उच्छिष्टगणेशस्तवराजः अथवा विनायकलीलास्तुतिः

उच्छिष्टगणेशस्तवराजः अथवा विनायकलीलास्तुतिः

श्री गणेशाय नमः । नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् । गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १॥ केयुरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि । सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥ २॥ षडक्षरात्मानमनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च । संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥ ३॥ वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् । स्तम्बेरमास्यं ननु चन्द्रचूडं(नवचन्द्रचूडं) विनायकं तं शरणं प्रपद्ये ॥ ४॥ भवाख्यदावानलदह्यमानं भक्तं स्वकीयं परिषिञ्चते यः । गण्डस्रुताम्भोभिरनन्यतुल्यं वन्दे गणेशं च तमोऽरिनेत्रम्(तमालनीलम्) ॥ ५॥ शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्वकीयम् । भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणपोऽवतान्नः ॥ ६॥ पितुर्जटाजूटतटे विलोक्य(सदैव) भागीरथीं तत्र कुतूहलेन । विहर्तुकामः स महीध्रपुत्र्या निवारितः पातु सदा गजास्यः ॥ ७॥ लम्बोदरो देवकुमारसङ्घैः(देवकुमारसिद्ध्यैः) क्रीडन्कुमारं जितवान्निजेन । करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयतः स पायात् ॥ ८॥ आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च । उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेशः ॥ ९॥ (उद्धर्तुमिच्छन्विधिचाटुवाक्यं श्रुत्वा मुमोचावतु नो गणेशः) निरन्तरं संस्कृतदानपट्टे लग्नां तु गुञ्जद्भ्रमरावलीं(रावलिं) वै । तां श्रोत्रतालैरपसारयन्तं स्मरेद्गजास्यं(भजे गजास्यं) निजहृत्सरोजे ॥ १०॥ विश्वेशमौलिस्थितजह्नुकन्याजलं गृहीत्वा निजपुष्करेण । हरं सलीलं पितरं स्वकीयं प्रपूजयन्हस्तिमुखः स पायात् ॥ ११॥ स्तम्बेरमास्यं घुसृणाङ्गरागं सिन्दूरपूरारुणकान्तकुम्भम् । कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥ १२॥ (कुचन्दनालिप्तकरं गणेशं ध्यायामि चित्ते सकलेष्टदं तम् ॥) स भीष्ममातुर्निजपुष्करेण जलं समादाय कुचौ स्वमातुः । प्रक्षालयामास षडास्यपीतौ स्वार्थं मुदेऽसौ कलभाननोऽस्तु ॥ १३॥ सिञ्चाम नागं(तं वामनाङ्गं) शिशुभावमाप्तं केनापि सत्कारणतो धरित्र्याम् । वक्तारमाद्यं नियमादिकानां(निगमादिकानां) लोकैकवन्द्यं प्रणमामि विघ्नम् ॥ १४॥ (विघ्नं विघ्ननाशनमित्यर्थः) आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् । विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं(कान्तद्विरदाननम्) तम् ॥ १५॥ हेरम्ब उद्यद्रविकोटिकान्तः पञ्चाननेनापि विचुम्बितास्यः(पञ्चाननेनाप्यवलम्बितांसः) । मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथ्यासु सदा गजास्यः ॥ १६॥ द्वैपायनोक्तानि स निश्चयेन(द्वैपायनोक्तं सुविचार्य येन) स्वदन्तकोट्या निखिलं लिखित्वा । दन्तं(दत्तं) पुराणं शुभमिन्दुमौलिस्तपोभिरुग्रं(सुतमिन्दुमौलेस्तमग्र्यरूपं) मनसा स्मरामि ॥ १७॥ क्रीडातटान्ते(क्रीडाप्रवृत्ते) जलधाविभास्ये वेलाजले लम्बपतिः प्रभीतः(वेलाजलेऽथाम्बुपतिः) । विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥ १८॥ वाचां निमित्तं स निमित्तमाद्यां(ह्यनिमित्तमाद्यं) पदं त्रिलोक्यामददत्स्तुतीनाम्(त्रिलोक्यां निखिलस्तुतीनाम्) । सर्वैश्च वन्द्यं न च तस्य वन्द्यः स्थाणोः परं रूपमसौ स पायात् ॥ १९॥ इमां स्तुतिं यः पठतीह भक्त्या समाहितप्रीतिरतीव शुद्धः । संसेव्यते चेन्दिरया नितान्तं दारिद्र्यसङ्घं स विदारयेन्नः ॥ २०॥ ॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवादे उच्छिष्टगणेशस्तवराजः अथवा उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥ विनायकलीलास्तुतिः Notes: The UcchiṣṭaGaṇeśaStavarājaḥ athavā UcchiṣṭaGaṇeśaStotram उच्छिष्टगणेशस्तवराजः अथवा उच्छिष्टगणेशस्तोत्रम् is found in MantraMahārṇavaḥ मन्त्रमहार्णवः; and, is also known as VināyakalīlāStutiḥ विनायकलीलास्तुतिः elsewhere. UcchiṣṭaGaṇeśaStavarājaḥ उच्छिष्टगणेशस्तवराजः is also found as the 5th part of the UcchiṣṭaGaṇapatiPañcāṅgam उच्छिष्टगणपतिपञ्चाङ्गम् or the UcchiṣṭaGaṇapatiPañcaratnam उच्छिष्टगणपति पञ्चरत्नम्; that can be accessed from the corresponding links given below. Encoded and proofread by Ravin Bhalekar ravibhalekar@hotmail.com, NA, Ruma Dewan
% Text title            : uchchhiShTagaNeshastavarAjaH
% File name             : uchchhiShTagaNeshastavarAjaH.itx
% itxtitle              : uchChiShTagaNeshastavarAjaH athavA vinAyakalIlAstutiH (rudrayAmalatantrAntargataH)
% engtitle              : uchChiShTagaNeshastavarAjaH or vinAyakalIlAstutiH
% Category              : stavarAja, ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com, NA, Ruma Dewan
% Description-comments  : rudrayaamaletantre haragauriisa.nvaade
% Indexextra            : (Scans 1, 2, 3, 4, 5)
% Latest update         : September 06, 2005, October 10, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org