मयूरेश्वरपूजा
मयूरेश्वरपुरे चतुर्षु द्वारेषु अधिष्ठितानां देवतानां पूजनपुरस्सरं
मयूरेश्वरपूजा भाद्रपदशुक्लप्रतिपदमारभ्य चतुर्थीपर्यन्तं
आचर्यते । दाक्षिणात्यैरपि गाणपतैः कैश्चित् अयं पूजाक्रमोऽनुष्ठीयते ।
(द्वाराध्यक्षविषये मुद्गलपुराणे । माञ्जारी प्राच्यां, (आत्मनो जारभावं
तु दर्शयन्ती निरन्तरम् । मोहयित्वा क्रीडति तेन स्वयं शक्तिरुत्तमा । माञ्जारी
सा समाख्याता मां प्रति जारदर्शिनी । गणपः क्रीडति द्वन्द्वविहारस्थः
तयासह ।)विरजा दक्षिणस्याम् । आश्रया प्रतीच्याम् । चतुर्थिका उत्तरस्यामिति
विशेषः । भगवतो दिव्यं भुवनं स्वानन्दभुवनमिति, भूमौ तदेव मयूरेश्वरमिति
(मोरेगांव)इति महाराष्ट्रेषु प्रसिद्धम् । माञ्जारीं मार्जारीं वदन्ति केचित् ।
अत्रतु माञ्जारी (मार्जारी)प्राच्यां, आश्रया दक्षिणस्यां, भोगदा प्रतीच्यां,
कामदा उत्तरस्यामिति पूजाक्रमो दृश्यते सम्प्रदायगतः ।
पूजाक्रमः-
गुरुवन्दनम् । गणपति वन्दनम् । सङ्कल्पः -
ममोपात्तसमस्तदुरितक्षयद्वारा परमेश्वरप्रीत्यर्थं
श्रीमयूरेश्वरानुग्रहसिद्ध्यर्थम् । एकभक्तव्रतग्रहणपूर्वकं
भाद्रपदशुक्लप्रतिपदमारभ्य चतुर्थीपर्यन्तं चतुर्दिन
साध्यां मयूरेश्वरपुर चतुर्द्वाराधिष्ठित देवतापूजा पूर्विकां
मयूरेश्वरपूजां करिष्ये ।
(अप उपस्पृश्य । हरिद्राबिम्बे विघ्नेश्वरपूजा । ग्रहप्रीतिः प्रथमदिने)अस्यां
प्रतिपदि मयूरेश्वरपुरपूर्वद्वाराध्यक्षायाः माञ्जारीदेव्याः पूजां करिष्ये
(कलशपूजा)
प्रथमायां पूर्वद्वाराध्यक्षपूजा
प्राग्द्वाराधिष्ठितां देवीं भक्तपापविमार्जिकाम् ।
माञ्जारीं कलयाम्यत्र व्रतस्य परिपूर्तये ॥
पूर्वद्वाराध्यक्षां माञ्जारीं (मार्जारीं)ध्यायामि ।
आवाहयामि माञ्जारीं मयूरेशाज्ञया स्थिताम् ।
मयूरेशार्चनार्थाय अनुज्ञां कुरु मे शिवे ॥ आवाहयामि ।
मयूरेशपुरः पूर्वद्वारे रत्नविनिर्मितम् ।
सिंहासनमिदं कॢप्तं आतिष्ठार्चां गृहाण मे ॥ आसनम् ।
पाद्यं गङ्गापयः कॢप्तं यवदूर्वाभिरन्वितम् ।
ददामि सुभगे देवि पङ्कक्षालनमस्तु मे । पाद्यम् ।
अर्घ्यं माञ्जारिके देवि गन्धपुष्पादिमिश्रितम् ।
हस्ते गृहीत्वा मत्पापं सम्प्रमार्ज्य कृपां कुरु ॥ अर्घ्यम् ।
सुगन्धवासितं तोयं मधुपर्कपुरस्तनम् ।
ददाम्याचमनं तुभ्यं कुरु माञ्जारि शोभनम् ॥ आचमनम् ।
मधुपर्कं मयानीतं दधिमध्वाज्यसंयुतम् ।
माञ्जारिके प्रतीच्छ त्वं मम पापापनुत्तये ॥ मधुपर्कः ।
मधुक्षीरसिताद्राक्षासर्पिर्भिः संस्कृतं नवम् ।
पञ्चामृतमिदं देवि स्नानाय प्रतिगृह्यताम् ॥ पञ्चामृतस्नानम् ।
कृष्णानदी समानीतं गन्धतैलादिपूर्वकम् ।
जलं स्नानाय सङ्कॢप्तं स्नाहि माञ्जारिके सुखम् ॥ स्नानं, आचमनम् ।
शुक्लाम्बरयुगं सूक्ष्मं कार्पासपरिनिर्मितम् ।
परिवीय्य मयूरेशपदभक्तं विधेहि माम् ॥ वस्त्रम् ।
कटकाङ्गदकेयूरहारकङ्कणनूपुरैः ।
अलङ्कुरुष्व माञ्जारि मम सङ्कल्पभूषणैः ॥ आभरणानि ।
गन्धं ददामि सुरभिं श्रीखण्डागरुमिश्रितम् ।
विलेपनाय ते देवि गृह्यतां सुरपूजिते ॥ गन्धम् ।
जलस्थलरुहैः पुष्पैः मालां देवविनिर्मिताम् ।
प्रतिगृह्याशु माञ्जारि तुष्टा देवं प्रदर्शय ॥ मालिकाम् ।
जातीचम्पकपुन्नागकनकाह्वय कैतकैः ।
मल्लिकामालती पुष्पैः पूजयामि सुरेश्वरि ॥ पुष्पाणि ॥
अङ्गपूजा -(ॐ ------ नमः ---------- पूजयामि)
माञ्जार्यै -पादौ । गूढगुल्फायै -गुल्फौ । दीर्घजङ्घायै -जङ्घे ।
मुकुटजानुकायै -जानुनी । रम्भोरवे -ऊरू । शुभकट्यै -कटिम् ।
गम्भीरनाभये -नाभिम् । कृशोदरायै -उदरम् । पृथुवक्षसे -वक्षः ।
उन्नतकुचायै -कुचौ । वेत्रहस्तायै -हस्तौ । कम्बुकण्ठ्यै -कण्ठम् ।
शुचिस्मितायै -वक्त्रम् । दीर्घनासायै -नासिकाम् । विशालनेत्रायै -नेत्रे ।
श्रीकर्णायै -कर्णौ । तिलकभूषायै -ललाटम् । द्वारेश्यै -शिरः ।
माञ्जार्यै -सर्वाण्यङ्गानि ।
धूपं गृहाण हेरम्बपुरप्राग्द्वारदेवते ।
गुग्गुल्वगरु सम्मिश्रं ददाम्युत्तममादरात् ॥ धूपम् ।
दीपं ददामि ते दिव्यं वर्तित्रयसुयोजितम् ।
मङ्गलार्थाय सुज्योतिः गृह्यतां देवदूतिके ॥ दीपम् ।
पायसापूपकृसरचित्रान्नैः फलमिश्रितैः ।
नैवेद्यं प्रदास्यामि परितृप्ता भवेश्वरि ॥ नैवेद्यम् ।
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् । ताम्बूलम् ।
नीराजनं प्रदास्यामि पञ्चभिर्धृतवर्तिभिः ।
सर्वमङ्गललाभायाप्यपराधक्षमाय च ॥ नीराजनम् ।
