॥ अगस्त्यगीता ॥

श्रीवराह उवाच । श्रुत्वा दुर्वाससो वाक्यं धरणीव्रतमुत्तमम् । ययौ सत्यतपाः सद्यो हिमवत्पार्श्वमुत्तमम् ॥ ५१.१॥ पुष्पभद्रा नदी यत्र शिला चित्रशिला तथा । वटो भद्रवटो यत्र तत्र तस्याश्रमो बभौ । तत्रोपरि महत् तस्य चरितं संभविष्यति ॥ ५१.२॥ धरण्युवाच । बहुकल्पसहस्त्राणि व्रतस्यास्य सनातन । मया कृतस्य तपसस्तन्मया विस्मृतं प्रभो ॥ ५१.३॥ इदानीं त्वत्प्रसादेन स्मरणं प्राक्तनं मम । जातं जातिस्मरा चास्मि विशोका परमेश्वर ॥ ५१.४॥ यदि नाम परं देव कौतुकं हृदि वर्तते । अगस्त्यः पुनरागत्य भद्राश्वस्य निवेशनम् । यच्चकार स राजा च तन्ममाचक्ष्व भूधर ॥ ५१.५॥ श्रीवराह उवाच । प्रत्यागतमृषिं दृष्ट्वा भद्राश्वः श्वेतवाहनः । वरासनगतं दृष्ट्वा कृत्वा पूजां विशेषतः । अपृच्छन्मोक्षधर्माख्यं प्रश्नं सकलधारिणि ॥ ५१.६॥ भद्राश्व उवाच । भगवन् कर्मणा केन छिद्यते भवसंसृतिः । किं वा कृत्वा न शोचन्ति मूर्त्तामूर्त्तोपपत्तिषु ॥ ५१.७॥ अगस्त्य उवाच । शृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् । दृश्यादृश्यविभागोत्थां समाहितमना नृप ॥ ५१.८॥ नाहो न रात्रिर्न दिशोऽदिशश्च न द्यौर्न देवा न दिनं न सूर्यः । तस्मिन् काले पशुपालेति राजा स पालयामास पशूननेकान् ॥ ५१.९॥ तान् पालयन् स कदाचिद् दिदृक्षुः पूर्वं समुद्रं च जगाम तूर्णम् । अनन्तपारस्य महोदधेस्तु तीरे वनं तत्र वसन्ति सर्पाः ॥ ५१.१०॥ अष्टौ द्रुमाः कामवहा नदी च तुर्यक् चोद्र्ध्वं बभ्रमुस्तत्र चान्ये । पञ्च प्रधानाः पुरुषास्तथैकां स्त्रियं बिभ्रते तेजसा दीप्यमानाम् ॥ ५१.११॥ साऽपि स्त्री स्वे वक्षसि धारयन्ती सहस्रसूर्यप्रतिमं विशालम् । तस्याधरस्त्रिर्विकारस्त्रिवर्ण- स्तं राजानं पश्य परिभ्रमन्तम् ॥ ५१.१२॥ तूष्णींभूता मृतकल्पा इवासन् नृपोऽप्यसौ तद्वनं संविवेश । तस्मिन् प्रविष्टे सर्व एते विविशु- र्भयादैक्यं गतवन्तः क्षणेन ॥ ५१.१३॥ तैः सर्पैः स नृपो दुर्विनीतैः संवेष्टितो दस्युभिश्चिन्तयानः । कथं चैतेन भविष्यन्ति येन कथं चैते संसृताः संभवेयुः ॥ ५१.१४॥ एवं राज्ञश्चिन्तयतस्त्रिवर्णः पुरुषः परः । श्वेतं रक्तं तथा कृष्णं त्रिवर्णं धारयन्नरः ॥ ५१.१५॥ स संज्ञां कृतवान् मह्यमपरोऽथ क्व यास्यसि । एवं तस्य ब्रुवाणस्य महन्नाम व्यजायत ॥ ५१.१६॥ तेनापि राजा संवीतः स बुध्यस्वेति चाब्रवीत् । एवमुक्ते ततः स्त्री तु तं राजानं रुरोध ह ॥ ५१.१७॥ मायाततं तं मा भैष्ट ततोऽन्यः पुरुषो नृपम् । संवेष्ट्य स्थितवान् वीरस्ततः सर्वेश्वरेश्वरः ॥ ५१.१८॥ ततोऽन्ये पञ्च पुरुषा आगत्य नृपसत्तमम् । संविष्ट्य संस्थिताः सर्वे ततो राजा विरोधितः ॥ ५१.१९॥ रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः । मथितुं शस्त्रमादाय लीनाऽन्योऽन्यं ततो भयात् ॥ ५१.२०॥ तैर्लीनैर्नृपर्तेर्वेश्म बभौ परमशोभनम् । अन्येषामपि पापानां कोटिः साग्राभवन्नृप ॥ ५१.२१॥ गृहे भूसलिलं वह्निः सुखशीतश्च मारुतः । सावकाशानि शुभ्राणि पञ्चैकोनगुणानि च ॥ ५१.२२॥ एकैव तेषां सुचिरं संवेष्ट्यासज्यसंस्थिता । एवं स पशुपालोऽसौ कृतवानञ्जसा नृप ॥ ५१.२३॥ तस्य तल्लाघवं दृष्ट्वा रूपं च नृपतेर्मृधे । त्रिवर्णः पुरुषो राजन्नब्रवीद् राजसत्तमम् ॥ ५१.२४॥ त्वत्पुत्रोऽस्मि महाराज ब्रूहि किं करवाणि ते । अस्माभिर्बन्धुमिच्छद्भिर्भवन्तं निश्चयः कृतः ॥ ५१.२५॥ यदि नाम कृताः सर्वे वयं देव पराजिताः । एवमेव शरीरेषु लीनास्तिष्ठाम पार्थिव ॥ ५१.२६॥ मर्य्येके तव पुत्रत्वं गते सर्वेषु संभवः । एवमुक्तस्ततो राजा तं नरं पुनरब्रवीत् ॥ ५१.२७॥ पुत्रो भवति मे कर्त्ता अन्येषामपि सत्तम । युष्मत्सुखैर्नरैर्भावैर्नाहं लिप्ये कदाचन ॥ ५१.२८॥ एवमुक्त्वा स नृपतिस्तमात्मजमथाकरोत् । तैर्विमुक्तः स्वयं तेषां मध्ये स विरराम ह ॥ ५१.२९॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकपञ्चाशोऽध्यायः ॥ ५१॥
अगस्त्य उवाच । स त्रिवर्णो नृपोत्सृष्टः स्वतन्त्रत्वाच्च पार्थिव । अहं नामानमसृजत् पुत्रं पुत्रस्त्रिवर्णकम् ॥ ५२.१॥ तस्यापि चाभवत् कन्या अवबोधस्वरूपिणी । सा तु विज्ञानदं पुत्रं मनोह्वं विससर्ज ॥ ५२.२॥ तस्यापि सर्वरूपाः स्युस्तनयाः पञ्चभोगिनः । यथासंख्येन पुत्रास्तु तेषामक्षाभिधानकाः ॥ ५२.३॥ एते पूर्वं दस्यवः स्युस्ततो राज्ञा वशीकृताः । अमूर्त्ता इव ते सर्वे चक्रुरायतनं शुभम् ॥ ५२.४॥ नवद्बारं पुरं तस्य त्वेकस्तम्भं चतुष्पथम् । नदीसहस्रसंकीर्ण जलकृत्य समास्थितम् ॥ ५२.५॥ तत्पुरं ते प्रविविशुरेकीभूतास्ततो नव । पुरुषो मूर्त्तिमान् राजा पशुपालोऽभवत् क्षणात् ॥ ५२.६॥ ततस्तत्पुरसंस्थस्तु पशुपालो महानृपः । संसूच्य वाचकाञ्छब्दान् वेदान् सस्मार तत्पुरे ॥ ५२.७॥ आत्मस्वरूपिणो नित्यास्तदुक्तानि व्रतानि च । नियमान् क्रतवश्चैव सर्वान् राजा चकार ह ॥ ५२.८॥ स कदाचिन्नृपः खिन्नः कर्मकाण्डं प्ररोचयन् । सर्वज्ञो योगनिद्रायां स्थित्वा पुत्रं ससर्ज ह ॥ ५२.९॥ चतुर्वक्त्रं चतुर्बाहुं चतुर्वेदं चतुष्पथम् । तस्मादारभ्य नृपतेर्वशे पश्वादयः स्थिताः ॥ ५२.१०॥ तस्मिन् समुद्रे स नृपो वने तस्मिंस्तथैव च । तृणादिषु नृपस्सैव हस्त्यादिषु तथैव च । समोभवत् कर्मकाण्डादनुज्ञाय महामते ॥ ५२.११॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्वापञ्चाशोऽध्यायः ॥ ५२॥
