श्रीवरदगणेशाष्टोत्तरशतनामावलिः
ॐ गणेशाय नमः ।
ॐ विघ्नराजाय नमः ।
ॐ विघ्नहर्त्रे नमः ।
ॐ गणाधिपाय नमः ।
ॐ लम्बोदराय नमः ।
ॐ वक्रतुण्डाय नमः ।
ॐ विकटाय नमः ।
ॐ गणनायकाय नमः ।
ॐ गजास्याय नमः ।
ॐ सिद्धिदात्रे नमः । (१०)
ॐ खर्वाय नमः ।
ॐ मूषकवाहनाय नमः ।
ॐ मूषकाय नमः ।
ॐ गणराजाय नमः ।
ॐ शैलजानन्ददायकाय नमः ।
ॐ गुहाग्रजाय नमः ।
ॐ महातेजसे नमः ।
ॐ कुब्जाय नमः ।
ॐ भक्तप्रियाय नमः ।
ॐ प्रभवे नमः । (२०)
ॐ सिन्दूराभाय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ धनदायकाय नमः ।
ॐ वामनाय नमः ।
ॐ शूर्पकर्णाय नमः ।
ॐ धूम्राय नमः ।
ॐ शङ्करनन्दनाय नमः ।
ॐ सर्वार्तिनाशकाय नमः ।
ॐ विज्ञाय नमः । (३०)
ॐ कपिलाय नमः ।
ॐ मोदकप्रियाय नमः ।
ॐ सङ्कष्टनाशनाय नमः ।
ॐ देवाय नमः ।
ॐ सुरासुरनमस्कृताय नमः ।
ॐ उमासुताय नमः ।
ॐ कृपालवे नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ प्रियदर्शनाय नमः ।
ॐ हेरम्बाय नमः । (४०)
ॐ रक्तनेत्राय नमः ।
ॐ स्थूलमूर्तये नमः ।
ॐ प्रतापवते नमः ।
ॐ सुखदाय नमः ।
ॐ कार्यकर्त्रे नमः ।
ॐ बुद्धिदाय नमः ।
ॐ व्याधिनाशकाय नमः ।
ॐ इक्षुदण्डप्रियाय नमः ।
ॐ शूराय नमः ।
ॐ क्षमायुक्ताय नमः । (५०)
ॐ अघनाशकाय नमः ।
ॐ एकदन्ताय नमः ।
ॐ महोदाराय नमः ।
ॐ सर्वदाय नमः ।
ॐ गजकर्षकाय नमः ।
ॐ विनायकाय नमः ।
ॐ जगत्पूज्याय नमः ।
ॐ फलदाय नमः ।
ॐ दीनवत्सलाय नमः ।
ॐ विद्याप्रदाय नमः । (६०)
ॐ महोत्साहाय नमः ।
ॐ दुःखदौर्भाग्यनाशकाय नमः ।
ॐ मिष्टप्रियाय नमः ।
ॐ भालचन्द्राय नमः ।
ॐ नित्यसौभाग्यवर्धनाय नमः ।
ॐ दानपूरार्द्रगण्डाय नमः ।
ॐ अंशकाय नमः ।
ॐ विबुधप्रियाय नमः ।
ॐ रक्ताम्बरधराय नमः ।
ॐ श्रेष्ठाय नमः । (७०)
ॐ सुभगाय नमः ।
ॐ नागभूषणाय नमः ।
ॐ शत्रुध्वंसिने नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ सौम्याय नमः ।
ॐ दारिद्र्यनाशकाय नमः ।
ॐ आदिपूज्याय नमः ।
ॐ दयाशीलाय नमः ।
ॐ रक्तमुण्डाय नमः ।
ॐ महोदयाय नमः । (८०)
ॐ सर्वगाय नमः ।
ॐ सौख्यकृते नमः ।
ॐ शुद्धाय नमः ।
ॐ कृत्यपूज्याय नमः ।
ॐ बुधप्रियाय नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ शान्ताय नमः ।
ॐ भुक्तिमुक्तिप्रदायकाय नमः ।
ॐ विद्यावते नमः ।
ॐ दानशीलाय नमः । (९०)
ॐ वेदविदे नमः ।
ॐ मन्त्रविदे नमः ।
ॐ सुधिये नमः ।
ॐ अविज्ञातगतये नमः ।
ॐ ज्ञानिने नमः ।
ॐ ज्ञानिगम्याय नमः ।
ॐ मुनिस्तुताय नमः ।
ॐ योगज्ञाय नमः ।
ॐ योगपूज्याय नमः ।
ॐ भालनेत्राय नमः । (१००)
ॐ शिवात्मजाय नमः ।
ॐ सर्वमन्त्रमयाय नमः ।
ॐ श्रीमते नमः ।
ॐ अवशाय नमः ।
ॐ वशकारकाय नमः ।
ॐ विघ्नध्वंसिने नमः ।
ॐ सदा हृष्टाय नमः ।
ॐ भक्तानां फलदायकाय नमः । (१०८)
इति श्रीवरदगणेशाष्टोत्तरशतनामावलिः सम्पूर्णा ।
Proofread by Narendran Madathil