ऋषभगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता
एतत्पितामहेनोक्तं श्रुत्वा सर्वं नृपोचितम् ।
स्मृत्वा दुर्योधनकथां निःश्वस्योवाच धर्मजः ॥ १३.४८८॥
आशा ममाभूद्विपुला सततं धृतराष्ट्रजे ।
यथा वननिवृत्तेषु सा मास्मासु विधास्यति ॥ १३.४८९॥
सर्वथा युद्धरुचिना प्रत्याख्याते जनार्दने ।
आशा विफलतां नीता सा तेन मम संवृता ॥ १३.४९०॥
तस्माद्वैपुल्यमायातास्तद्भङ्गे दुःसहाः शुचः ।
निवर्तन्ते कथं नाम कथ्यतां मे पितामह ॥ १३.४९१॥
पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् ।
आशा सुमहती पार्थ दशा जीवितहारिणी ॥ १३.४९२॥
हैहयो राजपुत्रः प्राक्सुमित्रो नाम कानने ।
जवादनुससारैकं कुरङ्गं वेगवत्तरम् ॥ १३.४९३॥
समेषु तरुकुञ्जेषु श्वभ्रेषु विषमेषु च ।
मृगानुसारी सुचिरात्स धन्वी क्लममाययौ ॥ १३.४९४॥
ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः ।
आशाविनाशसन्तप्तो मुनीनामविशत्सभाम् ॥ १३.४९५॥
स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् ।
मुनिस्तं वृषभो नाम बभाषे सस्मिताननः ।
राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ॥ १३.४९६॥
भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुताम् ।
विचिन्वन्हृतमश्वेन बदर्याश्रममाययौ ॥ १३.४९७॥
ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः ।
आशाविनाशसन्तप्तो मुनीनामविशत्सभाम् ॥ १३.४९८॥
स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् ।
मुनिस्तं वृषभो नाम बभाषे स स्मिताननः ॥ १३.४९९॥
राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ।
भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुतम् ॥ १३.५००॥
तनुर्नाम मुनिस्तत्र प्रांशुः कृशतराकृतिः ।
दुःखान्तेनावदत्पृष्टो मा राजन्विक्लवो भव ॥ १३.५०१॥
न विद्यते जनः कश्चिदाशया यो न हीयते ।
न च पश्यामि तं लोके याचकं योऽभिमन्यते ॥ १३.५०२॥
कृतघ्नेषु नृशंसेषु कुटिलेष्वलसेषु च ।
आशादौर्वल्यमायान्ति शरदीवाल्पनिम्नगाः ॥ १३.५०३॥
धिक्तां कृशतरामाशां कायशोषविधायिनीम् ।
प्रतिश्रुतमसम्प्राप्य हृदयात्परिवर्तते ॥ १३.५०४॥
पुत्रे मृते वा नष्टे वा पितुरेकात्मजस्य वा ।
आशा दहति गात्राणि सा कृशापि महीयसी ॥ १३.५०५॥
वृद्धानां पुत्रलाभेषु नित्यमाशा भवन्ति याः ।
स्थाविरे जीर्णकायानां ताः कृशा अपि दुःसहाः ॥ १३.५०६॥
भ्रामयत्याप्तमात्रैव शोषयत्यायती कृशा ।
हन्ति मग्ना जटिल्येव धिगाशां मृत्युदायिनीम् ॥ १३.५०७॥
इत्युक्त्वा तनयं राज्ञे स मुनिर्दिव्यलोचनः ।
अदर्शयत्स्वयं चाभूत्प्रकटं धर्मविग्रहः ॥ १३.५०८॥
अथ पप्राच्छ धर्मज्ञं धर्मराजः पितामहम् ।
इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता ऋषभगीता समाप्ता ।