प्रदक्षिणनमस्कारान् ।
माञ्जारी त्वदनुज्ञया मम मयूरेशस्य सन्दर्शनं
तत्पादाम्बुरुहार्चनं भगवतः कारुण्यदृष्टिर्मयि ।
भूयात्प्रोष्ठपदस्य पूर्वदिनतः तत्राचतुर्थीदिनं
पूजार्थं मम योग्यतास्स्त्विति परं याचेऽद्य पूर्वाधिपे । (प्रार्थना ।)
अनया पूजया मयूरेशपुरपूर्वद्वाराध्यक्षा माञ्जारीदेवता प्रीयताम् ।
पूर्वद्वारे रमारमेशपूजा ।
सङ्कल्पः -
परमेश्वर प्रीत्यर्थं मयूरेशपुर पूर्वाङ्गदेवतयोः रमारमेशयोः पूजां करिष्ये ।
(कलश-शङ्खपूजे ।)
रमारमेशौ कलये प्राग्द्वाराङ्गतया स्थितौ ।
आद्ये दिने मयूरेशपूजाङ्गत्वेन सत्कृतौ ॥
रमारमेशौ ध्यायामि ।
आवाहयामि लक्ष्मीशौ सर्वसम्पत्प्रदौ नृणाम् ।
मयूरेशाज्ञया पूर्वद्वारदेशमुपाश्रितौ ॥ आवाहयामि ।
रत्नसिंहासनं देवौ उपवेशाय कल्पितौ ।
आस्तं मदीयपूजार्थं कुरुतं च कृपां मयि ॥ आसनम् ।
पाद्यमाद्यन्तरहितौ गृह्णीतं साक्षतं शुभम् ।
पादप्रक्षालनार्थाय द्विषन्नाशनं अस्तु मे ॥ पाद्यम् ॥
गन्धपुष्पकुशैर्मिश्रं गाङ्गतोयमिदं शुभम् ।
अच्छिद्रा सन्ततिर्मे स्यात् गृह्णीतं हस्तपङ्कजे ॥ अर्घ्यम् ।
आचम्येतां जगद्वन्द्यौ शुद्धतोयेन कल्पितम् ।
ददाम्याचमनार्थाय मधुपर्काङ्गमुत्तमम् ॥ आचमनम् ।
दधिमध्वाज्यसंयुक्तं मधुपर्कं मया हृतम् ।
लक्ष्मीनारायणावद्य गृह्णीतं परया मुदा । मधुपर्कः ।
क्षीराज्यमधु मृद्वीकाशर्कराफलकल्पितम् ।
पञ्चामृतस्त्नानमिदं कुरुतं प्रीतिपूर्वकम् । पञ्चामृतस्नानम् ।
गङ्गादिसरिदानीतैः तोयैर्गन्धादिवासितैः ।
अभिषेकं करोमीशौ पापाद्वारयतं च माम् ॥ स्नानं, आचमनम् ।
रमारमेश्वरौ देवौ पीताम्बरयुगं तथा ।
कञ्चुकं चोत्तरीयं च परिधत्तं महार्घवत् ॥ वस्त्रम् ।
उपवीतानि कार्पासनिर्मितानीह भक्तितः ।
मयानीतानि गृह्णीतं मम पापनिवृत्तये ॥ उपवीतम् ।
हारकङ्कणकेयूरनूपुरैः कुण्डलैस्तथा ।
ताटङ्कनासाभरणैः भूषयामि सुरेश्वरौ । आभरणानि ।
चन्दनागरुकर्पूररोचना मृगनाभिजम् ।
गन्धं गृह्णीतमाध्यौ वां मत्पङ्कस्य विशुद्धये ॥ गन्धम् ।
मल्लिकामालतीजातीनागकेसरचम्पकैः ।
भक्त्या समर्पितां मालां प्रतिमुञ्चतमादरात् ॥ पुष्पाणि ।
अङ्गपूजा -ॐ ------ नमः ----------- पूजयामि ।
रमारमेश्वराभ्यां -पादान् । सिन्धुजातत्पतिभ्यां -गुल्फान् । श्रीविष्णुभ्यां - जङ्घाः ।
लक्ष्मीनारायणाभ्यां -जानूनि । इन्दिरातत्पतिभ्यां -ऊरून् ।
मातापितृभ्यां -गुह्ये । सुकटिभ्यां -कटी । श्री दामोदराभ्यां -उदरे ।
श्री श्रीनिवासाभ्यां -वक्षसी । कम्बुकण्ठाभ्यां -कण्ठौ । कोमलदीर्घबाहुभ्यां -बाहून् ।
सौम्यमुखाभ्यां -मुखे। । शुभनासाभ्यां नासे । दिक्शोत्राभ्यां -श्रोत्राणि ।
कर्णान्तनेत्राभ्यां -नेत्राणि । तिलकशोभिताभ्यां -फाले । कमलातत्पतिभ्यां -शिरसी ।
रमारमेशाभ्यां -सर्वाण्यङ्गानि पूजयामि ।
दशाङ्गं गुग्गुलुं धूपं सुगन्धञ्च मनोहरम् ।
आघ्रेयं सर्वभूतानां गृह्णीतं अब्धिवासिनौ ॥ धूपम् ।
त्रिवर्ति घृतसंयुक्तं वह्निना योजितं मया ।
गृह्णीतं मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥ दीपम् ।
अन्नं चतुर्विधोपेतं नानाव्यञ्जनसंयुतम् ।
भक्ष्यैः फलैश्च विविधैः गृह्णीतं श्रीरमेश्वरौ ॥
नैवेद्यं, आचमनं, ताम्बूलम् ।
नीराजनं सुमाङ्गल्यं कर्पूरेण प्रकल्पितम् ।
भक्त्या प्रदर्शितं नित्यौ भवतं मङ्गलप्रदौ ।
नीराजनं -प्रदक्षिणनमस्कारान् ।
रमारमेशौ जगतामधीशौ प्राच्यां मयूरेशपुरस्य विष्ठितौ ।
तदाज्ञया भक्तजनानुकम्पिनौ देवार्चने धत्तमनुग्रहाज्ञाम् । (प्रार्थना)
अनया पूजया रमारमेशौ प्रीयेताम् ।
(ततः गुणेशाख्यमयूरेश्वरपूजां विदध्यात् । उपोष्य रात्रौ कथाश्रवण
नामसङ्कीर्तन नृत्तगीतादिभिः जागरणां कृत्वा द्वितीयायां तिथौ प्रातः स्नात्वा
कृतनित्यक्रियः, दक्षिणद्वारपूजां कुर्यात् । आश्रया नाम द्वाराध्यक्षा ।
उमामहेश्वरौ अङ्गदेवते ।)
द्वितीयायां दक्षिणद्वाराध्यक्षपूजा ।
सङ्कल्पः -परमेश्वरप्रीत्यर्थं मयूरेश्वरपुरदक्षिणद्वाराध्यक्षदेवतायाः
आश्रयायाः पूजां करिष्ये ।
कलशपूजा ।
आश्रयां भावये देवीं मयूरेश्वरकिङ्करीम् ।
दक्षिणाद्वारसंस्थानां देवभक्तिप्रदां शिवाम् ॥ ध्यायामि ।
आवाहयामि देवि त्वां अभीष्टवरदायिनीम् ।
मयूरेशार्चने मेऽस्तु योग्यता घृणया तव । आवाहयामि ।
आसनं कल्पितं रम्यं स्वर्णरत्नविनिर्मितम् ।
प्रीत्या गृहाण वरदे मत्पापशमनं कुरु ॥ आसनम् ।
