ब्रह्मकृता वक्रतुण्डस्तुतिः

ब्रह्मकृता वक्रतुण्डस्तुतिः

॥ श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमस्ते वक्रतुण्डाय गणेशाय महात्मने । अनन्तानन्तपाराय विघ्नेशाय नमो नमः ॥ १॥ नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते । अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ २॥ निर्गुणाय निरूपाय निर्मलाय गुणात्मने । अनन्ताननधाराय सिंहवाहाय ते नमः ॥ ३॥ अनादिरूपकायैव नमः सर्वप्रियङ्कर । वेदान्तवेद्यदेहाय गजवक्त्राय ते नमः ॥ ४॥ अनन्तोदरसंस्थाय नानाभोगकराय ते । मायाधाराय मायाया मोहकाय नमो नमः ॥ ५॥ अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे । चतुर्बाहुयुतायैव स्वानन्दपतये नमः ॥ ६॥ सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च । ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ ७॥ वक्रतुण्ड प्रसन्नस्त्वं मह्यं देहि तदानघ । त्वदीयामचलां भक्तिं यया बन्धो न विद्यते ॥ ८॥ त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् । सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ ९॥ अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन । अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ १०॥ त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि । तदाहं बन्धनान्मुक्तो भविष्यामि च राजसात् ॥ ११॥ तव माता पिता स्वामिन् बन्धयुक्तौ कृतौ यदि । तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ १२॥ नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् । किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ १३॥ अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा । निरन्तरं प्रपश्येयं भवेयमतुलस्ततः ॥ १४॥ ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् । जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ १५॥ (फलश्रुतिः) वक्रतुण्ड उवाच । त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल । सृष्टिकतृर्त्वसामर्थ्यमद्भुतं ते भविष्यति ॥ १६॥ निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति । यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ १७॥ तव पुत्रो भविष्यामि तारको माययांशतः । वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ १८॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । मम प्रीतिकरं ब्रह्मन् ब्रह्मभूयप्रदं तथा ॥ १९॥ इत्युक्त्वान्तर्दधे दक्ष वक्रतुण्डः प्रतापवान् । ब्रह्माऽपि विमना भूत्वा तत्र वै संस्थितोऽभवत् ॥ २०॥ वक्रतुण्डप्रसादेन निर्ममे सकलं जगत् । चराचरमयं सर्वं यथायोग्यं चकार ह ॥ २१॥ सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवाऽभवत् । स्थितः स्वसुखनिष्ठः सन् वक्रतुण्डं स संस्मरन् ॥ २२॥ इति ब्रह्मकृता वक्रतुण्डस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः ४१ । १.४१ १-२२॥ - .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 41 . 1.41 1-22.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Vakratunda Stuti Brahmakrita
% File name             : vakratuNDastutiHbrahmakRRitA.itx
% itxtitle              : vakratuNDastutiH brahmakRitA (mudgalapurANAntargatA)
% engtitle              : vakratuNDastutiH brahmakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM prathamaH khaNDaH | adhyAyaH 41 | 1.41 1-22||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org