सिद्धिविनायकषोडशोपचारपूजास्तुतिः १
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १॥
एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ।
पाशाङ्कुशधरं देवं वन्दे सिद्धिविनायकम् ॥ २॥
वन्दे गजाननं देवं तप्तकाञ्चनसन्निभम् ।
चतुर्भुजं महाकायं सर्वाभरणभूषितम् ॥ ३॥
अत्रागच्छ जगद्वन्द्य सुरराजार्चितेश्वर ।
अनाथनाथ सर्वज्ञ गीर्वाणासुरपूजित ॥ ४॥
अनेकरत्नखचितं मुक्तामणिविभूषितम् ।
रत्नसिंहासनं चारु गणेश प्रतिगृह्यताम् ॥ ५॥
गौरीपुत्र नमस्तेऽस्तु दूर्वापद्मादिसंयुतम् ।
भक्त्या पाद्यं मया दत्तं गृहाण द्विरदानन ॥ ६॥
सिद्धार्थ यवदूर्वाभिः गन्धपुष्पाक्षतैर्युतम् ।
तिलपुष्पसमायुक्तं गृहाणार्घ्यं गजानन ॥ ७॥
कर्पूरागरुपुष्पैश्च वासितं विमलं जलम् ।
भक्त्या दत्तं मया देव कुरुष्वाचमनं प्रभो ॥ ८॥
दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् ।
गृहाण सर्वलोकेश गजवक्त्र नमोऽस्तु ते ॥ ९॥
मध्वाज्यशर्करायुक्तं दधिक्षीरसमन्वितम् ।
पञ्चामृतं गृहाणेदं भक्तानामिष्टदायक ॥ १०॥
गङ्गादिपुण्यपानीयैः गन्धपुष्पाक्षतै र्युतैः ।
स्नानं कुरुष्व भगवन् उमापुत्र नमोऽस्तु ते ॥ ११॥
रक्तवस्त्रद्वयं देव राजराजादिपूजित ।
भक्त्या दत्तं गृहाणेदं भगवन्हरनन्दन ॥ १२॥
राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम् ।
गृहाण चारु सर्वज्ञ भक्तानामिष्टदायक ॥ १३॥
चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥ १४॥
अक्षतान्धवलान्दिव्यान् शालीयानक्षतान् शुभान् ।
हरिद्राचूर्णसंयुक्तान् सङ्गृहाण गणाधिप ॥ १५॥
सुगन्धीनि सुपुष्पाणि जाजी कुन्दमुखानि च ।
एकविंशति सङ्ख्यानि गृहाण गणनायक ॥ १६॥
चन्दनागुरुकस्तूरीचन्द्रगुग्गुलुसंयुतम् ।
धूपं गृहाण वरद धूतपाप नमोऽस्तु ते ॥ १७॥
दीपं गृहाण देवेश वर्तित्रयसमन्वितम् ।
गणराज नमस्तुभ्यं अज्ञानं विनिवर्तय ॥ १८॥
शाल्यन्नं पायसादीनि मोदकाञ्च फलानि च ।
निवेदितं गृहाणेश नित्यतृप्त नमोऽस्तु ते ॥ १९॥
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ २०॥
चन्द्रादित्यौ ग्रहास्ताराः विद्युदग्निर्विभास्वरम् ।
त्वमेव सर्वं तत्तेजो नीराजनमिदं प्रभो ॥ २१॥
नमो नमो गणेशाय नमस्ते विश्वरूपिणे ।
निर्विघ्नं कुरु मे कामं नमामि त्वां गजानन ॥ २२॥
अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥ २३॥
विनायक वरं देहि महात्मन्मोदकप्रिय ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ २४॥
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥ २५॥
इति सिद्धिविनायकषोडशोपचारपूजास्तुतिः (१) सम्पूर्णा ।
Proofread by Narendran Madathil