कुशाक्षतादिसम्मिश्रं दिव्यतोयमिदं शुभम् ।
पादावनेजनार्थाय दत्तं देवि गृहाण भोः । पाद्यम् ।
अर्घ्यमष्टाङ्गसंयुक्तं हेमपात्रस्थमादरात् ।
गृहीत्वाऽभ्युक्ष्य मां पापाद् विशुद्धं कुरु सर्वदा ॥ अर्घ्यम् ।
आचम्यतां लोकवन्द्ये सर्वाधारस्वरूपिणि ।
शुद्धतोयमिदं कॢप्तं गृहीत्वा परया मुदा ॥ आचमनम् ।
मधुपर्कं मया दत्तं दधिमध्वाज्यमिश्रितम् ।
गृहाण सर्ववरदे कीर्तिं देहि परां मयि ॥ मधुपर्कः ।
रम्भाफलसिताक्षौद्रघृतक्षीर विमिश्रितम् ।
स्नानं पञ्चामृतेनाद्य कुरुष्वाश्रय देवते ॥ पञ्चामृतस्नानम् ।
गोदावर्याः समानीतं शुद्धतोयमिदं शुभम् ।
स्नानं कुर्वाश्रये देवि मम पापं व्यपोहय । स्नानं आचमनम् ।
दुकूलयुगलं देवि देहालङ्करणाय ते ।
ददामि प्रतिगृह्णीष्व शुभं कुरु सदा मम ॥ वस्त्रम् ।
हारकङ्कणकेयूरनपुरादि प्रकल्पितम् ।
ददाम्याभरणं तुभ्यं स्वीकुरुष्व दयानिधे ॥ आभरणम् ।
चन्दनागरुकर्पूरकुङ्कुमादिविमिश्रितम् ।
विलेपनमिदं रम्यं स्वीकुरुष्व दयानिधे ॥ गन्धम् ।
अक्षतान् धवलान् देवि शालिजानक्षतान् शुभान् ।
गन्धोपरि ददाम्यद्य अक्षतं कुरु मां सदा ॥ अक्षतान् ।
पुष्पाणि च सुगन्धीनि मालतीमल्लिकानि च ।
मालिकानां विशिष्टानि गृहाणाश्रयदेवते ॥ पुष्पाणि ।
अङ्गपूजा -ॐ । --------- नमः ॥ ------- पूजयामि ।
आश्रयायै -पादौ । सर्वाधारायै -गुल्फौ । भक्ताश्रयायै -जङ्घे ।
सुखाश्रयायै -जानुनी । दक्षद्वाराश्रयायै -ऊरू ।
आज्ञाश्रयायै -गुह्यम् । रूपाश्रयायै -कटिम् । नामाश्रयायै -नाभिम् ।
भूताश्रयायै -उदरम् । रत्नाश्रयायै -उरः । गीताश्रयायै -कण्ठम् ।
धनाश्रयायै -हस्तौ । पद्माश्रयायै -मुखम् । विद्याश्रयायै -जिह्वाम् ।
प्राणाश्रयायै -नासिकाम् । शब्दाश्रयायै -श्रोत्रे । वह्न्याश्रयायै -नेत्रे ।
प्रज्ञाश्रयायै-फालं। । योगाश्रयायै -शिरः । सर्वाश्रयायै -सर्वाण्यङ्गानि ।
वनस्पतिरसामिश्र दशाङ्गपरिवर्धितम् ।
दिव्यं धूपं ददाम्यद्य गृह्यतां आश्रयाभिधे ॥ धूपम् ।
साज्यं ज्वालासमायुक्तं वर्तित्रयसमन्वितम् ।
दीपं गृहाण देवेशि दक्षद्वाराधिदेवते ॥ दीपम् ।
नैवेद्यं पायसापूपभक्ष्यलेह्यादिकल्पितम् ।
मृद्वीकादिफलैर्युक्तं सुस्वादु प्रतिगृह्यताम् ॥ नैवेद्यं ताम्बूलम् ।
नीराजनं सुमाङ्गल्यं कर्पूरपरिकल्पितम् ।
गृह्यतां सुभगे रम्ये ममागः क्षम्यतां शिवे । नीराजनं - प्रदक्षिणनमस्कारान् ।
सर्वाश्रये देवि निराश्रयं मां मयूरनाथस्य पदाब्जसंश्रयम् ।
विधेहि तस्यार्चनबद्धचित्तं इन्द्रादिदेवैरपि संस्तुतस्य ॥
उमामहेश्वर पूजा
सङ्कल्पः -मयूरेश्वर दक्षिणाङ्गदेवताभूतोमामहेश्वरपूजां करिष्ये ।
उमामहेश्वरौ ध्याये निर्मलस्फटिकाकृती ।
मयूरेश्वर दक्षाङ्गनायकौ वृषभध्वजौ ॥ ध्यायामि ।
सर्वानन्दमयौ पूर्णौ सर्वविद्येश्वरौ शिवौ ।
आवाहयामि दक्षाङ्गसंस्थितौ सर्वसिद्धिदौ । आवाहयामि ।
आसनं रत्नखचितं रम्यं सिंहावृतं शुभम् ।
पूजार्थं वां प्रयच्छामि सुखेनास्तं चिरन्तनौ ॥ आसनम् ।
पाद्यमाद्यन्तशून्याभ्यां शिवाभ्यां सरिदाहृतम् ।
हिरण्यकलशस्थं तद्गृह्णीतं मम दैवते ॥ पाद्यम् ।
अर्घ्यमष्टाङ्गसंयुक्तं गन्धपुष्पादिमिश्रितम् ।
मत्पापपरिहारार्थं गृह्णीतं परमेश्वरौ ॥ अर्घ्यम् ।
आचम्येतां जगद्वन्द्यौ एलागन्धादिवासितम् ।
परभक्त्या समानीतं सलिलं वरदम्पती ॥ आचमनीयम् ॥
दधिमध्वाज्यसंयुक्तं कांस्यपात्रे प्रतिष्ठितम् ।
मधुपर्कमिदं पूज्यौ गृह्णीतं कृपया मयि ॥ मधुपर्कः ॥
रम्भाज्य शर्कराद्राक्षाफलैः पञ्चामृतं शुभम् ।
स्नानार्थं वां प्रयच्छामि कुरुतं प्रीतिपूर्वकम् ॥ पञ्चामृतस्नानम् ॥
मन्दाकिन्याः समानीतं सुगन्धिजलमुत्तमम् ।
ज्ञानसंशुद्धदेहौ वां स्नातं मम विशुद्धये ॥ स्नानं आचमनम् ॥
अग्निशौचानि वासांसि देहालङ्करणाय तु ।
ददामि परिधत्तं वां मल्लज्जारक्षणाय वै ॥ वस्त्रम् ॥
उपवीतमिदं शुद्धं हेमसूत्रविनिर्मितम् ।
देवौ धारयतं नित्यं मम पापविशुद्धये ॥ उपवीतम् ॥
हारनूपुरकेयूरताटङ्कवलयोर्मिभिः ।
अलङ्कुरुतमाद्यौ वां हेमाकार वपुर्धरौ । आभरणानि ॥
मृगनाभ्यादिसंघृष्टं रक्तचन्दनमुत्तमम् ।
विलिम्पतं सुरश्रेष्ठौ पङ्कं मा लिम्पतं मयि ॥ गन्धान् ॥
बिल्वैर्मन्दारकुसुमैः मल्लिकाचन्दनादिभिः ।
भक्त्या सङ्ग्रथितां मालां प्रतिमुञ्चतमादरात् ॥ पुष्पाणि ॥
अङ्ग पूजा -ॐ......। नमः ......... पूजयामि ।
पद्मपादाभ्यां -पादान् । गूढगुल्फाभ्यां -गुल्फान् । वृत्तजङ्घाभ्यां -जङ्घाः ।