भद्राश्व उवाच । मत्प्रश्नविषये ब्रह्मन् कथेयं कथिता त्वया । तस्या विभूतिरभवत् कस्य केन कृतेन ह ॥ ५३.१॥ अगस्त्य उवाच । आगतेयं कथा चित्रा सर्वस्य विषये स्थिता । त्वद्देहे मम देहे च सर्वजन्तुषु सा समा ॥ ५३.२॥ तस्यां संभूतिमिच्छन् यस्तस्योपायं स्वयं परम् । पशुपालात् समुत्पन्नो यश्चतुष्पाच्चतुर्मुखः ॥ ५३.३॥ स गुरुः स कथायास्तु तस्याश्चैव प्रवर्त्तकः । तस्य पुत्रः स्वरो नाम सप्तमूर्तिंरसौ स्मृतः ॥ ५३.४॥ तेन प्रोक्तं तु यत्किंचित् चतुर्णां साधनं नृप । ऋगर्थानां चतुर्भिस्ते तद्भक्त्याराध्यतां ययुः ॥ ५३.५॥ चतुर्णां प्रथमो यस्तु चतुःशृङ्गसमास्थितः । वृषद्वितीयस्तत्प्रोक्तमार्गेणैव तृतीयकः । चतुर्थस्तत्प्रणीतस्तां पूज्य भक्त्या सुतं व्रजेत् ॥ ५३.६॥ सप्तमूर्त्तेस्तु चरितं शुश्रुंवुः प्रथमं नृप । ब्रह्मचर्येण वर्त्तेत द्वितीयोऽस्य सनातनः ॥ ५३.७॥ ततो भृत्यादिभरणं वृषभारोहणं त्रिषु । वनवासश्च निर्द्दिष्ट आत्मस्थे वृषभे सति ॥ ५३.८॥ अहमस्मि वदत्यन्यश्चतुर्द्धा एकधा द्विधा । भेदभिन्नसहोत्पन्नास्तस्यापत्यानि जज्ञिरे ॥ ५३.९॥ नित्यानित्यस्वरूपाणि दृष्ट्वा पूर्वं चतुर्मुखः । चिन्तयामास जनकं कथं पश्याम्यहं नृप ॥ ५३.१०॥ मदीयस्य पितुर्ये हि गुणा आसन् महात्मनः । न ते सम्प्रति दृश्यन्ते स्वरापत्येषु केषुचित् ॥ ५३.११॥ पितुः पुत्रस्य यः पुत्रः स पितामहनामवान् । एवं श्रुतिः स्थिता चेयं स्वरापत्येषु नान्यथा ॥ ५३.१२॥ क्वापि सम्पत्स्यते भावो द्रष्टव्यश्चापि ते पिता । एवं नीतेऽपि किं कार्यमिति चिन्तापरोऽभवत् ॥ ५३.१३॥ तस्य चिन्तयतः शस्त्रं पितृकं पुरतो बभौ । तेन शस्त्रेण तं रोषान्ममन्थ स्वरमन्तिके ॥ ५३.१४॥ तस्मिन् मथितमात्रे तु शिरस्तस्यापि दुर्ग्रहम् । नालिकेरफलाकारं चतुर्वक्त्रोऽन्वपश्यत ॥ ५३.१५॥ तच्चावृतं प्रधानेन दशधा संवृतो बभौ । चतुष्पादेन शस्त्रेण चिच्छेद तिलकाण्डवत् ॥ ५३.१६॥ प्रकामं तिलसंच्छिन्ने तदमूलौ न मे बभौ । अहं त्वहं वदन् भूतं तमप्येवमथाच्छिनत् ॥ ५३.१७॥ तस्मिन् छिन्ने तदस्यांसे ह्रस्वमन्यमवेक्षत । अहं भूतादि वः पञ्च वदन्तं भूतिमन्तिकात् ॥ ५३.१८॥ तमप्येवमथो छित्त्वा पञ्चाशून्यममीक्षत । कृत्वावकाशं ते सर्वे जल्पन्त इदमन्तिकात् ॥ ५३.१९॥ तमप्यसङ्गशस्त्रेण चिच्छेद तिलकाण्डवत् । तस्मिंच्छिन्ने दशांशेन ह्रस्वमन्यमपश्यत ॥ ५३.२०॥ पुरुषं रूपशस्त्रेण तं छित्त्वाऽन्यमपश्यत । तद्वद् ह्रस्वं सितं सौम्यं तमप्येवं तदाऽकरोत् ॥ ५३.२१॥ एवं कृते शरीरं तु ददर्श स पुनः प्रभुः । स्वकीयमेवाकस्यान्तः पितरं नृपसत्तम ॥ ५३.२२॥ त्रसरेणुसमं मूर्त्या अव्यक्तं सर्वजन्तुषु । समं दृष्ट्वा परं हर्षं उभे विसस्वरार्त्तवित् ॥ ५३.२३॥ एवंविधोऽसौ पुरुषः स्वरनामा महातपाः । मूर्त्तिस्तस्य प्रवृत्ताख्यं निवृत्ताख्यं शिरो महत् ॥ ५३.२४॥ एतस्मादेव तस्याशु कथया राजसत्तम । संभूतिरभवद् राजन् विवृत्तेस्त्वेष एव तु ॥ ५३.२५॥ एषेतिहासः प्रथमः सर्वस्य जगतो भृशम् । य इमं वेत्ति तत्त्वेन साक्षात् कर्मपरो भवेत् ॥ ५३.२६॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिपञ्चाशोऽध्यायः ॥ ५३॥
भद्राश्व उवाच । विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज । कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ॥ ५४.१॥ अगस्त्य उवाच । विष्णुरेव सदाराध्यः सर्वदेवैरपि प्रभुः । तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ॥ ५४.२॥ रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा । नारायणः परो देवस्तं प्रणम्य न सीदति ॥ ५४.३॥ श्रूयते च पुरा राजन् नारदेन महात्मना । कथितं तुष्टिदं विष्णोर्व्र्तमप्सरसां तथा ॥ ५४.४॥ नारदस्तु पुरा कल्पे गतवान् मानसं सरः । स्नानार्थं तत्र चजापश्यत् सर्वमप्सरसां गणम् ॥ ५४.५॥ तास्तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् । अस्थिचर्मावशेषं तु छत्रदण्डकपालिनम् ॥ ५४.६॥ देवासुरमनुष्याणां दिदृक्षुं कलहप्रियम् । ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस्ता वराङ्गनाः ॥ ५४.७॥ अप्सरस ऊचुः । भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज । नारायणश्च भर्त्ता नो यथा स्यात् तत् प्रचक्ष्व नः ॥ ५४.८॥ नारद उवाच । प्रणामपूर्वकः प्रश्नः सर्वत्र विहितः शुभः । स च मे न कृतो गर्वाद् युष्माभिर्यौवनस्मयात् ॥ ५४.९॥ तथापि देवदेवस्य विष्णोर्यन्नामकीर्तितम् । भवतीभिस्तथा भर्त्ता भवत्विति हरिः कृतः । तन्नामोच्चारणादेव कृतं सर्वं न संशयः ॥ ५४.१०॥ इदानीं कथयाम्याशु व्रतं येन हरिः स्वयम् । वरदत्वमवाप्नोति भर्तृत्वं च नियच्छति ॥ ५४.११॥ नारद उवाच । वसन्ते शुक्लपक्षस्य द्वादशी या भवेच्छुभा । तस्यामुपोष्य विधिवन् निशायां हरिमर्च्चयेत् ॥ ५४.१२॥ पर्यङ्कास्तरणं कृत्वा नानाचित्रसमन्वितम् । तत्र लक्ष्म्या युतं रौप्यं हरिं कृत्वा निवेशयेत् ॥ ५४.१३॥ तस्योपरि ततः पुष्पैर्मण्डपं कारयेद् बुधः । नृत्यवादित्रगेयैश्च जागरं तत्र कारयेत् ॥ ५४.१४॥ मनोभवायेति शिर अनङ्गायेति वै कटिम् । कामाय बाहुमूले तु सुशास्त्रायेति चोदरम् ॥ ५४.१५॥ मन्मथायेति पादौ तु हरयेति च सर्वतः । पुष्पैः सम्पूज्य देवेशं मल्लिकाजातिभिस्तथा ॥ ५४.१६॥ पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् । चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ॥ ५४.१७॥ एवं कृत्वा प्रभाते तु प्रदद्याद् ब्राह्मणाय वै । वेदवेदाङ्गयुक्ताय सम्पूर्णाङ्गाय धीमते ॥ ५४.१८॥ ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् । एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ॥ ५४.१९॥ अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः । अवमानस्य तस्यायं विपाको वो भविष्यति ॥ ५४.२०॥ एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः । तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ॥ ५४.२१॥ व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः । अवमानेऽपहरणं गोपालैर्वो भविष्यति । पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ॥ ५४.२२॥ अगस्त्य उवाच । एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् । ता अप्येतद् व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ॥ ५४.२३॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःपञ्चाशोऽध्यायः ॥ ५४॥
अगस्त्य उवाच । शृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् । येन सम्प्राप्यते विष्णुः शुभेनैव न संशयः ॥ ५५.१॥ मार्गशीर्षेऽथ मासे तु प्रथमाह्नात् समारभेत् । एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ॥ ५५.२॥ ततो दशम्यां मध्याह्ने स्नात्वा विष्णुं समर्च्य च । भक्त्या संकल्पयेत् प्राग्वद् द्वादशीं पक्षतो नृप ॥ ५५.३॥ तामप्येवमुषित्वा च यवान् विप्राय दापयेत् । कृष्णायेति हरिर्वाच्यो दाने होमे तथार्च्चने ॥ ५५.४॥ चातुर्मास्यमथैवं तु क्षपित्वा राजसत्तम । चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः सुधीः । सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ॥ ५५.५॥ श्रावणादिषु मासेषु तद्वच्छालिं प्रदापयेत् । त्रिषु मासेषु यावच्च कार्त्तिकस्यादिरागतः ॥ ५५.६॥ तमप्येवं क्षपित्वा तु दशम्यां प्रयतः शुचिः । अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ॥ ५५.७॥ संकल्पं पूर्ववद् भक्त्या द्वादश्यां संयतेन्द्रियः । एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ॥ ५५.८॥ काञ्चनाङ्गां च पातालकुलपर्वतसंयुताम् । भूमिन्यासविधानेन स्थापयेत् तां हरेः पुरः ॥ ५५.९॥ सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् । सम्पूज्य प्रियदत्तेति पञ्चरत्नैर्विचक्षणः ॥ ५५.१०॥ जागरं तत्र कुर्वीत प्रभाते तु पुनर्द्विजान् । आमन्त्र्यं संख्यया राजंश्चतुर्विंशति यावतः ॥ ५५.११॥ तेषां एकैकशो गां च अनड्वाहं च दापयेत् । एकैकं वस्त्रयुग्मं च अङ्गुलीयकमेव च ॥ ५५.१२॥ कटकानि च सौवर्णकर्णाभरणकानि च । एकैकं ग्राममेतेषां राजा राजन् प्रदापयेत् ॥ ५५.१३॥ तन्मध्यमं सयुग्मं तु सर्वमाद्यं प्रदापयेत् । स्वशक्त्याभरणं चैव दरिद्रस्य स्वशक्तितः ॥ ५५.१४॥ यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा । वस्त्रयुग्मं च दातव्यं यथाविभवशक्तितः ॥ ५५.१५॥ गां युग्माभरणात् सर्वं सहिरण्यं च कारयेत् । एवं कृते तथा कृष्णशुक्लद्वादश्यमेव च ॥ ५५.१६॥ रौप्यां वा पृथिवीं कृत्वा यथाविभवशक्तितः । दापयेद् ब्राह्मणानां तु तथा तेषां च भोजनम् । उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ॥ ५५.१७॥ एतान् दत्त्वा वदेदेवं कृष्णो दामोदरो मम । प्रीयतां सर्वदा देवो विश्वरूपो हरिर्मम ॥ ५५.१८॥ दाने च भोजने चैव कृत्वा यत् फलमाप्यते । तन्न शक्यं सहस्त्रेण वर्षाणामपि कीर्तितुम् ॥ ५५.१९॥ तथाप्युद्देशतः किञ्चित् फलं वक्ष्यामि तेऽनघ । व्रतस्यास्य पुरा वृत्तं शुभान्यस्य शृणुष्व तत् ॥ ५५.२०॥ आसीदादियुगे राजा ब्रह्मवादी दृढव्रतः । स पुत्रकामः पप्रच्छ ब्रह्माणं परमेष्ठिनम् । तस्येदं व्रतमाचख्यौ ब्रह्मा स कृतवांस्तथा ॥ ५५.२१॥ तस्य व्रतान्ते विश्वात्मा स्वयं प्रत्यक्षतां ययौ । तुष्टश्चोवाच भो राजन् वरो मे व्रियतां वरः ॥ ५५.२२॥ राजोवाच । पुत्रं मे देहि देवेश वेदमन्त्रविशारदम् । याजकं यजनासक्तं कीर्त्या युक्तं चिराभुषम् । असंख्यातगुणं चैव ब्रह्मभूतमकल्मषम् ॥ ५५.२३॥ एवमुक्त्वा ततो राजा पुनर्वचनमब्रवीत् । ममाप्यन्ते शुभं स्थानं प्रयच्छ परमेश्वर । यतन्मुनिपदं नाम यत्र गत्वा न शोचति ॥ ५५.२४॥ एवमस्त्विति तं देवः प्रोक्त्वा चादर्शनं गतः । तस्यापि राज्ञः पुत्रोऽभूद् वत्सप्रीर्नाम नामतः ॥ ५५.२५॥ वेदवेदाङ्गसम्पन्नो यज्ञयाजी बहुश्रुतः । तस्य कीर्त्तिर्महाराज विस्तृता धरणीतले ॥ ५५.२६॥ राजाऽपि तं सुतं लब्ध्वा विष्णुदत्तं प्रतापिनम् । जगाम तपसे युक्तः सर्वद्वन्द्वान् प्रहाय सः ॥ ५५.२७॥ आराधयामास हरिं निराहारो जितेन्द्रियः । हिमवत्पर्वते रम्ये स्तुतिं कुर्वंस्तदा नृपः ॥ ५५.२८॥ भद्राश्व उवाच । कीदृशी सा स्तुतिर्ब्रह्मन् यां चकार स पार्थिवः । किं च तस्याभवद् देवं स्तुवतः पुरुषोत्तमम् ॥ ५५.२९॥ दुर्वासा उवाच । हिमवन्तं समाश्रित्य राजा तद्गतमानसः । स्तुतिं चकार देवाय विष्णवे प्रभविष्णवे ॥ ५५.३०॥ राजोवाच । क्षराक्षरं क्षीरसमुद्रशायिनं क्षितीधरं मूर्तिमतां परं पदम् । अतीन्द्रियं विश्वभुजां पुरः कृतं निराकृतं स्तौमि जनार्दनं प्रभुम् ॥ ५५.३१॥ त्वमादिदेवः परमार्थरूपी विभुः पुराणः पुरुषोत्तमश्च । अतीन्द्रियो वेदविदां प्रधानः प्रपाहि मां शङ्खगदास्त्रपाणे ॥ ५५.३२॥ कृतं त्वया देव सुरासुराणां संकीर्त्यतेऽसौ च अनन्तमूर्ते । सृष्ट्यर्थमेतत् तव देव विष्णो न चेष्टितं कूटगतस्य तत्स्यात् ॥ ५५.३३॥ तथैव कूर्मत्वमृगत्वमुच्चै - स्त्वया कृतं रूपमनेकरूप । सर्वज्ञभावादसकृच्च जन्म संकीर्त्त्यते तेऽच्युत नैतदस्ति ॥ ५५.३४॥ नृसिंह नमो वामन जमदग्निनाम दशास्यगोत्रान्तक वासुदेव । नमोऽस्तु ते बुद्ध कल्किन् खगेश शंभो नमस्ते विबुधारिनाशन ॥ ५५.३५॥ नमोऽस्तु नारायण पद्मनाभ नमो नमस्ते पुरुषोत्तमाय । नमः समस्तामरसङ्घपूज्य नमोऽस्तु ते सर्वविदां प्रधान ॥ ५५.३६॥ नमः करालास्य नृसिंहमूर्त्ते नमो विशालाद्रिसमान कूर्म । नमः समुद्रप्रतिमान मत्स्य नमामि त्वां क्रोडरूपिननन्त ॥ ५५.३७॥ सृष्ट्यर्थमेतत् तव देव चेष्टितं न मुख्यपक्षे तव मूर्त्तिता विभो । अजानता ध्यानमिदं प्रकाशितं नैभिर्विना लक्ष्यसे त्वं पुराण ॥ ५५.३८॥ आद्यो मखस्त्वं स्वयमेव विष्णो मखाङ्गभूतोऽसि हविस्त्वमेव । पशुर्भवान् ऋत्विगिज्यं त्वमेव त्वां देवसङ्घा मुनयो यजन्ति ॥ ५५.३९॥ यदेतस्मिन् जगध्रुवं चलाचलं सुरादिकालानलसंस्थमुत्तमम् । न त्वं विभक्तोऽसि जनार्दनेश प्रयच्छ सिद्धिं हृदयेप्सितां मे ॥ ५५.४०॥ नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे । शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ॥ ५५.४१॥ एवं स्तुतस्तदा देवस्तेन राज्ञा महात्मना । विशालाम्रतलस्थेन तुतोष परमेश्वरः ॥ ५५.४२॥ कुब्जरूपी ततो भूत्वा आजगाम हरिः स्वयम् । तस्मिन्नागतमात्रे तु सीप्याम्रः कुब्जकोऽभवत् ॥ ५५.४३॥ तं दृष्ट्वा महदाश्चर्यं स राजा संशितव्रतः । विशालस्य कथं कौब्ज्यमिति चिन्तापरोभवत् ॥ ५५.४४॥ तस्य चिन्तयतो बुद्धिर्बभौ तं ब्राह्मणं प्रति । अनेनागतमात्रेण कृतमेतन्न संशयः ॥ ५५.४५॥ तस्मादेषैव भविता भगवान् पुरुषोत्तमः । एवमुक्त्वा नमश्चक्रे तस्य विप्रस्य स नृपः ॥ ५५.४६॥ अनुग्रहाय भगवन् नूनं त्वं पुरुषोत्तमः । आगतोऽसि स्वरूपं मे दर्शयस्वाधुना हरे ॥ ५५.४७॥ एवमुक्तस्तदा देवः शङ्खचक्रगदाधरः । बभौ तत्पुरतः सौम्यो वाक्यं चेदमुवाच ह ॥ ५५.४८॥ वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्तते । मयि प्रसन्ने त्रैलोक्य तिलमात्रमिदं नृप ॥ ५५.४९॥ एवमुक्तस्ततो राजा हर्षोत्फुल्लितलोचनः । मोक्षं प्रयच्छ देवेशेत्युक्त्वा नोवाच किंचन ॥ ५५.५०॥ एवमुक्तः स भगवान् पुनर्वाक्यमुवाच ह । मय्यागते विशालोऽयमाम्रः कुब्जत्वमागतः । यस्मात् तस्मात् तीर्थमिदं कुब्जकाम्रं भविष्यति ॥ ५५.५१॥ तिर्यग्योन्यादयोऽप्यस्मिन् ब्राह्मणान्ता यदि स्वकम् । कलेवरं त्यजिष्यन्ति तेषां पञ्चशतानि च । विमानानि भविष्यन्ति योगिनां मुक्तिरेव च ॥ ५५.५२॥ एवमुक्त्वा नृपं देवः शङ्खाग्रेण जनार्दनः । पस्पर्श स्पृष्टमात्रोऽसौ परं निर्वाणमाप्तवान् ॥ ५५.५३॥ तस्मात्त्वमपि राजेन्द्र तं देवं शरणं व्रज । येन भूयः पुनः शोच्यपदवीं नो प्रयास्यसि ॥ ५५.५४॥ य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः । पठेद् यश्चरितं ताभ्यां मोक्षधर्मार्थदो भवेत् ॥ ५५.५५॥ शुभव्रतमिदं पुण्यं यश्च कुर्याज्जनेश्वर । स सर्वसम्पदं चेह भुक्त्वेते तल्लयं व्रजेत् ॥ ५५.५६॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चपञ्चाशोऽध्यायः ॥ ५५॥
अगस्त्य उवाच । अतः परं प्रवक्ष्यामि धन्यव्रतमनुत्तमम् । येन सद्यो भवेद् धन्य अधन्योऽपि हि यो भवेत् ॥ ५६.१॥ मार्गशीर्षे सिते पक्षे प्रतिपद् या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत विष्णुमग्निं प्रपूजयेत् ॥ ५६.२॥ वैश्वानराय पादौ तु अग्नयेत्युदरं तथा । हविर्भुंजाय च उरो द्रविणोदेति वै भुजो ॥ ५६.३॥ संवर्त्तायेति च शिरो ज्वलनायेति सर्वतः । अभ्यर्च्यैवं विधानेन देवदेवं जनार्दनम् ॥ ५६.४॥ तस्यैव पुरतः कुण्डं कारयित्वा विघानतः । होमं तत्र प्रकुर्वीत एभिर्मन्त्रैर्विचक्षणः ॥ ५६.५॥ ततः संयावकं चान्नं भुञ्जीयाद् घृतसंयुतम् । कृष्णपक्षेऽप्येवमेव चातुर्मास्यं तु यावतः ॥ ५६.६॥ चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः । श्रावणादिषु सक्तूंश्च ततश्चैतत् समाप्यते ॥ ५६.७॥ समाप्ते तु व्रते वह्निं काञ्चनं कारयेद् बुधः । रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ॥ ५६.८॥ कुङ्कुमेन तथा लिप्य ब्राह्मणं देवदेव च । सर्वावयवसम्पूर्णं ब्राह्मणं प्रियदर्शनम् ॥ ५६.९॥ पूजयित्वा विधानेन रक्तवस्त्रयुगेन च । पश्चात् तं दापयेत् तस्य मन्त्रेणानेन बुद्धिमान् ॥ ५६.१०॥ धन्योऽस्मि धन्यकर्माऽस्मि धन्यचेष्टोऽस्मि धन्यवान् । धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ॥ ५६.११॥ एवमुच्चार्य तं विप्रे न्यस्य कोशं महात्मनः । सद्यो धन्यत्वमाप्नोति योऽपि स्याद् भाग्यवर्जितः ॥ ५६.१२॥ इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् । अनेन कृतमात्रेण जायते नात्र संशयः ॥ ५६.१३॥ प्राग्जन्मजनितं पापमग्निर्दहति तस्य ह । दग्धे पापे विमुक्तात्मा इह जन्मन्यसौ भवेत् ॥ ५६.१४॥ योऽपीदं शृणुयान्नित्यं यश्च भक्त्या पठेद् द्विजः । उभौ ताविह लोके तु धन्यौ सद्यो भविष्यतः ॥ ५६.१५॥ श्रूयते च व्रतं चैतच्चीर्णमासीन्महात्मना । धनदेन पुरा कल्पे शूद्रयोनौ स्थितेन तु ॥ ५६.१६॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्पञ्चाशोऽध्यायः ॥ ५६॥
