श्रीवरदगणेशाष्टोत्तरशतनामस्तोत्रम्

श्रीवरदगणेशाष्टोत्तरशतनामस्तोत्रम्

गणेशो विघ्नराजश्च विघ्नहर्ता गणाधिपः । लम्बोदरो वक्रतुण्डो विकटो गणनायकः ॥ १॥ गजास्यः सिद्धिदाता च खर्वो मूषकवाहनः । मूषको गणराजश्च शैलजानन्ददायकः ॥ २॥ गुहाग्रजो महातेजाः कुब्जो भक्तप्रियः प्रभुः । सिन्दूराभो गणाध्यक्षस्त्रिनेत्रो धनदायकः ॥ ३॥ वामनः शूर्पकर्णश्च धूम्रः शङ्करनन्दनः । सर्वार्तिनाशको विज्ञः कपिलो मोदकप्रियः ॥ ४॥ सङ्कष्टनाशनो देवः सुरासुरनमस्कृतः । उमासुतः कृपालुश्च सर्वज्ञः प्रियदर्शनः ॥ ५॥ हेरम्बो रक्तनेत्रश्च स्थूलमूर्तिः प्रतापवान् । सुखदः कार्यकर्त्ता च बुद्धिदो व्याधिनाशकः ॥ ६॥ इक्षुदण्डप्रियः शूरः क्षमायुक्तोऽघनाशकः । एकदन्तो महोदारः सर्वदो गजकर्षकः ॥ ७॥ विनायको जगत्पूज्यः फलदो दीनवत्सलः । विद्याप्रदो महोत्साहो दुःखदौर्भाग्यनाशकः ॥ ८॥ मिष्टप्रियो भालचन्द्रो नित्यसौभाग्यवर्धनः । दानपूरार्द्रगण्डश्च अंशको विबुधप्रियः ॥ ९॥ रक्ताम्बरधरः श्रेष्ठः सुभगो नागभूषणः । शत्रुध्वंसी चतुर्बाहुः सौम्यो दारिद्र्यनाशकः ॥ १०॥ आदिपूज्यो दयाशीलो रक्तमुण्डो महोदयः । सर्वगः सौख्यकृच्छुद्धः कृत्यपूज्यो बुधप्रियः ॥ ११॥ सर्वदेवमयः शान्तो भुक्तिमुक्तिप्रदायकः । विद्यावान्दानशीलश्च वेदविन्मन्त्रवित्सुधीः ॥ १२॥ अविज्ञातगतिर्ज्ञानी ज्ञानिगम्यो मुनिस्तुतः । योगज्ञो योगपूज्यश्च भालनेत्रः शिवात्मजः ॥ १३॥ सर्वमन्त्रमयः श्रीमान् अवशो वशकारकः । विघ्नध्वंसी सदा हृष्टो भक्तानां फलदायकः ॥ १४॥ इदं स्तोत्रं गणेशस्य पठेच्च सादरं नरः । तस्य वाञ्छितकामस्य सिद्धिर्भवति निश्चितम् ॥ १५॥ इति श्रीवरदगणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Proofread by Narendran Madathil
% Text title            : Shri Varadaganesha Ashtottarashata Nama Stotram
% File name             : varadagaNeshAShTottarashatanAmastotram.itx
% itxtitle              : varadagaNeshAShTottarashatanAmastotram
% engtitle              : varadagaNeshAShTottarashatanAmastotram
% Category              : ganesha, aShTottarashatanAma, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Description/comments  : From Vighneshvara-stuti-manjari 2. See corresonding nAmAvalI
% Indexextra            : (Scans 1, 2, nAmAvalI)
% Latest update         : August 16, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org