सुजानुभ्यां -जानूनि । रम्भोरुभ्यां -ऊरून् । जगज्जनकाभ्यां -गुह्यैः ।
आवर्तनाभिभ्यां -नाभी । मुक्तादिशोभिभ्यां -वक्षसी। । जगज्जीवनाभ्यां -कुचान् ।
कम्बुकण्ठाभ्यां -कण्ठौ । मृदुहस्ताभ्यां -हस्तान् । सौम्यवदनाभ्यां -मुखे ।
सुनासाभ्यां -नासे । मृगाक्षिभ्यां -अक्षीणि । दिक्श्रोत्राभ्यां -श्रोत्राणि ।
विरूपाक्षाभ्यां -फाले । दिव्यमूर्धभ्यां -शिरसी ।
सर्वेश्वराभ्यां -सर्वाण्यङ्गानि ॥
वनस्पतिरसोद्भूतं गुल्गुल्वगरुमिश्रितैः ।
दशाङ्गैर्धूपमेतत्तु गृहीतमपराजितौ ॥ धूपम् ॥
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया ।
गृह्णीतं आनन्दमयदीपं लोकप्रकाशकम् ॥ दीपम् ॥
चित्रान्नैःर्लड्डुकापूपैः वटकैर्घृतपायसैः ।
निवेदयामि वां देवौ भुञ्जतं परमादरात् ॥ नैवेद्यं ताम्बूलम् ॥
नीराजनं नीरजाक्षौ ज्वलितैर्लक्षवर्तिभिः ।
प्रददामि परेशानौ क्षमेथां मम मन्तुकान् ॥ नीराजनं प्रदक्षिणनमस्कारान् ।
मयूरेश्वराज्ञाविधाने सुदक्षौ भवानीशिवौ दक्षिणद्वारसंस्थौ ।
गुणेशार्चनायामनुज्ञां विधत्तं सदानन्दरूपे मनो मेऽस्तु नित्यम् ॥ (प्रार्थना)
अनया पूजया उमामहेश्वरौ प्रीयेताम् ।
इति समाप्य मयूरेश्वरं अभ्यर्च्य उपवसेत् । रात्रौ जागरणादिः । तृतीयायां
प्रातः स्नात्वा पश्चिमद्वाराध्यक्षदेवतां भोगदां रतिकन्दर्पौ च पूजयेत् ॥
तृतीयायां द्वाराध्यक्षपूजा
सङ्कल्पः । तृतीयायां पश्चिमद्वाराध्यक्षदेवतापूजां करिष्ये ।
कलशपूजा ।
भोगदां चिन्तयामीह सर्वाभरणभूषिताम् ।
मयूरेशाज्ञया प्रत्यग्द्वारनिष्ठां परावराम् ॥ भोगदां ध्यायामि ॥
आवाहयामि देवि त्वां अभीष्टार्थविधायिनीम् ।
परया कृपया मत्तः पूजां स्वीकुरु भोगदे ॥ आवाहयामि ॥
रत्नसिंहासनं देवि मनसा चारु कल्पितम् ।
अत्रासीना मदीयार्चां गृहाणाद्य शुचिस्मिते । आसनम् ॥
उत्तमं पाद्यमानीतं सर्वभोगप्रदायिनि ।
गङ्गादिभ्यः शुचि जलं गृहाण भुवनाधिपे ॥ पाद्यम् ॥
अर्घ्यं गन्धाक्षतसुमैः शुद्धं यच्छामि सादरम् ।
अनर्घभोगदात्री त्वं गृहाण वरदायिनि ॥ अर्घ्यम् ॥
उशीरादिसुगन्धाढ्यं गाङ्गतोयमनुत्तमम् ।
कुरुष्वाचमनं भद्रे सर्वभोगान्प्रयच्छ मे ॥ आचमनम् ॥
मधुपर्कमिदं देवि दधिमध्वाज्यमिश्रितम् ।
मत्पापशमनार्थाय ददाम्याशु गृहाण भो ॥ मधुपर्कः ॥
स्नानं पञ्चामृतं देवि क्षीराज्यमधुशर्करैः ।
दत्तं ते प्रतिगृह्णीष्व पावितं कुरु मां सदा । पञ्चामृतस्नानम् ॥
शुद्धतोयमिदं देवि सुगन्धोशीरवासितम् ।
स्नाहि गङ्गातुङ्गभद्रासरिद्भ्यः सम्यगाहृतम् ॥ स्नानं आचमनम् ॥
दुकूलद्वयमेतत्त्वं वसान परि भोगदे ।
मनः सङ्कल्पितान् भोगान् प्रयच्छ समलङ्कृता । वस्त्रम् ॥
मुक्तामण्यञ्चितं चारु हारं वलयमङ्गदम् ।
सौवर्णरत्नखचितं ददामि प्रतिगृह्यताम् ॥ आभरणानि ॥
गन्धं गृहाण सुरभिं घनमुस्तादिमर्दितम् ।
विलिम्पानेन सर्वाङ्गं मम पङ्कं व्यपोहय ॥ गन्धम् ॥
शोभनग्रथितां मालां कुन्दमन्दारकादिभिः ।
कन्धरे प्रतिमुच्याशु मद्भक्तिं प्रकटी कुरु ॥ पुष्पाणि ॥
अङ्ग पूजा -ॐ ......। -नमः ......... पूजयामि ।
भोगदायै -पादौ । धनदायै -गुल्फौ । यशोदायै -जङ्घे । शुभदायै जानुनी ।
बलदायै -ऊरू । पुत्रदायै -गुह्यम् । अन्नदायै -जठरम् । भाग्यदायै -उरः ।
स्वरदायै -कण्ठम् । ज्ञानदायै -मुखम् । रूपदायै -चक्षुः ।
प्राणदायै -नासिके । कीर्तिदायै -श्रोत्रे । शर्मदायै -शिरः ।
भक्तिदायै -सर्वाण्यङ्गानि ।
दशाङ्गधूपितं धूपं मृगशाबाक्षि गृह्यताम् ।
आघ्रेयः सर्वदेवानां जिघ्र सर्वाङ्गशोभने ॥ धूपम् ॥
दीपं वर्तित्रयोपेतं ज्वलितं वह्नितेजसा ।
दर्शयामि मयूरेशप्रत्यग्द्वाराश्रये शुभे ॥ दीपम् ॥
पायसं पिष्टकृसरचित्रान्नापूपशष्कुलीः ।
निवेदयाम्यहं देवि गृहाण परया मुदा ॥ नैवेद्यं ताम्बूलम् ॥
नीराजनं सुमाङ्गल्यं कर्पूरेण विनिर्मितम् ।
सर्वमङ्गललाभाय सङ्कष्टविनिवृत्तये ॥ नीराजनम् ॥ प्रदक्षिणनमस्कारान् ।
श्री भोगदे देवि गुणेशपादपद्मद्वयासक्तमना भवेयम् ।
तथा त्वमेवाशु विधाय तस्य पूजाविधौ देहि परामनुज्ञाम् ॥ (प्रार्थना)
अनया पूजा भोगदा प्रीयताम् ।
रतिकन्दर्प पूजा -
ध्यायामि रतिकन्दर्पं गुणेशाज्ञाविधायिनौ ।
प्रत्यग्द्वाराङ्गसंस्थानौ रूपयौवनशालिनौ ॥ ध्यायामि ॥
आवाहयामि देवेशौ सर्वसुन्दरगात्रिणौ ।
गुणेशपूजा सम्पूर्णफलावाप्तेरभीप्सया ॥ आवाहयामि ॥
आसनं रत्नखचितं आदिदेवौ सुकल्पितम् ।
