाथोधेस्त्वमेव प्रणवो यथा(ऽथवा) ॥ ३२३॥
तारकासुरहन्त्रात्मा कथितस्तारकान्तकः ।
स्थाणुः कल्पान्तवाताग्निसलिलैरप्यकम्पितः ॥ ३२४॥
स्थाणोः शिवस्य पुत्रत्वात्स्थाणुप्रिय इतीर्यसे ।
स्थाता युद्धेऽपि कल्पेऽपि निष्कम्पो गगनादिवत् ॥ ३२५॥
चराचरात्मकत्वेन स्थावरं जङ्गमं जगत् ।
दक्षयज्ञप्रमथनो भवानेव शिवात्मना ॥ ३२६॥
दाता देयः शोधनार्थाद्भवान् पतितपावनः(१) ।
दानवांस्तत्त्वविमुखान् कुर्वन् दानवमोहनः ॥ ३२७॥
दयावान् परदुःखानि प्रहापयितुमिच्छसि ।
प्राप्त्यर्थाद्दीव्यतेर्दिव्यविभवः प्रापकः श्रियाम् ॥ ३२८॥
दण्डभृत् कथितो दण्डनीतेरपरिलोपतः ।
यमेन्द्रादिषु ये दण्डास्तन्ने ता दण्डनायकः ॥ ३२९॥
यच्छिरः कम्पमात्रेण मेघपङ्क्तिः प्रभिद्यते ।
दन्तप्रभिन्नाभ्रमाल इति स त्वं निगद्यसे ॥ ३३०॥
वारयन् दारयन् दैत्यान् दैत्यवारणदारणः ।
यस्य दंष्ट्रैकदेशेऽपि लग्ना रिपुगजच्छटाः ॥ ३३१॥
दंष्ट्रालग्नद्विपघट इति नाम्ना स गीयते ।
देवानां कार्यसिद्ध्यर्थं येन मर्त्यद्विपाकृतिः ॥ ३३२॥
स्वीकृता स स्मृतो नाम्ना देवार्थनृगजाकृतिः ।
धनधान्यप्रदत्वेन धनधान्यपतिर्भवान् ॥ ३३३॥
धन्यस्त्वं धनलब्धृत्वात् पुण्यवान्वापि गीयसे ।
धनदो धनदानेन कुबेरात्मतयापि वा ॥ ३३४॥
शेषेणादिवराहेणाप्यभिन्नो धरणीधरः(२) ।
(Footnotes)
(१) इष्टार्थदानाद्भक्तानां दाता त्वं गणनायकः ।
(२) योगभूमिधारणाद्वा शेषात्मा धरणीधरः ॥
मनसैवानुद्रष्टव्यो ध्यानैकप्रकटो भवान् ॥ ३३५॥
त्वमेव त्रिपुटी ध्येयो ध्यानं ध्यानपरायणः ॥
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९८॥
परं व्योम परं धाम परमात्मा परं पदम् ।
परात्परः पशुपतिः पशुपाशविमोचकः ॥ ९९॥
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ।
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः ॥ १००॥
नन्द्य आनन्दनीयोऽसि नन्दिकेश्वरवल्लभः ॥ ३३६॥
नन्दिप्रियोऽसि नादोऽसि योऽन्तर्दशविधध्वनिः ।
गम्यो नादानुसन्धानान्नादमध्यप्रतिष्ठितः ॥ ३३७॥
निष्कलोऽवयवैर्हीनो निर्मलो दूषणोज्झितः ।
नित्यो नाशोज्झितो नित्यानित्यः खोर्व्यादिरूपधृक् ॥ ३३८॥
अविद्यैव महारोगस्तदस्पृष्टो निरामयः ।
अव्याकृतं यदाकाशं परं व्योम तदात्मकः ॥ ३३९॥
ज्योतिषामपि यज्ज्योतिस्तत्परं धाम कथ्यते ।
परमः सर्वजीवेभ्यः परमात्मेति गद्यते ॥ ३४०॥
कैलासादिपदेभ्योऽपि परमत्वात्परं पदम् ।
ब्रह्मविष्णुमहेशानाद्युत्तमत्वात् परात्परः ॥ ३४९॥
ब्रह्मादिकीटकान्तानां पाता पशुपतिर्मतः ।
द्विपञ्चाशद्विधाः पाशाः साङ्ख्यतन्त्रादिषु स्फुटाः ॥ ३४२॥
ब्रह्मादीन्मोचयंस्तेभ्यः पशुपाशविमोचकः ।
पूर्णानन्दः क्रियाकर्तृकर्मभेदोज्झितं सुखम् ॥ ३४३॥
भूपादिब्रह्मपर्यन्तानन्दान् शतगुणोत्तरान् ।
सर्वानप्यधरीकुर्वन् परानन्दो महासुखम् ॥ ३४४॥
क्षरेभ्यः सर्वभूतेभ्यः कूटस्थादक्षरादपि ।
उत्तमत्वादनादित्वात् पुराणपुरुषोत्तमः ॥ ३४५॥
पद्मप्रसन्ननयनो विकसत्कमलेक्षणः ।
नमतां तत्त्वबोधेन प्रणताज्ञानमोचनः ॥ ३४६॥
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ।
फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः ॥ १०१॥
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ १०२॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ १०३॥
प्रमाणप्रत्ययातीतो नित्यज्ञानैकविग्रहः ।
प्रमाकरणजानां हि प्रमितीनामनित्यता ॥ ३४७॥
नमतां नाशयन् पीडां प्रणतार्तिनिवारणः ।
फलहस्तः स्वभक्तानामविलम्बात्फलं ददत् ॥ ३४८॥
वासुकेरपि शेषस्य स्वामी फणिपतिर्मतः ।
फेत्कार इति तन्नाम्ना तन्त्रं तत्र निरूप्यसे ॥ ३४९॥
खण्डा(गुडा)ह्वयेक्षुविकृतौ प्रीतिमान् फाणितप्रियः ।
बाणासुरेण पूज्यत्वाद्बाललीलासु कौतुकात् ॥ ३५०॥
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ।
ब्रह्म त्वमेव वेदान्तवेद्यतत्त्वात्मकत्वतः ॥ ३५१॥
ब्रह्मार्चितपदो वेदैः श्लाघनीयं हि ते पदम् ।
ब्रह्मचारी भवान् येनाकृतदारपरिग्रहः ॥ ३५२॥
वाचस्पतिस्वरूपेण देवार्च्यत्त्वाद्भृहस्पतिः(१) ।
बृहतो ब्रह्मविष्ण्वादीनतिशेषे बृहत्तमः ॥ ३५३॥
वेदैकतत्परो धातुः श्रेष्ठो ब्रह्मपरो मतः(२) ।
ब्रह्मण्य इति विख्यातो ब्राह्मणान् मानयन् स्वयम् ॥ ३५४॥
प्रिया ब्रह्मविदो यस्य स मतो ब्रह्मवित्प्रियः ।
चीत्कारो गजशब्दः स मेघाशन्यादितो महान् ॥ ३५५॥
तवास्तीति बृहन्नादाग्र्यचीत्कार इति स्मृतः ।
कटिसूत्रे किङ्किणीव ब्रह्माण्डान्येव गुम्फयन् ॥ ३५६॥
तादृग्दधद्विश्वरूपं ब्रह्माण्डावलि-मेखलः ।
(Footnotes)
(१) बुद्धिस्तु बृहती माया तत्पतित्वाबृहस्पतिः ॥
(२) धातुर्वेदैकपरस्य श्रेष्ठो ब्रह्मपरो मतः ।
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान्ं भक्तिसुलभो भूतिदो भूतिभूषणः ॥ १०४॥
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः ॥ १०५॥
मेखलावान् मन्दगतिर्मतिमत्कमलेक्षणः ।
महाबलों महावीर्यो महाप्राणो महामनाः ॥ १०६॥
भ्रुवोरिङ्गितमात्रेण भक्तेभ्यः सम्पदो ददत् ॥ ३५७॥
भूक्षेपदत्तलक्ष्मीको भर्गो गायत्र्युदीरितः ।
भद्रा मन्द्रा मृगाश्चेति सन्ति द्विरदजातयः ॥ ३५८॥
तेषूत्तमा भद्रजातिर्भद्रस्त्वं तादृशाननः ।
द्वितीयाद्वै भयं यत्तदपघ्नंस्त्वं भयापहः ॥ ३५९॥
उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ।
वेत्सि विद्यामविद्यां चेत्युच्यसे भगवानिति ॥ ३६०॥
भक्त्यैव लब्धुं यः शक्यः स भक्तिसुलभो महान्(भवान्) ।
सिद्धीर्दत्से भस्म धत्से भूतिदो भूतिभूषणः ॥ ३६१॥
भव्यो भावुकरूपत्वाद्भाविविश्वात्मकत्वतः ।
भूतानां भूजलादीनां पिशाचानां च देहिनाम् ॥ ३६२॥
अतीतानामधिष्ठानमतो भूतालयो भवान् ।
भोगदाता दुःखसुखसाक्षात्कारप्रदत्वतः ॥ ३६३॥
अविमुक्ते भ्रुवोर्मध्ये ध्येयो भ्रूमध्यगोचरः ।
मन्त्राः सामर्ग्यजूरूपा षडर्णैकाक्षरादयः ॥ ३६४॥
रहोविचाररूपाश्च राज्यभारोपयोगिनः ।
तद्रूपस्तदभिमानिदेवता तस्य कारकः ॥ ३६५॥
तेन मन्त्रो मन्त्रपतिर्मन्त्रीत्यपि च गीयसे ।
मदः समाधिसम्भूतध्येयान्यविषयाग्रहः ॥ ३६६॥
रमसे तद्युते चित्ते मदमत्त मनोरमः ।
मेखलावान् रशनया मौञ्ज्या वा विलसत्कटिः ॥ ३६७॥
येषां कापि गतिर्नास्ति मन्दानां ज्ञानकर्मणोः ।
अभावेन गतिस्तेषामपि मन्दगतिस्ततः ॥ ३६८॥
यस्माज्ज्ञानयुता सम्पत्तादृग् यस्य निरीक्षणम् ।
दृशैव दत्तधीश्रीको मतिमत्कमलेक्षणः ॥ ३६९॥
बलवीर्यप्राणमनःसमष्ट्येयेकतनुर्भवान् ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥ ३७०॥
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ १०७॥
रसो (६००)रसप्रियो रस्यो रञ्जको रावणार्चितः ।
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १०८॥
लक्ष्यं लक्ष्यप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः ।