अगस्त्य उवाच । अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् । यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः ॥ ५७.१॥ यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः । एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल ॥ ५७.२॥ द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने । नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम् ॥ ५७.३॥ बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् । एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम् ॥ ५७.४॥ परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् । तस्यार्घं दापयेद् धीमान् मन्त्रेण परमेष्ठिनः ॥ ५७.५॥ नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च । यज्ञलोकाधिपतये सोमाय परमात्मने ॥ ५७.६॥ अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः । रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः ॥ ५७.७॥ फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः । शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा ॥ ५७.८॥ आषाढादिचतुष्के तु तिलहोमं तु कारयेत् । तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः ॥ ५७.९॥ ततः संवत्सरे पूर्णे शशिनं कृतराजतम् । सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् । एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत् ॥ ५७.१०॥ कान्तिमानपि लोकेऽस्मिन् सर्वज्ञः प्रियदर्शनः । त्वत्प्रसादात् सोमरूपिन् नारायण नमोऽस्तु ते ॥ ५७.११॥ अनेन किल मन्त्रेण दत्त्वा विप्राय वाग्यतः । दत्तमात्रे ततस्तस्मिन् कान्तिमान् जायते नरः ॥ ५७.१२॥ आत्रेयेणापि सोमेन कृतमेतत् पुरा नृप । तस्य व्रतान्ते संतुष्टः स्वयमेव जनार्दनः । यक्ष्माणमपनीयाशु अमृताख्यां कलां ददौ ॥ ५७.१३॥ तां कलां सोमराजाऽसौ तपसा लब्धवानिति । सोमत्वं चागमत् सोऽस्य ओषधीनां पतिर्बभौ ॥ ५७.१४॥ द्वितीयामश्विनौ सोमभुजौ कीर्त्येते तद्दिने नृप । तौ शेषविष्णू विख्यातौ मुख्यपक्षौ न संशयः ॥ ५७.१५॥ न विष्णोर्व्यतिरिक्तं स्याद् दैवतं नृपसत्तम । नामभेदेन सर्वत्र संस्थितः परमेश्वरः ॥ ५७.१६॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तपञ्चाशोऽध्यायः ॥ ५७॥
अगस्त्य उवाच । अतः परं महाराज सौभाग्यकरणं व्रतम् । शृणु येनाशु सौभाग्यं स्त्रीपुंसामुपजायते ॥ ५८.१॥ फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षतः । उपासितव्या नक्तेन शुचिना सत्यवादिना ॥ ५८.२॥ सश्रीकं च हरिं पूज्य रुद्रं वा चोमया सह । या श्रीः सा गिरिजा प्रोक्ता यो हरिः स त्रिलोचनः ॥ ५८.३॥ एवं सर्वेषु शास्त्रेषु पुराणेषु च पठ्यते । एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक्तया ॥ ५८.४॥ रुद्रो जनानां मर्त्यानां काव्यं शास्त्रं न तद्भवेत् । विष्णुं रुद्रकृतं ब्रूयात् श्रीर्गौरी न तु पार्थिव । तन्नास्तिकानां मर्त्यानां काव्यं ज्ञेयं विचक्षणैः ॥ ५८.५॥ एवं ज्ञात्वा सलक्ष्मीकं हरिं सम्पूज्य भक्तितः । मन्त्रेणानेन राजेन्द्र ततस्तं परमेश्वरम् ॥ ५८.६॥ गम्भीरायेति पादौ तु सुभगायेति वै कटिम् । उदरं देवदेवेति त्रिनेत्रायेति वै मुखम् । वाचस्पतये च शिरो रुद्रायेति च सर्वतः ॥ ५८.७॥ एवमभ्यर्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् । हरं वा गौरिसंयुक्तं गन्धपुष्पादिभिः क्रमात् ॥ ५८.८॥ ततस्तस्याग्रतो होमं कारयेन्मधुसर्पिषा । तिलैः सह महाराज सौभाग्यपतयेति च ॥ ५८.९॥ ततस्त्वक्षारविरसं निस्नेहं धरणीतले । गोधूमान्नं तु भुञ्जीत कृष्णेप्येवं विधिः स्मृतः । आषाढादिद्वितीयां तु पारणं तत्र भोजनम् ॥ ५८.१०॥ यवान्नं तु ततः पश्चात् कार्त्तिकादिषु पार्थिव । श्यामाकं तत्र भुञ्जीत त्रीन् मासान् नियतः शुचिः ॥ ५८.११॥ ततो माघसिते पक्षे तृतीयायां नराधिप । सौवर्णां कारयेद् गौरीं रुद्रं चैकत्र बुद्धिमान् ॥ ५८.१२॥ सलक्ष्मीकं हरिं चापि यथाशक्त्या प्रसन्नधीः । ततस्तं ब्राह्मणे दद्यात् पात्रभूते विचक्षणे ॥ ५८.१३॥ अन्नेन हीने वेदानां पारगे साधुवर्तिनि । सदाचारेति वा दद्यादल्पवित्ते विशेषतः ॥ ५८.१४॥ षड्भिः पात्रैरुपेतं तु ब्राह्मणाय निवेदयेत् । एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ॥ ५८.१५॥ तृतीयं तिलतैलस्य चतुर्थं गुडसंयुतम् । पञ्चमं लवणैः पूर्णं षष्ठं गोक्षीरसंयुतम् ॥ ५८.१६॥ एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् । सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ॥ ५८.१७॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टपञ्चाशोऽध्यायः ॥ ५८॥
अगस्त्य उवाच । अथाविघ्नकरं राजन् कथयामि शृणुष्व मे । येन सम्यक् कृतेनापि न विघ्नमुपजायते ॥ ५९.१॥ चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्विदम् । नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् । तदेवाग्नौ तु होतव्यं ब्राह्मणाय च तद् भवेत् ॥ ५९.२॥ चातुर्मास्यं व्रतं चैतत् कृत्वा वै पञ्च मे तथा । सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ॥ ५९.३॥ पायसैः पञ्चभिः पात्रैरुपेतं तु तिलैस्तथा । एवं कृत्वा व्रतं चैतत् सर्वविघ्नैर्विमुच्यते ॥ ५९.४॥ हयमेधस्य विघ्ने तु संजाते सगरः पुरा । एतदेव चरित्वा तु हयमेधं समाप्तवान् ॥ ५९.५॥ तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा । एतदेव कृतं तस्मात् त्रिपुरं तेन पातितम् । मया समुद्रं पिबता एतदेव कृतं व्रतम् ॥ ५९.६॥ अन्यैरपि महीपालैरेतदेव कृतं पुरा । तपोऽर्थिभिर्ज्ञानकृतैर्निर्विघ्नार्थे परंतप ॥ ५९.७॥ शूराय धीराय गजाननाय लम्बोदरायैकदंष्ट्राय चैव । एवं पूज्यस्तद्दिने तत् पुनश्च होमं कुर्याद् विघ्नविनाशहेतोः ॥ ५९.८॥ अनेन कृतमात्रेण सर्वविघ्नैर्विमुच्यते । विनायकस्य कृपया कृतकृत्यो नरो भवेत् ॥ ५९.९॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवपञ्चाशोऽध्यायः ॥ ५९॥