अत्र स्तं मम पूजार्थं मनोऽभीष्टं प्रयच्छतम् ॥ आसनम् ॥
अनाद्यन्तौ कामदेवौ यवदूर्वादिसंयुतम् ।
पाद्यं ददामि गृह्णीतं मनोनैर्मल्यमस्तु मे ॥ पाद्यम् ॥
अर्घ्यं सुवर्णकरके समानीतं हि सुन्दरौ ।
मम तेजोऽभिवृद्ध्यर्थं गृह्णीतं तोयमुत्तमम् ॥ अर्घ्यम् ॥
सङ्गल्पजौ तोयमिदं दत्तमाचमनाय वाम् ।
उशीरेलालवङ्गादि वासितं स्वादु शीतलम् ॥ आचमनम् ॥
मधुपर्कं ददाम्यादौ दम्पती साधु कल्पितम् ।
दधिमध्वाज्यसंयुक्तं गृह्णीतं परमादरात् ॥ मधुपर्कः ॥
सिद्धं पञ्चामृतमिदं स्नानाय फलसंस्कृतम् ।
गृह्णीतं रतिकन्दर्पौ मम सर्वार्थसिद्धये ॥ पञ्चामृतस्नानम् ॥
कृष्णागोदावरीरेवासरिद्भ्यः परिपूरितम् ।
आनीतं कलशं सम्यक् स्नातं रतिमनोभवौ ॥ स्नानं, आचमनम् ॥
मनोज्ञानीह वस्त्राणि परिधत्तं ददाम्यहम् ।
लज्जासंरक्षणार्थाय महार्घाणि वराणि च ॥ वस्त्राणि ॥
हेमतन्तु प्रकॢप्तानि हृद्यानि परिशुद्धये ।
दत्तानि परया भक्त्या पूतं मां कुरुतं सदा ॥ उपवीतम् ॥
हारकङ्कणकेयूरमेखलानूपुरादिभिः ।
भक्त्या समर्पितैर्नित्यं अलङ्कुरुतमादरात् ॥ आभरणम् ॥
गन्धं कलयतं फालयुगले मृगनाभिजम् ।
शोभनाय प्रयच्छामि कुरुतं मां सुगन्धिनम् ॥ गन्धम् ॥
पुष्पाणि सुरभीण्यद्य मल्लिकावकुलानि च ।
समर्पयामि गृह्णीतं पश्चिमद्वारवासिनौ ॥ पुष्पाणि ॥
अङ्गपूजा -ॐ ......॥ नमः .........। पूजयामि ।
मनोजाभ्यां -पादान् । मङ्गलमूर्तिभ्यां -गुल्फान् । नित्ययुवभ्यां -जङ्घाः ।
आह्लादकारिभ्यां -जानूनि । अतिसुन्दराभ्यां -ऊरून् । चक्षुरगोचरराभ्यां -गुह्ये ।
अव्यक्तमूर्तिभ्यां -करौ । आनन्दरूपाभ्यां -जठरे । निम्ननाभिभ्यां -नाभी ।
हारशोभिभ्यां -वक्षसी । गानरसिकाभ्यां -कण्ठौ । आजानुबाहुभ्यां -बाहून् ।
शुचिस्मिताभ्यां -मुखे । चम्पकनासाभ्यां -नासिके ।
कुण्डलालङ्कृताभ्यां -कर्णान् । इन्दीवराक्षिभ्यां -अक्षीणि ।
तिलकितफालाभ्यां -फाले । रतिमन्मथाभ्यां -शिरसि ।
चित्तजन्मभ्यां -सर्वाण्यङ्गानि ॥
दशाङ्गचूर्णसम्मिश्रं वरधूपमिदं शुभम् ।
आघ्रापयामि देवेशौ गृह्णीतं करुणाकरौ ॥ धूपम् ॥
दीपं ददामि सुभगौ गुणेशपुरपश्चिमे ।
मुख्याङ्गत्वेन निर्दिष्टौ दिशतं भाग्यमुत्तमम् ॥ दीपम् ॥
मोदकैर्लड्डुकैः पूपैर्वटकैः पूरिकादिभिः ।
नैवेद्यं कारयामीशौ भुञ्जीथां रतिमन्मथौ ॥ नैवेद्यं, आचमनं, ताम्बूलम् ॥
नीराजनं ददाम्याध्यौ सर्वसम्पत्प्रपूरकौ ।
अपराधक्षमायाथ सर्वमङ्गलमस्तु मे ॥ नीराजनम् । प्रदक्षिणनमस्कारान् ।
गुणेशार्चनायां त्वदीयामनुज्ञां
प्रयाचेऽद्य भक्तेर्विवृद्धिं रतीशौ ।
मयूरेशपुर्याः प्रवेशे च योग्यं
विधातुश्च मोदप्रमोदौ यतेथाम् ॥ प्रार्थना ॥
अनया पूजया रतिकन्दर्पौ प्रीयेताम् ॥
(स्नात्वा मयूरेशं सम्पूज्य उपवसेद्रात्रौ जागरणादिभिः ।
इति तृतीया तिथिपूजां समापयेत् ।)
चतुर्थ्यां प्रातः स्नात्वा कृतनित्यक्रियः उत्तरद्वाराध्यक्षां कामदां
अङ्गदेवौ महीवराहौ च पूजयेत् ।
चतुर्थ्यां द्वाराध्यक्षदेवता पूजा
ध्यायामि कामदां देवीं भक्तकामप्रदायिनीम् ।
गुणेशपत्तनोदीच्यद्वारसंस्थानदेवताम् ॥ कामदां ध्यायामि ॥
आवाहयामि देवि त्वां अभीष्टवरदा भव ।
गुणेशार्चाफलावाप्तिकामोऽहं कामदेवते ॥ आवाहयामि ॥
आसनं कल्पितं रम्यं हेमरत्नविचित्रितम् ।
ददाम्यास्व महादेवि प्रसादं कुरु सर्वदा ॥ आसनम् ॥
हेमकुम्भसमानीतं पादप्रक्षालनाय ते ।
कुशाक्षतादिसम्मिश्रं सलिलं प्रतिगृह्यताम् ॥ पाद्यम् ॥
अर्घ्यमष्टाङ्गसंयुक्तं यवदूर्वादिसंयुतम् ।
कामदे देवि गृह्णीष्व हस्ताभ्यां परमादरात् ॥ अर्घ्यम् ॥
आचम्यतां जगद्वन्द्ये शुद्धतोयं मया हृतम् ।
अन्तःकरणशुद्ध्यर्थं विधेहि करुणां मयि ॥ आचमनम् ॥
मधुपर्कमिदं देवि दधिमध्वाज्यमिश्रितम् ।
गृहाण सर्ववरदे ममारातीन्नुदेश्वरि ॥ मधुपर्कः ॥
स्नानं पञ्चामृतेनैव क्षीरमध्वाज्यशर्करैः ।
सम्पादितेन कामेशि कुरुष्व परया मुदा । पञ्चामृतस्नानम् ॥
गङ्गामरुद्वृधादिभ्यः तोयं हेमघटाहृतम् ।
स्नाहि कल्याणि वरदे मम पापं विशोधय ॥ स्नानं -आचमनम् ॥
वसनं कामदे पीतं सुसूक्ष्मं देवनिर्मितम् ।
परिधत्स्व परेशानि कुरु मां हृष्टमानसम् ॥ वस्त्रम् ।
हारताटङ्ककेयूरनासिकाभरणादिभिः
सङ्कॢप्तैश्च मया रम्यैः कुरु देहमलङ्कृतम् ॥ आभरणानि ।
श्रीखण्डघनसारादिविमिश्रं गन्धमुत्तमम् ।
गृहाण सर्वसुरभिं मम पङ्कं विनाशय ॥ गन्धम् ।
पुष्पमालां विचित्रां च चम्पकाशोकनिर्मिताम् ।