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ १०९॥
यज्ञ इत्यादिकं नामाष्टकं तु प्रकटार्थकं (१) ।
रसः परम आनन्दो रसो वै स इति श्रुतेः ॥ ३७९॥
शान्तादौ मधुरादौ वा रसे प्रीत्या रसप्रियः ।
रस्यते चर्व्यते प्राज्ञैर्भूयो भूयोऽनुभूयते ॥ ३७२॥
स रस्यस्तन्मनोवृत्तिरञ्जनेनासि रञ्जकः ।
रावणैः शब्दनैर्वेदशास्त्रगीतादिपाठिभिः ॥ ३७३॥
दशास्येनापि सिद्ध्यर्थं पूजितो रावणार्चितः ।
रक्षांसि भस्मसात्कुर्वन् रक्षोरक्षाकरः स्मृतः ॥ ३७४॥
रत्नगर्भा मही तद्वान् रत्नगर्भस्तदाश्रयः ।
राज्यं तज्जन्मसौख्यं च ददद्राज्यसुखप्रदः ॥ ३७५॥
तारेण धनुषा चित्तशरेण ब्रह्म वेधयेत् ।
इति श्रुत्या शरव्यस्त्वं तल्लक्ष्यमसि योगिनाम् ॥ ३७६॥
(Footnote)
(१) ब्राह्मणस्पत्ययज्ञात्मा यज्ञो यज्ञस्वरूपवान् ।
यज्ञतोष्यो यज्ञपतिर्यज्ञभोक्ता च तत्र भुक् ।
यज्ञे प्रीत्या फलदो मतो यज्ञफलप्रदः ।
यशस्करो यशोवृद्धिकर्ता लोकत्रयेषु च ।
ज्ञानयोगेन गम्यस्त्वं योगगम्यस्तु शान्तिदः ।
त्वमेव युग(यज्ञ)कर्ता स्यात्तेन त्वं याज्ञिकः स्मृतः ।
याजकेषु प्रीतियुक्तो मतस्त्वं याजकप्रियः ।
लक्ष्याणि चित्तस्थैर्यार्थं लक्षसङ्ख्यान्यदीदृशन् ।
ऋषयस्तानि निर्विघ्नं ददल्लक्ष्यप्रदो भवान् ॥ ३७७॥
लक्ष्यो लक्षणया गम्यो महावाक्यगतैः पदैः ।
लयस्थः कल्पकालेऽपि तिष्ठंश्चित्तलयेऽपि वा ॥ ३७८॥
लड्डुका वर्तुलाकाराः प्रियालतिलखाखसैः ।
रचिताः शर्करापक्वास्तत्प्रियो लड्डुकप्रियः ॥ ३७९॥
लानप्रियो गजावासशालायां प्रीतिसंयुतः ।
विलासार्हं परं धाम यस्य लास्यपरो हि सः ॥ ३८०॥
ये लाभकारिणो लोकाः शीघ्रं भक्तवरप्रदाः ।
तेषु श्रेष्ठतया ख्यातो लाभकृल्लोकविश्रुतः ॥ ३८१॥
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ ११०॥
वामदेव विश्वनेता वज्रिवज्रनिवारणः ।
विश्वबन्धनविष्कम्भाधारो विश्वेश्वरप्रभुः ॥ १११॥
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।
शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः ॥ ११२॥
वरेण्याख्यो गणपतेरद्वैतभजने रतः ।
कश्चिद्राजा तदद्वैताद्वरेण्योऽस्युत्तमोऽपि वा ॥ ३८२॥
यद्भवन्तमुद्दिश्य समिद्धेऽग्नौ हुतं हविः ।
तेनैव तृप्यसीत्यर्थात्त्वं वह्निवदनो मतः ॥ ३८३॥
वन्यो नम्योऽस्युपनिषद्गम्यो वेदान्तगोचरः ।
विकर्ता त्वं हि षड्भावविकाराणां प्रवर्तकः ॥ ३८४॥
यत्र क्वचन भक्तेन पत्रं पुष्पं फलं जलम् ।
दत्तं तत्रैव तत्पश्यन् धारयन् भक्षयन्नपि ॥ ३८५॥
कीर्त्यसे विश्वतश्चक्षुर्विधाता विश्वतोमुखः ।
वामदेवो वल्गुतरं दीव्यसि द्योतसे यतः ॥ ३८६॥
विश्वनेतासि जगतो विष्णोर्वा नायको यतः ।
इन्द्रवज्रस्तम्भनेन वज्रिवज्रनिवारणः ॥ ३८७॥
विश्वनिर्माणपर्याप्तो देशो विष्कम्भ उच्यते ।
विश्वबन्धनविष्कम्भाधारस्तस्यापि धारणात् ॥ ३८८॥
ब्रह्माण्डानां तदीशानां चेशो विश्वेश्वरप्रभुः ।
शब्दब्रह्म परां वाचमतीतो नादरूपधृक् ॥ ३८९॥
शमप्राप्यः शान्तिदान्तिजितचित्तेन लभ्यसे ।
शैवान् शाक्तान् गणांश्चेष्टे शम्भुशक्तिगणेश्वरः ॥ ३९०॥
शास्ता केरलदेशीया देवताऽस्ति तदात्मकः ।
तस्याः शिखाया मध्ये यः परमात्मा व्यवस्थितः ॥ ३९१॥
श्रुतिसिद्धोऽस्ति तद्रूपः शिखाग्रनिलयो भवान् ।
त्राता शरण्यः प्रालेयाचलात्मा शिखरीश्वरः ॥ ३९२॥
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ ११३॥
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदनः ।
सिन्दूरितमहाकुम्भः सदसद्व्यक्तिदायकः ॥ ११४॥
साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः ।
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ ११५॥
जातीचम्पककुन्दादीन्येकैकर्तुभवान्यपि ।
षडृतुकुसुमस्रग्वी सर्वदा युगपद्दधत् ॥ ३९३॥
मूलाधारे गणेशोऽस्ति चक्रषट्कं तदूर्ध्वतः ।
षण्णामाधारभूतोऽसि षडाधार इति स्मृतः ॥ ३९४॥
ङेवर्मयुग्वक्रतुण्डमन्त्ररूपः षडक्षरः ।
संसारवैद्य इत्युक्तो भवरोगविनाशकः ॥ ३९५॥
सर्वज्ञः सकलज्ञाता सुगतात्मा विनायकः ।
सर्वेषामपि रोगाणां दिव्यं पीयूषमौषधम् ॥ ३९६॥
तस्यापि नाशयन् दोषान् सर्वभेषजभेषजम् ।
लीलया सर्वजगतां निर्मिति-स्थिति-संहृतीः ॥ ३९७॥
सृष्टि-स्थिति-लयक्रीडः कथ्यसे रचयन् क्षणात् ।
दानवैरर्चितश्चेत्त्वं सुरकुञ्जरभेदनः ॥ ३९८॥
सिन्दूरितमहाकुम्भः सिन्दूरारुणमस्तकः ।
सद्ब्रह्मैव न सद्विश्वं तयोर्व्यक्तिः प्रकाशनम् ॥ ३९९॥
स्वभक्तेभ्यो ददासीति सदसद्व्यक्तिदायकः ।
साक्षी पश्यसि साक्षात्त्वं विश्वं चित्तानपेक्षया ॥ ४००॥
समुद्रमथने देवैर्मन्थनारम्भणेऽर्चितः ।
समुद्रमथनः प्रोक्तः स्वसंवेद्यः परात्परः ॥ ४०१॥
परज्योतिः स्वरूपत्वात् स्वयंशक्तः स्वदक्षिणः ॥ ४०२॥
स्वतन्त्रः स्वयमेवासि नानातन्त्रात्मना यतः ।
अमोघकल्पनात् सत्यसङ्कल्प इति गीयसे ॥ ४०३॥
सामप्रीतेः सदानन्दात् सामगानरतः सुखी ।
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।
हव्यो हुतप्रियो हर्षो हृलेखामन्त्रमध्यगः ॥ ११६॥
क्षेत्राधिपः क्षमाभर्ता क्षमापरपरायणः ।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ ११७॥
हंसो यतिविशेषात्मा यद्वा भास्करमूर्तिकः(१) ॥ ४०४॥
एतत्पञ्चाक्षरस्यान्ते लिखेछब्दाद्द्विठो मनुः ।
तत्प्रतीकमुपादाय तस्येशो देवतोदिता ॥ ४०५॥
सोऽयं हस्तिपिशाचीशो नवार्णमनुदेवता ।
यागः प्रक्षेपयुघोमस्तद्रूपो हवनं भवान् ॥ ४०६॥
देवताः पितरश्चेति द्विरूपो हव्यकव्यभुक् ।
हन्यो हविः स्वरूपत्वाद्धविर्ब्रह्मेति हि स्मृतेः ॥ ४०७॥
हुतं द्रव्यं प्रियं यस्या देवतायाः (हुतप्रियः )स वै भवान् ।
हविर्भक्षणजो मोदो हर्षः सोऽपि त्वदात्मकः ॥ ४०८॥
हृल्लेखार्थस्तन्त्रराजे वर्णितो व्याकुलाक्षरैः ।
व्योम्ना प्रकाशमानस्त्वं ग्रसमानस्त्वमग्निना ॥ ४०९॥
तयोर्विमर्श ईकारो बिन्दुना तन्निफालनम् ।
इति ह्रीङ्कारवाच्योऽसि हृल्लेखामन्त्रमध्यगः ॥ ४१०॥
प्रयागादेः शरीरादेर्वेशः क्षेत्राधिपो मतः(२) ।
क्षमाभर्ता क्षितिं क्षान्तिमपि वा यो बिभर्ति सः ॥ ४११॥
(Footnotes)
(१) हंसो यति विशेषो वा गणको भानुमूर्तिमान् ।
(२) काशीमयूरपुर्याय क्षेत्रेशा बहुविश्रुताः ।
अधिपश्चापि तेषां त्वं देव क्षेत्राधिपो मतः ॥
क्षान्तिशीलमुनिप्राप्यः क्षमापरपरायणः ।
शीघ्रं सिद्धिं ददातीति क्षिप्रक्षेमकरो भवान् ॥ ४१२॥
क्षेमं सांसारिकं सौख्यमानन्दः पारमार्थिकः ।
उभयात्मा त्वमेवेति क्षेमानन्द इतीर्यसे ॥ ४१३॥
कल्पवृक्ष इव क्षोण्यामिष्टान्सर्वान्प्रयच्छसि ।
धर्मादिदुःखभोगान्तान् अतः क्षोणीसुरद्रुमः ॥ ४१४॥
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ ११८॥
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ ११९॥
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ १२०॥
पराभिचारशमनो दुःखभञ्जनकारकः ।
कल्पद्रुमत्वं विविनक्त्येकविंशतिनामभिः ।