अगस्त्य उवाच । शान्तिव्रतं प्रवक्ष्यामि तव राजन् शृणुष्व तत् । येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ॥ ६०.१॥ पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत । आरभेद् वर्षमेकं तु भुञ्जीयादम्लवर्जितम् ॥ ६०.२॥ नक्तं देवं तु सम्पूज्य हरिं शेषोपरि स्थितम् । अनन्तायेति पादौ तु वासुकायेति वै कटिम् ॥ ६०.३॥ तक्षकायेति जठरमुरः कर्कोटकाय च । पद्माय कण्ठं सम्पूज्य महापद्माय दोर्युगम् ॥ ६०.४॥ शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः । एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत् ॥ ६०.५॥ क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः । तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ॥ ६०.६॥ एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणभोजनम् । नागं तु काञ्चनं कुर्याद् ब्राह्मणाय निवेदयेत् ॥ ६०.७॥ एवं यः कुरुते भक्त्या व्रतमेतन्नराधिपः । तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा ॥ ६०.८॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्टितमोऽध्यायः ॥ ६०॥
अगस्त्य उवाच । कामव्रतं महाराज शृणु मे गदतोऽधुना । येन कामाः समृद्ध्यन्ते मनसा चिन्तिता अपि ॥ ६१.१॥ षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् । पौषमाससिते पक्षे चतुर्थ्यां कृतभोजनः ॥ ६१.२॥ षष्ठ्यां तु पारयेद् धीमान् प्रथमं तु फलं नृप । ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ॥ ६१.३॥ ब्राह्मणैः सह राजेन्द्र अथवा केवलैः फलैः । तमेकं दिवसं स्थित्वा सप्तम्यां पारयेन्नृप ॥ ६१.४॥ अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् । पूजयित्वाभिधानेन वर्षमेकं व्रतं चरेत् ॥ ६१.५॥ षड्वक्त्र कार्त्तिक गुह सेनानी कृत्तिकासुत । कुमार स्कन्द इत्येवं पूज्यो विष्णुः स्वनामभिः ॥ ६१.६॥ समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् । षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ॥ ६१.७॥ सर्वे कामाः समृद्ध्यन्तां मम देव कुमारक । त्वत्प्रसादादिमं भक्त्या गृह्यतां विप्र माचिरम् ॥ ६१.८॥ अनेन दत्त्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् । ततः कामाः समृद्ध्यन्ते सर्वे वै इह जन्मनि ॥ ६१.९॥ अपुत्रो लभते पुत्रमधनो लभते धनम् । भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा ॥ ६१.१०॥ एतद् व्रतं पुरा चीर्णं नलेन नृपसत्तम । ऋतुपर्णस्य विषये वसता व्रतचर्यया ॥ ६१.११॥ तथा राज्यच्युतैरन्यैर्बहुभिर्नृपसत्तमैः । पौराणिकं व्रतं चैव सिद्ध्यर्थं नृपसत्तम ॥ ६१.१२॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकषष्टितमोऽध्यायः ॥ ६१॥
अगस्त्य उवाच । अथापरं महाराज व्रतमारोग्यसंज्ञितम् । कथयामि परं पुण्यं सर्वपापप्रणाशनम् ॥ ६२.१॥ तस्यैव माघमासस्य सप्तम्यां समुपोषितः । पूजयेद् भास्करं देवं विष्णुरूपं सनातनम् ॥ ६२.२॥ आदित्य भास्कर रवे भानो सूर्य दिवाकर । प्रभाकरेति सम्पूज्य एवं सम्पूज्यते रविः ॥ ६२.३॥ षष्ठ्यां चैव कृताहारः सप्तम्यां भानुमर्चयेत् । अष्टम्यां चैव भुञ्जीत एष एव विधिक्रमः ॥ ६२.४॥ अनेन वत्सरं पूर्णं विधिना योऽर्चयेद् रविम् । तस्यारोग्यं धनं धान्यमिह जन्ममि जायते । परत्र च शुभं स्थानं यद् गत्वा न निवर्तते ॥ ६२.५॥ सार्वभौमः पुरा राजा अनरण्यो महाबलः । तेनायमर्चितो देवो व्रतेनानेन पार्थिव । तस्य तुष्टो वरं देवः प्रादादारोग्यमुत्तमम् ॥ ६२.६॥ भद्राश्व उवाच । किमसौ रोगवान् राजा येनारोग्यमवाप्तवान् । सार्वभौमस्य च कथं ब्रह्मन् रोगस्य संभवः ॥ ६२.७॥ अगस्त्य उवाच । स राजा सार्वभौमोऽभूद् यशस्वी च सुरूपवान् । स कदाचिन्नृपश्रेष्ठो नृपश्रेष्ठ महाबलः ॥६२.८॥ गतवान् मानसं दिव्यं सरो देवगणान्वितम् । तत्रापश्यद् बृहद् पद्मं सरोमध्यगतं सितम् ॥ ६२.९॥ तत्र चाङ्गुष्ठमात्रं तु स्थितं पुरुषसत्तमम् । रक्तवासोभिराछन्नं द्विभुजं तिग्मतेजसम् ॥ ६२.१०॥ तं दृष्ट्वा सारथिं प्राह पद्ममेतत् समानय । इदं तु शिरसा बिभ्रत् सर्वलोकस्य सन्निधौ । श्लाघनीयो भविष्यामि तस्मादाहर माचिरम् ॥ ६२.११॥ एवमुक्तस्तदा तेन सारथिः प्रविवेश ह । ग्रहीतुमुपचक्राम तं पद्मं नृपसत्तम ॥ ६२.१२॥ स्पृष्टमात्रे ततः पद्मे हुङ्कारः समजायत । तेन शब्देन स त्रस्तः पपात च ममार च ॥ ६२.१३॥ राजा च तत्क्षणात् तेन शब्देन समपद्यत । कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः ॥ ६२.१४॥ तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः । तस्थौ तत्रैव शोकार्त्तः किमेतदिति चिन्तयन् ॥ ६२.१५॥ तस्य चिन्तयतो धीमानाजगाम महातपाः । वसिष्ठो ब्रह्मपुत्रोऽथ तं स पप्रच्छ पार्थिवम् ॥ ६२.१६॥ कथं ते राजशार्दूल तव देहस्य शासनम् । इदानीमेव किं कार्यं तन्ममाचक्ष्व पृच्छतः ॥ ६२.१७॥ एवमुक्तस्ततो राजा वसिष्ठेन महात्मना । सर्वं पद्मस्य वृत्तान्तं कथयामास स प्रभुः ॥ ६२.१८॥ तं श्रुत्वा स मुनिस्तत्र साधु राजन्नथाब्रवीत् । असाधुरथ वा तिष्ठ तस्मात् कुष्ठित्वमागतः ॥ ६२.१९॥ एवमुक्तस्तदा राजा वेपमानः कृताञ्जलिः । पप्रच्छ साध्वहं विप्र कथं वाऽसाध्वहं मुने । कथं च कुष्ठं मे जातमेतन्मे वक्तुमर्हसि ॥ ६२.२०॥ वसिष्ठ उवाच । एतद् ब्रह्मोद्भवं नाम पद्मं त्रैलोक्यविश्रुतम् । दृष्टमात्रेण चानेन दृष्टाः स्युः सर्वदेवताः । एतस्मिन् दृश्यते चैतत् षण्मासं क्वापि पार्थिव ॥ ६२.२१॥ एतस्मिन् दृष्टमात्रे तु यो जलं विशते नरः । सर्वपापविनिर्मुक्तः परं निर्वाणमर्हति ॥ ६२.२२॥ ब्रह्मणः प्रागवस्थाया मूर्तिरप्सु व्यवस्थिता । एतां दृष्ट्वा जले मग्नः संसाराद् विप्रमुच्यते ॥ ६२.२३॥ इमं च दृष्ट्वा ते सूतो जले मग्नो नरोत्तम । प्रविष्टश्च पुनरिमं हर्तुमिच्छन्नराधिप । प्राप्तवानसि दुर्बुद्धे कुष्ठित्वं पापपूरुष ॥ ६२.२४॥ दृष्टमेतत् त्वया यस्मात् त्वं साध्विति ततः प्रभो । मयोक्तो मोहमापन्नस्तेनासाधुरितीरितः ॥ ६२.२५॥ ब्रह्मपुत्रो ह्यहं चेमं पश्यामि परमेश्वरम् । अहन्यहनि चागच्छंस्तं पुनर्दृष्टवानसि ॥ ६२.२६॥ देवा अपि वदन्त्येते पद्मं काञ्चनमुत्तमम् । मानसे ब्रह्मपद्मं तु दृष्ट्वा चात्र गतं हरिम् । प्राप्स्यामस्तत् परं ब्रह्म यद् गत्वा न पुनर्भवेत् ॥ ६२.२७॥ इदं च कारणं चान्यत् कुष्ठस्य शृणु पार्थिव । आदित्यः पद्मगर्भेऽस्मिन् स्वयमेव व्यवस्थितः ॥ ६२.२८॥ तं दृष्ट्वा तत्त्वतो भावः परमात्मैष शाश्वतः । धारयामि शिरस्येनं लोकमध्ये विभूषणम् ॥ ६२.२९॥ एवं ते जल्पता पापमिदं देवेन दर्शितम् । इदानीमिममेव त्वमाराधय महामते ॥ ६२.३०॥ अगस्त्य उवाच । एवमुक्त्वा वसिष्ठस्तु इममेव व्रतं तदा । आदित्याराधनं दिव्यमारोग्याख्यं जगाद ह ॥ ६२.३१॥ सोऽपि राजाऽकरोच्चेमं व्रतं भक्तिसमन्वितः । सिद्धिं च परमां प्राप्तो विरोगश्चाभवत् क्षणात् ॥ ६२.३२॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विषष्टितमोऽध्यायः ॥ ६२॥
अगस्त्य उवाच । अथापरं महाराज पुत्रप्राप्तिव्रतं शुभम् । कथयामि समासेन तन्मे निगदतः शृणु ॥ ६३.१॥ मासे भाद्रपदे या तु कृष्णपक्षे नरेश्वर । अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं हि तत् ॥ ६३.२॥ षष्ठ्यां चैव तु संकल्प्य सप्तम्यामर्चयेद् हरिम् । देवक्युत्सङ्गगं देवं मातृभिः परिवेष्टितम् ॥ ६३.३॥ प्रभाते विमलेऽष्टम्यामर्चयेत् प्रयतो हरिम् । प्राग्विधानेन गोविन्दमर्चयित्वा विधानतः ॥ ६३.४॥ ततो यवैः कृष्णतिलैः सघृतैर्होमयेद् दधि । ब्राह्मणान् भोजयेद् भक्त्या यथाशक्त्या सदक्षिणान् ॥ ६३.५॥ ततः स्वयं तु भुञ्जीत प्रथमं बिल्वमुत्तमम् । पश्चाद् यथेष्टं भुञ्जीत स्नेहैः सर्वरसैर्युतम् ॥ ६३.६॥ प्रतिमासमनेनैव विधिनोपोष्य मानवः । कृष्णाष्टमीमपुत्रोऽपि लभेत् पुत्रं न संशयः ॥ ६३.७॥ श्रूयते च पुरा राजा शूरसेनः प्रतापवान् । स ह्यपुत्रस्तपस्तेपे हिमवत्पर्वतोत्तमे ॥ ६३.८॥ तस्यैवं कुर्वतो देवो व्रतमेतज्जगाद ह । सोऽप्येतत् कृतवान् राजा पुत्रं चैवोपलब्धवान् ॥ ६३.९॥ वसुदेवं महाभागमनेकक्रतुयाजिनम् । तं लब्ध्वा सोऽपि राजर्षिः परं निर्वाणमापत्वान् ॥ ६३.१०॥ एवं कृष्णाष्टमी राजन् मया ते परिकीर्तिता । संवत्सरान्ते दातव्यं कृष्णयुग्मं द्विजातये ॥ ६३.११॥ एतत् पुत्रव्रतं नाम मया ते परिकीर्तितम् । एतत् कृत्वा नरः पापैः सर्वैरेव प्रमुच्यते ॥ ६३.१२॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिषष्टितमोऽध्यायः ॥ ६३॥
अगस्त्य उवाच । अथापरं प्रवक्ष्यामि शौर्यव्रतमनुत्तमम् । येन भीरोरपि महच्छौर्यं भवति तत्क्षणात् ॥ ६४.१॥ मासि चाश्वयुजे शुद्धां नवमीं समुपोषयेत् । सप्तम्यां कृतसंकल्पः स्थित्वाऽष्टम्यां निरोदनः ॥ ६४.२॥ नवम्यां पारयेत् पिष्टं प्रथमं भक्तितो नृप । ब्राह्मणान् भोजयेद् भक्त्या देवीं चैव तु पूजयेत् । दुर्गां देवीं महाभागां महामायां महाप्रभाम् ॥ ६४.३॥ एवं संवत्सरं यावदुपोष्येति विधानतः । व्रतान्ते भोजयेद् धीमान् यथाशक्त्या कुमारिकाः ॥ ६४.४॥ हेमवस्त्रादिभिस्तास्तु भूषयित्वा तु शक्तितः । पश्चात् क्षमापयेत् तास्तु देवी मे प्रीयतामिति ॥ ६४.५॥ एवं कृते भ्रष्टराज्यो लभेद् राज्यं न संशयः । अविद्यो लभते विद्यां भीतः शौर्यं च विदन्ति ॥ ६४.६॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःषष्टितमोऽध्यायः ॥ ६४॥
अगस्त्य उवाच । सार्वभौमव्रतं चान्यत् कथयामि समासतः । येन सम्यक्कृतेनाशु सार्वभौमो नृपो भवेत् ॥ ६५.१॥ कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका । तस्यां नक्ताशनो नित्यं दिक्षु शुद्धबलिं हरेत् ॥ ६५.२॥ विचित्रैः कुसुमैर्भक्त्या पूजयित्वा द्विजोत्तमान् । दिशां तु प्रार्थनां कुर्यान् मन्त्रेणानेन सुव्रतः । सर्वा भवन्त्यः सिद्ध्यन्तु मम जन्मनि जन्मनि ॥ ६५.३॥ एवमुक्त्वा बलिं तासु दत्त्वा शुद्धेन चेतसा । ततो रात्रौ तु भुञ्जीत दध्यन्नं तु सुसंस्कृतम् ॥ ६५.४॥ पूर्वं पश्चाद् यथेष्टं तु एवं संवत्सरं नृप । यः करोति नरो नित्यं तस्य दिग्विजयो भवेत् ॥ ६५.५॥ एकादश्यां तु यत्नेन नरः कुर्याद् यथाविधि । मार्गशीर्षे शुक्लपक्षादारभ्याब्दं विचक्षणः । तद् व्रत धनदस्येष्टं कृतं वित्तं प्रयच्छति ॥ ६५.६॥ एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने । शुक्ले वाऽप्यथवा कृष्णे तद् व्रतं वैष्णवं महत् ॥ ६५.७॥ एवं चीर्ण सुघोराणि हन्ति पापानि रपार्थिव । त्रयोदश्यां तु नक्तेन धर्मव्रतमथोच्यते ॥ ६५.८॥ शुक्लपक्षे फाल्गुनस्य तथारभ्य विचक्षणः । रौद्रं व्रतं चतुर्दश्यां कृष्णपक्षे विशेषतः । माघमासादथारभ्य पूर्णं संवत्सरं नृप ॥ ६५.९॥ इन्दुव्रतं पञ्चदश्यां शुक्लायां नक्तभोजनम् । पितृव्रतममावास्यामिति राजन तथेरितम् ॥ ६५.१०॥ दश पञ्च च वर्षाणि य एवं कुरुते नृप । तिथिव्रतानि कस्तस्य फलं व्रतप्रमाणतः ॥ ६५.११॥ अश्वमेधसहस्त्राणि राजसूयशतानि च । यष्टानि तेन राजेन्द्र कल्पोक्ताः क्रतवस्तथा ॥ ६५.१२॥ एकमेव कृतं हन्ति व्रतं पापानि नित्यशः । यः पुनः सर्वमेतद्धि कुर्यान्नरवरात्मज । स शुद्धो विरजो लोकानाप्नोति सकलं नृप ॥ ६५.१३॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चषष्टितमोऽध्यायः ॥ ६५॥
भद्राश्व उवाच । आश्चर्यं यदि ते किंचिद् विदितं दृष्टमेव वा । तन्मे कथय धर्मज्ञ मम कौतूहलं महत् ॥ ६६.१॥ अगस्त्य उवाच । आश्चर्यभूतो भगवानेष एव जनार्दनः । तस्याश्चर्याणि दृष्टानि बहूनि विविधानि वै ॥ ६६.२॥ श्वेतद्वीपं गतः पूर्वं नारदः किल पार्थिव । सोऽपश्यच्छङ्खचक्राब्जान् पुरुषांस्तिग्मतेजसः ॥ ६६.३॥ अयं विष्णुरयं विष्णुरेष विष्णुः सनातनः । चिन्ताऽभूत्तस्यतान्दृष्ट्वा कोऽस्मिन्विष्णुरिति प्रभुः ॥ ६६.४॥ एवं चिन्तयतस्तस्य चिन्ता कृष्णं प्रति प्रभो । आराधयामि च कथं शङ्खचक्रगदाधरम् ॥ ६६.५॥ येन वेद्मि परं तेषां देवो नारायणः प्रभुः । एवं संचिन्त्य दध्यौ स तं देवं परमेश्वरम् ॥ ६६.६॥ दिव्यं वर्षसहस्रं तु साग्रं ब्रह्मसुतस्तदा । ध्यायतस्तस्य देवोऽसौ परितोषं जगाम ह ॥ ६६.७॥ उवाच च प्रसन्नात्मा प्रत्यक्षत्वं गतः प्रभुः । वरं ब्रह्मसुत ब्रूहि किं ते दद्मि महामुने ॥ ६६.८॥ नारद उवाच । सहस्रमेकं वर्षाणां ध्यातस्त्वं भुवनेश्वर । त्वत्प्राप्तिर्येन तद् ब्रूहि यदि तुष्टोऽसि मेऽच्युत ॥ ६६.९॥ देवदेव उवाच । पौरुषं सूक्तमास्थाय ये यजन्ति द्विजास्तु माम् । संहितामाद्यमास्थाय ते मां प्राप्स्यन्ति नारद ॥ ६६.१०॥ अलाभे वेदशास्त्राणां पञ्चरात्रोदितेन ह । मार्गेण मां प्रपश्यन्ते ते मां प्राप्स्यन्ति मानवाः ॥ ६६.११॥ ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते । शूद्रादीनां न तच्छ्रोत्रपदवीमुपयास्यति ॥ ६६.१२॥ एवं मयोक्तं विप्रेन्द्र पुराकल्पे पुरातनम् । पञ्चरात्रं सहस्त्राणां यदि कश्चिद् ग्रहीष्यति ॥ ६६.१३॥ कर्मक्षये च मां कश्चिद् यदि भक्तो भविष्यति । तस्य चेदं पञ्चरात्रं नित्यं हृदि वसिष्यति ॥ ६६.१४॥ इतरे राजसैर्भावैस्तामसैश्च समावृताः । भविष्यन्ति द्विजश्रेष्ठ मच्छासनपराङ्मुखाः ॥ ६६.१५॥ कृतं त्रेता द्वापरं च युगानि त्रीणि नारद । सत्त्वस्थां मां समेष्यन्ति कलौ रजस्तमोऽधिकाः ॥ ६६.१६॥ अन्यच्च ते वरं दद्मि शृणु नारद साम्प्रतम् । यदिदं पञ्चरात्रं मे शास्त्रं परमदुर्लभम् । तद्भवान् वेत्स्यते सर्वं मत्प्रसादान्न संशयः ॥ ६६.१७॥ वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज । प्राप्योऽहं नान्यथा वत्स वर्षकोट्यायुतैरपि ॥ ६६.१८॥ एवमुक्त्वा स भगवान् नारदं परमेश्वरः । जगामादर्शनं सद्यो नारदोऽपि ययौ दिवम् ॥ ६६.१९॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्षष्टितमोऽध्यायः ॥ ६६॥
भद्राश्व उवाच । भगवन् सितकृष्णे द्वे भिन्ने जगति केशवान् । स्त्रियौ बभूवतुः के द्वे सितकृष्णा च का शुभा ॥ ६७.१॥ कश्चासौ पुरुषो ब्रह्मन् य एकः सप्तधा भवेत् । कोऽसौ द्वादशधा विप्र द्विदेहः षट्शिराः शुभः ॥ ६७.२॥ दम्पत्यं च द्विजश्रेष्ठ कृतसूर्योदयादनम् । कस्मादेतज्जगदिदं विततं द्विजसत्तम ॥ ६७.३॥ अगस्त्य उवाच । सितकृष्णे स्त्रियौ ये ते ते भगिन्यौ प्रकीर्तिते । सत्यासत्ये द्विवर्णा च नारी रात्रिरुदाहृता ॥ ६७.४॥ यः पुमान् सप्तधा जात एको भूत्वा नरेश्वर । स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥ ६७.५॥ योऽसौ द्वादशधा राजन् द्विदेहः षट्शिराः प्रभुः । संवत्सरः स विज्ञेयः शरीरे द्वे गती स्मृते । ऋतवः षट् च वक्त्राणि एष संवत्सरः स्मृतः ॥ ६७.६॥ दम्पत्यं तदहोरात्रं सूर्याचन्द्रमसौ ततः । ततो जगत् समुत्तस्थौ देवस्यास्य नृपोत्तम ॥ ६७.७॥ स विष्णुः परमो देवो विज्ञेयो नृपसत्तम । न च वेदक्रियाहीनः पश्यते परमेश्वरम् ॥ ६७.८॥ ॥ इति वराहपुराणे भगवच्छास्त्रे सप्तषष्टितमोऽध्यायः ॥ ६७॥ इति श्रीअगस्त्यगीता समाप्ता । sa.wikisource.org Varahapurana adhyAya 51-67 Refer to https://archive.org/details/VarahaPurana
% Text title            : agastyagItA varAhapurANe
% File name             : agastyagItA.itx
% itxtitle              : agastyagItA
% engtitle              : agastyagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sa.wikisource.org
% Description-comments  : Varahapurana adhyAya 51-67 Refer to https://archive.org/details/VarahaPurana
% Indexextra            : (Varahapurana 51-67 (Needs proofreading))
% Latest update         : April 13, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP