सावर्णिकृता शक्तिविनायकस्तुतिः

सावर्णिकृता शक्तिविनायकस्तुतिः

॥ श्रीगणेशाय नमः ॥ सावर्णिरुवाच । नमस्ते गणनाथायै नमस्ते गणपालक । चतुर्बाहुधरायैव चतुर्बाहुधराय ते ॥ २२॥ अनाद्यायै ह्यनाद्याय परेशायै परात्मने । भक्तविघ्नहरायै ते भक्तविघ्नहराय च ॥ २३॥ हेरम्बायै नमस्तुभ्यं हेरम्बाय नमो नमः । लम्बोदरस्वरूपायै नमो लम्बोदराय ते ॥ २४॥ नानारूपधरायैव नानारूपधराय च । नमो नमो महादेव्यै देवाधिपतये नमः ॥ २५॥ गजवक्त्रधरायै ते गजवक्त्रधराय च । शूर्पकर्णस्वरूपायै शूर्पकर्णाय ते नमः ॥ २६॥ एकदन्तधरायै चैकदन्तरूपिणे नमः । मायामोहहरायैव मोहहर्त्रे नमो नमः ॥ २७॥ स्वानन्दपुरसंस्थायै नमः स्वानन्दवासिने । परश्वादिधरायै च परश्वादिधराय ते ॥ २८॥ नमः सर्वप्रबोधायै नमः सर्वप्रबोधक । मायिभ्यो मोहदात्र्यै ते मायिभ्यो मोहदाय च ॥ २९॥ ढुण्ढिराज्ञ्यै नमस्तुभ्यं ढुण्ढिराजाय ते नमः । वक्रतुण्डधरायै ते वक्रतुण्डाय ते नमः ॥ ३०॥ सर्वादिपूज्यकायै च सर्वादिपूज्यकाय ते । नमस्ते सर्वपूज्यायै सर्वपूज्याय ते नमः ॥ ३१॥ अनन्तखेलकारिण्यै ह्यनन्तखेलकारिणे । नमो नमो महाशक्ते नमः शक्तिधराय ते ॥ ३२॥ नानाभेदकरायै ते नानाभेदमयाय च । नमो नमः परेशायै परेशाय नमो नमः ॥ ३३॥ या शक्तिः सैव विघ्नेशो नान्तरं विद्यते क्वचित् । अज्ञानेन महाभागौ स्त्रीपुम्भावः प्रदृश्यते ॥ ३४॥ यत्र वेदादयो योगिनो देवेशा विसिस्मिरे । तत्र स्तोतुं च कोऽहं तावल्पज्ञानप्रधारकः ॥ ३५॥ भवतोर्दर्शनेनैव बोधयुक्तोऽहमञ्जसा । तेन स्तुतौ गणाध्यक्षौ योगशान्तिप्रदायकौ ॥ ३६॥ प्रयच्छतं महायोगमधुना मे नमाम्यहम् । भक्तिं च भवतोर्मे तु सुदृढां दातुमर्हथः ॥ ३७॥ इत्युक्त्वा दण्डवद्भूमौ पपात पदयोस्तयोः । मनुस्तौ हर्षसंयुक्तावूचतुस्तं महीपतिम् ॥ ३८॥ (फलश्रुतिः) शक्तिविनायकावूचतुः । शान्तियोगं महाभाग लभसे योगसेवया । भक्तिं दृढां च नौ पादे सदाऽऽदित्यकुमारक ॥ ३९॥ भुक्त्वा मन्वन्तरं पूर्णं यशः स्थाप्य जगत्त्रये । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यसि ॥ ४०॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । पठते श‍ृण्वते चैव भविष्यति न संशयः ॥ ४१॥ इति सावर्णिकृता शक्तिविनायकस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः १५ । ५.१५। २२-४१॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 15 . 5.15. 22-41.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shaktivinayaka Stuti Savarnikrita
% File name             : shaktivinAyakastutiHsAvarNikRRitA.itx
% itxtitle              : shaktivinAyakastutiH sAvarNikRitA (mudgalapurANAntargatA)
% engtitle              : shaktivinAyakastutiH sAvarNikRRitA
% Category              : ganesha, mudgalapurANa, stuti, devii, devI
% Location              : doc_ganesha
% Sublocation           : ganesha
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 15 | 5.15. 22-41||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org