ददामि भूषणार्थाय प्रतिमुञ्च परावरे ॥ पुष्पाणि ।
अङ्गपूजा -ॐ ......। नमः .........॥ पूजयामि ।
कामदायै -पादौ । शर्मदायै -गुल्फौ । तूणजङ्घायै -जङ्घे ।
मुकुटजानवे -जानू । करभोरवे -ऊरू । शुभकट्यै- कटिम् ।
गम्भीरनाभये -नाभिम् । कृशोदर्यै -उदरम् । विशुद्धायै -हृदयम् ।
महोरस्कायै -उरः । शुभकण्ठायै -कण्ठम् । वल्लीभुजायै -बाहू ।
सुमुखायै -मुखम् । सुनसे -नासिकाम् । सुकर्णायै कर्णौ ।
पद्मनेत्रायै -नेत्रे । फलकफालायै -फालम् । सर्वेश्वर्यै -शिरः ।
कामदायै -सर्वाण्यङ्गानि ।
दशाङ्गं गुग्गुलूपेतं सुगन्धि सुमनः प्रियम् ।
आघ्रापयामि ते धूपं गृह्यतां कामदायिनि ॥ धूपम् ।
साज्यं त्रिवर्तिसहितं वह्निना योजितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ॥ दीपम् ।
नैवेद्यं षड्सोपेतं नानाभक्ष्यप्रपूरितम् ।
ददामि कामदे देवि प्रीत्या भुङ्क्ष्व यथा सुखम् ॥ नैवेद्यं, आचमनं, ताम्बूलम् ।
नीराजनं नीरजाक्षि घृताक्तैः पञ्चवर्तिभिः ।
वह्निना योजितैरेतत् गृहीत्वा कुरु मे शिवम् ॥ नीराजनं, प्रदक्षिण नमस्कारः ।
कामार्थदे कामिनि भक्तकामप्रपूरणि त्वं मम देहि कामान् ।
मयूरनाथार्चन भाग्यकामं प्रपन्नमेनं भवती प्रशाधि (क्षमस्व)।
प्रार्थना ।
अनया पूजया कामदा प्रीयताम् ।
महीवराहपूजा ।
ध्यायामि भूवराहौ वां गुणेशाज्ञानुकारिणौ ।
तद्वामाङ्गतयोदीच्यां स्थितौ लोकस्य रक्षकौ ॥ ध्यायामि ।
आवाहयामि भूकोलौ जगदुद्धारकौ मुदा ।
पूजां प्रतिगृह्यतां गुणेशानुग्रहेच्छया । आवाहयामि ।
आसनं रत्नसौवर्णखचितं लक्षणान्वितम् ।
आस्तं पूजाविधानाय परया घृणया मयि ॥ आसनम् ।
पाद्यमाद्यन्तरहितौ मम पापविशुद्धये ।
ददामि कुरुतं प्रीत्या शुद्धतोयमिदं शुभम् ॥ पाद्यम् ।
अर्घ्यं गन्धकुशाग्रैश्च मिश्रितं परिकल्पितम् ।
प्रजापश्वादि वृद्ध्यर्थं गृह्णीतं जलमुत्तमम् ॥ अर्घ्यम् ।
आचम्येतां जगत्पूज्यौ उशीरैलादि वासितम् ।
अम्भः पूतं ददामीशौ नीरोगं कुरुतं च माम् ॥ आचमनम् ।
दधिमध्वाज्यसम्मिश्रं मधुपर्कं मयाऽऽदरात् ।
कल्पितं भूवराहौ वां गृह्णीतममरार्चितौ ॥ मधुपर्कः ।
क्षीराज्य मधुरम्भादि फलैः पञ्चामृतं कृतम् ।
स्नातं महीकिटी मह्यं भक्तिं दत्तं पदाम्बुजे ॥ पञ्चामृतस्नानम् ॥
हेमकुम्भसमानीतशुद्धतोयेन वां सदा ।
अभिषिञ्चामि कृपया समालोकयतं च माम् ॥ स्नानमाचमनं च ।
अब्धिरूपाणि वस्त्राणि नीलपीतादिकान्यपि ।
महार्घ्याणि प्रकॢप्तानि समाच्छादयतं रसात् ॥ वस्त्रम् ।
हेमसूत्राणि निर्माय प्रदत्तानि वराणि च ।
उपवीतानि गृह्णीतं महीकोलौ परात्परौ ॥ उपवीतम् ॥
सुगन्धं गुणभूतं वां मुस्ताघनरसादिभिः ।
घृष्ट्वा दत्तं प्रगृह्याशु वरदौ भवतं सदा ॥ गन्धान् ।
जातीचम्पकपुन्नागकेतकीवकुलादिभिः ।
ग्रथितां मालिकां चित्रां गृह्णीतं परमादरात् ॥ पुष्पाणि ।
अङ्गपूजा । ॐ .......... नमः ........... पूजयामि ।
पातालपादाभ्यां -पादान् । महातलगुल्फाभ्यां -गुल्फान् ।
तलातलजङ्घाभ्यां -जङ्घाः । रसातलजानुभ्यां -जानूनि ।
सुतलोरुभ्यां -ऊरू । वितलगुह्याभ्यां -गुह्ये । अतलकटिभ्यां -कटी ।
भूनाभिभ्यां -नाभी । भुवर्जठराभ्यां -जठरे । स्वर्हृदयाभ्यां -हृदये ।
महर्वक्षोभ्यां -वक्षसी । जनोबाहुभ्यां -बाहून् । तपःकण्ठाभ्यां -कण्ठौ ।
सत्यमुखाभ्यां -मुखे । प्राणादिरूपाभ्यां -नासिके । इनेन्दुनेत्राभ्यां -नेत्राणि ।
शब्दरूपाभ्यां -श्रोत्राणि । तिलकितफालाभ्यां -फाले ।
अग्निमूर्धभ्यां -शिरसी । महीवराहाभ्यां -सर्वाण्यङ्गानि ॥।
गुग्गुल्वगरुसम्मिश्रं धूपन्दत्तमिदं प्रभू ।
आघ्रापयामि भूकोलौ सुरभि घ्राणमुत्तमम् ॥ धूपम् ॥
दीपं ददामि वां दिव्यं पञ्चवर्त्यग्नियोजितम् ।
दर्शयामि सुरश्रेष्ठौ मां कटाक्षेण पश्यतम् ॥ दीपम् ॥
अन्नं चतुर्विधोपेतं भुञ्जाथां आदिभूकिटी ।
नानाभक्ष्यफलोपेतं नैवेद्यं कल्पितं मया ॥ नैवेद्यताम्बूले ।
नीराजनं महीकोलौ कर्पूरेण कृतं मया ।
सर्वमङ्गललाभायाप्यपराधक्षमाय च ॥ नीराजनं प्रदक्षिणनमस्कारौ ।
नित्यौ विशुद्धौ महीकोलरूपौ गुणेशार्चनायामनुज्ञां विधत्तम् ।
त्रिमूर्तिस्वरूपे मयूरेश्वरे मां पदाम्भोजभक्तं नतं ब्रूतमारात् ॥
अनया पूजया महीवराहौ प्रीयेताम् ॥
गुणेशपूजाक्रमः ।
प्रातः स्नात्वा, माध्याह्निकक्रियां समाप्य श्लक्ष्णां शुद्धां पाषाणशर्करादिवर्जितां
मृदमानीय ब्रह्मविष्णुरुद्रात्मकत्वेन त्रिमुखं शुण्डाविराजितं
शूर्पकर्णादिलक्षणयुक्तं षड्भुजं पाशाङ्कुश
चक्रत्रिशूल-परशु-मोदक स्वदन्तचिह्नितं
पार्श्वस्थमयूरसहितं देवं निर्माय, चतुर्द्वारसहितं
सोपानत्रयसहितं मण्डपं
विरच्य, तत्र देवं प्रतिष्ठाप्य, पूर्वोक्तविधिना द्वारदेवताः
अङ्गदेवताश्च सम्पूज्य,
मयूरेश्वरपूजां करिष्ये इति सङ्कल्प्य, भूशुद्धिं,
भूतशुद्धिं, मातृकान्यासं, दीपपूजां,
घण्टापूजां कलशशङ्खपूजां आत्मपूजां च कुर्यात् ।
हृत्पद्मकर्णिकामध्यात् आगच्छत्वं गणेश्वर ।
सिद्ध्या बुद्ध्या च सहितः सगणः सन्निधिं कुरु ।
(इति हृदयपद्मादागतं बिम्बे विभाव्य, यथाशक्ति मूलमन्त्रं जप्त्वा बिम्बे
समर्पयेत् ।)
आधारशक्तिकमलासनाय नमः । तीव्रा - ज्वालिनी - नन्दा - भोगदा -
कामरूपिणी - उग्रा - तेजोवती - सत्या - विघ्ननाशिन्याख्य पीठशक्तिभ्यो
नमः । (प्राणान्प्रतिष्ठाप्य, षोडशभिः उपचारैः उपचर्य, नीराजनानन्तरं
एकविंशति दूर्वाः समर्प्य पञ्चावरणदेवतापूजां कुर्यात् । उत्तराङ्गत्वेन मूलमन्त्रजपं
कृत्वा देवहस्ते समर्पयेत् । रात्रौ जागरणं कृत्वा उपोष्य प्रातः स्नात्वा कृतनित्यक्रियः,
स्वगृह्योक्तविधिना अग्निं प्रतिष्ठाप्य इक्षु - सक्तु - रम्भाफल - पृथुक -
तिल - मोदक - नारिकेल - लाजाख्याष्टद्रव्यैः यथाशक्ति जुहुयात् । पारणां
समाप्य परेद्युः प्रातः पूजां विधाय बिम्बं शिबिकामारोप्य बालैः दण्डक्रीडा
वाद्यघोषपुरःसरं बिम्बं जले विसृजेत् । इति सङ्ग्रहः ।
पूजाविधिः
नभस्ये शुक्लपक्षे तु चतुर्थ्यामर्चितो मया ।
कृता च विधिवन्मूर्तिः मृण्मयी सौम्यदर्शना ॥
गिरिजाऽभीष्टसिद्ध्यर्थं तस्यामाविरभूः किल ।
अनेकाक्षिशिरः पादबाहु कर्णायुधः स्वयम् ॥
विश्वरूपस्य भवतो दर्शने गिरिजा भयात् ।
तुष्टाव परया भक्त्या तस्यै तुष्टो वरं ह्यदाः ॥
बालक्रीडनार्थाय बालरूपोऽभवस्तदा ।
पूजार्थं तादृशं रूपं संस्मरामि गजानन ॥
ब्रह्मविष्ण्वीशवदनं शुण्डारदनशोभितम् ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥
पाशाङ्कुशौ चक्रशूलौ पर्शुमोदकदन्तकान् ।
बिभ्राणं षड्भुजैः सम्यक् गुणेशाभिधमीश्वरम् ॥
वामदक्षिण भागस्थ सिद्धिबुद्धिसमावृतम् ।
हारताटङ्ककेयूरमुकुटाद्धि विराजितम् ॥ २४२
पीताम्बरधरं फालचन्द्रं भास्वरविग्रहम् ।
नागकक्षोदरा बन्धं नागयज्ञोपवीतिनम् ॥
सिन्दूरितमहाकुम्भं शूर्पकर्णमुपास्महे ॥ ध्यानम् ।
(प्राणप्रतिष्ठां कृत्वा)
अत्रागच्छ मयूरेश ब्रह्मादिमुनिवन्दित ।
आवाहयामि बिम्बेऽस्मिन् मम पूजां गृहाण भो ॥
सहस्रशीर्षां + दशाङ्गुलम् । आवाहयामि ।
स्वर्णसिंहासनं चारु नवरत्नविचित्रितम् ।
सुखेनास्व गुणेशान भक्तिं देहि पदाम्बुजे ॥
पुरुष एवे + रोहति । आसनं समर्पयामि ।
पादौ प्रक्षालयामीश यवदूर्वाक्षतादिभिः ।
पुष्पादिभिश्च संशुद्धगङ्गादिसलिलैः शुभैः ॥
एतावानस्य + दिवि । पाद्यं समर्पयामि ।
मयूरेश ददाम्यर्घ्यं कुशपुष्पादिमिश्रितम् ।
गृहाण सर्ववरद प्रजासन्ततिरस्तु मे ॥
त्रिपादूर्ध्व + अभि । अर्घ्यं समर्पयामि ।
ददाम्याचमनीयं ते मधुपर्कपुरस्तनम् ।
उशीरवासितं तोयं गङ्गाया उद्धृतं शुभम् ॥
तस्माद्विरा + पुरः । आचमनीयं समर्पयामि ।
मधुपर्कमिदं रम्यं दधिमध्वाज्यमिश्रितम् ।
गुणेश कांस्यपात्रस्थं अन्नवान्स्यां गृहाण भोः ॥
यत्पुरुषेण + हविः । मधुपर्कः ।
सिता -क्षीराज्य -मधुभिः रम्भाखर्जूरकादिभिः ।
फलैः पञ्चामृतं कॣप्तं स्नानाय प्रतिगृह्यताम् ॥
पञ्चामृतस्नानं समर्पयामि ।
गङ्गागोदावरीकृष्णातुङ्गभद्रासमाहृतम् ।
हेमकुम्भैरिदं शुद्धं सुगन्धि स्नाहि निर्मलम् ॥
तं य ज्ञं + श्च ये । स्नानं समर्पयामि । आचमनं समर्पयामि ।
पीताम्बरयुगं सूक्ष्मं रुक्मतन्तु विचित्रितम् ।
मयूरेश गृहाण त्वं परिधेहि मुदा मयि ॥
तस्माद्यज्ञात् + ये । वस्त्रे समर्पयामि ।
उपवीतमिदं शुभ्रं मया भक्त्या प्रकल्पितम् ।
सर्वपापविशुद्ध्यर्थं गृहाण परमादरात् ॥
तस्माद्यज्ञात् + अजायत । उपवीतं समर्पयामि ।
किरीटहारकटककिङ्किणीनूपुरादिभिः ।
अलङ्कुरु मयूरेश शोभायै सार्वकालिकम् ॥
भूषणानि समर्पयामि ।
धनकेसरकस्तूरी रोचना चन्दनादिभिः ।
विघृष्टगन्धं सुरभि लेपनार्थं ददामि ते ॥
तस्मादश्वा + वयः । गन्धान्धारयामि ।
अक्षतांश्च मयूरेश कुङ्कुमाक्तान् गृहाण भो ।
समर्पितान्मया भक्त्या अक्षतं कुरु मां सदा ॥
अक्षतान्समर्पयामि ।
चम्पकाशोकपुन्नागकेतकीवकुलादिभिः ।