धर्मप्रदोऽर्थदः कामदातेत्युक्तस्त्रिवर्गदः ॥ ४१५॥
स्त्रीणां जीवत्पतित्वादि ददत्सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो ज्ञानसम्पत्तिदायकः ॥ ४१६॥
भोगजीवन्मुक्तिदानाद्भुक्तिमुक्तिफलप्रदः ।
आढ्यैः सह दरिद्राणां मूर्खाणां पण्डितैः सह ।
साम्यं प्रदर्शयन् सभ्येष्वाभिरूप्यकरो मतः ॥ ४१७॥
समरे कान्दिशीकानां अपि वीरश्रियं ददत् ।
नाम स्मृतवतां वीरश्रीप्रदः कीर्त्यसे बुधैः ॥ ४१८॥
वीरश्रिया जयफलं ददानो विजयप्रदः ।
सर्वं भक्तवशे कुर्वन् सर्ववश्यकरो भवान् ॥ ४१९॥
बीजदोषान् स्रावपातौ नाशयन् गर्भदोषहा ।
पुत्रः सूनुश्व दुहिता तत्पौत्रान् दुहितुः सुतान् ॥ ४२०॥
नप्तॄण्प्रणप्तॄण् दौहित्रान् ददानः पुत्रपौत्रदः ।
धीर्धारणावती मेधा मेधादस्तत्प्रदायकः ॥ ४२१॥
लोके या सद्गुणख्यातिस्तत्प्रदानेन कीर्तिदः ।
शोकहारी ज्ञानदानात्तरति शोकमात्मवित् ॥ ४२२॥
दुर्भगत्वापहारेण स्त्रीणां दौर्भाग्यनाशनः ।
वाचं स्तभ्नासि दुष्टानां प्रतिकूलं प्रजल्पताम् ॥ ४२३॥
प्रतिवादिमुखस्तम्भः कथ्यसे स्मृतिमात्रतः ।
सेवकेषु क्रोधजुषां राज्ञां चित्तानि शोधयन् ॥ ४२४॥
स्नेहशालीनि कुर्वाणो रुष्टचित्तप्रसादनः ।
पराभिचारशमनो मारणाख्यस्य कर्मणः ॥ ४२५॥
स्वशत्रुभिः प्रणीतस्य निष्फलीकरणान्मतः ।
भञ्जयन् सर्वदुःखानि दुःखभञ्जनकारकः ॥ ४२६॥
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परः क्षणः ॥ १२१॥
घटी मुहूर्तं प्रहरो दिवा नक्तं (७००)अहर्निशम् ।
पक्षी मासोऽयनं वर्षं युगं कल्पो महालयः ॥ १२२॥
राशिस्तारा तिथिर्योगो बारः करणमंशकम् ।
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ १२३॥
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं च यत् ॥ १२४॥
अथ कालस्वरूपत्वमुक्तं विंशतिनामभिः ।
पद्मपत्रसहस्रस्य सूक्ष्मसूच्याभिवेधने ॥ ४२७॥
दले दले लवः कालः सहस्रेण लवैस्त्रुटिः ॥ ४२८॥
त्रुटेः शतं तत्परस्तैर्निमेषस्त्रिंशता भवेत् ।
अष्टादशनिमेषैः स्यात्काष्ठा तत्रिंशता कला ॥ ४२९॥
तत्त्रिंशता क्षणस्ते षड्घटी ताभ्यां मुहूर्तकम् ।
प्रहरस्तच्चतुष्कं तच्चतुष्कं नक्तकं दिवा ॥ ४३०॥
अहर्निशं त्वहोरात्रं प्रहरैरष्टभिर्भवेत् ।
ते पञ्चदश पक्षस्तौ मासः षडयनं तु ते ॥ ४३१॥
ताभ्यां तु मानुषं वर्षं तैः षष्ट्या त्रिशतीयुजा ।
दिव्यं द्वादशसाहस्रैर्दिव्यवर्षैश्चतुर्युगम् ॥ ४३२॥
चतुर्युगसहस्रेण कल्पो दैनन्दिनो लयः ।
द्वासप्ततिसहस्रैस्तैः स्यान्महाप्रलयो विधेः ॥ ४३३॥
राशिर्द्वादश मेषाद्याः कृत्तिकाद्याश्च तारकाः ।
त्वमेव च तिथिश्वान्द्री कला पञ्चदशत्मिका ॥ ४३४॥
विष्कम्भप्रथमा योगास्त्वद्रूपाः सप्तविंशतिः ।
योगा अमृतसिद्धाद्या आनन्दाद्यास्त्वमेव च ॥ ४३५॥
रव्यादिसप्तवारात्मा बवादिकरणात्मकः ।
चत्वारि प्रतिनक्षत्रमंशकानि त्वमेव हि ॥ ४३६॥
राशीनामुदयो लग्नं होरा लग्नार्धसम्मिता ।
कालचक्रं शैशुमारं मेरुः सौवर्णपर्वतः ॥ ४३७॥
सप्तर्षयः कश्यपाद्या औत्तानचरणिर्ध्रुवः ।
राह्वादयो ग्रहा अष्टौ त्वद्रूपा एव नेतरे ॥ ४३८॥
कलनात् काल इत्युक्तो जगत्संहरणक्रिया ।
सृष्टिः स्थितिश्च जगदुत्पादनप्राणनक्रिये ॥ ४३९॥
यत्स्थावरादि विश्वं तत्त्वमित्येकाभिधानकम् ।
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ।
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ १२५॥
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।
साध्या विद्याधरा भूता मनुष्याः पशवः खगाः ॥ १२६॥
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।
साङ्ख्यं पातञ्जलं योगः पुराणानि श्रुतिः स्मृतिः ॥ १२७॥
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ।
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ १२८॥
वैखानसं भागवतं सात्वतं पाञ्चरात्रकम् ।
शैवं पाशुपतं कालामुखं भैरवशासनम् ॥ १२९॥
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ १३०॥
भूरापोऽग्निर्मरुद्व्योम पञ्चभूतात्मको भवान् ॥ ४४०॥
अहङ्कृतिरहङ्कारः प्रकृतिर्मूलकारणम् ।
पुमांश्च पञ्चविंशस्त्वं प्रकृत्याद्यैरसंहतः ॥ ४४१॥
मञ्चस्थब्रह्मविष्णवीशरुद्राः पादाः सदाशिवः ।
फलकस्तत्र कामेशः शिवस्तस्याङ्कगामिनी ॥ ४४२॥
शक्तिः कामेश्वरीत्येते सप्तापि भवदात्मकाः ।
त्रिदशादिकशैलान्ता अर्थास्त्वं तिथिभिर्मिताः(१) ॥ ४४३॥
भवान् भूतमतीतं च भव्यं क्षेमं च भावि च ।
भवोद्भवः शिवोत्पन्नः संसारप्रभवोऽथवा ॥ ४४४॥
अथ साङ्ख्यादयो विद्यास्त्वद्रूपाः सप्तविंशतिः ।
साङ्ख्यं कपिलमुन्युक्तं शास्त्रं पातञ्जलं पुनः ॥ ४४५॥
सामसूत्रनिदानाख्यं योगः फणिपतीरितः ।
ब्राह्मादीनि पुराणानि श्रुतयो बह्वृचादयः ॥ ४४६॥
मन्वाद्याः श्रुतयो वेदाङ्गानि कल्पादिकानि षट् ।
सदाचारः सदाचारसङ्ग्रहात्माऽधुना ततः ॥ ४४७॥
मीमांसा षोडशाध्यायी सङ्कर्षसहिता सती ।
त्रिचतुर्लक्षणे भक्तिब्रह्ममीमांसके अपि ॥ ४४८॥
कणादगौतममुनिप्रणीतो न्यायविस्तरः ।
ऋग्यजुःसामवेदानामुपवेदा अपि क्रमात् ॥ ४४९॥
आयुर्वेदधनुर्वेदगान्धर्वास्तन्मयो भवान् ।
काव्यनाटकशब्दाभ्यां श्रव्यं दृश्यं च गृह्यते ॥ ४५०॥
श्रव्यमष्टविधं दृश्यं अष्टाविंशतिधा च यत् ।
सङ्कीर्णं यच्च बहुधा तत्तत्सर्वात्मको भवान् ॥ ४५१॥
विष्णोर्वैखानसादीनि शैवानि तु महेशितुः ।
पृथक् चत्वारि चत्वारि तन्त्राण्येतत्त्वदात्मकम् ॥ ४५२॥
शाक्तादित्रितयं शक्तेर्गणेशस्य विवस्वतः ।
तन्त्रे द्वे नास्तिकोन्नीते अपि जैनार्हते तथा ॥ ४५३॥
(१)ब्रह्माद्याः पञ्च भूतानामीश्वराः सन्नियामकः ।
पञ्चानां जननी शक्तिः प्रकृतिः परदेवता ॥
शिवस्तु पुरुषो ज्ञेयस्तद्रूपी त्वं गणेश्वर ।
वियदादिकशैलान्तजीवरूपी त्वमेव च ॥
कार्याणां कारणस्यान्तरवस्थानं सदात्मता ।
अकारणेनावस्थानं तदभावेऽसदात्मता ॥ ४५४॥
सर्वं कार्यात्मना व्यक्तमव्यक्तं कारणात्मना ।
सचेतनं प्राणिमात्रं व्योमादिकमचेतनम् ॥ ४५५॥
बन्धो (८००)मोक्षः सुखं भोगोऽयोगः सत्यमणुर्महान् ।
स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड्वौषड्वषण्णमः ॥ १३१॥
ज्ञानं विज्ञानमानन्दो बोधः संविच्छमो यमः ।
एक एकाक्षराधार एकाक्षरपरायणः ॥ १३२॥
बन्ध आत्मन्यनात्मत्वभ्रमो नात्मनि चात्मता ।
एतत्सर्वं भवानेव भगवन् परिकीर्तितः ॥ ४५६॥
मोक्षस्त्वविद्याविध्वंसस्ततो यदवशिष्यते ।
तत्सुखं प्रत्यगानन्दो भोगः सोऽनुभवात्मकः ॥ ४५७॥
अयोगः सङ्गरहितः तद्धि सत्यमबाधितम् ।
स एवाणुर्मनः षष्ठेन्द्रियगोचरतावशात् ॥ ४५८॥
ततोऽधिकस्य सौख्यस्याभावादेव स वै महान् ।
तदेव सम्यगस्तीति स्वस्ति नास्ति ततः परम् ॥ ४५९॥
अन्यस्य दूरीकरणात्तदेव ब्रह्म हुं मतम् ।
दूरोत्सारणमात्रं न किन्तु (विघ्न)नाशोऽपि तेन फटू ॥ ४६०॥
स्वधेति पितृदैवत्यं स्वाहेत्यग्न्यादिदैवतम् ।
श्रौषडित्यादयस्तत्तच्छब्दयुक्कर्मलक्षकाः ॥ ४६१॥
सर्वेषां कर्मणामिष्टसिद्ध्यर्थत्वान्महाफले ।
सुखे लब्धे तु तत्रैव तत्सर्वं पर्यवस्यति ॥ ४६२॥
तेन कर्मापि सकलं भवेदेकात्मकं सुखम् ।
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं तद्द्वयं भवान् ॥ ४६३॥
त्वमेव प्रत्यगानन्दः प्रत्यबोधस्त्वमेव हि ।
योगिभिः सेव्यते संविद्बाह्यवृत्तिनिरासिका ॥ ४६४॥
तदेकप्रवणत्वाय सौषधी भवदात्मिका ।
सर्वस्य शमनात्सर्वोपरमात्त्वं शमो यमः(१) ॥ ४६५॥
एक एवाद्वितीयस्त्वं भेदत्रैविध्यशून्यतः ।
(१)सर्वस्य दुष्टभावस्य शमनाच्च शमो यमः ।
गम्बीजान्तः स्थितेरेकाक्षराधार इति स्मृतः ॥ ४६६॥
एकाग्रधीरेकवीर एकानेकस्वरूपधृक् ।
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ १३३॥
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः ।
त्रिधामा त्रिकरस्त्रेतात्रिवर्गफलदायकः ॥ १३४॥
ओमित्येकाक्षरस्थत्वादेकाक्षरपरायणः ।
एकाग्रधीः स्वात्ममात्रप्रवणापि मतिर्भवान् ॥ ४६७॥
अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः ।
पराक्रमपरोऽस्येकवीरस्त्वत्तो न चापरः(१) ॥ ४६८॥
प्रतिभूतमवस्थानादेकानेकस्वरूपधृक् ।
एकधा बहुधा चैव दृश्यसे जलचन्द्रवत् ॥ ४६९॥
द्वे ब्रह्मणी इति श्रुत्या द्विरूपोऽस्यपरं परम् ।
त्वमेव द्विभुजो द्व्यक्षो द्विरदः प्रकटार्थकः ॥ ४७०॥
सप्तद्वीपाधिपत्यस्य प्रदानाद्वीपरक्षकः ।
द्वैमातुरोऽस्युमागङ्गे मातरौ तव विश्रुते ॥ ४७१॥
तवैव मूर्तिरम्याख्या तेन द्विवदनो भवान्(२) ।
शीतोष्णादीन्यतिक्रान्तो द्वन्द्वातीत इति श्रुतः ॥ ४७२॥
रजस्तमश्चातिलिङ्घ्य वर्तमानो द्वयातिगः ।
त्रिधामा सूर्यचन्द्राग्नितेजस्त्रितयमूर्तिमान्(३) ॥ ४७३॥
त्रयाणामपि लोकानां (देवानां)करणान्त्रिकरो भवान् ।
नर्याद्यग्नित्रयाकाङ्क्षधर्मकामार्थकर्मणां(४) ॥ ४७४॥
फलप्रद इति त्रेधा त्रिवर्गफलदायकः ।
(Footnotes)
(१) लयादि ब्रह्मकल्पान्तमयस्य कालरूपिणः ।
जेता देवेष्वेकवीरः त्वत्तो नास्ति सुरेष्वपि ॥
(२) नरगजवक्त्रयुक्तो भवान्द्रिवदनो मतः ।
(३) त्रिधामा सच्चिदानन्दब्रह्मत्रितयसंज्ञकः ।
(४) समष्टि व्यष्ट्यभेदात्मा त्रेता त्वं गजवक्त्रक ।
धर्मार्थकालफलदः त्रिवर्गफलदायकः ॥
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः ॥ १३५॥
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः ।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ १३६॥
चतुर्थीपूजनप्रीतश्चतुर्थी तिथिसम्भवः ।
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्यकृत् ॥ १३७॥
गुणत्रयवती मूलप्रकृतिस्त्रिगुणा मता ॥ ४७५॥
तस्या हृदि त्वमेवेति त्रिगुणात्मेति गीयसे ।
त्रयाणामपि लोकानां त्रिलोकादिश्च कारणम् ॥ ४७६॥
रमालज्जानङ्गयोगस्त्रिशक्तिः कथ्यते मनुः ।
प्रभावोत्साहमन्त्रा वा त्रिशक्तीशस्तदीश्वरः(१) ॥ ४७७॥
त्रिलोचनश्चतुर्बाहुश्चतुर्दन्त इति स्फुटम्(२) ।
आत्मान्तरात्मा ज्ञानात्मा परमात्मेति भेदतः ॥ ४७८॥
आत्मोपनिषदि प्रोतश्चतुरात्मा त्वमेव हि ।
चतुर्विधा मुखे वेदा यस्य स त्वं चतुर्मुखः ॥ ४७९॥
भेदो दण्डः साम दानमित्युपायचतुष्टयम् ।
चतुर्विधोपायमयस्तज्जन्यफलसाधकः ॥ ४८०॥
ब्राह्मणब्रह्मचर्यादिवर्णाश्रमविभागशः ।
विहितैः कर्मभिः प्राप्यश्चतुर्वर्णाश्रमाश्रयः ॥ ४८१॥
गुहायां वर्तयंस्तिस्रः पश्यन्तीं मध्यमां पराम् ।
वैखरीं परितो बाह्यवर्तनेन प्रवर्तयन् ॥ ४८२॥
(Footnotes)
(१) भ्रामर्याधारकामेश्यो नैजास्त्रिशक्तयो मताः ।
तासामीशस्त्रिशक्तीशः स्वानन्दभुवनेश्वरः ॥
(२) त्रिधा स्थितं ब्रह्म यस्य लोचनानि मुखाम्बुजे ।
त्रिलोचनस्ततः प्रोक्तो निर्गुणं यच्चतुर्विधम् ।
तदेव दन्तास्त्वक्त्रे चतुर्दन्तस्ततो भवान् ।
सदसत्सम सहजसंज्ञिकं तु चतुर्विधम् ।
स्वानन्दं यस्य देवस्य ख्यातस्तेन चतुर्भुजः ॥
चतुर्विधवचोवृत्तिपरिवृत्ति प्रवर्तकः ।
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ।
इति नामद्वयं स्पष्टं स्याद्गणेशपुराणतः(१) ॥ ४८३॥
नादबिन्दुमकारोकाराकाराः प्रणवस्थिताः ॥ ४८४॥
त्वच्छरीरमतः पञ्चाक्षरात्मा परिकीर्त्यसे ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ४८५॥
यस्यैते विग्रहाः पञ्च स पञ्चात्मेति गीयसे(२) ।
विस्तीर्णं वदनं यस्य ब्रह्माण्डकवलक्षमम् ॥ ४८६॥
पचेर्विस्तारवाचित्वात्स पञ्चास्य इति स्मृतः ।
सृष्टिः स्थितिश्च संहारस्तिरोधानमनुग्रहः ॥ ४८७॥
ब्रह्मादिरूपैरेतानि कुर्वाणः पञ्चकृत्यकृत् ।
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ।
पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः ॥ १३८॥
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ।
पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः ॥ १३९॥
पञ्चाधारोऽसि भूतानां पञ्चानामपि धारकः ॥ ४८८॥
सर्वदा सूर्यकोटिप्रभः सन् कृतत्रेतयोश्चन्द्रवर्णोऽर्जुनद्रुच्छविः ।
द्वापरे शक्रगोपोपमोऽभूत्कलौ धूम्रवर्णोऽभवत्पञ्चवर्णो भवान्(३) ॥ ४८९॥
जपन् पञ्चाक्षरं शैवं पञ्चाक्षरपरायणः ।
आमध्यमाग्रादङ्गुष्ठात्प्रमाणं ताल उच्यते ॥ ४९०॥
(Footnotes)
(१) चतुर्थ्यां पूजनेनैव प्रीतो विधिपुरस्सरम् ।
चतुर्थीपूजनप्रीत इति त्वं परिगीयसे ।
चतुर्थ्यां यस्तु सञ्जातः चतुर्थीतिथिसम्भवः ॥
(२) ब्रह्मा विष्णुश्च रुद्रश्च परा शक्तिश्च भास्करः ।
यस्यैते विग्रहाः पञ्च स पञ्चात्मेति गीयसे ।
सूर्यकोटिप्रभस्त्वं तु सर्वदा गणनायकः ।
हेमवर्ण कृतयुगे त्रेतायां धवलच्छविः ॥
द्वापरे रक्तवर्णस्त्वं कलौ तु धूमवर्णकः ॥ (ब्रह्मा)
तालपञ्चकदेहाढ्यः पञ्चतालोऽसि वामनः ।
पञ्चहस्तमितः प्रांशुरपि पञ्चकरो भवान् ॥ ४९१॥
तारवाग्भवलज्जाभाः प्रसादपरया सह ।
प्रणवाः पञ्च तैर्वाच्यः पञ्चप्रणवभावितः(१) ॥ ४९२॥
सद्योजातवामदेवाघोरतत्पुरुषेश्वरैः ।
(२)पञ्चब्रह्ममयस्फूर्तिरभिन्नस्फुरणात्मकः ॥ ४९३॥
पञ्चावृतिस्तवप्रोक्तैरङ्गाद्यावरणैर्वृतः ।
छन्नो वा पञ्चभिः कोशैः पञ्चावरणवारितः(३) ॥ ४९४॥
लड्डुकमण्डकपूरीफेणीवटकाभिधानि भक्ष्याणि ।
यस्य प्रियाणि पञ्चापि पञ्चभक्ष्यप्रियः स भवान् ॥ ४९५॥
बाणेश्वर्यभिधाम्बायाः कामेश्वरशिवस्य च ।
प्रत्येकं पञ्च बीजानि सिद्धान्येव तु तद्विदाम् ॥ ४९६॥
तदात्मकतया पञ्चबाणः पञ्चशिवात्मकः(४) ।
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।
षडध्वध्वान्तविध्वंसी षडङ्गुलमहाहृदः ॥ १४०॥
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ १४१॥
षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः ।
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ १४२॥
(Footnotes)
(१) अकारोकारमकारनादबिन्दुमयाः पराः ।
प्रणवाः पञ्च तैरर्च्यः पञ्चप्रणवभावितः ॥ (ब्रह्मा)
(२) सदसत्समसहजयोगसंज्ञिकैर्व रैः ।
पश्चब्रह्ममयस्फूर्तिः अभिन्नस्फुरणात्मकः ॥ (ब्रह्मा)
(३) पञ्चावृतिदेवसेव्यः पञ्चावरणवारितः । (ब्रह्मा)
(४) पञ्चबाणो मन्मथस्तु पञ्चबाणस्तदात्मकः ।
परः शिवभुवनेशरुद्रेश्वरसदाशिवाः ।
सहजसाङ्ख्यपरमशिवरुद्राभिधो हाथ ।
शिवः पञ्चविधः प्रोक्तः आत्मा पञ्चशिवात्मकः ।
(ब्रह्मा)
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।
सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः ॥ १४३॥
षट्कोणपीठः कोणाः षट् पूजास्थानानि यस्य सः ॥ ४९७॥
षट्चक्रधामा त्वं मूलाधिष्ठानमणिपूरकाः ।
अनाहतविशुद्ध्याज्ञा वासस्थानानि यस्य सः ॥ ४९८॥
मूलाज्ञामणिपूरेषु द्वौ द्वौ ग्रन्थी भिनत्ति यः ।
वह्निकुण्डलिनी सैव भवान् षड्ग्रन्थिभेदकः ॥ ४९९॥
पदभुवनवर्णतत्त्वकलामन्त्राख्याः षडध्वानः ।
तच्छोधनकर्तृत्वेन षडन्ध्वध्वान्तविध्वंसी ॥ ५००॥
महाहृदो नाभिरूपों गाम्भीर्येण षडङ्गुलः ।
पिचण्डिलत्वाद्यस्यैष षडङ्गुलमहाहृदः ॥ ५०१॥
षट्सङ्ख्याकानि शास्त्राणि मुखे यस्य स षण्मुखः ।
स भवान् षण्मुखभ्राता सेनानीर्यस्य तेऽनुजः ॥ ५०२॥
षडङ्गयुवतिच्छन्नः षट्शक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी कामक्रोधौ च मत्सरम् ॥ ५०३॥
लोभमोहमदान् हंसि षडिमान्वैरिशब्दितान् ।
अशनायां पिपासां च शोकं मोहं जरां मृतिम् ॥ ५०४॥
षडूर्मिशब्दितान्निघ्नन् षडूर्मिभयभञ्जनः ।
षड्दर्शनोदितैस्तर्कैर्युक्तिभिर्यो न गृह्यते ॥ ५०५॥
वागतीतः स षट्तर्कदूर इत्यभिधीयते(१) ।
षट्कर्मनिरतः सक्तः षट्सु यागादिकर्मसु ॥ ५०६॥
मधुरादिरसानामप्याधारः षड्रसाश्रयः ।
अतलाद्या अधोऽधःस्थाः सप्त लोका यदङ्घ्रिगाः ॥ ५०७॥
सप्त जम्भ्वाद यो द्वीपा यस्य सक्थि भुवर्मुखाः ।
ऊर्ध्वगाः सप्त गोलोकावधयो यस्य मूर्ध्नि सः ॥ ५०८॥
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ।
सप्तस्वर्लोकमुकुट इति नामत्रयेरितः ॥ ५०९॥
सप्ताभिर्जटाभिः सहितः सप्त इत्युच्यते शिवः ।
(Footnote)
(१) मन्त्रतर्कों यन्त्रतर्कः तन्त्रतर्कः प्रयोगकः ।
अणुतर्को न्यायतर्कः तर्का एव तु षड्विधाः ॥
शुक्रश्च विश्वकर्मा च विष्णुश्च मय दानवः ।
कणादो गौतमश्चैव दर्शनानां प्रवर्तकाः ॥
मणिमल्लमृधे तस्मै भवान् प्रादाद्धयोत्तमं (जयं परं )॥ ५१०॥
सूर्याय वा वरं तेन सप्तसप्तिवरप्रदः ।
स्वाम्यमात्यादिसप्ताङ्गयुक्तराज्यात् सुखं ददत् ॥ ५११॥
सप्ताङ्गराज्यसुखदः सप्तभिः कश्यपादिभिः ।
गणदेवैश्च सेव्यत्वात् सप्तर्षिगणमण्डितः ॥ ५१२॥
सप्तच्छन्दोनिधिः सप्तहोता सप्तस्वराश्रयः ।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ १४४॥
सप्तच्छन्दोमोदमदः सप्तच्छन्दोमखप्रभुः ।
अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ १४५॥
अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः ।
अष्टशक्तिसमृद्धश्रीः (९००)अष्टैश्वर्यप्रदायकः ॥ १४६॥
सप्तछन्दोनिधिः पथ्यच्छन्दः सप्तकसंश्रयः ।
होत्रादयोऽच्छावा(यः स्ताव)कान्ताः होतारः सप्त सौमिकाः ॥ ५१३॥
महाहविर्मुनिर्वापि सप्तहोता तदात्मकः ।
षड्जादिस्वरवान्नाद इति सप्तस्वराश्रयः ॥ ५१४॥
सप्ताब्धिकेलिकासारो यस्य क्रीडासरोऽर्णवः ।
ब्राह्म्यादिमातृसेव्यत्वात् सप्तमातृनिषेवितः ॥ ५१५॥
पथ्यादि सप्तच्छन्दांसि तेषां मोदेन यो मदः ।
तेनैव घूर्णनात् सप्तच्छन्दोमोदमदः स्मृतः ॥ ५१६॥
पथ्या (उक्था)द्यक्रतुपूज्यत्वात् सप्तच्छन्दोमखप्रभुः ।
अष्टमूर्तिः शिवस्तेन यन्मूर्तिर्हृदि चिन्त्यते ॥ ५१७॥
सोऽष्टमूर्तिध्येयमूर्तिध्येयो वा पृथगष्टभिः ।
प्रकृत्यहङ्कृतिमहत्पञ्चतन्मात्रसंज्ञिताः ॥ ५१८॥
प्रकृतीर्यो जनयति सोऽष्टप्रकृतिकारणम् ।
अष्टाङ्गयोगफलभूः समाध्यन्तैर्यमादिभिः ॥ ५१९॥
अङ्गैर्युक्तस्य हृद्वृत्तिरोधस्य फलदायकः ।
पङ्कजेऽष्टदले तिष्ठन् अष्टपत्राम्बुजासनः ॥ ५२०॥
अष्टशक्तिसमृद्धश्रीर्दलाष्टकनिवासिना ।
तीव्रादिशक्त्यष्टकेन परितः सेवितो भवान् ॥ ५२१॥
दाताऽणिमादिसिद्धीनामष्टैश्वर्यप्रदायकः ।
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥ १४७॥
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।
नवनागासनाध्यासी नवनिध्यनुशासिता ॥ १४८॥
नवद्वारपुराधारो नवाधारनिकेतनः ।
नवनारायणस्तुत्यो नवदुर्गानिषेवितः ॥ १४९॥
नवनाथमहानाथो नवनागविभूषणः ।
नवरत्नविचित्राङ्गो नवशक्तिशिरोधृतः ॥ १५०॥
अष्टपीठोपपीठश्रीर्महापीठोपपीठयोः ॥ ५२२॥
पुराणे स्फुटयोर्भूरिसङ्ख्ययोः सम्पदात्मकः ।
अष्टमी तु महालक्ष्मीर्ब्राह्म्याद्याः सप्त मातरः ॥ ५२३॥
आवृतौ यस्य तिष्ठन्ति सोऽष्टमातृसमावृतः ।
अष्टभैरवसेव्योऽष्टौ भैरवा वटुकादयः ॥ ५२४॥
तैः सेव्यो वसवोऽष्टौ तु प्रभासान्ता धरादयः ।
तैर्वन्दितो भवानष्टवसुवन्द्यः प्रकीर्तितः ॥ ५२५॥
भूतानि पुष्पवन्तौ स्व एतद्रूपोऽष्टमूर्तिभृत्(१) ।
अष्टाचक्रा नवद्वारा देवानां पूरिति श्रुतेः ॥ ५२६॥
यन्त्रे तिष्ठन्नष्टचक्रस्फुरन्मूर्तिरिति स्मृतः ।
लाजेक्षुसक्तुचिपिटाः कदल्यो(कलमा)मोदकास्तिलाः ॥ ५२७॥
नारिकेला घृताक्ता इत्यष्टद्रव्यहविःप्रियः ।
नवनागासनाध्यासी नागैः कर्कोटकादिभिः ॥ ५२८॥
पत्रेष्वष्टसु मध्ये च यस्यासनमधिष्ठितम् ।
शासच्छङ्खमुकुन्दादीन् नवनिध्यनुशासिता ॥ ५२९॥
नवद्वारपुराधारो जीवरूपेण देहभृत् ।
कुलाकुलसहस्रारे मूलाद्याज्ञान्तिमानि षट् ॥ ५३०॥
लम्बिकेति नवस्वास्से नवाधारनिकेतनः ।
धर्माद्यनन्तबदरीरूपशङ्करसुन्दरैः ॥ ५३१॥
लक्ष्म्या साध्येनोपपदैर्युक्ता नारायणा नव ।
(१) बिन्द्वादिसहजान्तःस्थ ब्रह्मरूपोऽष्टमूर्तिभृत् ।
नवनारायणस्तुत्यस्तैः स्तुत्यः स भवानिति ॥ ५३२॥
दुर्गाया नवकूष्माण्डचन्द्रघण्टादयोऽभिधाः ।
प्रसिद्धास्ताभिरीड्यत्वान्नवदुर्गानिषेवितः ॥ ५३३॥
ज्ञानप्रकाशसत्यानन्द विमर्शस्वभावसुभगानाम् ।
नवनाथमहानाथो नाथत्वात्प्रतिभपूर्णयोश्च भवान् ॥ ५३४॥
कर्कोटकादिमण्ड्यत्वान्नवनागविभूषणः ।
नवरत्नविचित्राङ्गो वज्रमुक्तादिभूषितः ॥ ५३५॥
तीव्राद्या नव ते पीठे नवशक्तिशिरोधृतः ।
दशात्मको दशभुजो दशदिक्पतिवन्दितः ।
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ १५१॥
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ।
एकादशादिभी रुद्रैः स्तुत एकादशाक्षरः ॥ १५२॥
द्वादशद्दण्डदोर्दण्डो द्वादशान्तनिकेतनः ।
त्रयोदशाभिधा भिन्नविश्वेदेवाधिदैवतम् ॥ १५३॥
दिशो दश तदात्मा यो व्यापकः स दशात्मकः(१) ॥ ५३६॥
महागणपतेर्मूर्त्या भवान् दशभुजोऽभवत् ।
इन्द्रादयोऽष्टौ दिक्पाला ऊर्ध्वाधोदिगधीश्वरौ ॥ ५३७॥
क्रमाद्ब्रह्माऽनन्त इति दशदिक्पतिवन्दितः ।
दशाध्यायश्चतुर्वेद षडङ्ग्यध्ययनान्मतः(२) ॥ ५३८॥
दशप्राणः पञ्च पञ्च प्राणनागादिरूपवान् ।
वागाद्यात्मत्वगाद्यात्मदशेन्द्रियनियामकः ॥ ५३९॥
उक्तो हस्तिपिशाचीतिमन्त्रश्चेत्प्रणवादिमः ।
दशाक्षरमहामन्त्रस्त्वद्दैवत्यस्त्वमेव सः ॥ ५४०॥
(Footnotes)
(१) बिन्द्वाद्ययोगपर्यन्ताः आत्मनः स्थितिरूपकाः ।
दश तदात्मा भगवान्गणेशानो दशात्मकः ॥
(२) विनायकरहस्ये तु योगानन्दाभिधं वरम् ।
दशाध्याययुतं तत्र दशाध्यायस्तदात्मकः ॥
दशदिग्व्यापिदेहत्वाद्दशाशाव्यापिविग्रहः ।
रुद्रा एकादशारभ्य सहस्राणि सहस्रशः ॥ ५४१॥
एकादशादिभी रुद्रैः स्तुतस्तैः सकलैर्नुतः ।
तारशक्ती विघ्नशक्ती वशमानय ठद्वयम् ॥ ५४२॥
एकादशाक्षरो मन्त्रस्त्वद्दैवत्यस्त्वमेव सः ।
द्वादशोद्दण्डदोर्दण्डो गाढैर्द्वादशभिर्भुजैः ॥ ५४३॥
द्वादशान्तं ललाटोर्ध्वं ब्रह्मरन्ध्रावसानकम् ।
प्रकटो योगिनां तद्गो द्वादशान्तनिकेतनः ॥ ५४४॥
पुरूरवप्रभृतिभिः पूज्यस्त्वं विश्वदैवतैः ।
त्रयोदशाभिधाभिन्नविश्वेदेवाधिदैवतम् ॥ ५४५॥
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ।
चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः ॥ १५४॥
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ।
षोडशाधारनिलयः षोडशस्वरमातृकः ॥ १५५॥
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ।
कला सप्तदशी सप्तदशः सप्तदशाक्षरः ॥ १५६॥
चतुर्दशानामिन्द्राणां मनूनां वरदोऽधिपः ।
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ॥ ५४६॥
चतुर्दशादिविद्याढ्यो वेदाद्याः सोपवेदकाः ।
चतुर्दशाष्टादश च प्रसिद्धास्तासु पण्डितः ॥ ५४७॥
आपातालादा च सत्याच्चतुर्दशजगत्प्रभुः ।
यत्पञ्चदशभिः स्तौमैराज्य(द्य)स्तोत्रचतुष्टयम् ॥ ५४८॥
सामयुक्तं तदात्मत्वात् सामपञ्चदशो भवान् ।
स्वच्छो राकेन्दुवत्पञ्चदशीशीतांशुनिर्मलः ॥ ५४९॥
षोडशाधारनिलयोऽस्यन्तश्च क्रेषु संस्थितः ।
षडाधारनवाधारषोडशाधारलक्षणम् ॥ ५५०॥
वेद्यं गुरुमुखादेवेत्यागमे शिवशासनम् ।
स्वरान्मिमीते मानेन षोडशस्वरमातृकः ॥ ५५१॥
षोडशान्तपदावासो ब्रह्मरन्ध्राब्जकर्णिकाम् ।
आरभ्योर्ध्वं षोडशान्तमुन्मन्याः परतः स्थितः ॥ ५५२॥
अमृता मानिनी(मानदे)त्यादिषोडशेन्दुकलात्मकः ।
कला सप्तदशी नाम प्रसिद्धा त्रिपुरागमे ॥ ५५३॥
त्रयोदशाक्षरी तुर्यविद्याख्या त्वं तदात्मकः ।
यत्तु सप्तदशस्तोमं पृष्ठस्तोत्रचतुष्टयम् ॥ ५५४॥
सामयुक्तं तदात्मत्वाद्भवान् सप्तदशो मतः ।
वौषडाश्रावययजास्तु श्रौषड्येयजामहे ॥ ५५५॥
इति त्वं आप्नुषे यज्ञानिति सप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ।
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ॥ १५७॥
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ।
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ १५८॥
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ १५९॥
अष्टादशद्वीपपतिः सप्तैकादशसङ्ख्ययोः ॥ ५५६॥
द्वीपोपद्वीपयोर्जम्बुसिंहलाद्योरधीश्वरः ।
मात्स्यकौर्मब्राह्मपाद्माद्यष्टादशपुराण कृत्(१) ॥ ५५७॥
अष्टादशौषधीसृष्टिर्धान्यसृष्टिविचक्षणः ।
मुख्यधान्योपधान्यानि तेषु द्वादश षट् क्रमात् ॥ ५५८॥
विधयोऽपूर्वनियम परिसङ्ख्याः पृथक् पृथक् ।
प्रयोगविनियोगोत्पत्त्याख्याभिर्नव ते द्विधा ॥ ५५९॥
गुणप्रधानभेदादित्यष्टादशविधिः स्मृतः ।
नागरद्राविडाङ्ध्राद्याः स्वतन्त्रा पियो भुवि ॥ ५६०॥
अष्टादश तदंशोत्था अवान्तरभिदा अपि ।
देशभेदेन बहवस्तज्ज्ञाने त्वं विचक्षणः ॥ ५६१॥
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ।
एकविंशः पुमानात्मेत्यामनन्त्यैतरेयिणः ॥ ५६२॥
(Footnote)
(१) अष्टादशप्रभेदाढ्यपुराणोपपुराणयोः ।
कर्ता गणेश पूर्वाणां अष्टादश पुराणकृत् ॥
सहशुण्डाञ्चलेनैकविंशत्यङ्गुलिपल्लवः ।
दश हस्त्या अङ्गुलयः पद्या अङ्गुलयो दश ॥ ५६३॥
तत्त्वानि जिनसङ्ख्यानि तदूर्ध्वः पुरुषो भवान् ।
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ॥ ५६४॥
नक्षत्राणां च योगानां ईशः कर्ता क्रमाद्भवान् ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ ५६५॥
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाहृदः ।
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलातनुः ॥ १६०॥
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ।
पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः ॥ १६१॥
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।
द्विपञ्चाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः ॥ १६२॥
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः ।
चतुःषष्टिमहासिद्धयोगिनीवृन्दवन्दितः ॥ १६३॥
द्वात्रिंशद्भैरवाधीशश्चत्वारो भैरवाष्टकाः ।
असिताङ्गादयो ये ये तेषां तेषामधीश्वरः ॥ ५६६॥
पुष्कराद्या देवखाताः सन्ति पुण्या महाह्रदाः ।
तदात्मकत्वेन भवांश्चतुस्त्रिंशन्महाह्रदः ॥ ५६७॥
षट्त्रिंशत्तत्त्वसम्भूतिः शैवतन्त्रोक्तया दिशा ।
शिवादिक्षितिपर्यन्तषट्त्रिंशत्तत्त्वकारणम् ॥ ५६८॥
वह्नेः सूर्यस्य चन्द्रस्य दश द्वादश षोडश ।
कलाः सन्ति तदात्मत्वादष्टत्रिंशत्कलातनुः ॥ ५६९॥
मरुद्वर्गनतश्चासौ निष्प्रत्यूहगतिश्च सः ।
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ ५७०॥
पञ्चाशदक्षरश्रेणीत्युच्यते मातृकात्मना ।
श्रीकण्ठादिशिवात्मत्वात् पञ्चाशद्रुद्रविग्रहः ॥ ५७१॥
केशवाद्याच कीर्त्याद्या विष्णवस्तस्य शक्तयः ।
पञ्चाशद्विष्णु शक्तीशस्तदीशत्वेन कथ्यसे ॥ ५७२॥
एकपञ्चाशतोऽर्णानामालयो लय एव वा ।
नाद एव तदात्मत्वात्पञ्चाशन्मातृकालयः ॥ ५७३॥
लैङ्गवर्णितपाशानाम विद्यापञ्चपर्वणाम् ।
अष्टाष्टदिग्वसुधृतिभिन्नानां देहदायिनाम् ॥ ५७४॥
त्वद्रूपत्वाद्द्विपञ्चाशद्वपुःश्रेणीति गीयसे ।
त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ॥ ५७५॥
कला अपि चतुःषष्टिः प्रसिद्धास्तत्समाश्रयः ।
तन्निर्णेता तत्खनिस्त्वं त्रिष्ट्यक्षरसंश्रयः ॥ ५७६॥
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः(१) ।
अक्षोभ्यादिचतुःषष्टिमिथुनैर्वन्दितो भवान् ॥ ५७७॥
चतुःषष्टिमहासिद्धयोगिनीबृन्दवन्दितः ।
अष्टषष्टिमहातीर्थक्षेत्र भैरवभावनः ।
चतुर्णवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ॥ १६४॥
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ।
शतानीकः शतमखः शतधारवरायुधः ॥ १६५॥
सहस्रपत्रनिलयः सहस्रफणभूषणः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १६६॥
तन्त्र्यष्टषष्टिः श्रीकाशीखण्डपाद्मयोः ॥ ५७८॥
शैवतीर्थान्यष्टषष्टिः श्रीकाशीखण्डपाद्मयोः ॥
उक्तानि तेषु क्षेत्रेषु भावयन् भैरवं शिवम् ।
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः ॥ ५७९॥
अष्टत्रिंशत्कला मन्त्राः पञ्चाशन्मातृकाः कलाः ।
हंसः शुचिप्रतद्विष्णुर्विष्णुर्योनि त्रियम्बकम् ॥ ५८०॥
तद्विष्णोर्मूलविद्येति चतुर्णवतिसंज्ञकाः ।
द्रव्यशुद्ध्यै कल्पसूत्रे जामदग्न्येन वर्णिताः ॥ ५८१॥
चतुर्णवतिमन्त्रात्मा तावन्मन्त्रात्मको भवान् ।
तन्त्रराजे षण्णवतिः प्रोक्ताः श्रीचक्रदेवताः ॥ ५८२॥
(Footnote)
(१) केषां मते तु चतुष्षष्टिर्वर्णास्त्वं तु तदाश्रयः ।
चतुष्षष्ट्यर्णनिर्णेता तावन्मन्त्र निरूपितः ॥
विद्यागणेशयोर्योगाज्जायन्तेऽधिकदेवताः ।
तासामीशः समस्तानां षण्णवत्यधिक प्रभुः(१) ॥ ५८३॥
शतानन्दः शतगुणा आनन्दा मानुषादयः ।
ब्रह्मानन्दादिमा ये ये ते सर्वेऽपि त्वदात्मकाः ॥ ५८४॥
ब्रह्माण्डानामनन्तानां धर्ता शतधृतिर्भवान् ।
पद्मपत्रायताक्षस्त्वं शतपत्रायतेक्षणः ॥ ५८५॥
शतानीको भूरिसैन्यः शक्रः शतमखो भवान् ।
अथवा बहुसङ्ख्यानि पूजनादीनि यस्य सः ॥ ५८६॥
शतं धारा अरास्तीक्ष्णा यदायुधवरस्य सः ।
वज्रोत्कृष्टायुधो वाऽपि शतधारवरायुधः ॥ ५८७॥
सहस्रपत्रनिलयो ब्रह्मरन्ध्रस्थपद्मगः ।
फणासहस्रवद्भूष्यः सहस्रफणभूषणः ॥ ५८८॥
सहस्रशीर्षा पुरुष इत्येकं नाम ते स्फुटम् ।
(सहस्रशीर्षा पुरुषो विराट्पुरुषरूपवान् ।)
अनन्तनेत्रचरणः सहस्राक्षः सहस्रपात् ॥ ५८९॥
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ।
दशसाहस्रफणभृत्फणिराजकृतासनः ॥ १६७॥
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रितः ।
लक्षाधीशप्रियाधारो लक्षाधारमनोमयः ॥ १६८॥
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः ।
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ॥ १६९॥
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ।
शिवाभवाध्युष्टकोटिविनायकधुंरधरः ॥ १७०॥
सहस्रनामसंस्तुत्यः स्तुत्यर्होऽसङ्ख्यनामभिः ।
यमाविशन्ति नामानि सर्वाणीति किल श्रुतेः ॥ ५९०॥
इन्द्रस्य दर्पहरणात् सहस्राक्षबलापहः ।
(Footnote)
(१) अष्टाचत्वारिंशदेवाः स्वानन्दे ब्रह्मणस्पतेः ।
विघ्नसिद्धिबुद्धियोगात् जायन्तेऽधिकदेवताः ॥
तासामीशः समस्तानां षण्णवत्यधिकप्रभुः ।
दशसाहस्रफणभृत्फणिराजकृतासनः(१) ॥ ५९१॥
इच्छया सृष्टिनिर्मातुः किमसाध्यं तव प्रभो ।
सर्वविद्याकलाराशिरक्षणैकप्रयोजनाः ॥ ५९२॥
विष्णुना हिमवत्पृष्ठे स्थापिता गृहमेधिनः ।
पुराणे वैष्णवे प्रोक्तास्तैः स्तुत्योऽसि नियन्त्रितः(२) ॥ ५९३॥
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रितः ।
लक्षाधीशप्रियाधारो लक्षाधीशा धनेश्वराः ॥ ५९४॥
तेषां प्रियः सन्नाधारो धनवृद्ध्यर्थमाश्रितः ।
लक्षाणि चित्तस्थैर्यांर्थं प्रसिद्धानि तदाश्रितम् ॥ ५९५॥
मनो यस्य तदात्मा त्वं लक्षाधारमनोमयः ।
चतुर्लक्षजपप्रीतः पुरश्चर्यादिसाधनैः ॥ ५९६॥
पुराणाष्टादशग्रन्थसङ्ख्या लक्षचतुष्टयम् ।
तैः प्रकाशितरूपस्त्वं चतुर्लक्षप्रकाशितः ॥ ५९७॥
सर्वजीवात्मतेयत्तानवच्छेदश्च रोचिषः ।
कलङ्कतापासम्पर्कः कथ्यते नामभिस्त्रिभिः ॥ ५९८॥
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ।
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ ५९९॥
ग्रहा विनायकाभिख्याः सार्धकोटित्रयात्मकाः ।
भवस्य च शिवायाश्च प्रत्येकं सन्ति तत्पतिः ॥ ६००॥
शिवाभवाध्युष्टकोटिविनायकधुरन्धरः ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ।
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ॥ १७१॥
अनन्तनामानन्तश्रीरनन्तानन्तसौख्यदः ।
विश्वरूपस्य तेऽङ्गानि सर्वमन्त्राधिदेवताः ॥ ६०१॥
अतः सञ्जप्तमन्त्रैस्तैर्द्यातसेऽवयवैरपि ।
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ ६०२॥
ईदृशान्नाधिकस्त्वत्तः कोऽपि देवस्ततो भवान् ।
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ॥ ६०३॥
(Footnotes)
(१) आसनं यस्य शेषस्तु तेनैवं कथ्यसे भवान् ।
(२) वेदादिविद्याद्रष्टारो गोत्र वृद्धिकरा अपि ।
अष्टाशीतिसहस्रौघास्तैः कृतस्तोत्रतोषितः ॥
अनन्तनामा सर्वेऽपि शब्दास्त्वन्नामतां गताः ।
यावत्प्रतिष्ठितं ब्रह्म तावती वागिति श्रुतेः ॥ ६०४॥
अनन्तश्रीरसङ्ख्यास्ते विद्यासम्पत्तिकीर्तयः ।
प्रातिस्विकमनन्तानामानन्त्ये गणना तु या ॥ ६०५॥
तावन्तं दददानन्दमनन्तानन्तसौख्यदः ।
अनन्तानन्ददानं तु स्वाद्वैते पर्यवस्यति ॥ ६०६॥
(उत्तराङ्गन्यासः गां हृदयाय नमः ।
गीं शिरसे स्वाहा ।
गूं शिखायै वषट् ।
गैं कवचाय हुं ।
गौं नेत्रत्रयाय वौषट् ।
गः अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्विमोकः ॥
पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।
मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥
अग्न्यर्कशशिनो भाभिः तिरस्कुर्वन् दशायुधः ।
सर्वविघ्नहरो देवः तं ध्यायामि दिवानिशम् ॥
लं पृथिव्यात्मने महागणपतये गन्धं समर्पयामि ।
हं आकाशात्मने महागणपतये पुष्पाणि समर्पयामि ।
यं वाय्वात्मने महागणपतये धूपमाघ्रापयामि ।
रं अग्न्यात्मने महागणपतये दीपं दर्शयामि ।
वं अमृतात्मने महागणपतये अमृतोपहारं निवेदयामि ।
गुह्यातिगुह्यगोप्ता त्वं गृहाणात्मकृतं जपम् ।
सिद्धिर्भवतु देवेश त्यत्प्रसादान्मयि स्थिरा ॥)
इति वैनायकं नाम्नां सहस्रमिदमीरितम् ॥ १७२॥
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ।
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ॥ १७३॥
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ।
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता ॥ १७४॥
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ।
जगत्संयमनं विश्वसंवादो वादपाटवम् ॥ १७५॥
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ।
औन्नत्यं च कुलं शीलं प्रतापो वीर्यमार्यता ॥ १७६॥
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वातिशायिता ।
धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत् ॥ १७७॥
वश्यं चतुर्विधं नृणां जपादस्य प्रजायते ।
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ॥ १७८॥
जप्यते यस्य वश्यार्थं स दासस्तस्य जायते ।
धर्मार्थकाममोक्षाणामनायासेन साधनम् ॥ १७९॥
शाकिनीडाकिनीरक्षोयक्षोरगभयापहम् ।
साम्राज्यसुखदं चैब समस्तरिपुमर्दनम् ॥ १८०॥
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ।
दुःस्वप्रणाशनं क्रुद्धस्वामिचित्तप्रसादनम् ॥ १८९॥
षट्कर्माष्टमहासिद्धित्रिकालज्ञानसाधनम् ।
परकृत्याप्रशमनं परचक्रविमर्दनम् ॥ १८२॥
सङ्ग्रामरङ्गे सर्वेषामिदमेकं जयावहम् ।
सर्ववन्ध्यात्वदोषघ्नं गर्भरक्षैककारणम् ॥ १८३॥
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ।
देशे तत्र न दुर्भिक्षभीतयो दुरितानि च ॥ १८४॥
न तत्गृहं जहाति श्रीर्यत्रायं पठ्यते स्तवः ।
क्षयकुष्ठप्रमेहार्शोभगन्दरविषूचिकाः ॥ १८५॥
गुल्मं प्लीहानमश्मानं अतिसारं महोदरम् ।
कासं श्वासमुदावर्तं शूलशोफादिसम्भवम् ॥ १८६॥
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ।
वातपित्तकफद्वन्द्व त्रिदोषजनितज्वरम् ॥ १८७॥
आगन्तुं विषमं शीतमुष्णं चैकाहिकादिकम् ।
इत्याद्युक्तमनुक्तं वा रोगं दोषादिसम्भवम् ॥ १८८॥
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ।
सकृत्पाठेन संसिद्धः स्त्रीशूद्रपतितैरपि ॥ १८९॥
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ।
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ॥ १९०॥
इच्छितान्सकलान् भोगानुपभुज्येह पार्थिवान् ।
मनोरथफलैर्दिव्यैर्व्यामयानैर्मनोरमैः ॥ १९१॥
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ।
कामरूपः कामगतिः कामतो विचरन्निह ॥ १९२॥
भुक्त्वा यथेप्सितान् भोगानभीष्टान् सह बन्धुभिः ।
गणेशानुचारो भूत्वा महागणपतेः प्रियः ॥ १९३॥
नन्दीश्वरादिसानन्दी नन्दितः सकलैर्गणैः ।
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ॥ १९४॥
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ।
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ॥ १९५॥
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ।
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थितः ॥ १९६॥
निरन्तरोदितानन्दे परमानन्दसंविदि ।
विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते ॥ १९७॥
लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः ।
यो नामभिर्हुनेदेतैरर्चयेत्पूजयेन्नरः ॥ १९८॥
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ।
मन्त्राः सिद्ध्यन्ति सर्वेऽपि सुलभास्तस्य सिद्धयः ॥ १९९॥
मूलमन्त्रादपि स्तोत्रमिदं प्रियतरं मम ।
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ॥ २००॥
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ।
अष्टद्रव्यैर्विशेषेण जुहुयाद्भक्तिसंयुतः ॥ २०१॥
तस्येप्सितानि सर्वाणि सिद्ध्यन्त्यत्र न संशयः ।
इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम् ॥ २०२॥
व्याकृतं चर्चितं ध्यातं विमृष्टमभिनन्दितम् ।
इहामुत्र च सर्वेषां विश्वैश्वर्यप्रदायकम् ॥ २०३॥
स्वच्छन्दचारिणाप्येष येनायं धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरध्युष्टकोटिभिः ॥ २०४॥
पुस्तके लिखितं यत्र गृहे स्तोत्रं पूपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ २०५॥
दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशैषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यत्गणेशसहस्रनाम्रां स्मरणेन सद्यः ॥ २०६॥
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
सस्यादैश्वर्यधुर्यः प्रभवति च सतां कीर्तिमुच्चैस्तनोति
प्रत्यूहं हन्ति विश्वं बशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ २०७॥
अकिञ्चनोऽपि मत्प्राप्तिचिन्तको नियताशनः ।
जपेत्तु चतुरो मासान् गणेशार्चनतत्परः ॥ २०८॥
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महती लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ २०९॥
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तदानाः
कीर्तिर्नित्यवदाता भणितिरभिनवा कान्तिरव्याधिभव्या ।
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं
नित्यं यः स्तोत्रमेतत्पठति गणपतेस्तस्य हस्ते समस्तम् ॥ २१०॥
लघुसहस्रनामस्तोत्रम् ।
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ॥ २११॥
अमोघसिद्धिरमि(मृ)तो मन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः शिवः ॥ २१२॥
काश्यपो नन्दनो वाचासिद्धो दुण्डिविनायकः ।
मौदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ २१३॥
यः स्तौति मद्गतमना मदाराधनतत्परः ।
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥ २१४॥
नमो नमः सुरवरपूजिताङ्घ्रये
नमो नमो निरुपमङ्गलात्मने ।
नमो नमो विपुलपदैकसिद्धये
नमो नमः करिकलभाननाय ते ॥ २१५॥
अस्य स्तोत्रस्य जप ऐहिककामस्यामुष्मिककामस्य निष्कामस्य चेति त्रिविधः । तत्र प्रथममाह आयुरित्यादिभिः । प्रज्ञा ग्राहिणी बुद्धिः, मेधा धारणावती बुद्धिः, क्षमा परापकारप्रतीकारक्रियाभावः क्षान्तिः परकृतापकारप्रयुक्त क्रोधस्याप्यभावः, ज्ञानं मोक्षजनकचरमवृत्तिः, विज्ञानं शास्त्रशिल्पविषयकं शास्त्रं १७२-१७६॥ दग्धस्य रोगाग्निप्लुष्टस्य बीजस्य रेतसः प्ररोहणं प्रजोत्पादनसामर्थ्यप्रदम् ॥ षट्कर्माणि-मोहनमाकर्षणं स्तम्भनं विद्वेषणमुच्चाटनं मारणं चेति भेदात् । शान्तिवश्ययोस्तन्त्रेषु षट्कर्ममध्ये परिगणनेऽपि प्रकृते तयोः पार्थक्येन निर्देशान्मोहनाकर्षणे मेलिते । परकृत्या शत्रुभिः स्वमारणोद्देशेन निर्मिता राक्षसी ॥ १७७ -१८२॥ नन्दीश्वरादिसानन्दी नन्दिकेश्वरादिसमानानन्दशाली, शिवाभ्यां गौरीहराभ्यां पुत्रनिर्विशेषं पुत्रतुल्यं यथा तथा ॥ शिवभक्तः ईश्वरभक्तः । जीव शिवश्चेति चिद्विभागान्तर्गतोऽत्र शिवो विवक्षितः, न तु कैलासवासित्वादि- गुणविशेषविशिष्टो गाणपत इति यावत् जातिस्मरः पूर्वजन्मस्मरणवान् ॥ १८३-१९४॥ लीनः जीवोपाधिलयात् । नभस्ये भाद्रपदे, नामभिः पूजायां चतुर्थीनमोन्तैः तर्पणे द्वितीया, तर्पयाम्यन्तैः होमे चतुर्थीस्वाहान्तैरित्यर्थः । प्रजप्तं उपांशुच्चरितं पठितं उचैर्व्यक्तमुच्चरितम्, व्याकृतं व्याख्यातं, चर्चितं ऊहापोहविषयीकृतं, ध्यातं मनसा विचारितं, विमृष्टं शोधितं, लेखकदोषनिरासेनेति यावत् अभिनन्दितमनुमतम् । शिवोद्भूतैः शिवेन शिवया च जनितैः अध्यष्टकोटिभिः प्रत्येकं सार्धकोटित्रयसङ्ख्याकैः । आर्तेभ्यो दानं यासां ता आर्तदानाः, नित्यावदाताः चिरस्थायित्वे सति शुद्धा अभिनवाः परैरकल्पिताः । एतेष्वष्टादशनामानि पूर्वं व्याख्यातान्येव; तत्र गणपतिरिति गणेश्वर गणाधिपादिनामसमानार्थकं, अमित इत्यत्रामृत इति वा पाठः, उभयथापि व्याख्यातमेव ॥ १९५-२११॥ सुमङ्गलसुमङ्गल इति नाम्ना सुमङ्गलनाम चरितार्थम्, वरप्रद इत्यनेन बरदनाम, चिन्तामणिः शिवो बीजमिति नामत्रयं त्विहापूर्वं तत्र क्षेत्रविशेषाधिष्ठातृगणपतेश्चिन्तामणिरिति संज्ञा चिन्तितार्थप्रदत्वात्स्वर्गस्थचिन्तामणिवत्, तद्दैवत्यमन्त्रविशेषस्याप्येषा संज्ञा तद्रूपत्वाद्देवोऽपि चिन्तामणिः । शिवस्य तु वश कान्तौ शिवः स्मृत्या इति जगदुत्पादनेच्छाशक्तिमत्त्वादयो बहवोऽर्थाः । बीजं-सर्वजगत्कारणं, काश्यपः कश्यपपुत्रः इयं च कथा गणेशपुराणे उत्तरखण्डे प्रसिद्धा, धरणीधर आशापूरक इत्यादिनाममूलभूताः कथा अपि तत्रैवानुसन्धेयाः, ग्रन्थान्ते मङ्गलमाचरति नमो नम इति । विपुलपदं परं धाम तस्य मुख्या सिद्धिर्यस्मात्सः, (२१२-२१५)
इति श्रीगणेशोपपुराणे उपासनाखण्डे महागणपति प्रोक्तं
सहस्रनामस्तोत्रं नाम षट्चत्वारिंशोऽध्यायः ।
इति श्रीमहागणपतिसहस्रनामस्तोत्रं सभाष्यं सम्पूर्णम् ।
॥ श्रीगणेशार्पणमस्तु ॥
॥ श्रीरस्तु ॥
Proofread by Narendran Madathil