नन्दनाहृतपुष्पैश्च अर्पयाम्यद्य मालिकाम् ॥
यत्पुरुषं + वुच्येते । पुष्पमालां समर्पयामि ।
मल्लिकामालती जातीबिल्वैः मरुवकैः सुमैः ।
सौगन्धिकैः शमीपत्रैः दूर्वाभिः पूजयाम्यहम् ॥
पुष्पाणि समर्पयामि ।
अङ्गपूजा -ॐ ......... नमः .......... पूजयामि ।
गुणेशाय -पादनखानि । सत्वाय -पादाङ्गुलीः । रजसे -पादतलम् ।
तमसे -पादौ । पृथिव्यात्मने -गुल्फम् । अबात्मने -जङ्घे ।
तेजोरूपिणे -जानुनी । वाय्वात्मने -ऊरू । आकाशात्मने -गुह्यम् ।
गन्धात्मने -कटिम् । रसात्मने -जठरम् । रूपात्मने -नाभिम् ।
स्पर्शात्मने -वक्षः । शब्दात्मने - हृदयम् । कम्बुग्रीवाय -कण्ठम् ।
भिन्नदन्ताय -दन्तम् । शुण्डामुखाय -नासिकाम् । वक्रतुण्डाय -मुखम् ।
वाणीजिह्वाय -जिह्वाम् । शूर्पकर्णाय -कर्णौ । विश्वनेत्रे - नेत्रे ।
फालचन्द्राय -फालम् । सोमार्कघण्टाय -मस्तकम् । मयूरेशाय -शिरः ।
गुणेशाय -सर्वाण्यङ्गानि ॥ (सहस्रनामाद्यैरर्चनं कुर्यात् ।)
ददामि धूपं देवेश दशाङ्गेन सुधूपितम् ।
मयूरेश गृहाण त्वं मम पापापनुत्तये ॥
ब्राह्मणोऽस्य + अजायत । धूपमाघ्रापयामि ।
साज्यं त्रिवर्तिसंयुक्तं वह्निना ज्वालितं मया ।
मयूरेश गृहाणेमं मदान्ध्यं विनिवारय ॥
चन्द्रमा + अजायत । दीपं समर्पयामि ॥
मोदकान् लड्डुकान् पूपान् वटकान् पर्पटान् कृतान् ।
शष्कुलीः पूरिकाश्चैव कृसराणि घृताचितान् ।
अन्नानि च विचित्राणि स्वादूनि सुरभीणि च ।
शर्करामुद्गहारिद्र मिश्रितान्नानि भूरिशः ।
कल्पितानि मयूरेश नैवेद्यं भुङ्क्ष्व सादरम् ।
बह्वन्नं कुरु मां देव त्वत्कटाक्षावलोकनात् ॥
नाभ्या + अकल्पयन् । महानैवेद्यं निवेदयामि ।
आचमनं समर्पयामि ।
पूगैलारेणुकाभृङ्गकर्पूरादिसुवासितैः ।
नागवल्लीदलैश्चर्णैः ताम्बूलं सङ्गृहाण भोः ॥
ताम्बूलं समर्पयामि ।
लक्षवर्ति ज्वालितेन दीपेन परिकल्पितम् ।
आरार्तिकमिदं देव मङ्गलार्थं ददामि ते ॥
सप्तास्यासन् + पशुम् । नीराजनं दर्शयामि ।
वैदिकैर्लौकिकैर्मन्त्रैः मन्त्रितानि सुमानि च ।
अपराधक्षमार्थाय चार्पयामि पदाम्बुजे ॥
मन्त्रपुष्पं समर्पयामि ।
सौवर्णीं दक्षिणां सिद्धिबुद्धिद्वयविशेषित ।
अर्पयामि पदाम्भोजे कटाक्षेणाव मां सदा ॥
स्वर्णपुष्पं समर्पयामि ।
प्रदक्षिणत्रयं कुर्यां सर्वपापप्रणाशनम् ।
त्वत्प्रसादात् वाजिमेधफलं प्राप्नोमि नित्यशः ॥
प्रदक्षिणं समर्पयामि ।
सहस्रशो नमामीशमपराधान् क्षमापये ।
वैदिकैर्लौकिकैः स्तोत्रैः स्तुवे सर्वार्थसिद्धये ॥
नमस्करोमि ।
यज्ञेन यज्ञं + देवाः । प्रार्थये ।
जगद्बीजमेकं चिदानन्दरूपं शिवाद्यैरचिन्त्यं महायोगिवन्द्यम् ।
त्रिमूर्तिस्वरूपं मयूराभिधानं परेशं गुणेशं पराशक्तिसूनुम् ।
कृपातो भवानीमनोऽभीष्टसिद्ध्यै महीमूर्तितो यः समाविर्बभौ हि ।
तमीशं गुणेशं कृपादृष्टिलेशप्रसादार्थं आनन्दपूर्णं भजेऽहम् ।
दूर्वायुग्मार्पणं -ॐ नमः । दूर्वायुग्मं समर्पयामि ।
गणञ्जयाय । गणपतये । हेरम्बाय । धरणीधराय । महागणपतये ।
लक्षप्रदाय (यक्षेश्वराय ।)क्षिप्रप्रसादनाय । अमोघसिद्धये । अमिताय
(अमृताय)मन्त्राय । चिन्तामणये । निधये । सुमङ्गलाय । बीजाय ।
आशापूरकाय । वरदाय । शिवाय । काश्यपाय । नन्दनाय ।
वाचासिद्धाय (वाचां सिद्धये)ढुण्ढिविनायकाय ।
आवरणपूजा । .......पूजयामि नमः ।
प्रथमावरणे -हृदयदेवताम् । शिरोदेवताम् । शिखादेवताम् । कवचदेवताम् ।
नेत्रदेवताम् । अस्त्रदेवताम् ।
द्वितीयावरणे -विद्याम् । विधात्रीम् । भोगदाम् । विघ्नघातिनीम् । निधिप्रियाम् ।
पापघ्नीम् । पुण्याम् । शशिप्रभाम् ।
तृतीयावरणे -वक्रतुण्डम् । एकदंष्ट्रम् । महोदरम् । गजास्यम् । लम्बोदरम् ।
विकटम् । विघ्नराजम् । धूम्रवर्णम् ।
चतुर्थावरणे -इन्द्रम् । अग्निम् । यमम् । निरृतिम् । वरुणम् । वायुम् । कुबेरं
(सोमं)। ईशानम् ।
पञ्चमावरणे -वज्रायुधदेवताम् । शक्त्यायुधदेवताम् । दण्डायुधदेवताम् ।
खड्गायुधदेवताम् । पाशायुधदेवताम् । अङ्कुशायुधदेवताम् । गदायुधदेवताम् ।
शूलायुधदेवताम् ।
ॐ गं गणपतये नमः । इति मध्ये गणेशं पुष्पाञ्जलिभिः समभ्यर्च्य
निवेदनादिकं कुर्यात् । यथाशक्ति मूलमन्त्रं जप्त्वा देवाय समर्पयेत् । मया
कृतेन साङ्गगुणेशार्चनेन परमेश्वरः प्रीतो भवतु । इति पूजां समर्पयेत् । अन्यत्
क्रमे पूर्वं निर्दिष्टम् ।
इति मयूरेश्वरपूजा सम्पूर्णा ।
Proofread by Narendran Madathil